सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

४२४ प्रमाणवार्त्तिके [पक्षदोष-
अनुमानानुमेयार्थव्यवहारस्थितिस्त्वियम् ।
भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥ १८३ ॥
यथास्वं भेदनिष्ठेषु प्रत्ययेषु विवेकिनः ।
धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः ॥ १८४ ॥
व्यवहारोपनीतोऽत्र स एवाश्लिष्टभेदधीः ।
साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ १८५ ॥
भेदसामान्ययोर्धर्मभेदादंगांगिता ततः ।
अतोऽनुमानहेतुत्वादनुमानस्य लिङ्गस्यानुमेयार्थस्य, अनयोरुपलक्षणत्वात्
धर्मिणश्च व्यवहारस्थितिस्तिस्त्वियम् 'अनित्यः कृतकत्वात्' इत्यादौ क्रियमाणा
तेषां परस्परतो भेदं प्रत्ययेन विकल्पके नैकव्यावृत्तिमात्रविषयेण संसिद्धं
निश्चितम् अवलम्ब्याश्रित्य च कल्प्यते ॥ १८३ ॥
तथा हि—यथास्वं यस्य य आत्मीयो ग्राह्यो भेदो व्यावृत्तिः, तन्निष्ठेषु
विकल्पेषु विवेकिनो धर्मी धर्माश्च साध्यसाधनादयो भासन्ते । तदाश्रयो
विकल्पगोचराश्रयो धर्मिधर्मादिभेदस्य व्यवहारः प्रवर्त्तते ॥ १८४ ॥
एवं तर्हि 'नित्यः शब्दोऽसर्वत्वात्' इत्यत्रापि व्यावृत्तिभेदादेव साध्यसाधन-
भावो भविष्यति ? इत्याह—अत्र प्रयोगे स शब्द एव साध्योऽश्लिष्टभेद-
धीरसंसृष्टान्यादृशबुद्धिः द्वाभ्यामपि शब्दाभ्यामेकस्या व्यावृत्तेः प्रतिपादनात्
व्यवहारेण व्यावृत्तिसमाश्रयेणोपनीतः प्रत्युपस्थापितो येन कारणेन साधनतां
नीतः, तेनासिद्धः प्रकाशितः ॥ १८५ ॥
ननु संस्कृतशब्दोऽनित्यः संस्कृतत्वादिति प्रतिज्ञार्थैकदेशस्य यथा हेतुत्वम् ,
तथा नित्यः शब्दः शब्दत्वादित्यस्यापि स्याद् ? इत्याह-साध्यधर्मिमात्रनिष्ठत्वात्
सर्वधर्मगोचरत्वाच्च भेदसामान्ययोर्धर्मभेदाद् व्यावृत्तिभेदात् । साध्यधर्म
हि साध्यधर्मिनिष्ठत्वेन सजातीयाद् विजातीयाच्च व्यावृत्तत्वाद् विशेषः ।
साधनधर्मस्तु विजातीयमात्रव्यावृत्तत्वेन सामान्यम् । ततो भेदसामान्यभावेन
भेदादङ्गाङ्गिता हेतुसाध्यता युक्ता । विशेषः साध्यः, सामान्यं हेतुरिति

विचारः ] परार्थानुमानपरिच्छेदः ४२५
यथाऽनित्यः प्रयत्नोत्थः प्रयत्नोत्थतया ध्वनिः ॥ १८६ ॥
पक्षाङ्गत्वेऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि ।
यथाश्वो न विषाणित्वादेष पिण्डो विषाणवान् ॥ १८७ ॥
साध्यकालांगता वा न निवृत्तेरुपलक्ष्य तत् ।
विशेषोऽपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥ १८८ ॥
कुतः प्रतिज्ञार्थैकदेशता ! यथा 'अनित्यः प्रयत्नोत्tho ध्वनिः' इति प्रतिज्ञा,
प्रयत्नोत्थतयेति हेतुः । शब्द पुनरभिन्नविषयो हेतुः साध्यश्चेति प्रतिज्ञार्थैक-
देशत्वम् ॥ १८६ ॥
प्रयत्नानन्तरीयकतस्य धर्मविशेषणत्वात् प्रतिज्ञार्थैकदेशत्वमस्त्येव ? इत्याह—
पक्षाङ्गत्वे विशेषणत्वेऽपि नास्त्येव तावत् साधनस्य पक्षाङ्गत्वम्; विशेषसाध्य-
त्वात् । भवतु वा, तथापि नासिद्धस्य । तेन विशेषणेन भिन्ने विशेषिते धर्मिणि
धर्म्यन्तरव्यावृत्ते प्रयत्नानन्तरीयकतस्याविरोधादबाधत्वात् धर्मिणं विशेषयदपि
प्रयत्नोत्थत्वं शब्दे प्रसिद्धमेव । यथा बहुषु पिण्डेषु दृश्यमानेषु 'किमयमश्वो
न वा' इति संशयोऽभिधीयते । विषाणवानेष पिण्डो धर्मी, नाश्वो विषा-
णित्वादिति विषाणित्वं धर्मिणं विशेषयदपि प्रमाणप्रतीतत्वान्नासिद्धो हेतुः ।
अथ वा—विशेषणस्य प्रयत्नोत्थत्वादेस्तच्छब्दरूपं विशेष्यत्वेनोपलक्ष्यानु-
मानात् प्रागेव निवृत्तेः साध्यकालेऽनुमेयप्रतीते कालेऽङ्गता विशेषणता
नास्त्येव । अप्रतीतं ह्यनुमानात् प्रत्येतव्यम्, प्रयत्नोत्थत्वादिति च प्रतीतम् । न च
तत्र विवादः । ततो धर्मिमात्रोपलक्षणं तत् । यथा काको देवदत्तगृहोपलक्षणत्वान्न
कार्योपयोगी । यद्यपि विशिष्टे धर्मिणि प्रतिज्ञार्थैकदेशत्वं हेतोः, तथा 'नित्यः
शब्दः श्रावणत्वाद्' इति शब्दस्वभावभूतस्य श्रावणत्वस्य शब्दत्ववत् प्रतिज्ञार्थैक-
देशता स्यात्, नासाधारणता ? इत्याह—न केवलं विषाणित्वादिविशेषः, श्रावणत्वा-
दिरपि प्रतिज्ञार्थैकदेशो न युज्यते; धर्मस्य व्यावृत्तिभेदात् । श्रावणत्वं श्रवण-
ग्राह्यता, अश्रावणव्यावृत्तिः। तच्च शब्देऽपि क्वचित् कञ्चित्पुरुषमपेक्ष्य भवति ।
अशब्दव्यावृत्तिस्तु शब्दत्वम्, तच्च सर्वत्रास्ति । ततो व्यावृत्तिभेदात् शब्दे
सिद्धस्य श्रावणत्वस्यान्यत्राननुवृत्तेरसाधारणतैव युक्तेत्युक्तं सपरिकरं पक्षलक्षणम् ॥
इति पक्षलक्षणम् ॥

