पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
श्रेढीव्यवहारः १२३
अथ द्वितीयोदाहरणेऽज्ञाते पदे न्यासः—
आ २, उ ३, गच्छो न ज्ञायते, सङ्कलितम् | ५/८ | ।
कर्म—फलतः ५/८ | अष्टहतात् ५, उत्तरेण ३ | हतात् १५, आदे २ द्विघ्नस्य ४ प्रचयस्य
चास्य ३ विवरं १ अस्य कृत्या१ | १ | युक्तात् १६, मूलं ४, मुखं २ द्विगुणं ४ अनेनोनं२ शून्यं ०,
चयेन ३ सहितं ३, द्वयुद्धृतं | ३/२ |, चयेन ३ उद्धृतं १/२, पदप्रमाणम्३ | १/२ | ।
अथ तृतीयोदाहरणे पदेऽज्ञाते न्यासः—
आ २, उ ५, गच्छो४ न ज्ञायते, सङ्कलितम्५ ० ।
कर्म—अष्टोत्तरहतफलात्६ ०, आदे २ द्विघ्नस्य ४ प्रचयस्य ५ विवरं १ अस्य कृत्या १
युक्तात् १, मूलं १, मुखेन २ द्विगुणेन ४ ऊनं ३+, चयेन (५) सहितं २, द्वाभ्यामुद्धृतं १, चयेन
५ उद्धृतम् | २/५ |, एष गच्छः ।
अथ चतुर्थोदाहरणे पदेऽज्ञाते न्यासः—
आ १०, उ २+, गच्छो न ज्ञायते, सङ्कलितम् | ४५/२ | ।
कर्म७—फलात् | ४५/२ | अष्टहतात् | ४५/१ |, उत्तरेण च २+ हतात् ४५+, आदे १०
द्विघ्नस्य २० प्रच(य)स्य चास्य २+ विवरम् २२ अस्य कृत्या ४८४ युक्तात् ४४१, मूलं २१,
मुखेन १० द्विगुणेन २० ऊनं १, सचयं १+, द्वयुद्धृतं८ | १+/२ |, चयेन २+ उद्धृतं९ | ३/१ |, एष
गच्छः ।
अस्य चतुर्थोदाहरणस्य 'आदिः पदहृतगणित(त)मि'त्यतः प्रभृत्युदाहरणेषु टीका-
कृता त्रयाणामुदाहरणानामाद्याद्यानयनप्रकारे दर्शिते भूय आद्याद्यानयनप्रकारो१० न दर्शित इति
वृत्तिग्रन्थे मूलग्रन्थे चास्योदाहरणस्य दृष्टत्वादस्माभिर्लेखनावसर११ एव तदानयनप्रकारो दर्शित
इत्यलम् ।
अथास्यां श्रेढीगणितपरिपाट्यामुपयोगिधनर्णपरिकर्म श्रीश्रीधराचार्य आर्याभिनिबध्नाति
धनयोर्धनमृणमृणयोर्धनर्णयोरन्तरं समैक्यं खम् ।
खर्णैक्यमृणं धनशून्ययोर्धनं१२ शून्ययोः शून्यम् ॥
द्वयोर्धनराश्योर्योगो१३ धनं भवति । ऋणराश्योर्योगः१४ ऋणं भवति । धनराशि-
ऋणराश्योर्योगे कर्तव्ये अन्तरं कार्यम् । समैक्यमिति समयोर्धनराशेश्चर्णराश्योरैक्ये कर्तव्ये खं
शून्यं जायते । तथा शून्यस्य ऋणस्य च योगे ऋणं स्यात् । धनस्य शून्यस्य च योगो
धनं, द्वयोः शून्ययोर्योगः शून्यम् । इति सङ्कलितम् ।
१ कृत्वा । २ ऊन । ३ उद्धतं पदे प्र० । ४ गच्छ । ५ ०तम् • । ६ अष्टोत्तरफलहतफलात् • ।
७ कर्मे । ८ द्वयूद्धतं १/२ । ९ चयेन २ उद्धतं । १० भू याद्या० । ११ ०लिखना० । १२ धनं शू० ।
१३ ०योगं ।
१२४ श्रेढीव्यवहारः
व्यवकलिते आर्याद्वयम्—
ऊनमधिकाद्विशोध्यं धनं धनादृणमृणादधिकमूनात् ।
व्यस्तं तदन्तरं खादृणं धनं धनमृणं भवति ॥
शून्यविहीनमृणमृणं धनं (धनं) भवति शून्यमाकाशात् ।
शोध्यं यदा धनमृणादृणं धनाद्वा तदा क्षेप्यम् ॥
ऊनो धनराशिरधिकाद्धनराशेः सकाशाद्विशोध्यः ( तदन्तरं धनं ) भवति । एवमून
ऋणराशिरधिकादृणराशेः शोध्यः¹ तथाधिको (ध)नराशिरूनाद्धनराशेः शोध्यस्तदन्तरमृणं
