प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
प्रत्यक्षनामा
द्वितीयः परिच्छेदः
प्रमाणस्य द्वैविध्यप्रदर्शनपूर्वकं
तत्र संख्याविप्रतिपत्तिनिराकरणम्
मानं द्विविधं विषयद्वैविध्यात्;
प्रथमपरिच्छेदेन प्रमाणसामान्यलक्षणं व्यवस्थाप्य विशेषलक्षणमाख्यातुं
द्वितीयपरिच्छेदारम्भः ।
विप्रतिपत्तयश्चात्र संख्यालक्षणगोचरफलविषयाः सन्ति । तत्र संख्यावि-
प्रतिपत्तिनिराकरणार्थमाह— मानं द्विविधम् । यत्तत् प्रमाणमविसंवादित्वादज्ञाता-
र्थप्रकाशकत्वात् सामान्यलक्षणमुक्तम् , तद् द्विविधं प्रत्यक्षानुमानभेदेन । कस्माद् ?
विषयस्य स्वलक्षण-सामान्यलक्षणरूपतया द्वैविध्यात् । शाब्दादिकमपि हि
प्रमाणं भवत् सविषयं वक्तव्यम् । विषयश्च स्वसामान्यलक्षणादतिरिक्तो नास्ति ।
ततस्तद्विषयत्वे प्रत्यक्षानुमानतैव । नापि सामान्यविशेषात्मक एकोऽस्ति विषयः;
परस्परविरुद्धयोरेकात्म्यायोगात् ।
ननु कथं विषयद्वैविध्यसिद्धिः ? न प्रत्यक्षात्, नाप्यनुमानतः; यथाक्रमं
स्वलक्षणसामान्यलक्षणत्वादनयोः । द्वाभ्यां द्वयसिद्धिरिति चेत् ? ननु प्रत्यक्षस्य
सामान्यविषयत्वे साध्यसाधनसम्बन्धाग्रहणादनुमानमेव न स्यात् । सामान्य-
विषयत्वे च प्रत्यक्षत्वादेव तत्सिद्धेर्विफलमनुमानस्य प्रामाण्यकल्पनम् ?
अत्रोच्यते— प्रत्यक्षमपि स्वलक्षणं विषयीकुर्वत् तत्सम्भवि विजातीय-
व्यावृत्त्युपकल्पितं सामान्यं पृष्ठविकल्पेन निश्चिन्वत् तद्विषयमपि, निश्चयविषयेण
च प्रत्यक्षविषयव्यवस्था । एवं तर्हि स्वलक्षणविषयता न स्यादिति चेत् ? न;
सजातीयव्यावृत्तत्वेनापि ततो निश्चयात् । द्वे च व्यावृत्ती स्वलक्षणे स्तो निश्चीयेते च
प्रत्यक्षबलात् ।
न चैवमप्यनुमानस्य वैयर्थ्यम् । न हि सामान्यमित्येव प्रत्यक्षविषयः; परोक्षे
तस्याप्रवृत्तेः । न च यदेकदाऽपरोक्षं तत्सर्वदा तथा । स्वलक्षणं कदाचिदपरोक्ष-
प्रत्यक्षपरिच्छेदः ९९
शक्त्यशक्तितः ।
अर्थक्रियायाम्;
केशादिनार्थोऽनर्थाधिमोक्षतः ॥ १ ॥
सदृशासदृशत्वाच्च विषयाविषयत्वतः ।
शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः १ ॥ २ ॥
मध्यन्यदा परोक्षम्, एवं सामान्यमपि । ततोऽपरोक्षे सामान्ये गृहीतायां व्याप्तौ
परोक्षे तस्मिन्ननुमानप्रवृत्तिरिति न कश्चिद्विरोधः । तस्मात् प्रत्यक्षत्वाद्वा विषय-
द्वैविध्यसिद्धिः, प्रत्यक्षानुमानाभ्यां वेत्युभयथाप्युपपन्नम् ।
विषयद्वैविध्यमेव कस्माद् ? इत्याह—शक्त्यशक्तितोऽर्थक्रियायाम् ।
स्वलक्षणस्यार्थक्रियाशक्तत्वात्, विजातीयव्यावृत्त्युपकल्पितस्य च सामान्यस्याशक्त-
त्वाद् विषयद्वैविध्यम् । न ह्येकस्य विरुद्धाविमौ धर्मौ युज्येते । यद्यनर्थक्रियाकारि
सामान्यम्, केशोण्डुकज्ञानप्रतिभासि केशाद्यपि सामान्यं स्यात् ? न केशादिरर्थः
सामान्यरूपः, अनर्थाधिमोक्षतः । यत्र हि व्यवहर्तॄणामर्थाध्यवसायः सोऽर्थः
स्वलक्षणं सामान्यं वा स्यात् । यत्र पुनरर्थबुद्धिरेव नास्ति स कथं सामान्य-
मुच्यताम् ! ॥ १ ॥
तथा सदृशासदृशत्वाच्च विषयद्वैविध्यम् । सदृशं सामान्यम्; सर्वव्यक्ति-
साधारणत्वात् । असदृशं स्वलक्षणम्; सर्वतो व्यावृत्तत्वात् । अनयोश्चान्योन्य-
व्यवच्छेदरूपत्वात् न राश्यन्तरम् । ततो यदि कल्प्यमानं सदृशम्, तदा सामान्यमेव
तत् । अथासदृशम्, स्वलक्षणमेवेति द्वैविध्यमेव विषयस्य ।
तथा शब्दस्य विषयाविषयत्वतश्च द्वैविध्यम् । शब्दस्य विषयः
सामान्यम्, अविषयः स्वलक्षणम् । न च शब्दविषयाभ्यामन्योऽस्ति। सर्वस्य
संग्रहात् द्वैविध्यमेव ।
तथा विषयादन्येषां निमित्तानां मनस्कारवत् साद्गुण्यसंकेतग्रहणानां
भावे ग्राहिकाया धियः सामान्ये सत्त्वात् स्वलक्षणे चाभावात् विषयद्वैविध्यम् ।
यत्र विषयव्यतिरिक्तनिमित्तसद्भावे भवति बुद्धिः, तत् सामान्यम् । यत्र तु न भवति,
१. धीः० सदसत्त्वतः—रा० ।
१०० प्रमाणवार्त्तिके
सत्यद्वयविचारः
अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् ।
अन्यत् संवृतिसत् प्रोक्तम्; ते स्वसामान्यलक्षणे ॥ ३ ॥
सामान्यतत्कल्पनानिरासः
अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु ।
दृष्टा शक्तिः;
मता सा चेत् संवृत्या;
तत् स्वलक्षणम् । प्रकारान्तरञ्च न सम्भवतीति बुद्धिविषयाविषयत्वे सामान्य-
स्वलक्षणतैवेति द्वैविध्यमेव विषयस्य ॥ २ ॥
तदेवार्थक्रियासामर्थ्यादिकं स्वलक्षणादौ योजयन्नाह—अर्थक्रियायां
ज्ञानादिकायां स्वरूपोपधानेन समर्थं यत्, तदत्र वस्तुविचारे परमार्थसत् । एवं
यदसद्दृशं शब्दाविषयोऽन्यनिमित्तभावे ज्ञानाभावश्च, तत् परमार्थसत् । अतोऽन्यद-
शक्तं सदृशं शब्दविषयः, अन्यनिमित्तभावे बुद्धेर्विषयश्च तत् संवृतिसत् प्रोक्तम्;
कल्पनामात्रव्यवहार्यत्वात् । ते परमार्थसंवृती स्वसामान्यलक्षणे स्वलक्षण-
सामान्यलक्षणे इष्टे ॥ ३ ॥
सर्वसमर्थकारित्वेनेष्टमशक्तम् न किञ्चित् कर्तुं समर्थमिति चेत् ? बीजादेः
कारणाभिमतस्याङ्कुरादौ कार्यसम्मते दृष्टा शक्तिर्जननलक्षणा बीजान्वयव्यतिरेका-
नुविधाय्यङ्कुरो दृश्यते। इदमेव कारणस्य शक्तत्वं यत् प्रागदृष्टस्य तद्भाव एव भावः।
सा शक्तिः संवृत्या मता चेत्। कार्यकारणभावो हि व्यवहारमात्रतः सिद्धः,
न परमार्थतः । न तावत् प्रत्यक्षं तद्ग्रहणसमर्थम् ; बीजाङ्कुरग्राहिणोः प्रत्यक्षयोः
स्वविषयमात्रव्यवस्थापनात् केनान्वयव्यतिरेकग्रहणम् ! क्रमेण द्वयोर्गृहीतयोस्तद्-
बलभाविना स्मरणेन ग्रहणमिति चेत् ?
