प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 471, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४४५
कार्ये दृष्टिरदृष्टिश्च कार्यकारणता हिता ॥ २४६ ॥
अर्थान्तरस्य तद्भावेऽभावानियमतोऽगतिः ।
अभावासम्भवात् तेषामभावे नित्यभाविनः ॥ २४७ ॥
सामग्रीशक्तिभेदाद् वस्तूनां नानात्मता
कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् ।
तैर्विना भवतोऽन्यस्मात् तज्जं रूपं कथं भवेत् ॥ २४८ ॥
सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता ।
धिकारेऽनिश्चितगमकत्वनिबन्धस्याहेतुत्वात् । साधनं च कार्ये कारणान्वयवति
दृष्टिः, तद्व्यतिरेकवति चादृष्टिः । न तु सपक्षविपक्षयोर्दर्शनादर्शनमात्रकम् ।
हि यस्मात् तत्कार्यदृष्ट्यदृष्टी कार्यकारणता कारणभावाभावप्रयुक्ते कार्यभावाभाव-
दर्शने कार्यकारणतोक्ता अन्यनिश्चयोपायतादर्शनार्थम् ॥ २४६ ॥
ततश्च अकारणस्यार्थान्तरस्यात्मनस्तस्य प्राणादेर्भावेऽभावानियमतोऽ-
वश्यम्भावाभावात् अगतिरप्रतीतिः ।
नन्वात्मान्वयव्यतिरेकानुविधानात् प्राणादय आत्मानं तत्कार्यतयाऽनुमाप-
यिष्यन्ति ? इत्याह — तस्यात्मनो नित्यभाविनः सर्वकालस्थायिनः कदाचिदभावे
सति तेषां प्राणादीनामभावस्यासम्भवात् । यदि व्यतिरेकमन्तरेणान्वयमात्रा-
दात्मकार्यता प्राणादीनाम्, तदा कालाकालादिकार्यतापि स्यात् ; तस्यास्तत्समान-
त्वात् । ततश्च तानप्यनुमापयेयुः । कालादिनिवृत्तिश्च प्राणादिनिवृत्त्या व्याप्येत ।
ततो यत्र प्राणादिनिवृत्तिरस्ति तत्र कालादिनिवृत्तिरपि स्यात्; एवं व्याप्यसद्-
भावात् । न च कालरहितः कश्चिदस्ति ॥ २४७ ॥
किञ्च—कार्यस्वभावभेदानां यथास्वं कारणेभ्यः समुद्भवात्
कारणाद् केवलादन्वयात् कार्यकारणभावेऽपि कार्यभावाङ्गीकारात् तैः कारणैर्विना
भवतः कार्यस्य रूपं तज्जं कथं भवेत् ! न हि वह्निजं युक्तं प्रत्येकं
व्यभिचाराद्धैतुत्वप्रसङ्गात् ॥ २४८ ॥
सामग्रीणां शक्तिभेदाद्धि वस्तूनां कार्याणां विश्वरूपता नानात्मता ।