स्यात् । अधिकऋणराशिरूनादृणराशेः शोध्यस्तदन्तरं धनं स्यात् । यदि शून्यादृणराशिः शोध्यते
तदा स धनात्मकः स्यात् तथा तस्मादेव शून्याद्यदा धनराशिः² शोध्यते तदा स ऋणात्मकः
स्यात् । यदि ऋणराशिः शून्येन हीनः क्रियते तदा स ऋणात्मक एव स्यात्, यदि धनराशिः शून्येन
हीनः क्रियते तदा स धनमेव स्यात् । अथ यदि शून्यं शून्यादूनीक्रियते तदा तस्मिन् शून्य-
राशौ शून्यं क्षेप्यमेव तथा यदा धनमृणाच्छोध्यमानं तदा ऋणराशौ धनराशिः क्षेप्यः³ यदा वा
ऋणराशिर्धनराशेः शोध्यः स्यात्तदा तस्मिन् धनराशौ⁴ ऋणराशिः क्षेप्य एवेति व्यवकलितम्⁵ ।
अथ प्रत्युत्पन्न आर्या—
ऋणमृणधनयोर्घातो धनमृणयोर्धनवधो धनं भवति ।
शून्यर्णयोः खधनयोः खशून्ययोर्वा वधः शून्यम् ॥
ऋणराशिधनराश्योर्घात ऋणात्मकः स्यात् । द्वयोः ऋणराश्योर्घातो⁶ धनं स्यात् तथा
(द्वयोः धनराश्योर्घातः धनं स्यात् ) । शून्यऋणयोर्वधः तथा ( शून्यधनयोः ) शून्यशून्ययोश्च
शून्यं स्यात् । समाप्तः प्रत्युत्पन्नः ।
अथ भागहरणे आर्या सार्धा—
धनभक्तं धनमृणहृतमृणं धनं (भवति) खं खभक्तं खम् ।
भक्तमृणेन धनमृणं धनेन हृतमृणमृणं भवति ॥
खोद्धृतमृणं धनं वा तच्छेदः⁷ खमृणधनविभक्तं खम् ।
धनराशौ धनराशिना हृते फलं धनं स्यात्, एवमृणराशौ ऋणराशिना हृते फलं
धनमेव स्यात् । शून्ये शून्येन विभक्ते फलं शून्यं स्यात् । ऋणराशिना धनराशौ भक्ते फल-
मृणं स्यात्, धनराशिना ऋणराशौ हृते फलं ऋणमेव स्यात् । ऋणराशौ धनराशौ वा⁸
शून्येन ह्रियमाणे⁹ तयोः ऋणधनराश्योश्छेदः शून्यमेव, न किंचित्फलमित्यर्थः । शून्यराशौ
ऋणराशिना धनराशिना वा भक्ते फलं शून्यमेवेति भागहारः ।
¹ ऋणराशिनाधिकादृणराशेः शोध्यं । ² यन° । ³ क्षेप्य । ⁴ तस्मिन्नयनराशौ ।
⁵ व्यपक° । ⁶ °राश्यौ° । ⁷ तछेदः । ⁸ चा । ⁹ क्रियमाणे ।
अथ वर्गे आर्यापरार्धम्—
धनमृणधनयोर्वर्गः खं खस्य पदं कृतिर्यत्तत् ।
ऋणराशेर्धनराशेश्च वर्गो धनात्मकः स्यात् । शून्यस्य मूलं कृतिर्वर्गो यत्तदित्यनेन
घनघनमूले खं शून्यमेव स्यादिति ।
अथ यत्र पदसङ्कलिते ज्ञायेते१ नादिनोत्तरं न चादिरुत्तरं चेष्टतो व्यवस्थापितं
तदितरानयनमाद्यानयनसूत्रेण वाऽशक्यमाद्युत्तरमिश्रदर्शनपारतन्त्र्यात्तत्र२ तयोरानयनार्थं करण-
सूत्रमार्यामाह—
विपदपदवर्गदलहतमिश्रधनात्फलमपास्य परिशिष्टम् ।
व्येकपदार्थेन भजेद् व्येकेन पदाहतेनादिः ॥ ८८॥
पदफलयोरिहोपकरणभावाश्रयेणाद्युत्तरयुतिरेव३ मिश्रधनम् । तस्मान्मिश्रधनाद्विपदस्य
सङ्कलितगच्छविरहितस्य पदवर्गस्य सङ्कलितगच्छकृतेर्दलेनार्थेन हताद् गुणितात्फलं
सङ्कलितमपास्य४ विशोध्य परिशिष्टं भजेत् छिन्द्यात्, केनेत्युच्यते । व्येकस्य रूपोनस्य पदस्य
सङ्कलितगच्छस्यार्धेन व्येकेन पदाहतेनेत्येष भागहारः, एतदाप्तमादिः अर्थात्प्रतिपादितं
भवति, यदुत आदिवियुक्तं मिश्रं प्रचय इति ।
इदमपि सूत्रं बीजोपजीवनेन स्थितं, तथा चेहादेरज्ञातत्वाद्यावत्तावत्संज्ञातवं, तेन तस्य