ननु केनान्वयव्यतिरेकौ गृहीतौ ? न प्रत्येकम् ; बीजाङ्कुरज्ञानाभ्यां स्वस्व-
विषयग्रहणात् । नापि द्वाभ्याम् ; ज्ञानयोर्ज्ञेययोश्च साहित्याभावात् । असाहित्ये
बीजाङ्कुरमात्रस्य ग्रहणम्, नान्वयव्यतिरेकयोः । क्रमग्रहणमेव कार्यकारणभावग्रह-
णम्, तत्तु घटकुलालयोरप्यस्ति इति चेत् ? न च क्रमोऽपि केनचिच्छक्यग्रहणः;
प्रत्यक्षपरिच्छेदः १०१
ऽस्तु यथा तथा ॥ ४ ॥
प्रतियोग्यवेदनात् । पूर्वापरग्रहणमत एव नास्ति; स्वज्ञानेन वर्तमानताग्रहणाच्च ।
कार्यकाले च कारणं पूर्वमुच्यते, तदा च तदेव नास्ति । तदेतन्मृतस्यारोग्यम् ।
अथ यदैव बीजं तदैवाङ्कुरात् पूर्वम्; न तु पश्चाद् अस्य पूर्वत्वं सम्भवति ।
नन्वेवं पूर्वतया प्रतिभासोऽस्य प्राप्तः, न चैतदस्ति, अङ्कुरराहित्यं१
पूर्वत्वम्, तच्च गृह्यत एवेति चेत् ? तादृशं पूर्वत्वमन्येषामप्यस्तीति तेऽपि कार-
णानि स्युः ! किञ्च—पूर्वत्वं वर्तमानकालात् प्राग्भावित्वमुच्यते, तद्यदि वस्तुनो
रूपं तदा वर्तमानं कदापि न स्यात्; वर्तमानतात्प्राग्भावित्वयोर्विरोधात् ।
स्यादेतद् — अङ्कुरवर्तमानतायाः प्राग्भावित्वं पूर्वत्वम्, तच्च बीजस्य वर्त-
मानत्वेनाविरुद्धमिति न तस्याभावः ? एवं तर्हि बीजग्रहणे पूर्वताग्रहणं प्राप्तम् ।
न च बीजस्वरूपमिव पूर्वतामपि तद्ग्राहिणि ज्ञाने कश्चिदुपलभते ।
नन्वापेक्षिकमिदं पूर्वत्वम्, प्रतियोगिनोऽप्रतीतौ कथं प्रतीयेताम् ? यद्येवम्,
वस्तुतो२ नेदं केवलं भावान्तरापेक्षया व्यवह्रियत इत्यायातम् । न हि वस्तुरूपं
सति वस्तुनि नास्ति, यच्चास्ति तेन वस्तुरूपावभासिनि ज्ञाने प्रतिभासित-
व्यमेव; अन्यथा ज्ञानज्ञेययोर्विषयविषयितैव न स्यात् । तस्मान्नाध्यक्षात् कार्य-
कारणताग्रहः । अतश्च नानुमानादपि । न हि सर्वदा परोक्षेऽर्थेऽनुमानप्रवृत्तिः;
व्याप्तिग्रहणपूर्वकत्वात् तस्य । नापि प्रत्यक्षबलभावि स्मरणं तद्ग्रहणप्रवणम् । न
हि तत् स्वतन्त्रं प्रमाणम्, किन्तु प्रमाणव्यापारव्यवस्थापकम् । यदि यथानुभवं
प्रवर्त्तते, नान्यथा । न च कार्यकारणभावानुभवो भूत इत्युक्तम् । अतः स्मरणत्व-
मप्यस्य नास्ति; अनुभूतविकल्पस्य स्मरणत्वात् । ततो विकल्पमात्रमेतत्, न ततो
वस्तुव्यवस्थेति संवृत्यैवाविचारितरमणीयया कार्यकारणभावव्यवहारः, न परमार्थतः ।
अस्तु यथा तथा । सांवृतमपि कार्यकारणभावमाश्रित्य साध्यसाधना-
दिव्यवहारसंवादसम्प्रत्ययात् समाप्तो लोकव्यवहारः । सांव्यवहारिकञ्च प्रमाणं
तावतैव सुस्थम् ॥ ४ ॥
१. अङ्कुरसाहित्यं —रा० । २. वस्तुनो —रा० ।
१०२ प्रमाणवार्त्तिके
सामान्यविचारः
सास्ति सर्वत्र चेद् बुद्धेरन्वयव्यतिरेकयोः ।
सामान्यलक्षणेऽदृष्टेः चक्षूरूपादिबुद्धिवत् ॥ ५ ॥
एतेन समयाभोगाद्यन्तरङ्गानुरोधतः ।
घटोत्क्षेपणसामान्यसंख्यादिषु धियो गताः ॥ ६ ॥
केशादयो न सामान्यमनर्थाभिनिवेशतः ।
सार्थक्रिया सर्वत्र स्वलक्षणे सामान्येऽप्यस्ति चेत् ? न सामान्यलक्षणे ।
अस्तु तावदन्यस्य कार्यस्य बुद्धेरप्यन्वयव्यतिरेकयोरदृष्टेः । अन्त्यं हि
भावानां कार्यं बुद्धिः । सापि यदन्वयव्यतिरेकौ नानुविधत्ते, तस्य कुतोऽर्थ-
क्रिया ! प्रत्यक्षं तावन्न सामान्यविषयम् ; स्वलक्षणमात्रस्य प्रतिभासनात् । घट
इत्यादिविकल्पबुद्धिस्तु सामान्यावसायात् तद्विषया । सापि समयाभोगादिमात्रा-
दुत्पत्तेर्न सामान्यान्वयव्यतिरेकानुविधायिनी, चक्षूरूपादिबुद्धिवत् चक्षूरूपादिज-
बुद्धेः चक्षुराद्यन्वयव्यतिरेकानुविधानमिव सामर्थ्ये सति भावाद् एकापायेऽप्य-
भावाच्च । नैवं सामान्यबुद्धिराभोगमात्रादुत्पत्तेः ॥ ५ ॥
एतेन सामान्यस्य ज्ञानमात्रकार्येऽप्यसामर्थ्यकथनेन समयाभोगादेरन्त-
रङ्गस्यानुरोधतः । घटोऽवयवि द्रव्यम्, उत्क्षेपणं कर्म, सामान्यं संख्या,
गुणः समवायः, आदिशब्दात् संयोगविभागादयः, तेषु या धियो विकल्पिका
भवन्ति ता गता व्याख्याताः । न हि रूपाद्यतिरिक्तं द्रव्यम् । अपरापरदेशि-
जन्यहस्तादिक्षणाद् भिन्नं कर्म, व्यक्तिव्यतिरेकि सामान्यं प्रत्यक्षबुद्धाववभासते ।
विकल्पबुद्धिस्तु कल्पिका । सा च संकेतसंस्कारप्रबोधमात्रभाविनी, नार्थाधीनेति
न तेषां सामर्थ्यं समर्थयति ॥ ६ ॥
ननु यद्यर्थनिरपेक्षाणामन्यनिमित्तानां भावे यत्र बुद्धिस्तत्सामान्यम्, तदा
तैमिरिकबुद्धिप्रतिभासिनः केशादयोऽपि सामान्यं स्युः; तेष्वपि धियोऽर्थनिरपेक्ष-
चक्षुरादिमात्रनिमित्तत्वाद् ? इत्याह—केशादयस्तैमिरिकप्रतिभासिनो न सामा-
न्यम् ; अनर्थाभिनिवेशतः । न हि तेषु विषयबुद्धिर्व्यवहारिणाम् । विषये च
सामान्यचिन्तेयम् । यदि ज्ञेयत्वेनाध्यवसायाभावान्न सामान्यम्, तदाऽभावो-
प्रत्यक्षपरिच्छेदः १०३
ज्ञेयत्वेन ग्रहाद् दोषो नाभावेषु प्रसज्यते ॥ ७ ॥
तेषामपि तथाभावेऽप्रतिषेधात्;
स्फुटाभता ।
ज्ञानरूपतयार्थत्वात्;
केशादीति मतिः पुनः ॥ ८ ॥
सामान्यविषया; केशप्रतिभासमनर्थकम् ।
ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते ? ॥ ९ ॥
ऽप्यनुपलब्धिविषयः सामान्यं न स्याद्, ततश्चानुपलब्धिरनुमानं न भवेदित्याह—
नाभावेषु सामान्यरूपत्वाभावदोषः प्रसज्यते; ज्ञेयत्वेन ग्रहात् । यद्यप्य-
भावेऽर्थरूपताया अध्यवसायो नास्ति, ज्ञेयतया त्वस्ति लोकस्य । तच्च ज्ञेयं
यदर्थकारि तत् सामान्यमेव ॥ ७ ॥
यदि तु तेषां तैमिरिकगम्यानां केशादीनामपि तथाभावे ज्ञानान्तरेण
ज्ञेयत्वे समानरूपतेष्यते, तदाऽप्रतिषेधादिष्टमेवास्माकम् । तैमिरिकज्ञानगम्याः
केशादय इति यदा बुद्धयन्तरेण परामृश्यन्ते, तदा केशादयो ज्ञेयत्वेन सामान्य-
मिष्टा एव ।
यदि तैमिरिकदृष्टाः केशादयो न वस्तु, तदा स्फुटाभता न स्याद् ?
