प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 356, कुल 532 में से
संदर्भ में पढ़ें३३० प्रमाणवार्त्तिके [ अपौरुषेयत्व-
ज्ञानोत्पादनहेतूनां¹ सम्बन्धात् सहकारिणाम् ॥ २३५ ॥
तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते ।
घटादिष्वपि युक्तिज्ञैः;
अविशेषेऽविकारिणाम् ॥ २३६ ॥
व्यञ्जकैः स्वैः कृतः² कोऽर्थो व्यक्तास्तैस्ते यतो मताः ।
सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता ॥ २३७ ॥
ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गतिः ।
भिन्नत्वाद् वस्तुरूपस्य सम्बन्धः कल्पनाकृतः ॥ २३८ ॥
अथ नित्यस्यापि जातिसम्बन्धादेराश्रयेणाभिव्यक्तिलक्षण उपकारः क्रियते,
न चाभिव्यक्तिहेतुः³ कारकः, दीपादिवत् घटादेः ? इत्याह—ज्ञानोत्पादनहेतूनां
दीपादीनां सहकारिणां सम्बन्धात् तदुत्पादनयोग्यत्वेन ज्ञानोत्पादनसमर्थत्वे-
नोत्पत्तिर्घटादिष्वपि भावेषु युक्तिज्ञैर्न्यायविद्भिर्व्यक्तिरिष्यते; अन्यथा
ज्ञानोत्पादनयोग्यस्य स्वभावस्यानुत्पत्तौ ज्ञानोत्पादनं न स्यात् ।
नित्यानां जातिसम्बन्धादीनामविकारिणां कुतश्चिदविशेषे विशेषासम्भवे
स्वैर्व्यञ्जकैराश्रयाभिमतैः कोऽर्थः स्वभावान्यथात्वादिः कृतः, न कश्चित्; यतो-
ऽर्थात् कृतात् तैर्व्यञ्जकैस्ते जात्यादयो व्यक्ता मताः ।
किञ्च—यदि सम्बन्धस्य वस्तुत्वम्, तदा वस्तुत्वे सति भेदोऽभेदो
वाभ्युपगन्तव्यः । तत्र भेदात् बुद्धेश्चित्रता स्यात् । वाच्यवाचकौ सम्बन्धश्चेति
त्रितयं दृश्येत, न चेष्यते । अथ द्वितीयः पक्षः, तदा ताभ्यामभेदे सम्बन्धस्य
तौ वाच्यवाचकावेव स्याताम्, न तु सम्बन्धो नाम कश्चित् । अथ सम्बन्धो
न भिन्नः, नाप्यभिन्नः । अतो भेदाभेदाभ्यामन्या वस्तुनो गतिर्नास्ति ।
अन्योन्यव्यवच्छेदात्मकत्वादनयो राश्यन्तरासम्भवान्नान्यः प्रकारोऽस्ति वस्तुनः ।
तस्माद्—भिन्नत्वाद् वस्तुनोः सम्बन्धिनोः रूपस्य सम्बन्धः श्लेष-
१. ज्ञानोत्पादेन हेतूनां—रा० । एवं वृत्तावपि ।
२. कुतः—रा० । एवं वृत्तावपि ।
३. चाव्यक्तिहेतुः—रा० ।