४२६ प्रमाणवार्त्तिके [ हेतुलक्षण-
हेतुलक्षणविचारः
हेतुलक्षणम्
पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये ।
हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥ १८९ ॥
अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ १९० ॥
विशेषणविशेषाभ्यां क्रियया च सहोदितः ।
विवक्षातोऽप्रयोगेऽपि सर्वोऽर्थोऽयं प्रतीयते ॥ १९१ ॥
हेतुलक्षणमिदानीं वक्तव्यम् । तत्र हेतुलक्षणमेव “तत्र यः सन् सजातीये”
इत्यादिकं युक्तं वक्तुम्, “सपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधा” इत्यादिना
नवधा पक्षधर्मप्रभेदस्तु कस्मादुक्तः ? इत्याह—पक्षधर्मस्य नवधा प्रभेदेन
हेतुप्रकरणार्थस्य हेतुहेत्वाभासलक्षणात्मकस्य सुखेन ग्रहणस्य सिद्धये तदर्थ-
वाचकानां सूत्राणां संक्षेपतः संग्रह उच्यते-‘सपक्षे सन्’ इत्यादिना ॥ १८९ ॥
यदि पक्षस्य धर्मो हेतुः, तदा तद्विशेषणापेक्षस्य धर्मस्यान्यत्र धर्मिण्यननु-
वृत्तेरसाधारणता स्यात् । अथ पक्षेण न विशिष्यते, तदा न पक्षधर्मो हेतुः
स्यात् ? असदेतत् ; न ह्यन्ययोगव्यवच्छेदेनैव विशेषणम्, अन्यथापि सम्भवादिति
दर्शयितुमाह-निपात एवकारो व्यतिरेचकः नियामकः क्वचिद् धर्मस्य विशे-
षणयोगं व्यवच्छिनत्ति, क्वचिदपरैर्विशेष्यादन्यैर्योगं व्यवच्छिनत्ति, क्वचिदत्य-
न्तायोगं व्यवच्छिनत्ति ॥ १९० ॥
ननु निपातो न स्वयं वाचकः, किन्तु द्योतकः, तदस्य कथमयमर्थप्रभेदः ?
इत्याह—द्योतकत्वादेव निपातो विशेषणेन सहोदितोऽयोगस्य व्यवच्छेदकः,
विशेष्येण सहोक्तोऽन्ययोगस्य, क्रियया च सहोक्तोऽत्यन्तायोगस्येति विशेष-
णादिपदवाच्य एवायोगव्यवच्छेदादिस्तत्सहोक्तनिपातद्योत्य इत्यर्थः ।
भवतु तावन्निपातप्रयोगे व्यवच्छेदविशेषस्य प्रतीतिः, पक्ष इत्यादौ तु
कथम् ? इत्याह—अप्रयोगेऽपि निपातस्य वक्तुर्विवक्षातः सर्वोऽयमयोगव्यव-

वचारः ] परार्थानुमानपरिच्छेदः ४२७
व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥ १९२ ॥
च्छेदादिर्थः प्रतीयते; यतः "व्यवच्छेदफलं वाक्यम्" ( )
इत्युक्तं प्राक् । वाक्यञ्चोपलक्षणम्, पदमपि व्यवच्छेदफलम् । न हि घटेनोद-
कमानयेति प्रतिपदमनवधारणेऽघटेनानयनप्रतिषेधः । पक्ष इत्यादौ तु कथम् ?
इत्याह—अप्रयोगेऽपि निपातस्य वक्तुर्विवक्षातः सर्वोऽयमयोगव्यवच्छेदोऽनु-
दकानयनप्रतिषेधः, अनयननिवृत्तिर्वा शक्योपदर्शना ।
अयोगव्यवच्छेदादीनामुदाहरणमाह—यथा चैत्रो धनुर्धरः, पार्थो
धनुर्द्धरः, नीलं सरोजमिति । चैत्रे धनुर्धरत्वसन्देहाद् विशेषणेनायोगमात्रं
व्यवच्छिद्यते, पार्थे धनुर्धरत्वं प्रसिद्धमेव । किन्तु तादृशमन्यस्यापि किमस्तीति
सन्देहेऽन्ययोगव्यवच्छेदफलं विशेषणम् । न खलु सर्वमेव नीलं सरोजम्,
येनायोगव्यवच्छेदः स्यात्; नापि सरोजमेव नीलम्, येनान्ययोगव्यवच्छेदो
भवेत्; किन्तु नीलं सरोजं सम्भवति न वा—इत्यन्ययोगसन्देहे विशेषणेन स
एव व्यवच्छिद्यते ।
ननु भवतु तावच्चैत्रो धनुर्धर एव, पार्थ एव धनुर्धरः, सरोजं नीलं
सम्भवत्येवेति निपातप्रयोगे विवक्षावशात् विशेषणादिपदानामेव वा व्यवच्छेद-
प्रतिपादकत्वादप्रयोगेऽपि निपातस्य 'चैत्रो धनुर्धरः' इत्यादिप्रयोगेषु योग्यव्यवच्छे-
दादीनां प्रतीतिः । पक्षधर्म इत्यत्र पुनः पक्षो विशेषणम्, धर्मो विशेष्यः, तद्
यदि पक्षस्यैव धर्म इति विशेषणेन सह निपात उच्यते, अप्रयोगेऽपि वा विशे-
षणस्य तदर्थवृत्तित्वेष्यते; उभयथाप्यन्ययोगव्यवच्छेदप्रतिपादकत्वमेव स्यात् ।
अथ धर्म एव विशेष्यो निपातसहचरः, तदर्थवृत्तिर्वेष्टः, तदाऽयोगव्य-
वच्छेदो लभ्यत एव; परं विशेषणसहितोऽन्ययोगं व्यवच्छिनत्तीत्युक्तेर्विरुध्यते ?
अत्रोच्यते—बाह्यो निपातः श्रूयमाणोऽपि विशेष्यादिभिः सह वक्तृविवक्षावशाद्
गम्यमानो वाऽयोगव्यवच्छेदको भवतीति दृष्टान्तप्रदर्शनार्थमुक्तम्; तथैव चैत्रो
धनुर्धर इत्याद्युदाहरणप्रदर्शनात्, 'व्यवच्छेदफलं वाक्यम्' इत्युक्तेश्च । समासे तु
विशेषणमेवायोगादिव्यवच्छेदकं विवक्षावशादिष्टम्, अयोगव्यवच्छेदेन विशेष-

प्रमाणवार्त्तिके [हेतुलक्षण-

प्रतियोगिव्यवच्छेदस्तत्राप्यर्थेषु गम्यते ।
तथा प्रसिद्धेः सामर्थ्याद् विवक्षानुगमाद् ध्वनेः ॥ १९३ ॥
तदयोव्यवच्छेदाद् धर्मी धर्मविशेषणम् ।
तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥ १९४ ॥
णादित्युक्तेः । पक्षधर्म इति पक्षशब्दोऽयोगव्यवच्छेदकः । पक्षासम्बद्धो न भव-
तीत्यर्थः । चाक्षुषं रूपमिति चाक्षुषत्वस्य रूपे विवादाभावात् । शब्दादीनां
विशेषणेन व्यवच्छेदः क्रियते—नीलोत्पलमिति; उत्पले नीलत्वनियमाभावात्
परेष्वभावादयोगान्ययोगव्यवच्छेदाभावात् नीलशब्देनात्यन्तासम्भवमात्रं व्यव-
च्छिद्यते । इति न कश्चिद्विरोधः ॥ १९१-१९२ ॥
ननु यथा 'पार्थ एव धनुर्धरः' इति विशेषणस्य सन्निधानात् निपातस्य
विशेष्यान्तरव्यवच्छेदः, तथा विशेषणसन्निधानादवधारणस्य चैत्रो धनुर्धर
[L1