इत्याह—ज्ञानरूपतया ज्ञानाकारतया केशादीनामर्थत्वात् । स्वलक्षणत्वात्
स्फुटाभता ।
यदि ज्ञानाकारतया केशादयः स्वलक्षणम्, तदा सामान्यं कथम् ? इत्याह—
केशादीति पुनर्विकल्पिका मतिः तैमिरिकोपलब्धकेशाद्यध्यवसायिनी सामान्य-
विषया । अयमर्थः—तैमिरिकदृष्टं केशादि सामान्यरूपेण व्यवसन्ती विकल्पिका
बुद्धिरध्यवसायेन विषयेण सामान्यविषया । तैमिरिकधीस्तु स्वलक्षणविषया;
बुद्ध्याकारस्य स्वलक्षणत्वात् ॥ ८ ॥
किं तर्हि निर्विषयम् ? इत्याह—तैमिरिककेशप्रतिभासं ज्ञानमनर्थकम्;
बाह्यकेशाभावात् ।
ननु ज्ञानरूपतयार्थत्वे केशादीति विकल्पबुद्धिप्रतिभासिनि सामान्ये
स्वलक्षणता प्रसज्यते चेत् ? ॥ ९ ॥
१०४ प्रमाणवार्त्तिके
तथेष्टत्वाददोषः;
अर्थरूपत्वेन समानता ।
सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात् ॥ १० ॥
न तद् वस्त्वभिधेयत्वात् साफल्यादक्षसंहतेः ।
नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि ॥ ११ ॥
असम्बन्धिनि नामादावर्थे स्यादप्रवर्त्तनम् ।
तथा ज्ञानाकारतया सामान्यस्यापि स्वलक्षणताया इष्टत्वाददोषः ॥
कथं तर्हि सामान्यरूपता ? इत्याह—अर्थरूपत्वेनाध्यवसीयमानज्ञेयरूप-
त्वेन समानता, न तु बुद्ध्याकारत्वेन ।
कथं पुनरर्थरूपत्वेनापि समानता ? इत्याह—सर्वत्र व्यक्तिषु तद्व्यावृत्ति-
समाश्रयात् विजातीयव्यावृत्त्याश्रयेण दृश्यविकल्प्यैकत्वाध्यवसायादुपकल्पितस्य
सामान्यस्य समरूपत्वात् साधारणरूपत्वादर्थत्वेन सामान्यमुच्यते; ज्ञानाकारस्य
सामान्यस्य सम्प्रति व्यतिरिक्तस्य च पूर्वं प्रतिषेधात् ॥ १० ॥
रूपादिसद्भावमेवाविशेषेण सामान्यं किं नेष्यते ? इत्याह—तत् सामान्यं न
वस्तुरूपादिस्वभावम्; अभिधेयत्वात् । शब्दधर्मवत् सामान्यं शब्दज्ञानगोचरः ।
न च शब्दविषयो वस्तु । कस्माद् ? इत्याह—साफल्यादक्षसंहतेः । यदि
शब्दविषयो वस्तु भवेत्, तदा रूपादिशब्दादेवार्थादिरपि रूपादिप्रतीतौ न
किञ्चिदक्षैः, न चैवम्, ततो वस्तुविषयेणेन्द्रियज्ञानेन शब्दस्य न तुल्यविषयता ।
तथा चावस्तुतैव शाब्दज्ञानावभासिनः सामान्यस्य, न रूपादिता ।
ननु रूपादयो न शब्दस्य विषयः, किं तर्हि ? नामनिमित्ते विप्रयुक्तसंस्कार-
संज्ञे, ते विज्ञानाद् व्यतिरिक्ते वैभाषिकस्येष्टे ? तदापि नामादिवचन इष्य-
माणे किं तन्नामादिकं वक्तरि श्रोतर्यर्थे वा सम्बद्धमसम्बद्धमेव वा क्वचित् !
सर्वथा वक्तृश्रोतृवाच्यानुबन्धिनि असम्बन्धिनि वा नामादौ शब्देन
चोदितेऽर्थेऽप्रवर्त्तनं स्याद् ; अचोदितत्वात् ॥
भवतु तावदन्यसम्बन्धिनि असम्बन्धिनि वा नामादावर्थेऽप्रवर्त्तनम्, अर्थ-
सम्बन्धिनि तु कथमप्रवृत्तिः, अचोदितत्वात् । न हि देवदत्ते प्रतिपादिते तत्-
प्रत्यक्षपरिच्छेदः १०५
सारूप्याद् भ्रान्तितो वृत्तिरर्थे चेत् स्यान्न सर्वदा ॥ १२ ॥
देशभ्रान्तिश्च,
न ज्ञाने तुल्यमुत्पत्तितो धियः ।
तथाविधायाः;
अन्यत्र तत्रानुपगमाद् धियः ॥ १३ ॥
बाह्यार्थप्रतिभासाया उपाये वाऽप्रमाणता ।
विज्ञानव्यतिरिक्तस्य;
व्यतिरेकाप्रसिद्धितः ॥ १४ ॥
पितरि प्रवृत्तिः । निमित्तस्यार्थसारूप्यात् तद्भ्रान्तितोऽर्थे प्रवृत्तिश्चेत् ?
