सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 470, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 470

४४४ प्रमाणवार्त्तिके [ हेतुलक्षण-

अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति ॥ २४२ ॥
येनासौ व्यतिरेकस्य नाभावं भावमिच्छति ।
यथा नाव्यतिरेकेऽपि प्राणादिर्न सपक्षतः ॥ २४३ ॥
सपक्षाद्व्यतिरेकी चेद्धैतुर्हेतुरतोन्वयी ।
नान्वयव्यतिरेकी चेदनैरात्म्यं न सात्मकम् ॥ २४४ ॥
यन्नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु ।
निवर्त्तकः स एवातः प्रवृत्तौ च प्रवर्त्तकः ॥ २४५ ॥
नान्तरीयकता सा च साधनं समपेक्षते ।


नास्ति तावदुक्तक्रमेण नैरात्म्यात् प्राणादिनिवृत्तिः, अस्तु नामाङ्गीकारात्,
तथापि जीवच्छरीरेऽनैरात्म्यान्नैरात्म्याभावात् प्राणादिमत्त्वसाधितादात्मा न
सिध्यति ॥ २४२ ॥
यत्र विरुद्धयोरेकाभावादन्यतरस्यावश्यं सिद्धिर्भवत्येवेत्याह—येन कारणे-
नासौ वादी व्यतिरेकस्याभावं भावमन्वयं नेच्छति, यथा प्राणादिरसतः
सपक्षतः, अव्यतिरेके व्यतिरेकाभावेऽपि न सपक्षे सत्त्वेनेष्टः; तथा नैरात्म्य-
निवृत्तावपि आत्मभावो जीवच्छरीरे न स्यात् ॥ २४३ ॥
तस्मात् सपक्षाद्व्यतिरेकी प्राणादिर्नैरात्म्ये निवर्त्तमानः सत्तामात्मनो
गमयन् हेतुश्चेदिष्टः, तदाऽत एव न्यायात् प्राणादिहेतुरन्वयी स्यात् ।
सपक्षात् प्राणादेर्निवृत्त्यभाव एव भावः, स चान्वयः । सपक्षाद्व्यतिरेकी
व्यतिरेकरहितः प्राणादिर्नान्वयी चेदिष्यते, तदा तद्वदनैरात्म्यं नैरात्म्यरहितं
शरीरं न सात्मकं स्यात् ॥ २४४ ॥
किञ्च—यस्य स्वात्मा स्वभावो यन्नान्तरीयकः यदन्वयव्यतिरेकानु-
विधायौ प्रतिबन्धकस्य वह्न्यादेः प्रवृत्तिषु विधिषु सिद्धः । स एव निवर्त्तमानः
तस्यानुविहितान्वयव्यतिरेकस्य निवर्त्तकः । अतः प्रवृत्तिविषयत्वात् प्रवृत्तौ
स्वसत्तायां च तस्यावश्यं प्रवृत्तेः कर्त्ता हेतुर्भवति । यथा धूमो दहननान्तरीय-
कतया सिद्धो दहननिवृत्तिप्रवृत्तिभ्यां निवर्त्तते, प्रवर्त्तते च ॥ २४५ ॥
सा च नान्तरीयकता साधनं निश्चायकं मानमपेक्षते; गमकत्वहेत्व-