विचारः ] परार्थानुमानपरिच्छेदः ४२९
हेतुभेदाः
स्वभावकार्यसिद्धयर्थं द्वौ द्वौ हेतुविपर्ययौ ।
विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥ १९५ ॥
शब्दनित्यत्वे साध्ये प्रमेयत्वं हेतुः, असपक्षे घटादौ सन् । शब्दनित्यत्वे साध्ये
श्रावणत्वं हेतुः, असपक्षेऽसन् । शब्दनित्यत्वे साध्येऽस्पर्शवत्वं हेतुः, असपक्षे
घटादावसन् । बुद्ध्यादौ सन्निति द्विधा पक्षधर्मनिर्देशः । किमर्थं हेतुप्रकरणे
नवधा पक्षधर्मनिर्देशः ।
सम्यग्हेतोरसिद्धविरुद्धानैकान्तिकहेत्वाभासा एव युक्तनिर्देशा इत्याह—
स्वभावकार्ययोरेव हेतुत्वेन सिद्धयर्थं तत्र द्वौ शब्देऽनित्यत्वसिद्धयर्थं कृत-
कत्वप्रयत्नानन्तरीयकत्वाख्यौ हेतू निर्दिष्टौ । तथा शब्द एव नित्यत्वसाधने द्वौ
हेतुविपर्ययौ विरुद्धौ हेतुभावे चोक्तौ । यथा हि सम्यग्हेतोः स्वसाध्ये व्याप्यकार्य-
तया प्रतिबद्धस्य गमकत्वम् , तथा साध्यविपर्यये व्याप्यकार्यतया प्रतिबद्धस्यैव
तद्गमकत्वेन विरुद्धता, नान्यस्येत्यर्थः । व्यतिरेकी अन्वयी च हेतुरिति परेषां १
विवादात् तत्प्रतिषेधार्थं भेदसामान्येऽसाधारणसाधारणे श्रावणत्वप्रमेयत्वे
निर्दिष्टे । यदि विपक्षे नास्तीति सात्मकत्वे साध्ये प्राणादिमत्त्वं हेतुः, तदा श्रावण-
त्वमपि स्यात् , न चैवम् , तस्मान्न व्यतिरेकी हेतुः । यदि च केवलान्वयिनो
दर्शनमात्राद्ध्यवसितान्यभिचारस्य हेतुत्वम्, तदा प्रमेयत्वस्याकाशादौ दर्शनादव्यभि-
चारनिश्चये सति शब्दे नित्यत्वगमकत्वं स्यात्, न चैवम्, ततो न केवलान्वयी
हेतुः । शेषोऽप्रयत्नोत्थः शब्दोऽनित्यत्वात् , नित्यः शब्दोऽस्पर्शवत्वात्, प्रय-
त्नानन्तरीयकः शब्दोऽनित्यत्वात्—इति हेतुत्रयं विपक्षाद्धेतोर्व्यावृत्तिसाधनः ।
यदि हि सपक्षे दर्शनमात्रेण गमकत्वम् , तदैते हेतवः प्राप्ताः; सर्वेषां सपक्षे
सत्त्वात् । तस्मान्नान्वयसम्बन्धमात्रेण गमकत्वम्; किन्तु विपक्षाद् व्यतिरेकनिश्चये,
न चास्ति व्यतिरेकनिश्चयः । प्रधानं हेतुत्वनिबन्धनमित्यर्थः ॥ १९५ ॥
कथं पुनर्ज्ञायते—स्वभावहेतुः कृतकत्वम् , कार्यहेतुः प्रयत्नानन्तरीयकम् ?
१. नैयायिकानामित्यर्थः ।

४३० प्रमाणवार्त्तिके [ हेतुलक्षण-
न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे ।
सम्भवाद् व्यभिचारस्य द्विधावृत्तिफलं ततः ॥ १९६ ॥
प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न ।
तस्यावृत्यक्षशब्देषु सर्वथाऽनुपयोगतः ॥ १९७ ॥
कदाचिन्निरपेक्षस्य कार्याऽकृतिविरोधतः ।
कादाचित्कफलं सिद्धं तल्लिङ्गं ज्ञानमीदृशम् ॥ १९८ ॥
कार्यस्वभावप्रभेदनिर्देशफलम्
एतावतैव सिद्धेऽपि स्वभावस्य पृथक् कृतिः ।
इत्याह—न हि स्वभावाद्धेतोरन्येन हेतुना गम्यस्य साध्यस्य व्याप्तिः ।
यत्र यत्रानित्यत्वं तत्र कृतकत्वमिति दृश्यते च व्याप्तिः, तस्मात् स्वभावहेतुरेव ।
नावश्यं कारणानि कार्यवन्ति भवन्तीति कारणे कार्यस्य व्यभिचारसम्भवात्
कार्यं कारणव्यापकं न भवति । तत्र सपक्षे द्विधावृत्तिभावाभावात् प्रयत्नानन्त-
रीयकत्वं फलं कार्यहेतुः, प्रयत्नकार्यस्य तथाभिधानात् ॥ १९६ ॥
ननु प्रयत्नजेन ज्ञानेनानित्यः शब्दोऽनुमेय इष्टः, शब्दाश्च नित्या एव,
तद्विषयज्ञानोत्पादादिना यत्नेन ते व्यज्यन्ते, तत् कथं कार्यहेतूदाहरणमिदम् ?
इत्याह—प्रयत्नात् प्राक् सतः शब्दस्य नियमेन प्रयत्नानन्तरं ज्ञानं न
युज्यते । प्रयत्नं विनापि कदाचिदुपलभ्येत । न च प्रयत्नव्यङ्ग्यता शब्दानां युक्ता;
तस्य प्रयत्नस्य आवृतावुपलम्भावणे शब्दविषयज्ञानजनके श्रोत्रे शब्देषु च
विषयेषु सर्वथाऽकिञ्चित्करत्वेनानुपयोगत इत्युक्तं प्राक्१ ॥ १९७ ॥
किञ्च—सहकारिभिरनाधेयातिशयत्वं नित्यस्य कदाचित् प्रयत्नकाले
कार्यस्य ज्ञानस्याकृतिविरोधतः कारणात् तच्छ्रुतिविषयं ज्ञानं कादाचित्क-
स्यानित्यस्य शब्दस्य फलं लिङ्गं कार्यमीदृशं नियमेन प्रयत्नानन्तरभावि
सिद्धम् ॥ १९८ ॥
एतावता प्रयत्नानन्तरीयकत्वेनैव स्वभावहेतुनिर्देशेऽपि सिद्धे प्रयत्नानन्तर-
मुत्पादस्याभिव्यक्तेश्च तथाभिधानात्, तथापि स्वभावस्य कृतकत्वस्य हेतोर्या
१. अपौरुषेयत्वविचारे इत्यर्थः ।

विचारः] परार्थानुमानपरिच्छेदः ४३१
॥ कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम् ॥ १९९ ॥
व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता ।
॥ अत्र प्रभेद आख्यातः लक्षणं तु न भिद्यते ॥ २०० ॥
तेनात्र कार्यलिङ्गेन स्वभावोऽप्येकदेशभाक् ।
सदृशोदाहृतिश्चातः प्रयत्नाद् व्यक्तिजन्मनः ॥ २०१ ॥
यन्नान्तरीयका सत्ता यो वात्मन्यविभागवान् ।
स तेनाव्यभिचारी स्यादित्यर्थं तत्प्रभेदनम् ॥ २०२ ॥
संयोगादिषु येष्वस्ति प्रतिबन्धो न तादृशः ।
पृथक्कृतिः सा कार्येण सह श्लेषेण निर्देशे मा ज्ञासीत् प्रतिपत्ता; सर्वं स्वभाव-
हेतुमीदृशं सपक्षे द्विधावृत्तिं कृतकत्वादेः विपर्य्ययव्याप्तिसम्भवात् ॥ १९९ ॥
किञ्च—अनुमितौ स्वार्थानुमाने हेतूक्तिरुक्तार्थाऽभिहितलक्षणापि
प्रतिपत्तॄणां व्युत्पत्त्यर्था च परार्थानुमाने कृता । अत्र च प्रभेद आख्यातः ।
लक्षणं पुनर्हेतोर्न भिद्यते; तथाविधलक्षणहेतुवचनस्य परार्थानुमानत्वात् ॥२००॥
तेन प्रयत्नानन्तरीयकतवेन कार्यलिङ्गेन श्लेषनिर्देशात् स्वभावहेतुधर्म
भाजा स्वभावोऽपि सपक्षैकदेशभाक् भवति इत्युक्तो भवति । अत एव कार्य-
स्वभावतया सदृशस्य प्रयत्नानन्तरीय कत्वस्योदाहृतिराचार्येण कृता; प्रयत्नाद्
व्यक्तेर्जन्मनश्च भावात् । यदा प्रयत्नाद् व्यक्तिस्तदा कार्यहेतुः, यदा जन्म
तदा स्वभावहेतुः ॥ २०१ ॥
कार्यस्वभावयोः प्रभेदनिर्देशस्य किं फलम् ? इत्याह–यन्नान्तरीयका सत्ता
मेदे सति यमन्तरेण हेतुर्न भवति, यो वा स्व आत्मीयः साध्यादविभाग-
वान् आत्मा स्वभावः, स तेन कारणेन व्यापकेन वाऽव्यभिचारी व्यभिचार-
रहितः स्यात्, नान्य इत्यर्थमेतत्प्रयोजनम् । तयोः कार्यस्वभावयोः
प्रभेदनम् ॥ २०२ ॥
एवञ्च सति संयोगि समवायि एकार्थसमवायि आकाशादिषु पराभिमतेषु
हेतुषु येषु प्रतिबन्धः तादृशस्तादात्म्यतदुत्पत्तिलक्षणो नास्ति न ते हेतव