सम्भाव्यत एतत्, किन्तु न स्यात् सर्वदा । न हि यमलकयोर्नियमेन भ्रान्त्या-
ऽन्यत्र प्रवृत्तिः, कदाचित् तत्रापि दर्शनात् । तथा देशभ्रान्तिश्च न स्यात् ।
वक्तृश्रोत्रादिसम्बन्धिनि नियतदेशे नामादौ प्रतिपादिते तदन्यदेशे घटादौ
सारूप्यादपि न युक्ता प्रवृत्तिः ॥ ११-१२ ॥
ननु तन्मतेऽपि ज्ञानाकारस्याभिधेयत्वात् कथं बाह्ये प्रवृत्तिः ? इत्याह — न
ज्ञाने ज्ञानाकारे वाच्येऽर्थेऽप्रवर्तनं तुल्यम् । धियस्तथाविधाया बहिस्त्वेना-
ध्यवसिताकाराया उत्पत्तितः । शब्दजनिता हि बुद्धिवस्तुतः स्वांशालम्बनाप्य-
नाद्यविद्यावशाद् बहिर्विषया व्यवसीयत इति युक्तमर्थे प्रवर्तनम् ।
अन्यत्र नामादिविषयिणि ज्ञाने तदर्थाध्यवसायात् अर्थे प्रवर्तनं न युक्तम्;
निराकारबुद्धिवादि वैभाषिकमते बाह्यार्थप्रतिभासाया ज्ञानाकाराया धियोऽनुप-
गमतः ॥ १३ ॥
यदि ज्ञेयाकारा बुद्धिः स्यात्, स्यात् तत्प्रतीत्याऽभिमानात् प्रवृत्तिरपि ।
अप्रवृत्तिदोषदर्शनाद् बाह्यार्थप्रतिभासाया बुद्धेरुपाये स्वीकारे वाऽप्रमाणता
नामादेः विप्रयुक्तसंस्कारस्य विज्ञानव्यतिरिक्तस्य ।
कथम् ? इत्याह-व्यतिरेकाप्रसिद्धितः प्रतिभासमानस्याकारस्य ज्ञानत्वात् ।
न चेन्द्रियादिषु सत्स्वपि विज्ञानकार्यानुत्पत्तितोऽर्थ इव नामादिरपि शक्यव्यव-
स्थानः । न हि गृहीतसंकेतस्य शब्दश्रुतौ क्वचिदर्थाप्रतिपत्तिः ॥ १४ ॥
१०६ प्रमाणवार्त्तिके
सर्वज्ञानार्थवत्त्वाच्चेत् स्वप्नादावन्यथेक्षणात् ।
अयुक्तम्,
न च संस्कारान्नीलादिप्रतिभासतः ॥ १५ ॥
नीलाद्यप्रतिघातान्न; ज्ञानं तद् योग्यदेशकैः ।
अज्ञातस्य स्वयं ज्ञानात्, नामाद्येतेन वर्णितम् ॥ १६ ॥
सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता ।
अर्थसामर्थ्यदृष्टेश्चेदन्यत् प्राप्तमनर्थकम् ॥ १७ ॥
नन्वस्ति प्रमाणम् ; सर्वस्य ज्ञानस्यार्थवत्त्वात् । शाब्दमपि ज्ञानमर्थवदेव ।
न च रूपादयो विषय इति पारिशेष्यान्नामादिकमेवेति चेत् ? स्वप्नादौ, आदि-
शब्दात् तैमिरिकज्ञानादिषु, अन्यथा अर्थशून्यस्येक्षणात् सर्वज्ञानार्थवत्त्वाच्छा-
ब्दस्य¹ नामादिविषयत्वानुमानमयुक्तम् । स्वप्नविज्ञानमपि निमित्तविषयमेवेति चेद् ?
आह—न च संस्कारान्निमित्ताख्यात् स्वप्नज्ञानं नीलादेर्वर्णसंस्थानविशेषतः
प्रतिभासतः । न च विप्रयुक्तसंस्कारो वर्णसंस्थानविशेषवान् ॥ १५ ॥
नीलादिरेवासावर्थ इति चेत् ? स्वप्नप्रतिभासि न नीलादि वस्तु;
अप्रतिघातात् । नीलादयो ह्यर्थाः स्वदेशे पदार्थान्तरस्य व्याघातकाः, स्वप्नोप-
लब्धास्तु नैवम्; पिहितद्वारावरकोदरसुप्तस्थानान्तरगमनात्² हस्तियूथादिदर्शनात् ।
किं तर्हि तद् ? इत्याह—ज्ञानं तत् नीलादि योग्यदेशकैः स्वप्नायमा-
नेन समानदेशैः पुरुषान्तरैरज्ञातस्य स्वयंज्ञानात् । स्वयंवेद्यमसामान्यमिति
ज्ञानलक्षणम् । तच्च स्वप्नदृष्टनीलादिषु व्यक्तम् ।
एतेन स्वप्नदृष्टस्य ज्ञानत्वसाधनेन नामादि वर्णितम् । नामादिकमपि
तन्न भवति, योग्यदेशकैरज्ञातस्य स्वयंज्ञानात् ज्ञानं तत् । तस्मान्नास्त्यर्थः
सामान्यबुद्धिरिति ॥ १६ ॥
अपि च—यैव रूपादिविषयत्वेनेष्टा सैव चक्षुरादिमतिरर्थवती केन हेतुना
मता । अर्थस्य रूपादेश्चक्षुरादिमतिजनने सामर्थ्यदृष्टेश्चेत् ? अन्यत्³
१. ०ज्ञानार्थवच्छाब्दस्य—रा० । २. पिहितद्वाराववरको०—रा० ।
३. अन्यसामान्य०—रा० ।
प्रत्यक्षपरिच्छेदः १०७
अप्रवृत्तिरसम्बन्धेऽप्यर्थसम्बन्धवद् यदि ।
अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात् ॥ १८ ॥
सामान्यग्रहणाच्छब्दादप्रसङ्गो मतो यदि ।
तन्न केवलसामान्याग्रहणाद् ग्रहणेऽपि वा ॥ १९ ॥
अतत्समानताव्यक्तौ तेन नित्योपलम्भनम् ।
नित्यत्वाच्च यदि व्यक्तिर्व्यक्तेः प्रत्यक्षतां प्रति ॥ २० ॥
सामान्यविषयं विकल्पज्ञानमनर्थकं प्राप्तम् । न हि यथा चक्षुरादिबुद्धेरर्थव्यति-
रेकाद् व्यतिरेकः, तथा सामान्यबुद्धेर्व्यतिरेकः; आभोगमात्रेण भावात् ॥ १७ ॥
न केवलं वक्तृश्रोतृसम्बन्धिनि, असम्बन्धेऽपि नामादार्थे प्रवृत्तिः स्यात्।
अर्थसम्बन्धवत् नामाद्यर्थे प्रवृत्त्यर्थं यदीष्यते, तदा अतीतानागतं नामादि
तदभिधायिनां शब्दानां वाच्यं न स्यात् — अभूत मान्धाता भविष्यति शंख-
श्चक्रवर्तीति ।
कस्माद् ? इत्याह — अर्थेनातीतानागतेन सह तस्य नामादेः सम्बन्धो १
न १ स्यात् ; स्वरूपाभावात् ॥ १८ ॥
अथ शब्दात् सामान्यग्रहणात् तत्प्रतीत्या फलवन्त्यक्षाणीति तेषां
वैफल्यस्याप्रसङ्गो मतो यदि ? तदेतन्न युक्तम्; केवलस्य व्यक्तिशून्यस्य
सामान्यास्याग्रहणात् । व्यक्तिव्यंग्यं हि सामान्यं व्यञ्जकाग्रहणे कथं गृह्यते !
