सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 474, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 474

४४८ प्रमाणवार्त्तिके [ हेतुलक्षण-
तद्वद् भेदेऽपि दहनो दहनप्रत्ययाश्रयः ।
येनांशेनादधद् धूमं तेनांशेन तथा गतिः ॥ २५५ ॥
दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्गवात् ।
धूमोऽतद्व्यभिचारीति तद्वत् कार्यं तथापरम् ॥ २५६ ॥
धूमेन्धनविकाराङ्गततापदे दहनस्थितेः ।
अनग्निश्चेदधूमोऽसौ सधूमश्चेत् स पावकः ॥ २५७ ॥
न पारमार्थिक इत्यर्थः ॥ २५४ ॥
तद्वत् क्षीरोदकवत् अवान्तरभेदे सत्यपि दहनो येनांशेन स्वभावेन
स्वरूपोष्णस्पर्शात्मकेनाग्नि व्यावृत्तेन दहन इति प्रत्ययस्य व्यवहारस्याश्रयो
विषयो येन स्वभावेन धूममादधत् जनयन् धूमाश्रयो भवति, तेन धूमाश्रयत्वेन
कारणेन धूमाल्लिङ्गाद् दहनो हेतुः । तथाऽनग्निव्यावृत्तित्वेन गम्यते ॥ २५५ ॥
तथा हि—दहनप्रत्ययस्याङ्गनिमित्तादेवाग्निलक्षणादन्यापेक्षादार्द्रेन्ध-
नादिसहायात् समुद्गवादुत्पत्तेः कारणात् धूमोऽतद्व्यभिचारीति तद्वत्
धूमवत् अपरमपि कार्यं तथा स्वकारणाव्यभिचारीति बोद्धव्यम् ॥ २५६ ॥
किं पुनर्धूमो वह्निं न व्यभिचरतीत्याह—धूमस्येन्धनविकारादेरङ्गं हेतुस्तस्य
भावो धूमेन्धनविकाराङ्गता तस्याः पदे आश्रयवस्तुनि दहनस्थितेरग्निताव्यवहारा-
च्छक्रमूर्द्धाऽनग्निर्धूमेन्धनविकारकारी न चेदिष्यते, ततो जायमानः पदार्थोऽसौ
दृश्यमानोऽधूमो बाष्पादिरेव । न ह्यग्निजन्योऽनग्निर्भवति । सर्वथा साम्यात्
सधूमश्चेदिष्यते, तर्हि स वल्मीकः पावक एव; धूमजनकस्यैव पावकत्वात् ।
देशकालस्वभावप्रतीतिनियमो हि भावानां नाकस्मिकः; तथात्वेऽतिप्रसङ्गात् । न च
नानाहेतुकः प्रत्येकः; व्यभिचारेऽहेतुत्वप्रसङ्गात् । तस्मान्नियतहेतुकः ।
यदि चान्वयव्यतिरेकाभ्यामुपलब्धाग्निकारणभावो धूमः शक्रमूर्ध्नो जायते,
तदा वह्नेरेव शक्रमूर्द्धा । अथानग्निस्तथाऽदृश्यमानत्वात्, तथा सोऽपि न
धूमः, वाष्पादिरेव । आकारसाम्यात् तु धूमाभः । तस्मात् कार्यकारणभावस्य
नान्तरीयकतेति स्थितम् ॥ २५७ ॥