४३२ प्रमाणवार्त्तिके [ हेतुलक्षण-
न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ २०३ ॥
सति वा प्रतिबन्धेऽस्तु स एव गतिसाधनः ।
नियमो ह्यविनाभावोऽनियतश्च न साधनम् ॥ २०४ ॥
'विवादाद् भेदसामान्ये' इत्यस्य व्याख्यानम्
ऐकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते ।
तच्च नाप्रतिबद्धेषु तत एवान्वयस्थितिः ॥ २०५ ॥
स्वात्मत्वे हेतुभावे वा सिद्धे हि व्यतिरेकिता ।
इत्युक्तं भवति; अतदात्मनोऽतदुत्पत्तेश्च साध्यव्यभिचारस्य सम्भवात् ॥२०३॥
अथ संयोग्यादिषु तदुत्पत्तिप्रतिबन्धोऽस्ति, तदा सति प्रतिबन्धे स एव
गतिसाधनः साध्यप्रतिपत्तिहेतुरस्तु, निष्फला संयोग्यादिकल्पना । नियमो
नियतत्वं हि साधनस्य साक्षादविनाभाव उच्यते, स च तादात्म्यतदुत्पत्तिभ्याम्;
नान्यथा । स च तद्विकलत्वात् साध्येऽनियतः । न स साधनम्; यथा
संयोगित्वेऽपि स वह्निधूमस्येति । "स्वभावकार्यसिद्धयर्थं द्वौ द्वौ हेतुविपर्ययौ"
( प्र० वा० ४. १९५ ) इति व्याख्यातम् ॥ २०४ ॥
'विवादाद् भेदसामान्ये' इति व्याख्यातव्यम् । स्यात् प्रमाणादिमत्त्वं
हेतुर्यदि विपक्षाद्धेतुव्यतिरेकः स्यात्, स एव तु न सिध्यति ? इत्याह—विपक्षाद्
भेदो व्यावृत्तेर्बाधकप्रमाणनिश्चितत्वात् ऐकान्तिकत्वमविनाभाव उच्यते ।
तच्च व्यावृत्तेरैकान्तिकत्वं स्वसाध्याप्रतिबद्धेषु प्राणादिषु नास्ति । यदि ह्यात्मनि
प्रतिबद्धाः प्राणादयः, तदात्मनिवृत्तौ निवृत्ता विपक्षाद् गम्येरन्, अन्यथा तु पक्ष
एव सन्देहः—किममी आत्माभावेऽपि वर्त्तन्ते, उत नेति । यथा च प्रतिबन्धनाद्
व्यतिरेकनिश्चयः, तथा ततः प्रतिबन्धादेवान्वयस्य स्थितिः, न तु
सहदर्शनामात्रेण ॥ २०५ ॥
तस्मात् साध्यस्य स्वात्मत्वे हेतुस्वभावात्मकत्वे हेतुभावे वा सिद्धे सति,
तदभावे नियमेन व्यतिरेकात्, विपक्षाद् व्यापककारणव्यतिरेके स्वभावकार्यहेत्वो-
र्व्यतिरेकिता सिध्येत्, नान्यथेति न्याय एषः । यतः प्रतिबन्धेनैवान्वयव्यति-

[विचारः ] परार्थानुमानपरिच्छेदः ४३३

सिध्येदतो विशेषे न व्यतिरेको न वान्द्वयः¹ ॥ २०६ ॥
अदृष्टिमात्रमादाय केवलं व्यतिरेकता ।
उक्तोऽनैकान्तिकस्तस्मादन्यथा² गमको भवेत् ॥ २०७ ॥
साध्याभावः साधनाभावेन न व्याप्तः
प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्त्तने ।
आत्मनो विनिवर्त्तेत प्राणादिर्यदि तच्च न ॥ २०८ ॥
अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगतः ।
तदात्मा तत्प्रसूतिश्चेत् ? नैतद्;
रेकसिद्धिः, अतो विशेषेऽसाधारणे हेतौ नान्वयः, न वा व्यतिरेकः
सिध्यति ॥ २०६ ॥
एवं तर्हि सपक्षविपक्षव्यतिरेकाभ्यां व्यावृत्तेर्विशेषः कथमाचार्येणोक्तः ?
इत्याह—अदृष्टिमात्रं बाधकप्रमाणरहितमादाय पराभिप्रायेण सपक्षाद्
व्यतिरेकितोक्ता । तस्यादर्शनमात्रेण व्यतिरेकानिश्चयादनैकान्तिक आचार्ये-
णोक्तः । अन्यथा विपक्षाद् व्यतिरेकनिश्चये गमको हेतुर्भवेत्, ततश्चानैका-
न्तिकवर्गे न प्रक्षिप्येत ॥ २०७ ॥
ननु साध्यनिवृत्तौ नियमेन साधनं निवर्त्तत इति साध्याभावः साधनाभावेन
व्याप्तः, ततश्च प्राणादेः साधनस्याभावो नैरात्म्यस्य सात्मकत्वसाध्याभावस्य
व्यापीति हेतोरात्मनो घटादेर्विपक्षाद् विनिवर्त्तने सति प्राणादिर्विनिवर्त्तते ।
न ह्यन्यथा साधनाभावः साध्याभावस्य च व्यापको भवति । ततो यत्र प्राणादि-
भावनिवृत्तिः, तत्र सात्मकत्वभावनिवृत्तिरपीति यद्युच्यते, तच्च न युक्तम् ॥२०८॥
अन्यस्य कारणस्यात्मनो विनिवृत्त्या प्राणादेर्विनिवृत्तेरयोगतः ।
तादात्म्यतदुत्पत्तावेव हि साध्यनिवृत्तौ साधननिवृत्तिर्युक्ता; तत्स्वभावत्वात्, तदाय-
त्तत्वाच्च । सति च साध्यसाधनयोर्नियमेन निवर्त्त्यनिवर्त्तकभावे साध्याभावः
साधनाभावेन व्याप्यते । प्राणादिस्तस्यात्मन आत्मा स्वभावः, तस्मात्
१. चान्वयः—रा० । २. उक्ताऽनैकान्तिक०—रा० ।
प्र० वा० : २८