केवलस्य ग्रहणेऽपि वा अतत्समानताव्यक्तौ । यत्प्रतीत्या यत्प्रतीयते तद्
तस्य सामान्यम् , व्यंग्यम् । स्वतन्त्रप्रतीतिस्तु न सामान्यं व्यङ्ग्यं वा । तेना-
पराधीनप्रतीतित्वेन नित्योपलम्भनं सामान्यं प्राप्तम् । व्यक्तिसदसत्त्वयोरप्युप-
लब्धिः स्यात् ; स्वप्रतीतौ व्यक्तिनिरपेक्षत्वात् । तथोपलभ्यस्वभावस्य सामान्यस्य
नित्यत्वाच्च नित्यमुपलम्भनं भवेत् , यदि व्यक्तेर्विशेषात् व्यक्तिरभिव्यक्तिः
सामान्यस्य प्रत्यक्षतां प्रति प्रत्यक्षभावनिमित्तमिष्टा । प्रत्यक्षभूतसामान्यविषया
प्रतीतिर्व्यञ्जिकाया व्यक्तेर्भवति । अन्या तु सामान्यबुद्धिर्व्यञ्जकमन्तरेणापि ॥
१९–२० ॥
१-१. सम्बन्धिनः—रा० ।
१०८ प्रमाणवार्त्तिके
आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् ।
अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥ २१ ॥
तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।
नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः ! ॥ २२ ॥
तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते ।
नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः ॥ २३ ॥
प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् ।
सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः ॥ २४ ॥
ननु यत् सामान्यमात्मनि प्रत्यक्षात्मकज्ञानजनने व्यञ्जकव्यापारकाले
शक्तम्, अन्यदापि शक्तमेव; तन्नित्यैकस्वभावतयाऽनुपकार्यत्वात् । ततश्च
केवलस्य सामान्यस्य प्रत्यक्षजननादक्षवैकल्यप्रसङ्गः । अथाशक्तं तत् कदाचित्
केवलाद्यवस्थायाञ्चेत् ? तदा सर्वदैवाशक्तं तदुपेयम्; एकस्य स्वभावद्वयायोगात्,
स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य ॥ २१ ॥
एतदेव स्फुटयति—तस्य सामान्यस्य शक्तिरशक्तिर्वा स्वविषयज्ञान-
जननादौ या स्वभावेन संस्थिता, तां शक्तिमशक्तिं वा नित्यत्वादचिकित्स्य-
स्यानपनेयप्राचीनस्वभावस्य कोऽन्यः क्षपयितुं क्षमः ॥ २२ ॥
किन्तु यत्तद्व्यक्तिनिरपेक्षमिष्टं तच्च सामान्यविज्ञानमनुरुन्धन् विषय-
भावेनानुवर्तमानो यो विभाव्यते नीलाद्याकारलेशोऽसम्पूर्णस्फुटीभावः, स
तस्मिन् सामान्यज्ञाने केनार्थेन निर्मितः । न तावज्जात्या; तस्यास्तदसम्भवात् ।
नापि व्यक्त्या; तत्र तस्या अप्रतिभासनात् । ततश्च केवलसामान्यग्राहि तत्
ज्ञानमिति न युक्तम् । विशेषग्रहणे चाक्षवैफल्यं तदवस्थम् ॥ २३ ॥
स्यादेतत् । द्विविधो भावानां प्रत्ययः—प्रत्यक्षः, अप्रत्यक्षश्च । तत्र शब्दादि-
भावेषु प्रत्ययोऽप्रत्यक्षः, प्रत्यक्षस्तु अक्षेभ्य इति न तद्वैफल्यम् ? अत्राह—
सैव प्रत्यक्षाप्रत्यक्षाभासा भिन्नाभासा मतिः, एकरूपात् शब्दादेः, आदि-
शब्दाद् गन्धरसादेः, कुतः ? एकरूपविषया च भिन्नप्रतिभासा चेति
विरुद्धम् ॥ २४ ॥
प्रत्यक्षपरिच्छेदः १०९
न जातिर्जातिमद् व्यक्तिरूपं येनापराश्रयम् ।
सिद्धम्; पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते ॥ २५ ॥
निष्पत्तेरपराधीनमपि कार्यं स्वहेतुतः ।
सम्बध्यते कल्पनया किमकार्यं कथञ्चन ॥ २६ ॥
अन्यत्वे तदसम्बद्धं सिद्धाऽतो निःस्वभावता ।
जातिप्रसङ्गोऽभावस्य न;
अपेक्षाभावतस्तयोः ॥ २७ ॥
तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता ।
किञ्च—जातिर्जातिमतो रूपाद् भिन्ना ? अभिन्ना वा ? तत्र न तावद्
जातिर्जातिमदेव व्यक्तिरूपं येन कारणेनापराश्रयमनन्यानुयायि सिद्धम् ।
न ह्येकस्या व्यक्ते रूपमन्यत्रास्ति । सर्वानुयायि च सामान्यमिष्टम् । व्यक्तेः सकाशात्
पृथक् चेत् सामान्यम् । अस्येदं सामान्यमिति भाविकसम्बन्धानुपत्तिः । अपेक्षा-
लक्षणः सम्बन्धश्चेत् नन्वपेक्षेति कार्यत्वमुच्यते तत्सामान्यस्य नित्यस्या-
सम्भवि ॥ २५ ॥
कार्यमपि निष्पत्तेर्नित्यत्वादपराधीनं सर्वत्र निराशंशम्, वस्तुतो न क्वचित्
सम्बध्यते । केवलं कल्पनया कारणात्मनि सम्बध्यते । यत्तु कथञ्चन सामा-
न्यमकार्यं तत् किं क्वचित् सम्भत्स्यते ! ॥ २६ ॥
तस्माद् व्यक्तेः सकाशादन्यत्वे तत् सामान्यमसम्बद्धम्, अतोऽस्य
निःस्वभावता सिद्धा; व्यक्तिभ्यस्तत्त्वान्यत्वाभ्यां व्यवस्थापयितुमशक्यत्वात् ।
यद्यपि निःस्वभावा जातिः, तथापि नाभावस्य शशविषाणादेरपि जातेर्जातिरूपतायाः
प्रसङ्गः । न हि यो योऽभावः स जातिरुच्यते; किन्तु सामान्यं यत्तन्निःस्वभावम् ।
ननु निःस्वभावत्वे कथं सामान्यम् ? इत्याह—अपेक्षाभावतस्तयोः शाब-
लेयागोव्यावृत्त्योः परस्परमपेक्षाभावतस्तद्व्यावृत्तिरेव सामान्यम्, न शशविषाणादिः।
न हि तदपेक्षा क्वचिदस्ति । अतद्व्यावृत्तिस्तु निःस्वभावाप्यनुगामिप्रत्ययहेतुः
सामान्यम्; अभावत्वमिव प्रागभावादिषु, पदार्थत्वमिव द्रव्यादिषु ॥ २७ ॥
तस्माद् वस्तुतो जातिरूपा निःस्वभावा, रूपाणां शाबलेयादीनां नाश्रये-
११० प्रमाणवार्त्तिके
तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते ॥ २८ ॥
तस्यां रूपावभासोऽयं तत्त्वेनार्थस्य वा ग्रहः ।
भ्रान्तिः सा;
अनादिकालीनदर्शनाभ्यासनिर्मिता ॥ २९ ॥
अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् ।
यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥ ३० ॥
सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् ।
अर्थभ्रान्तिरपीष्येत सामान्यं सापि;
अभिप्लवात् ॥ ३१ ॥
णोपकल्पिता जातिः शब्दैस्तद्विशेषावगाहार्थैः । ते च ते विशेषाश्च तद्वि-
शेषाः, तेषामवगाहः प्रवृत्तिविषयत्वेन व्यापनम्, सोऽर्थः प्रयोजनं येषां तैः सकृ-
देककार्यनेकप्रतिपत्त्यर्थं तदाश्रयेणोपकल्पिता जातिरतद्व्यावृत्तिलक्षणा शब्दैर-
भिधेया ॥ २८ ॥
यदि जातिर्निःस्वभावा, कथं स्वभावविशिष्टा व्यवसीयते ? इत्याह—तस्यां
जातौ रूपस्य स्वभावस्यावभासो यस्तत्त्वेन जातिस्वभावेन वार्थस्य यो ग्रहो
भ्रान्तिः, सा जातेर्निःस्वभावत्वात् विशेषात्मकत्वाभावात् ।
किं तर्हि भ्रान्तेर्बीजम् ? इत्याह—अनादिकालीनानामनादिकालिकानां
तथाभूताध्यवसायज्ञानानामभ्यासेन निर्मिता ॥ २९ ॥
