प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 483, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४५७
भावो हि स तथा भूतोऽभावे भावस्तथा कथम् ॥ २८४ ॥
येऽपरापेक्षतद्भावास्तद्भावानियता हि ते ।
असम्भवद्विबन्धा च सामग्री कार्यकर्मणि ॥ २८५ ॥
अयुक्तमेतत्; हि यस्मात् स भावस्तथा नश्वरस्वभाव इष्यते । यदा तु भाव
एव नास्ति, तदाऽभावे भावस्य भावस्तथा नश्वरः कथमुच्यते । ततो
लब्धजन्मनो भावस्य क्षणान्तराननुवृत्तेर्नश्वरता ॥ २८३-२८४ ॥
तस्माद् ये भावा अनपेक्षतद्भावाः परापेक्षां विना सम्भवद्धर्मविशेष-
सम्भवाः, ते तस्य भावे धर्मस्य नियताः । कारणसामग्रीव असम्भवद्-
विबन्धा विबन्धकारणरहिता कार्यस्य कर्मणि क्रियायां नियता । परनिरपेक्षाश्च
भावाः स्वनाश इति “क्षणिकाः सर्वसंस्काराः” इत्यकम्प्यः सौगतः सिंहनादः ।
न यदिह तन्न न्याय्यं तेनोदितेन च किं फलम्,
यदि बहुशस्तस्यावृत्तौ गुणः कथं कस्य कः ।
यदि परमसौ व्याख्येयार्थग्रहस्य विरोधिनी,
विवृतिरचनामात्रे तस्मात् कृतोऽत्र मयादरः ॥
इत्याचार्यश्रीमनोरथनन्दिकृतायां
प्रमाणवार्त्तिकवृत्तौ चतुर्थः
परिच्छेदः
❊ समाप्तं चेदं प्रमाणवार्त्तिकम् ❊