४३४ प्रमाणवार्त्तिके [ हेतुलक्षण-
आत्मोपलम्भने ॥ २०९ ॥
तस्योपलब्धावगतावगतौ च प्रसिध्यति ।
ते चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यतः ॥ २१० ॥
अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः ।
अज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः ॥ २११ ॥
प्राणादेश्च क्वचिद् दृष्ट्या सत्त्वासत्त्वं प्रतीयते ।
तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते ॥ २१२ ॥
प्रसूतिर्वास्थेति चेत् ? नैतदस्ति युक्तम्; तथा हि---आत्मन उपलम्भने
सति तस्य प्राणादेरुपलब्धौ सत्यामात्मनोऽगतौ प्राणादेरगतौ च सत्यां
कार्यकारणभावः प्रसिध्यति । ते च दृष्ट्यदृष्टी कार्यकारणभावसाधने-
अत्यन्तपरोक्षस्यात्मनो न सिध्यतः । अत्यन्तपरोक्षस्य कथमदृष्टिरपि न
सिध्यतीति चेत् ? अभावसाधिका दृश्यानुपलब्धिर्न सिध्यत्येव । अदृष्टिमात्रं तु
नाभावसाधकम् । ततः प्राणादेरात्मना सह प्रतिबन्धासिद्धेरात्मनिवृत्त्या प्राणादि-
निवृत्तिसिद्धिः ॥ २०९-२१० ॥
किञ्च---आत्मनोऽन्यत्र जीवच्छरीरेऽदृष्टरूपस्य घटादौ न सत्त्वमिति
यदुच्यते, तत्कुतः सिद्धम् ! दृश्यानुपलब्ध्या ह्यभावसिद्धिः, न चादृष्टचरे
तत्सम्भवः । अज्ञातो व्यतिरेकोऽभावो यस्य तस्यात्मनो या व्यावृत्तिर्घटादौ,
तस्याः प्राणादिनिवृत्त्या व्यापिता व्यापनं कुतः सम्भवि, येन जीवच्छरीरे
प्राणादिनिवृत्त्यभावात् सात्मकत्वनिवृत्त्यभावे सत्यात्मसिद्धिः स्यात् ! ॥ २११ ॥
ननु यथा घटादौ प्राणाद्यभावनिश्चयः, तथात्माभावनिश्चयोऽपि किं न भवति ?
इत्याह---प्राणादेः क्वचिज्जीवच्छरीरे दृष्ट्या सत्त्वं प्रतीयते । मृतदेहे
चोपलब्धिलक्षणप्राप्तस्यास्यादृष्ट्याऽसत्त्वं प्रतीयते । तथा यदि क्वचिद् देहे
आत्मा दृश्येत, तदा तत्र सत्त्वमस्य प्रतीयते । अन्यत्रोपलभ्यस्वरूपस्या-
स्यानुपलब्धेरसत्त्वं प्रतीयते । न चात्मोपलब्धिरस्ति क्वचिदिति न तदभाव-
निश्चयः ॥ २१२ ॥

विचारः ] परार्थानुमानपरिच्छेदः ४३५
यस्य हेतोरभावेन घटे प्राणो न दृश्यते ।
देहेऽपि यद्यसौ न स्याद् युक्तो देहे न सम्भवः ॥ २१३ ॥
भिन्नेऽपि किञ्चित् साधर्म्याद् यदि तत्त्वं प्रतीयते ।
प्रमेयत्वाद् घटादीनां सात्मकत्वं किन्न मीयते ॥ २१४ ॥
अनिष्टेश्चेत् ? प्रमाणं हि सर्वेष्टीनां निबन्धनम् ।
भावाभावव्यवस्थां कः कर्तुं तेन विना प्रभुः ! ॥ २१५ ॥
स्मृतीच्छायत्नजः प्राणनिमेषादिस्तदुद्भवः ।
यदप्युच्यते—यदि न सात्मकं जीवच्छरीरम्, तदास्य प्राणादिविरहप्रसङ्गो
नैरात्म्याद् घटवदिति प्रसङ्गसाधनम्; तच्चायुक्तं दर्शयितुमाह— यस्य बुद्धि-
देहातिशयप्रयत्नादेर्हेतोरभावेन घटे प्राणो न दृश्यते, देहेऽपि यद्यसौ
बुद्धिदेहातिशयप्रयत्नादिर्न स्यात्; तदा देहेऽपि हेतुविरहात् प्राणादेर्न सम्भवो
युक्तः, यथा मृतशरीरे । जीवद्देहे तु बुद्ध्यादिसद्भावादेव प्राणादेरुचितः सम्भव
इति नात्माभावे तदभावप्रसङ्गः सङ्गतः ॥ २१३ ॥
अथ घटजीवच्छरीरादीनां नैरात्म्येन यथा साधर्म्यम्, तथा प्राणादिरहितत-
यापि स्यात् , न च भवति, तस्मान्निरात्मके घटादौ प्राणादिरदृष्टो यत्र वर्त्तते तत्र
सात्मकत्वं साधयति ? इत्याह—घटभिन्नेऽपि जीवद्देहे किञ्चिन्मात्रेण निरात्म-
कत्वेन साधर्म्यात् यदि तत्त्वं प्राणादिविरहिततया घटसदृशत्वं प्रतीयते, तदा
प्रमेयत्वाद्धेतोर्घटादीनां जीवच्छरीरसात्मकत्वं किन्न मीयते ! ॥ २१४ ॥
अनिष्टेश्चेत् ? ननु प्रमाणं हि सर्वेष्टीनां निबन्धनम्, तद्वशेनार्थानां
स्थितेः । तेन प्रमाणेन विना भावाभावयोर्व्यवस्थां कर्तुं कः प्रभुः !
यदि च किञ्चित् साधर्म्यमात्रात् साधनं साध्यसाधकम्, तदा प्रमेयत्वाद् घटस्यापि
सात्मकत्वसाधनादनिष्टिरनुपयुक्ता ॥ २१५ ॥
यदि तर्हि नात्मा प्राणादेर्हेतुः, कस्तर्हि भविष्यति ? इत्याह—यथायोगं
स्मृतीच्छाप्रयत्नेभ्यो जातः प्राणनिमेषादिः समाहितस्य निरुद्धवायोः
समाधिव्युत्थितस्य स्मरणात् प्राणवृत्तिः, गाढप्रहारादिभिर्व्याहतप्राणस्य इच्छा-

