सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 481, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 481

विचारः ] परार्थानुमानपरिच्छेदः ४५५
अर्थबाधनरूपं वा भावे भावादभावतः ॥ २७८ ॥
अन्योन्यभेदसिद्धेर्वा ध्रुवभावविनाशवत् ।
प्रमाणान्तरबाधाद् वा सापेक्षध्रुवभाववत् ॥ २७९ ॥
भावस्वभावविचारः
हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः ।
यथा स्वभावकारणव्यापकानुपलब्ध्यादिषु । निषेध्यस्यार्थस्य बाधनं विरुद्धं वा
प्रयुज्यते, यथा स्वभावकारणव्यापकविरुद्धोपलब्ध्यादिषु प्रयुज्यत इत्याह—
अविकलकारणतया शीतस्य भावे सत्तायां सत्यां दहनस्य भावात् । अभावतो
निवृत्तेः। यथा शीताभावसाधने सहानवस्थानविरुद्धो वह्नेः प्रयुज्यते—नात्र शीत-
स्पर्शो वह्नेरिति ॥ २७८ ॥
निषेध्यविधीयमानयोरन्योन्यस्याभावात्मतया भेदसिद्धेर्वाऽर्थबाधनरूपं
प्रयुज्यते ध्रुवभावविनाशवत् । नित्यत्वानित्यत्वयोरन्योन्याभावात्मकत्वेन
भेदसिद्धौ परस्परपरिहारस्थितिलक्षणतया विरुद्धं विनाशित्वं नित्यत्वबाधने प्रयु-
ज्यते, यथा—नित्यः शब्दो विनाशित्वात् । स चायं परस्परपरिहारस्थितिविरुद्धः
कचित् साक्षाद् वा प्रयुज्यते, यथा—नित्यत्वस्य विनाशित्वम्। क्वचिद् धर्मान्तर-
विरोधग्राहिणा; प्रमाणान्तरेण परम्परया बाधनात् । अबाधितविरुद्धभावो वा
प्रयुज्यते । सापेक्षध्रुवभावित्ववत् । यथा सापेक्षध्रुवभावयोः साक्षाद् विरोधा-
भावेऽपि ध्रुवभावित्वस्य यद् व्यापकं तेन विरुद्धं सापेक्षत्वम् , व्याप्यव्यापकयोश्च
वस्तुतस्तादात्म्याद्यो यद्व्यापके विरुध्यन्ते स तद्व्याप्येनापीति प्रमाणान्तरबाधना-
देवावधृतविरुद्धभावं सापेक्षत्वं ध्रुवभावित्वबाधने प्रयुज्यते; यथा—न ध्रुवभावी
कृतकस्य विनाशो हेत्वन्तरसापेक्षत्वादिति ॥ २७९ ॥
कस्मात् पुनर्हेत्वन्तरसापेक्षो न ध्रुवभावी ? इत्याह—उत्पादकाद्धेतोर्हेत्व-
न्तरसमुत्थस्य धर्मस्य सन्निधौ सन्निधाने नियतः कुतः । यथा कारणान्तर-
सापेक्षस्य वाससि नावश्यम्भावनियमो रागस्य ।
स्यादेतत् । भावहेतुरेवानित्यत्वाख्यं धर्मं भावनाशकं जनयति, तेन नश्वर-