यद्यन्यव्यावृत्तिः सामान्यम्, किं तस्य रूपम् ? इत्याह—अर्थानां विशेषाणां
यच्च सामान्यमन्यव्यावृत्तिलक्षणम् । यन्निष्ठा यद्विषयास्ते इमे सांकेतिकाः
शब्दास्तस्य रूपं स्वभावो न किञ्चन; वस्तुतः कल्पितत्वात् ॥ ३० ॥
ननु बुद्ध्याकारः स स्वभावः, स एव तर्हि सामान्यं भविष्यति ? इत्याह—
सामान्यबुद्धावरूपायां ग्राह्यरूपरहितायामपि सामान्येन विजातीयव्यावृत्त्युप-
कल्पिता भेदेनाकारेण भेदेष्वर्थेष्ववीक्षणात् सामान्यमपि यद्व्यवस्थाप्यते साप्य-
र्थभ्रान्तिरिष्येत विवेचकैः । न हि बुद्ध्याकारः सामान्यमुक्तम्; स्वलक्षणत्वात् ।
अर्थनिष्ठतया तु सामान्ये गृह्यमाणेऽर्थभ्रमः; तथा बुद्ध्याकारस्यार्थरूपत्वेन
प्रत्यक्षपरिच्छेदः १११
अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी ।
निःस्वभावतयाऽवाच्यं कुतश्चिद् वचनान्मतम् ॥ ३२ ॥
यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन ।
नैव वाच्यमुपादानभेदाद् भेदोपचारतः ॥ ३३ ॥
अतीतानागतेऽप्यर्थे सामान्यविनिबन्धनाः ।
श्रुतयो निविशन्ते सदसद्धर्मः कथं भवेत् ! ॥ ३४ ॥
उपचारात् तदिष्टं चेद् वर्तमानघटस्य का ।
प्रत्यासत्तिरभावेन या पटादौ न विद्यते ॥ ३५ ॥
व्यक्तिष्वभिप्लवात् अभिसम्बन्धात्, तत्त्वेनार्थरूपत्वेनाभावाच्च न रूपिणी
तथा भूतबाह्यविषयवती सामान्यबुद्धिः अतश्च । ततश्च निःस्वभावतया सामान्यं
भेदाभेदाभ्यामवाच्यं व्यक्तिभ्यः । स्वभावं हि भिन्नमभिन्नं वा स्यात् । कुतश्चिद्-
सामान्यात् भेदेन वचनात् यदि वस्तुसामान्यं मतम् ॥ ३१–३२ ॥
यद्येवम्, व्यक्तेरपि भेदाभेदाभ्यां वाच्यं स्यात्, यस्मान्न वस्तूनामवाच्यत्वं
कथञ्चन । तथा हि सामान्यं स्वरूपवत्त्वात् सामान्यान्तराद् भेदेनोच्यते, तथा
व्यक्तेरपि तत्त्वान्यत्वाभ्यां यथासम्भवमुच्येत । तस्माद्यत् कुतश्चिदपि वस्तुनस्त-
त्त्वान्यत्वाभ्यामवाच्यं तद्वस्त्विति सविशेषणो हेतुः । अथ वा—निर्विशेषणे
हेतौ नासिद्धिः; यतः सामान्यान्तरादपि सामान्यं भेदेन नैव वाच्यम्;
उपादानस्य कर्कशबलेयादिभेदात् तदाश्रयोत्पन्नबुद्धयालम्बनाश्वत्वगोत्वादीनां
भेदस्योपचारात् ॥ ३३ ॥
किञ्च—अतीतानागतेऽप्यर्थे सामान्यविनिबन्धनाः सामान्याश्रयाः
श्रुतयो निविशन्ते व्यवतिष्ठन्ते, ‘आसीत् घटो भविष्यति’ इत्यादयः । तथा
चासतो घटस्य सामान्यं धर्म इत्युक्तं स्यात् । तच्च सामान्यं सदसतोऽती-
तादेर्धर्मः कथं भवेत् । न हि तैक्ष्ण्यं शशविषाणस्य भवति ॥ ३४ ॥
अथोपचारात् सदसद्धर्मत्वमिष्टं सामान्यस्य न वस्तुत इति चेत् । सति
घटे तद्धर्मतादृष्टेरसत्यपि तस्मिन् सा कल्प्यत इत्यर्थः । ननु सामान्यसम्बन्धि-
नोऽपि घटस्याभावेनातीतादिघटलक्षणेन का प्रत्यासत्तिरुपचारनिबन्धनमस्ति
बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयोः सदा ।
सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी ॥ ३६ ॥
यत्र रूढ्याऽसदर्थोऽपि जनैः शब्दो निवेशितः ।
स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्गतिः ॥ ३७ ॥
यथा भावेऽप्यभावाख्यां यथाकल्पनमेव वा ।
कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः ॥ ३८ ॥
या पटादौ न विद्यते यदभावात् घटसम्बन्धिता सामान्यस्य पटे नोपचर्यते ।
सादृश्यं प्रत्यासत्तिरिति चेत् ? तन्न; सदसतोः सादृश्याभावात् । प्राक् तादृगा-
सीदिति चेत् ? यदासीन्न तदा तदुपचारः; सम्बन्धस्य सत्त्वात् । यदा यन्नास्ति
तदापि न सादृश्यम् । सति च किञ्चिदुपचर्येत, नासति ॥ ३५ ॥
किञ्च—मुख्यारोपितयोरर्थयोर्बुद्धेर्ग्राहिकाया अस्खलिता दृढा वृत्तिः ।
तद्भाववृत्तिश्च सदा । यथा सिंहे माणवके च सिंहबुद्धेरस्खलिता, स्खलिता
च वृत्तिरिति लौकिक्यपि घोषणास्ति, न केवलं प्रामाणिकी । न चातीतानागत-
घटादिबुद्धिः स्खलन्ती जायते, येनातीतानागतव्यक्तिधर्मता सामान्यस्यारोपिता
स्यात् ॥ ३६ ॥
तस्माद् यत्र विषयेऽसदर्थो वाच्यरहितोऽपि शब्दो रूढ्या वाचकत्वेन जनै-
र्निवेशितः संकेतितः स मुख्यः; तत्रार्थे तत्साम्यात् । तद्विषयसादृश्याद-
न्यत्र स शब्दः स्खलद्गतिरदृढतया प्रत्ययहेतुः गौणः । ततश्च सदर्थविषयत्वं
मुख्यत्वम्, असदर्थविषयत्वञ्चामुख्यत्वमिति मुख्यगौणलक्षणमपास्तम्; संकेतवशेन
नियमाभावात् ॥ ३७ ॥
यथा भावेऽपि पुत्रादौ तत्कार्यासामर्थ्यादसत्कल्पेऽभावाख्यां शशविषाणं
बन्ध्यासुत इत्यादिकां जनः कुर्यात् । तत्र भावेऽप्यमुख्योऽभावशब्दः, अभावे
तु मुख्यः । तथा यथाकल्पनमेव; सांख्याद्यभिमते वस्तुतोऽशक्ते प्रधानादौ
शक्ते वा पुरुषादावनेककार्यसमर्थे तत्साम्यात् प्रधानादिश्रुतिं जनः कुर्यात् ।
स प्रधानशब्दोऽभाव एव मुख्यः, भावे चामुख्यः । तस्मात् सदसदर्थविषयता
मुख्यगौणविषयतेति व्यभिचारि लक्षणम् ॥ ३८ ॥
प्रत्यक्षपरिच्छेदः ११३
शब्देभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेऽपि दृश्यते ।
तादृश्येव,
सदर्थानां नैतच्छ्रोत्रादिचेतसाम् ॥ ३९ ॥
सामान्यमात्रग्रहणात् सामान्यं चेतसोर्द्वयोः ।
तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम् ॥ ४० ॥
परस्परविशिष्टानांमविशिष्टं कथं भवेत् ! ।
तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत् ! ॥ ४१ ॥
यथासंकेतमेव तु शब्दवृत्तिरिति युक्तम्, न चैतद् वस्तुविषयत्वे न्याय्यम् ।
तथा हि—शब्देभ्यो यादृशी यादृशाकारा बुद्धिः नष्टे विषये, तादृश्येवान-
ष्टेऽपि विषयेऽव्यापृतेन्द्रियस्य १ दृश्यते । न हि शब्दजनिता घटबुद्धिर्निमी-
लितनयनस्य नष्टेऽनष्टे वा घटे विशिष्यते; तुल्याकारत्वात् । व्यापृतेन्द्रियस्य २ तु
शब्दं शृण्वतो या स्पष्टा बुद्धिः सा प्रत्यक्षैव, न शब्दकृता । तस्मादवस्तुविषयैव
शाब्दी बुद्धिः ।
सदर्थानां वस्तुविषयाणां तु श्रोत्रादीन्द्रियजातानां चेतसां नैतद् विषय-
सदसत्ताकालयोः साम्यम् ; शब्दबुद्धेरिवार्थाभावे इन्द्रियबुद्धेरनुत्पत्तेः ॥ ३९ ॥
ननु नष्टेऽनष्टेऽपि वस्तुनि ये शाब्दे ३ चेतसी जायेते, ताभ्यां सामान्य-
मात्रस्य ग्रहणात् तयोर्द्वयोश्चेतसोः सामान्यं साम्यं ग्राह्यप्रतिभासकृतमस्ति ?