४३६ प्रमाणवार्त्तिके [ हेतुलक्षण-
विषयेन्द्रियचित्तेभ्यः;
ताः स्वजातिसमुद्भवाः ॥ २१६ ॥
अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक् ।
एतावत्यात्मभावोऽयमनवस्थाऽन्यकल्पने ॥ २१७ ॥
श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः ।
न तस्य व्यभिचारित्वाद् व्यतिरेकेऽपि चेत् कथम् ॥ २१८ ॥
प्रयत्नाभ्यां प्राणप्रवृत्तिः। स्वस्थस्य साद्गुण्यात् निमेषादेरिच्छाप्रयत्नजत्वं व्यक्तम्।
तेषां च स्मृतीच्छायत्नानामुद्भवो विषयेन्द्रियचित्तेभ्यो यथायोगम्—
क्वचिद् विषयाद् बदरादे रसनास्रावादिहेतो रसादिस्मृतिर्भवति, इन्द्रियाद्वा
बिलादेरपङ्कज्ञानहेतोः प्रदीपमण्डलादिस्मरणं भवति, बुद्धेरेवातद्विषयस्यातीतानु-
कूलतादिस्मृतिरुद्भवति।
ननु षट् प्रवृत्तिबुद्धय एवात्मजाः, प्रवृत्तिबुद्धिजाश्च स्मृत्यादयः, तद्भवाश्च
प्राणादय इति परम्पराऽऽत्महेतुका एव ? इत्याह—ताः षड्बुद्धयः अन्योन्यप्रत्य-
यापेक्षा यस्या य आत्मीयः प्रत्ययः सहकारिकारणमिन्द्रियादि तस्मिन्नपेक्षाऽऽ-
यतिर्यासां तास्तथा सत्यः स्वजातिसमुद्भवाः समनन्तरप्रभवाः, न तु परम्परया-
प्यात्मापेक्षिण्य इत्यर्थः । एतावति कारणकलापेऽयमात्मभावः षडायतनं
गृहीतोऽन्वयव्यतिरेकभाक् प्रतिबद्धः, कारणत्वेन ततोऽन्यस्य कल्पनेऽ-
नवस्था कारणानाम्। तस्मान्नादृष्टसामर्थ्यस्यात्मनो निवृत्तौ प्राणादिनिवृत्तिर्युक्ता ॥
२१६-२१७ ॥
किञ्च—तत् प्राणादिसाधनं श्रावणत्वेन हेतुना व्यभिचारतोऽनैकान्ति-
कत्वात् तुल्यम् ? नैतदस्ति; तस्य श्रावणत्वस्य विपक्षाद् बहुलं व्यतिरेकेऽपि
व्यतिरेकस्य व्यभिचारतः । न हि श्रावणत्वमनित्येभ्यः प्रायो व्यावृत्तमित्य-
नित्यत्वव्यतिरेकाव्यभिचारि शक्यमवसातुम् ; पक्ष एवानित्येन सहाकार्यविरोधात् ।
प्राणादि तु नियमेन विपक्षाद् व्यतिरेकाव्यभिचारीति न युक्तं श्रावणत्वेन तुल्य-
मिति चेत् पृच्छत्याचार्यः—प्राणादिश्रावणत्वेनातुल्यं कथमिति ? ॥ २१८ ॥

विचारः ] परार्थानुमानपरिच्छेदः ४३७
नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते ।
साध्येऽनुवृत्त्यभावोऽर्थात् तस्यान्यत्राप्यसौ समः ॥ २१९ ॥
असाध्यादेव विच्छेद इति साध्येऽस्तितोच्यते ।
अर्थापत्त्याऽत एवोक्तमेकेनोभयदर्शनम् ॥ २२० ॥
ईदृग्व्यभिचारोऽतोऽन्वयिषु न सिध्यति ।
प्रतिषेधनिषेधश्च विधानात् कीदृशोऽपरः ॥ २२१ ॥
इतर आह—तस्य श्रावणत्वस्यासाध्याद् विपक्षादेव न विश्लेषो व्यावृत्तिः;
किन्तु सपक्षादपि । प्राणादेस्तु सर्वस्य जीवच्छरीरस्य सात्मत्वेन साध्यत्वात्
सपक्ष एव नास्तीति कथं ततो व्यावृत्तिरिति ?
अत्राह—नन्वेवमसाध्यादेव श्रावणत्वस्य न विश्लेष इत्याख्याने
साध्ये साध्यवति सपक्षेऽनुवृत्तेरन्वयस्याभावोऽर्थादुक्तः स्यात् । यो हि
विपक्षमात्राद्व्यावृत्तः, स सपक्षादपि व्यावृत्तेरन्वयरहित उक्तो भवति । तथा च
प्राणादेरसौ सपक्षानुवृत्त्यभावः समः । न हि प्राणादिसपक्षे क्वचित् सिद्धम्;
सर्वस्य जीवच्छरीरस्य पक्षत्वात् ॥ २१९ ॥
असाध्याद् विपक्षादेव साधनस्य विच्छेदो व्यावृत्तिरित्यभिधानेना-
र्थापत्त्यासामर्थ्येन साध्ये सपक्षेऽस्तितोच्यते । यदि तु सपक्षादपि व्यावृत्तिः,
तदा विपक्षादेव व्यावृत्तिरित्यसङ्गतम्; यतो विपक्षादेव व्यावृत्तिरिति आक्षिप्ता-
न्वय एव भवति । अत एवाचार्येण एकेन व्यतिरेकेणान्वयेन वा नियमवता
दृष्टेनोभयदर्शनमुक्तम्; अर्थापत्त्याऽन्यतरेणोभयदर्शनादिति ॥ २२० ॥
यस्मादैकान्तिको व्यतिरेक आक्षिप्तान्वय एव भवति, अतः ईदृग् विपक्षे
व्यतिरेकोऽव्यभिचारः अनन्वयिषु हेतुषु न सिध्यति । य एव साध्येना-
न्वितो हेतुः, तस्यैव विपक्षादेव व्यतिरेकः । यदि तु सत्यपि साध्ये हेत्वभावः,
तदा सपक्षादपि व्यतिरेकात् कथं विपक्षादेव निवृत्तिः !
किञ्च—प्राणादेः सपक्षे प्रतिषेधस्य निवृत्तेर्निषेधो विधानादपरः
कीदृशः । प्रतिषेधनिषेधो हि विधिरेव; परस्परपरिहारेणावस्थितेः । ततः प्राणादेः
सपक्षाच्चिन्निवृत्तिर्नास्तीत्यर्थाद् वृत्तिरेवोक्ता स्यादिति न व्यतिरेकित्वम् ॥ २२१ ॥

४३८ प्रमाणवार्त्तिके [ हेतुलक्षण-
निवृत्तिर्नासत: साध्यादसाध्येष्वेव नो ततः ।
नेति सैव निवृत्तिः किं निवृत्तेरसतो मता ॥ २२२ ॥
निवृत्त्यभावस्तु विधिर्वस्तुभावोऽसतोऽपि सन् ।
वस्त्वभावस्तु नास्तीति पश्य बान्ध्यविजृम्भितम् ॥ २२३ ॥
निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते ।
सापि न प्रतिषेधोऽयं निवृत्तिः किं निषिध्यते ॥ २२४ ॥
विधानं प्रतिषेधं च मुक्त्वा शाब्दोऽस्ति नापरः ।
स्यादेवम्, यदि सपक्षो भवति; किन्तु सात्मकत्वे साध्ये सपक्षो नास्तीत्य-
सतः साध्यात् सपक्षात् प्राणादेर्निवृत्तिर्नास्ति, ततोऽसाध्येषु विपक्षेष्वेव
नो वृत्तिरिति व्यतिरेकित्वमिष्टम् । एवं तर्हि सपक्षादसतो हेतोर्निवृत्तेर्निवृत्ति-
रस्माकमस्तित्वेन येष्टा सैव किन्नेति भवतो मता । यदि ह्यसन् निवृत्तेर्नाधि-
करणम्, तदा निवृत्तिः कथं भविष्यति ! ॥ २२२ ॥
किञ्च — असतोऽपि सपक्षाद्धेतुनिवृत्तेर्नीरूपाया अभावस्तु विधिर्वस्तु-
भावो हेतुसम्भवः सन्निष्यते । यद्यसति सपक्ष हेतुनिवृत्तिर्नास्ति, तदा हेतुरेवा-
स्तीत्युक्तं स्यात् । वस्तुनो हेतोरभावस्तु निवृत्तिशब्दवाच्यो नास्तीति
पश्य बान्ध्यविजृम्भितं परेषाम् । असत्यसत्त्वमविरुद्धम्, विरुद्धं तु सत्त्व-
मित्यर्थः ॥ २२३ ॥
अपि च — हेतोस्तस्मिन्नसति सपक्षे निवृत्तिर्यदि नास्ति, तदा किं
वृत्तिरिष्यते; विधिनिषेधयोरन्योन्यव्यवच्छेदात्मकत्वादेकप्रतिषेधस्य तदपरविधिनान्तरी-
यकत्वात् । ततश्चान्वयव्यतिरेकित्वान् प्राणादिर्न व्यतिरेकी । सा वृत्तिरपि नासति
सपक्षे इति चेत् ? ननु वृत्तिनिषेधः प्रतिषेधोऽयं निवृत्त्यात्मकः । ततश्चासतो
वृत्तिनिवृत्तेरधिकरणत्वात् तस्मिन्निवृत्तिः किं निषिध्यते ! सत्यां च निवृत्तौ
श्रावणत्ववदसाधारणं प्राणादि स्यात् ॥ २२४ ॥
अथाधिकरणतया, अपादानतया वा सतः प्रतीतिर्नास्तीति न तस्मान्निवृत्ति-
रित्युच्यते । एतदर्थं हि विधानं प्रतिषेधं च मुक्त्वाऽपरः शाब्दो व्यवहारो

