प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 346, कुल 532 में से
संदर्भ में पढ़ें३२० प्रमाणवार्त्तिके [ शब्द-
स्वभावानुपलम्भश्च स्वभावेऽर्थस्य लिङ्गिनि ॥ २०२ ॥
तदभावः प्रतीयेत हेतुना यदि केनचित् ।
दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति ॥ २०३ ॥
भावस्यानुपलब्धस्य १ भावाभावः प्रतीयते ।
विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ २०४ ॥
तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ।
तथार्थस्य व्यापकतया निश्चितस्य स्वभावस्यानुपलम्भश्च स्वभावे व्याप्ये
लिङ्गिन्यसत्तया साध्ये साधनम् ॥ २०२ ॥
तदा च कारणव्यापकानुपलब्धी गमिके, यदि केनचिद्धेतुनोपलब्धि-
लक्षणप्राप्तानुपलम्भेनान्येन वा तयोः कारणव्यापकयोरभावः प्रतीयते, न
तूपलम्भाभावमात्रेण; सन्दिग्धासिद्धत्वात् ।
स्वभावानुपलम्भमाह—दृश्यस्य वस्तुनो दर्शनाभावस्य यत् कारणं
व्यवधानेन्द्रियवैकल्यादि, तस्यासम्भवे सति भावस्यानुपलब्धस्य भावा-
भावः स्वभावानुपलब्धेः प्रतीयते ।
विरुद्धस्य निवर्त्तकस्य वह्न्यादेर्भावस्य भावे तस्य सलिलादेर्निवर्त्त्यस्य
भावबाधनात् । तद्विरुद्धोपलब्धौ सत्यामसत्ताया विनिश्चयः स्यात् ।
नन्वनुपलब्धेरभावसाधने को दृष्टान्तः ? व्योमकुसुमादिरिति चेत् ? अत्रापि
यद्यनुपलब्धेरभावसिद्धिः, तदा दृष्टान्तरापेक्षायामनवस्थाप्रसङ्गः ।
तदनपेक्षायां तदनुपलब्धिरभावाख्यं प्रमाणमस्तु ? असम्बद्धमेतत्; न
ह्यभावोऽनुपलब्ध्या साध्यते । अनुपलब्धिरेव ह्यभावः, स च सिद्ध एव ।
तथापि तु मूढस्तमव्यवहरन् निमित्तोपदर्शनेन व्यवहार्यते । तथा च भावोऽभावस्य
दृष्टान्तः, तयोः स्वनैमित्तिकप्रवर्त्तनस्य सिद्धत्वात् ।
ननु यदिदम्—“न सन्ति प्रधानादयोऽनुपलब्धेः” ( ) इति, तत्र
कथमसद्व्यवहारविधिः, सद्व्यवहारप्रतिषेधो वा, प्रधानादिशब्दवाच्यस्य प्रतिषेधे
तच्छब्दाप्रयोगात् ?
१. ०नुपलम्भस्य—रा० ।