प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 130, कुल 532 में से
संदर्भ में पढ़ें१०४ प्रमाणवार्त्तिके
तथेष्टत्वाददोषः;
अर्थरूपत्वेन समानता ।
सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात् ॥ १० ॥
न तद् वस्त्वभिधेयत्वात् साफल्यादक्षसंहतेः ।
नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि ॥ ११ ॥
असम्बन्धिनि नामादावर्थे स्यादप्रवर्त्तनम् ।
तथा ज्ञानाकारतया सामान्यस्यापि स्वलक्षणताया इष्टत्वाददोषः ॥
कथं तर्हि सामान्यरूपता ? इत्याह—अर्थरूपत्वेनाध्यवसीयमानज्ञेयरूप-
त्वेन समानता, न तु बुद्ध्याकारत्वेन ।
कथं पुनरर्थरूपत्वेनापि समानता ? इत्याह—सर्वत्र व्यक्तिषु तद्व्यावृत्ति-
समाश्रयात् विजातीयव्यावृत्त्याश्रयेण दृश्यविकल्प्यैकत्वाध्यवसायादुपकल्पितस्य
सामान्यस्य समरूपत्वात् साधारणरूपत्वादर्थत्वेन सामान्यमुच्यते; ज्ञानाकारस्य
सामान्यस्य सम्प्रति व्यतिरिक्तस्य च पूर्वं प्रतिषेधात् ॥ १० ॥
रूपादिसद्भावमेवाविशेषेण सामान्यं किं नेष्यते ? इत्याह—तत् सामान्यं न
वस्तुरूपादिस्वभावम्; अभिधेयत्वात् । शब्दधर्मवत् सामान्यं शब्दज्ञानगोचरः ।
न च शब्दविषयो वस्तु । कस्माद् ? इत्याह—साफल्यादक्षसंहतेः । यदि
शब्दविषयो वस्तु भवेत्, तदा रूपादिशब्दादेवार्थादिरपि रूपादिप्रतीतौ न
किञ्चिदक्षैः, न चैवम्, ततो वस्तुविषयेणेन्द्रियज्ञानेन शब्दस्य न तुल्यविषयता ।
तथा चावस्तुतैव शाब्दज्ञानावभासिनः सामान्यस्य, न रूपादिता ।
ननु रूपादयो न शब्दस्य विषयः, किं तर्हि ? नामनिमित्ते विप्रयुक्तसंस्कार-
संज्ञे, ते विज्ञानाद् व्यतिरिक्ते वैभाषिकस्येष्टे ? तदापि नामादिवचन इष्य-
माणे किं तन्नामादिकं वक्तरि श्रोतर्यर्थे वा सम्बद्धमसम्बद्धमेव वा क्वचित् !
सर्वथा वक्तृश्रोतृवाच्यानुबन्धिनि असम्बन्धिनि वा नामादौ शब्देन
चोदितेऽर्थेऽप्रवर्त्तनं स्याद् ; अचोदितत्वात् ॥
भवतु तावदन्यसम्बन्धिनि असम्बन्धिनि वा नामादावर्थेऽप्रवर्त्तनम्, अर्थ-
सम्बन्धिनि तु कथमप्रवृत्तिः, अचोदितत्वात् । न हि देवदत्ते प्रतिपादिते तत्-