एतच्चायुक्तम् ; यस्मात् तस्यापि सामान्यस्य केवलस्य व्यक्तिशून्यस्य ग्रहणं प्राङ्
निवारितम् “अतत्समानताऽव्यक्तौ” (प्र० वा० २.२०) इत्यादिना ॥ ४० ॥
भिन्नं सामान्यं निषिध्य, अभिन्नमपि निषेद्धुमाह—परस्परविशिष्टानां विशे-
षाणामविशिष्टमभिन्नं रूपं कथं भवेत् ? अवश्यं हि व्यक्तीनां भेदः कथञ्चिदङ्गी-
कर्त्तव्यः, सत्त्वरजस्तमसामिव, प्रकृतिचैतन्ययोरिव वा, अन्यथा सामान्यमेव न
स्यात् ; भिन्नानामभिन्नस्य रूपस्य तत्त्वात् । ये च भिन्नस्वभावास्ते नाभिन्ना
भवितुमर्हन्ति; विरुद्धत्वात् । अथैकस्यापि समानमसमानं च द्वे रूपे, तथा
१. अव्यासतेन्द्रियस्य—रा० ।
२. व्याप्तेन्द्रियस्य—रा० । ३. शाब्दी—रा० ।
प्र० वा० : ८
११४ प्रमाणवार्त्तिके
ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयोः ।
तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति ॥ ४२ ॥
तस्मात् समानतैवास्मिन् सामान्येऽवस्तुलक्षणम् ।
कार्यं चेत् तदनेकं स्यान्नश्वरं च न तन्मतम् ॥ ४३ ॥
वस्तुमात्रानुबन्धित्वाद् विनाशस्य न नित्यता ।
असम्बन्धश्च जातीनामकार्यत्वादरूपता ॥ ४४ ॥
द्विरूपतायां तद् वस्त्वेकं कथं भवेत् ! अन्यो हि समानादसमानः स्वभावः,
अतश्च द्वे वस्तुनी स्याताम्, न त्वेकं द्विरूपम् ॥ ४१ ॥
अथ द्वयोरेकं तद्रूपं सामान्यम् ? यदि तयोर्द्वयोः समं समानं रूपं तदा
ताभ्यामेवान्यदेव तत् स्यात् । पृथग्भूतमेव सामान्यं भविष्यति, को दोष इति
चेद् ? आह—तयोस्तत् सामान्यमिति न सम्बन्धः; उपकार्योपकारकत्वा-
भावात् । तथासम्बन्धेऽतिप्रसङ्गात् । अस्मन्मते तु व्यावृत्तिः सामान्यं न
दुष्यति; अतत्कार्यव्यावृत्तेरवस्तुत्वात् । अन्यथान्यानन्यत्वपक्षोक्तो दोषः ॥४२॥
यतः समानत्वेनावस्तुता; तस्मात् समानतैवास्मिन् सामान्येऽवस्तु-
लक्षणं यत् सामान्यं तदवस्थितिव्याप्तिसिद्धेः । भेदेऽभेदे च वस्तुत्वायोगात्,
प्रकारान्तरस्य चाभावात् ।
किञ्च—सामान्यं कार्यमकार्यं वा स्यात् । सम्बन्धिनीनां व्यक्तीनां कार्यं चेत्
प्रतिव्यक्ति सामान्योक्तावनेकं स्यात् । एकञ्च सामान्यमिष्टम् । अनेकत्वे सामान्य-
रूपतानाशः । नश्वरञ्च न तत् सामान्यं मतम् । कार्यत्वान्नश्वरञ्च तत्
प्राप्नोति; कार्यत्वस्य नाशित्वेन स्वभावस्य व्याप्तेः ॥ ४३ ॥
किञ्च—वस्तुमात्रानुबन्धित्वात् नाशस्य वस्तुनो न नित्यता स्यात् ।
अनित्यताविरहे तु वस्तुविरहोऽपि; व्याप्याभावस्य व्यापकाभावनियतत्वात् ।
अथ द्वितीयः पक्षः, तदा अकार्यत्वात् जातीनां स्वव्यक्तिभिः सह सम्ब-
न्धश्च न स्यात् । कार्यकारणभावाभावे तस्येदमिति सम्बन्धस्यानुपपत्तिरित्युक्तम्
“कार्यत्वं ह्यपेक्षेत्यभिधीयते” (प्र० वा० २. २५) इति । अत्रान्तरेऽकार्यत्वाज्जा-
प्रत्यक्षपरिच्छेदः ११५
यच्च वस्तुबलाज्ज्ञानं जायते तदपेक्षते ।
न संकेतं न सामान्यबुद्धिष्वेतद् विभाव्यते ॥ ४५ ॥
याप्यभेदानुगा बुद्धिः काचिद् वस्तुद्वयेक्षणे ।
संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना ॥ ४६ ॥
प्रत्यासत्तिर्विना जात्या यथेष्टा चक्षुरादिषु ।
ज्ञानकार्येषु जातिर्वा यथान्वेति विभागतः ॥ ४७ ॥
कथञ्चिदपि विज्ञाने तद्रूपानवभासतः ।
तीनामरूपता निःस्वभावता । उत्पद्यमानं हि सस्वभावं भवेत्, नेतरत्; निया-
मकाभावेन स्वभावाभावप्रसङ्गात् ॥ ४४ ॥
शाब्दप्रत्ययस्यावस्तुविषयतायामुपपत्त्यन्तरमाह—यच्च ज्ञानमिन्द्रियजं वस्तुनो
रूपादेर्बलाज्जायते, तन्न संकेतमपेक्षते; बालबधिरादेरपि भावात्। सामान्यबुद्धिषु
त्वेतत् संकेतानपेक्षत्वं न विभाव्यते; संकेतग्रहणस्मरणापेक्षत्वात् । तस्मान्न
वस्तुबलभाविन्यस्ताः; तथात्वे सतीन्द्रियार्थसन्निपाते क्षेपायोगात् ॥ ४५ ॥
यापि संकेतेन विना वस्तुद्वयेक्षणे शाबलेयं दृष्ट्वा बाहुलेयं पश्यतः
अभेदानुगमात् 'स एवायम्' इत्यभेदमध्यवस्यन्ती बुद्धिरुत्पद्यते, शाबलेयकर्कदर्शने
तु नोपद्यते; साऽर्थानां शाबलेयादीनामसत्यपि सामान्ये या प्रत्यासत्तिरे-
कबुद्ध्यादिकार्यत्वं तन्निबन्धना ॥ ४६ ॥
सामान्यं विनैककार्यतैव न स्याद् ? इत्याह—प्रत्यासत्तिर्विना जात्या
चक्षुरादिर्येषां विषयालोकमनस्काराणां तेषु ज्ञानकार्येषु ज्ञानहेतुषु जात्यादि
विना रूपज्ञानैककार्यजनकत्वं प्रत्यासत्तिर्यथेष्टा । यथा वा शाबलेयाद् बाहुलेयादीनां
कर्कादीनाञ्च तुल्ये भेदे यथा प्रत्यासत्या जात्यन्तरं विनैव विभागतो जाति-
