सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 358, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 358

३३२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः ।
अपौरुषेयतापीष्टा कर्तॄणामस्मृतेः किल ॥ २४० ॥
सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः ! ।
कुमारिलमतखण्डनम्
यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम् ॥ २४१ ॥
यः स्मर्यते केवलं कल्प्यते । कल्पितस्य वाचकत्वाभ्युपगमे न विवादः । तस्मान्न
वर्णे सम्बन्धवृत्तिः ।
पदवाक्यादिषु तर्हि स्यादिति चेत् ? न हि क्रमोच्चारितेभ्यो वर्णेभ्यो
व्यतिरिक्तं पदादिकमुपलभ्यते । केवलं कल्पनाबुद्ध्या क्रमोच्चारितानां वर्णानां
समुदायः कल्पितः पदम् । पदानां च समुदायः कल्पितो वाक्यमुच्यते । तच्च
कल्पितत्वादवस्तु । अवस्तुनि सम्बन्धस्यास्य वस्तुनः कथं वृत्तिः ! न
हि शशविषाणस्य नीलादिधर्मो युक्तः । तदेवं न सम्बन्धो नित्योऽनित्यो वा
युक्त इति स्थितम् ।
वेदवाक्यानामपौरुषेयतापि केनचिन्मीमांसकप्रवरेणेष्टा; कर्तॄणामस्मृतेः
लिङ्गात् किल । अक्षमायां किल-शब्दः । अस्याप्यर्थस्य न्यायाद् दूरमायातस्या-
नुवक्तारः पण्डितम्मन्याः१ सन्ति । तस्यैव तावदीदृशं प्रज्ञास्खलितं कथं
वृत्तमिति सविस्मयानुकम्पञ्चेत् । तदप्यपरेऽनुवदन्तीति निर्दयाक्रान्तभुवनम् !
धिग्व्यापकं तमः ! तथा हि—कर्तुः स्मरणमसिद्धं स्मरन्ति सौगता मन्त्राणां
कर्तॄन् अष्टकादीन्, काणादाश्च विधातारम् । मिथ्या तत्स्मरणञ्चेत् ? कुमार-
सम्भवादेरपि कालिदासादिकर्तृस्मरणं मिथ्येति तदप्यपौरुषेयम् । तत्रैकं स्म-
रणमप्रमाणमन्यच्चान्यथेति नात्र विभागकारणम् । बहूनां सम्प्रतिपत्तिविप्रतिपत्तयश्च
न प्रमाणेतरलक्षणे संवादसत्त्वेन सिध्यतः । ततश्चास्मृतकर्तृकमित्यशक्यनिश्चयम्;
सन्दिग्धविपक्षव्यावृत्तिकत्वात् ।
यदापि वेदानधीयानो यथायमिदानीन्तनो माणवकोऽन्यत उपा-
ध्यायादश्रुत्वा इममुच्यमानं वर्णपदयोः क्रममानुपूर्वीविशिष्टां वेदारूख्यां
१. कुमारिलादयः ।