विचारः ] परार्थानुमानपरिच्छेदः ४३९
व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता ॥ २२५ ॥
सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः ॥ २२६ ॥
देशकालनिषेधश्चेद् यथास्ति स निषिध्यते ।
न तथा न यथा सोऽस्ति तथापि न निषिध्यते ॥ २२७ ॥
तस्मादाश्रित्य शब्दार्थं भावाभावसमाश्रयम् ।
अबाह्याश्रयमत्रेष्टं सर्वं विधिनिषेधनम् ॥ २२८ ॥
ताभ्यां स धर्मो सम्बद्धः ख्यात्यभावेऽपि तादृशः ।
नास्ति; तयोरेव शब्दप्रतिपाद्यत्वात् । स च विधिप्रतिषेधव्यवहारोऽसत्सु
नास्तीति अत्रासत्सु 'मूकतैव प्राप्ता । तथा हि असति विधिव्यवहारस्ता-
वन्नास्त्येव, प्रतिषेधोऽपि तन्मते नास्तीति युक्तं मूकत्वम् ॥ २२५ ॥
किञ्च—सताञ्च पदार्थानां न निषेधोऽस्ति; विद्यमानत्वात् । स प्रति-
षेधोऽसत्सु न त्वदभिप्रायाद् विद्यते । अनेन न्यायेन नञोऽर्थः प्रतिषेधो
जगति विषये प्रलयं गतः ! ॥ २२६ ॥
क्वचित् सतामेवार्थानामन्ययोर्देशकालयोर्नञादिना निषेध इष्येत ? यथा
यद्देशकालसम्बद्धत्वेन सोऽर्थो नास्ति, तथा निषिध्यते त्वदभिप्रायादतो
निषेधायोगात् । यथा चास्ति स तथापि न निषिध्यते; सत्त्वात् ॥२२७॥
तस्माच्छब्दस्यार्थमारोपितबहीरूपमन्यव्यवच्छेदमबाह्याश्रयं बाह्यविषय-
रहितं य एव भावाभावयोर्विधिप्रतिषेधविकल्पप्रतिपाद्ययोः समाश्रयस्तमाश्रित्य
व्यवहारे सर्वं विधिनिषेधनमिष्टम् ॥ २२८ ॥
यदि वस्तु शब्दविकल्पाभ्यां विषयीक्रियते सर्वथा, प्रतीतेः शब्दप्रमाणान्तर-
वैफल्यप्रसङ्गः । ततोऽन्यापोह एव विधिनिषेधसम्बन्धयोर्विषयः । तथा शब्दात्
सत्त्वासत्त्वाभ्यां वस्तुनः प्रतीतौ विधिनिषेधयोर्वैफल्यप्रसङ्गः । तस्मात् भावा-
भावसाधारणोऽन्यव्यवच्छेदो विधिप्रतिषेधाभ्यां सम्बध्यत इति ताभ्यां
विधिप्रतिषेधाभ्यां स शब्दार्थो धर्मी सम्बद्धः ख्यातेर्वस्तुतोऽभावेऽपि
तादृशो विधिप्रतिप्रतिषेधसम्बद्धस्यार्थस्य । न हि शब्दार्थ एव कश्चित्;

४४० प्रमाणवार्त्तिके [ हेतुलक्षण-
शब्दप्रवृत्तेरस्तीति सोऽपीष्टो व्यवहारभाक् ॥ २२९ ॥
अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने ।
एकधर्मस्य सर्वात्मविधानप्रतिषेधनम् ॥ २३० ॥
अनानात्मतया;
भेदे नानाविधिनिषेधवत् ।
एकधर्मिण्यसंहारो विधानप्रतिषेधयोः ॥ २३१ ॥
एकधर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् ।
विधावेकस्य तद्भाजमिवान्येषामुपेक्षकम् । २३२ ॥
निषेधे तद्विविक्तं च तदन्येषामपेक्षकम् ।
बाह्याबाह्यार्थयोरयोगात्, तदितरस्य चाभावादित्युक्तेः कुत एव विधिनिषेधाभ्यां
तस्य सम्बन्धः स्यात् ! तथापि स विधिः प्रतिषेधस्य शब्दप्रवृत्तेरस्तीति
व्यवहारभागिष्टः । शब्दो हि प्रवर्त्तमानो विधिनिषेधव्यवहारं वस्तुतोऽसन्त-
मप्यविद्याभ्यासतो वासनावशादुपदर्शयतीति तदनुरोधात् स

विचारः ] परार्थानुमानपरिच्छेदः ४४१
व्यवहारमसत्यार्थं प्रकल्पयति धीर्यथा ॥ २३३ ॥
तं तथैवाविकल्पार्थं भेदाश्रयमुपागताः ।
अनादिवासनोद्भूतं बाधन्तेऽर्थं न लौकिकम् ॥ २३४ ॥
तत्फलोऽतत्फलश्चार्थो भिन्न एकस्ततस्ततः ।
तैस्तैरुपप्लवैर्नीतस्सञ्चयापचयैरिव ॥ २३५ ॥
अतद्वानपि सम्बन्धात् कुतश्चिदुपनीयते ।
दृष्टिं भेदाश्रयैस्तेऽपि तस्मादज्ञातविप्लवाः ॥ २३६ ॥
धर्माणामपेक्षकमुद्दिश्य यथा कल्पिका धीर्व्यवहारं परमार्थतोऽसत्यार्थं
कल्पयति ॥ २३२, २३३ ॥
तथैव कल्पनातिक्रमेण तं व्यवहारमर्थभेदाश्रयमन्यव्यावृत्तिविषयमना-
दिवा सनाया उद्भूतम् । यथा तत्त्वेन विकल्पोपगताः प्रतिपन्ना व्यवहर्त्तारो
लौकिकं बौद्धमर्थं शब्दप्रतिपादितं न बाधन्ते; व्यवहारोच्छेदप्रसङ्गात् ॥ २३४ ॥
कथं पुनर्धर्मभेदो व्यवह्रियते ? इत्याह—अर्थः शब्दादिस्तत्फलः
श्रोत्रविज्ञानादिहेतुरतत्फलश्चक्षुर्विज्ञानाद्यहेतुः, ततो गन्धादेः श्रोत्रज्ञानाहेतोः,
ततो रूपादिकाच्चक्षुर्विज्ञानहेतोर्भिन्नो व्यावृत्तस्तत्तद्व्यावृत्तिविशिष्टतया कल्पितधर्मि-
धर्मनानात्वः परमार्थत एकस्तैस्तैरुपप्लवैः कल्पितधर्मभेदविधिनिषेधयोगगोचरै-
र्विकल्पैर्यथाक्रमं धर्मिधर्माणां नीतः प्राप्तः सञ्चयोऽपचयश्च यैस्तैरिव यथा-
ध्यवसायं वस्तुतः भेदाश्रयैर्व्यावृत्तिविषयैरतद्वान् धर्मभेदेन तत्सञ्चयापचयाभ्यां
रहितोऽपि शब्दादिदृष्टिं प्रतीतव्यवहारमुपनीयते । विकल्पास्तावद् वासनावशात्
तथोपदर्शयन्ति । व्यवहर्त्तारस्तु कस्माद् विमृश्य न निवर्त्तन्ते ? इत्याह—अर्थे
तेषां व्यावृत्त्याश्रयेण कल्पितधर्माणां कुतश्चित् सम्बन्धात् तदर्थक्रियाप्राप्तेः
परितोषादर्थक्रियार्थिनां व्यवहारिणां धर्मभेदाद् यथार्थत्वेन विमर्शादादर इति ते
व्यवहर्त्तारोऽप्यज्ञातविप्लवा धर्मभेदविधिप्रतिषेधव्यवहारस्येति यथार्थमेव तत्
मन्यन्त इति । तस्मात् परमार्थतोऽसत्येव धर्मिणि विधिप्रतिषेधव्यवहारात् अस-
तोऽपि सपक्षाद् विपक्षाद् वा हेतुनिवृत्तिः सन्दिग्धा ॥ २३५-२३६ ॥

