प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 348, कुल 532 में से
संदर्भ में पढ़ें३२२ प्रमाणवार्त्तिके [ शब्द-
न साध्यः समुदायः स्यात् सिद्धो धर्मश्च केवलः ।
सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥ २१० ॥
वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः ।
अर्थक्रियाऽसमर्थस्य विचारैः किं परीक्षया ॥ २११ ॥
षण्ढस्य रूपे१ वैरुप्ये१ कामिन्या किं परीक्षया ।
शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥ २१२ ॥
धर्मो वस्त्वाश्रयासिद्धिरस्योक्ता२ न्यायवादिना ।
आगमविचारः
नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह ॥ २१३ ॥
समुदायः साध्यो न स्यात् । धर्मिधर्मसमुदायश्चानुमेयः । धर्म एव केवलः
साध्यते इति चेत् ? सिद्धो धर्मश्चाभावादिः केवलः किमर्थं साधनीयः !
प्रधानादिविकल्पस्य भावानुपादानत्वं तु न सिद्धम्, तदेव साध्यं युक्तम् ।
किञ्च —सदसत्पक्षभेदेन वस्त्वेव व्यवहारिभिः शब्दार्थानपवादिभिः
चिन्त्यते, नावस्तु; हि यस्माद् अत्र वस्तुनि फलस्यार्थक्रियाया उदयः
प्रतिबद्धः ।
ततश्च---अर्थक्रियायामसमर्थस्य शब्दार्थादेर्विचारैः सदसत्पक्षचिन्ता-
भिस्तदर्थिनामर्थक्रियार्थिनां किम् न किञ्चित् प्रयोजनम् ! षण्ढस्य नपुंसकस्य
रूपे वैरुप्ये वा कामिन्या वृषस्यन्त्या योषितः किं परीक्षया !
यत् पुनराचार्येणोक्तम् —“कल्पितस्यानुपलब्धिर्धर्मः” इति, तस्य कोऽर्थः ?
कल्पनाज्ञानस्य विषयत्वेन कल्पित इष्टः प्रधानादिशब्दार्थः । अस्य
कल्पितस्य वस्त्वाश्रयासिद्धिर्वस्वाधिष्ठानत्वानुपलब्धिर्धर्मो न्यायवादिना-
चार्येणोक्ता ।
ननु यदुक्तम्—‘प्रमाणत्रयनिवृत्तावपि नार्थाभावनिश्चयः’ इति, तन्मा भूत ;
प्रत्यक्षानुमानयोरसर्वविषयत्वात् तन्निवृत्त्याऽभावनिश्चयः । आगमस्तु सर्वविषय
१-१. रूपवैरूप्ये—पाठा० ।
२. ०रस्योक्तो—पाठा० ।