रन्वेति । शाबलेयबाहुलेयादिष्वेव गोत्वं समवेतम् , न कर्कादिषु, सैवानुगामि-
प्रत्ययनिबन्धनमास्ताम् , अलं जात्या ॥ ४७ ॥
इतश्च न वस्तु सामान्यम् , दृश्यत्वेनाभिमतस्य तद्रूपस्य स्वग्राहिणि विज्ञाने
कथञ्चिदप्यनवभासतः । ननु सन्त्यपीन्द्रियाणि नोपलभ्यन्ते, ततोऽत्रानुपल-
म्भादसत्त्वं न । न हीन्द्रियाणि स्वग्राहिणि ज्ञाने प्रत्यवभासमानत्वात् सन्तीष्यन्ते,
११६ प्रमाणवार्त्तिके
यदि नामेन्द्रियाणां स्याद् द्रष्टा भासेत तद्वपुः ॥ ४८ ॥
रूपवत्त्वात्; न जातीनां केवलानामदर्शनात् ।
व्यक्तिग्रहे च तच्छब्दरूपाद्अन्यन्न दृश्यते ॥ ४९ ॥
ज्ञानमात्रार्थकरणेऽप्ययोग्यमत एव तत् ।
तदयोग्यतयाऽरूपं तद्ध्यवस्तुषु लक्षणम् ॥ ५० ॥
यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते ।
सामान्यं त्रिविधम्, तच्च भावाभावोभयाश्रयात् ॥ ५१ ॥
किं तर्हि ? सत्स्वपि विषयमनस्कारादिषु कदाचित् प्रवर्त्तते ज्ञानम्, कदाचिन्न—
इति व्यभिचारबलादतीन्द्रियाणि कानिचिदिन्द्रियव्यपदेश्यानि व्यवस्थाप्यन्ते ।
यदि त्विन्द्रियाणामतीन्द्रियदर्शी¹ द्रष्टा नाम स्यात्, भासेत रूप-
वत्त्वात् तेषामिन्द्रियाणां वपुः ।
जातीनां तु दृश्याभिमतानां केवलानां व्यक्तिस्वरूपव्यतिरिक्तानामदर्श-
नादभाव एव; व्यक्तिग्रहे तस्या व्यक्तेः । शब्दस्य गौरित्यस्य रूपादन्यत्
सामान्यं न दृश्यते ॥ ४८-४९ ॥
अत एवादृश्यमानत्वात् ज्ञानमात्रस्यार्थस्यार्थक्रियायाः करणेऽप्ययोग्यमेव
तत् । अन्त्या हीयं भावानामर्थक्रिया यदुत स्वज्ञानजननम् । तत्राप्ययोग्यतया
तत् सामान्यमरूपं निःस्वभावम् । हि यस्मात् सर्वार्थक्रियायामशक्तत्वमवस्तुषु
लक्षणम् । सर्वसामर्थ्यरहितं ह्यवस्त्विष्यते, तथा च सामान्यमिति न वस्तु ॥५०॥
यथोक्तात् सामान्याद् विपरीतं यत्तत् स्वलक्षणमुच्यते । इदञ्च
वैपरीत्यम् — अनभिधेयत्वम्, तत्त्वान्यत्वाभ्यां वाच्यत्वम्, असदर्थप्रत्ययाविशिष्ट-
प्रतिभासविषयत्वम्, असाधारणत्वम्, संकेतस्मरणानपेक्षप्रतिपत्तिकत्वम्, अन्यरूप-
विविक्तस्वरूपप्रतिभासवत्त्वम्, अर्थक्रियाक्षमत्वञ्च । एतद्युक्तं स्वलक्षणमिष्यते;
एतद्विपर्ययस्यावस्तुत्वसाधनस्य सामान्यलक्षणत्वात् ।
यच्चातत्कार्यव्यच्छेदलक्षणमुक्तं सामान्यम्, तच्च त्रिविधं बोद्धव्यम्;
भावाभावोभयाश्रयात् । किञ्चिद् भावोपादानं सामान्यम्, यथा रूपादीन्
१. त्वतीन्द्रिया०—रा० ।
प्रत्यक्षपरिच्छेदः ११७
यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः ।
नोक्तोत्तरत्वाद् दृष्टत्वाद्; अतीतादिषु चान्यथा ॥ ५२ ॥
भावधर्मत्वहानिश्चेद् भावग्रहणपूर्वकम् ।
तज्ज्ञानमित्यदोषोऽयम्,
मेयं त्वेकं स्वलक्षणम् ॥ ५३ ॥
तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् ।
तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥ ५४ ॥
भावनाश्रित्य कृतकत्वादिशब्दवाच्यं लिङ्गम् । अभावोपादानं यथा—उपलब्धि-
लक्षणप्राप्तस्यासतोऽनुपलब्धिः, अनुत्पत्तिमत्त्वादि च; तद्ध्यभावाश्रयं सामान्यं
लिङ्गम् । उभयाश्रयमनुपलब्धिमात्रं ज्ञेयत्वादि च; भावाभावसाधारणत्वात् ॥ ५१ ॥
यदि किञ्चित् सामान्यं भावाश्रयं तत् ज्ञानं तद्भावे भावविषयं प्राप्नोति,
भावानुबन्धतो भावान्वयव्यतिरेकानुविधानात् ? नैतद्युक्तम्; “न तद् वस्त्व-
भिधेयत्वात्” ( प्र० वा० २.११ ) इत्यादिनोक्तोत्तरत्वात् । निषिद्धं हि
सामान्यस्य वस्तुत्वमनन्तरमेव प्रपञ्चेनेत्यनुमानबाधितत्वं प्रतिज्ञाया दृष्टत्वात् ।
अतीतादिषु चान्यथा वस्तुव्यतिरेकेणैव—‘आसीद् घटो भविष्यति च’ इति
सामान्यबुद्धिरुत्पद्यते इत्यसिद्धतापि भावानुबन्धत इति हेतोः ॥ ५२ ॥
वस्तु विना सामान्यबुद्धयुत्पादे भावधर्मत्वहानिः सामान्यस्य प्रसज्येत
चेत् ? भावस्य रूपादेर्ग्रहणपूर्वकं तस्य सामान्यस्य साधारणबाह्यरूपतयाऽध्य-
वसितबुद्ध्याकारलक्षणस्याध्यवसायेन ज्ञानमित्यमवस्तुधर्मत्वलक्षणोऽदोषो
दोषो न भवति । न हि सामान्यं रूपादिरिव भावरूपतया ज्ञानविषय इति
भावधर्म इष्टम् ।
किन्तु भाववासनाप्रबोधप्रसूतविकल्पकल्पितत्वात् परमार्थतो मेयं त्वेकं
स्वलक्षणम्; तस्यैव रूपबुद्धयुत्पादकत्वात् । सामान्यस्य तु कल्पितत्वात् सामर्थ्या-
भावात् स्वलक्षणमेकं प्रमेयम् ॥ ५३ ॥
तस्मादर्थक्रियासिद्धेः अर्थक्रियार्थिभिः सदसत्ताभ्यां तस्यैव विचारणात्
असत्त्वमपि स्वलक्षणस्यैव विचिन्त्यते ।