४४२ प्रमाणवार्त्तिके [ हेतुलक्षण-
सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः ।
असत्त्वं चाभ्युपगमादप्रमाणं न युज्यते ॥ २३७ ॥
असतो व्यतिरेकेऽपि सपक्षाद् विनिवर्त्तनम् ।
सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम् ॥ २३८ ॥
एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् ।
द्वैराश्ये सति दृष्टेषु स्याददृष्टेऽपि संशयः ॥ २३९ ॥
किञ्च—'प्राणादेः सपक्षो नास्तीति ततो न व्यतिरेकः' इति यद्युच्यते,
तदसङ्गतम् ? इत्याह—आत्मनः सत्तायां साधनस्य प्राणादेर्वृत्तेः कारणात्
वादिप्रतिवादिनोरात्मा सन्दिग्धः स्यात् । न ह्यसत्तया निश्चितेऽर्थे कश्चित्
साधनमाह । प्रतिवादी च तत्साधनं शृण्वन् कथमसन्दिग्धो नाम, आत्म-
सन्देहाच्च सपक्षो नासन्, तत् कथमुच्यते—सपक्षासत्त्वात् न ततो व्यावृत्त
इति । व्यतिरेकी प्राणादिः । स्यादेतत् । प्रतिवादिनः सात्मत्वेन कस्याश्चिदनिष्टेः
सपक्षाभाव उच्यते ।
ननु पराभ्युपगमप्रमाणम्, अप्रमाणं वा । प्रमाणं चेत् ? नैरात्म्यमेव तर्हि
सिद्धम्, अलमात्मसाधनोपन्यासप्रयासेन ! अथाप्रमाणम् ? परस्याभ्युपगमात्
अप्रमाणत्वात् सपक्षसत्त्वं च न युज्यते ॥ २३७ ॥
तस्माद् असतः सपक्षाद्धेतोर्व्यतिरेकेऽप्युपगम्यमाने प्राणादेः सपक्षाद्
विनिवर्त्तनं सन्दिग्धम्; तस्य सपक्षसन्देहात् । यदि सपक्षाभावोऽसन्दिग्धः,
एवं हेतुव्यावृत्तिभावोऽप्यसन्दिग्धः स्यात् । तत्सन्देहे तस्यापि सन्देहः । सपक्षाद्
व्यावृत्तिसन्देहे विपक्षाद् विनिवर्त्तनं प्राणादेः सन्दिग्धम् ॥ २३८ ॥
कथम् ? इत्याह—एकत्र सपक्षे सत्त्वस्य नियमे सिद्धे सति अन्यतो
विपक्षान्निवर्त्तनं सिध्यति । यो हि पक्ष एव भवति, स नियमाद् विपक्षे न
भवति । यदि तु विपक्षेऽपि स्यात्, सपक्षे सत्तानियमो व्याहन्येत ।
ननु सात्मकत्वानात्मकत्वाभ्यां द्वैराश्यं भावानाम् । तत्र निरात्मकेषु घटादिषु
दृष्टः प्राणादिरर्थात् सात्मकेषु व्यवतिष्ठत इति प्राणादेरतो युक्तं सात्मकत्वानुमा-
नम् ? इत्याह—द्वैराश्ये सति भावानां घटादिषु निरात्मकेषु दृष्टेषु बहुलं

विचारः ] परार्थानुमानपरिच्छेदः ४४३
अव्यक्तिव्यापिनोऽप्यर्थाः सन्ति तज्जातिभाविनः ।
क्वचिन्न नियमोऽदृष्ट्या पार्थिवालोहलेख्यवत् ॥ २४० ॥
भावे विरोधस्यादृष्टेः कः सन्देहं निवारयेत् ।
क्वचिद् विनियमात् कोऽन्यस्तत्कार्यात्मतया स च ॥ २४१ ॥
नैरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् ।
प्राणादावदृष्टेऽपि देशादिविप्रकृष्टेषु प्राणादिसत्तासंशयः—कदाचित् क्वचिन्नि-
रात्मका अपि प्राणादियुक्ताः स्युः, बाधकाभावात् ॥ २३९ ॥
तथा हि—तस्यामेकस्यां जातौ सम्भाविनोऽप्यर्था धर्मा अव्यक्ति-
व्यापिनो निःशेषतद्व्यक्त्यसम्भविनः सन्ति । ततः क्वचिद् घटादौ निरात्मके
प्राणादिर्नास्तीत्यदृष्ट्यादर्शनमात्रेण समस्तेषु निरात्मकेषु न प्राणाद्यभावस्य
नियमः । बहुषु पार्थिवेषु काष्ठपाषाणादिषु लोहलेख्यत्वदर्शनेऽपि पार्थिव एव
वज्रेऽलोहलेख्यवत् १ । अलोहलेख्यस्येव नासम्भवस्य नियमः ॥ २४० ॥
निरात्मकत्वेन सह प्राणादेर्विरोधस्यादृष्टेर्निरात्मकेष्वपि भावेषु प्राणादे-
र्भावे सत्तायां कः सन्देहं निवारयेत् । न हि प्राणादेर्नैरात्म्येन सहानवस्थान-
लक्षणो विरोधः, क्वचिन्निवर्त्त्यनिवर्त्तकभावानुपलब्धेः । नाप्यन्योन्यपरिहारस्थिति-
लक्षणः, परस्परव्यवच्छेदात्मकत्वाभावात् ।
स्यादेतत् । नैरात्म्यविरुद्धेनात्मना व्याप्तत्वात् प्राणादेः परम्परया नैरात्म्येन
विरोधः ? इत्याह—तस्यात्मनः कार्यतया आत्मतया प्राणादेः क्वचिदात्मनि
विनियमान्नियतत्वात् कोऽन्यः परम्परया विरोधश्चोक्तः स्यात् । तादात्म्यतदु-
त्पत्तिभ्यामेव केनचित् किञ्चिद् व्याप्यते, नान्यथा ॥ २४१ ॥
न चात्मनोऽत्यन्तपरोक्षतया ते सिध्यतः, तत् कथं तन्निमित्तकविरोधस्थितिः !
तेन साक्षात् परम्परया च विरोधाभावेन नैरात्म्याद् विपक्षादपि शब्दात् , न
केवलं सपक्षाद् , अस्य प्राणादेर्निवर्त्तनं सन्दिग्धम् । सन्दिग्धन्वयव्यतिरेकः
प्राणादिरित्यर्थः ।
१. अत्र—'वज्रेऽलोहलेख्यत्वदर्शनेऽपि पार्थिव एव'--इति व्यर्थः पाठो
रा० पुस्तके ।