स्थापनं—आ या १ । उत्तरस्यापि (अ)ज्ञातत्वे यदि तुल्यतादिनियमाभावाद्व्यक्तान्तरत्वे५
कालकादिवर्णान्तरत्वे प्राप्तेऽपि आदिविशुद्धमिश्रशेषमप्युत्तरमतो६ यावत्तावन्मिश्ररूपं
तत्स्थाप्यते यथा उ७ ५ या १+, गच्छो ज्ञायते ५, सङ्कलितम् ४० ।
एवं स्थिते अव्यक्तराशी एव व्यक्तवत्प्रकल्प्य तयोरानयनं८ क्रियते । तेनाव्यक्त-
सङ्कलितधनेन व्यक्तं चत्वारिंशत्परिमाणं रूपात्मकत्वाद्युक्तं सङ्कलितं स्पर्धयित्वा समीकरणा-
ख्येन प्रथमबीजेनादिरानीयते ततश्चार्थतस्तु (आदि)विशुद्ध(मिश्र)मुत्तरप्रमाणं लभ्यत इति ।
अव्यक्तपक्षे सङ्कलितानयनार्थो न्यासः—
आ या १, उ९ ५ या १+, गच्छः ५, सङ्कलितं च१० ज्ञायते (४०) ।
अत्र कर्म—व्येकस्य११ पदस्यार्धं २, चयेन (रू ५ या १+ गुणितं रू १० या २+,
आदिना या १ सहितं रू १० या १+, पदेन ५ सङ्गुणितं) रू१२ ५० या ५+। एतच्चत्वारिंशता
सममिति पक्षयोर्न्यासः—
या१३ ५+ रू ५० एकः पक्षः; या ० रू ४० द्वितीयः१४ पक्षः ।
१ ज्ञायते । २ शक्यमाद्यत्तर° । ३ °परकरणभावश्रयेणाद्युतितरारेवं । ४ °मयास्य ।
५ तुल्यतादनि° । ६ °म••••राया । ७ ३ ऊ ५ या १+ । ८ ततोऩानयनं । ९ ३ ऊ ५ या
१+ । १० न । ११ कर्मण्वेकस्य । १२ ऊ ५ ० । १३ या ५+३४ ० । १४ या • ऊ ४ द्वितीयः ।
या २+ ऊ १ ।
१२६ श्रेणीव्यवहारः
(पञ्चभिः) पक्षावपवर्त्य स्थापनम्—
या १ + रू १०, (या ० रू ८)
एवं जाते
‘संशोध्यव्यक्तमेकस्मात्’ पक्षाद्रूपाणि चान्यतः ।
रूपशिष्टप्रमाणं स्याच्छिष्टाव्यक्तस्य तत्२ फलम् ॥’ इति ।
पक्षशोधनं तावत् क्रियते, तद्यथा—प्रथमपक्षस्थिताद्रूपदशकात् विशोध्यन्ते (ऽष्टौ)
तेन तत्र रूपद्वयं शेषं जायते । ततश्च शुद्धपक्षयोर्न्यासः—प्रशे३ रू २ द्विशे या १ । अत्राव्यक्त-
शेषेण भक्तं रूपशेषमादेः प्रमाणम् (२) । इदानीं यावत्तावदात्मकत्वं निवृत्तं रूपात्मकत्वं
जातम् । ज्ञातमेतद्यथा आदिः २ । एतस्मिन्मिश्रात्पञ्चभ्यो विशुद्धे शेषं त्रय इति ४ज्ञातम् उ ३ ।
कथमेतदपि सूत्रेण निबद्धमित्युच्यते । अव्यक्तादुत्तरपक्षे तत्पक्षसङ्कलित्तानयनं यावत्ता-
वदादिना५ कृतं ‘विपदपदवर्गदलाहतमिश्रधनादि’ति६ राशिद्वयमुत्पद्यते तत्र धनगतानि रूपाणि७
पञ्चाशद् विपदपदवर्गदलाहतमिश्रधनं भवति८, तस्मात् ‘फलमपास्ये’ति इदं तदनुगतं रूपाणि
चान्यतः संशोध्येति, ततश्च ‘रूपशिष्टप्रमाणं स्याच्छिष्टाव्यक्तस्य तत्फलमि’ति९ यत्तदिदं
विबद्धं ‘व्येकपदार्धेन भजेद् व्येकेन पदाहतेने’ति, यो हि तत्राव्यक्तपक्षे ऋणगताः यावत्तावत्काः
पञ्च ते पक्षशोधनक्रियायां१० पक्षान्तरस्थशून्यात्मकयावत्तावद्राशेः शोध्यमाना धनात्मकता-
मासाद्य रूपशेषस्य भागहारो जायते । इयांस्तु विशेषः वैजिकेन यथादिप्रमाणानयने गौरव-
प्रसङ्गादिति ।
अथोदाहरणम् । अत्र पूर्वोक्तप्रथमोदाहरणस्याद्युत्तरयोर्विभागाज्ञाने मिश्रे ज्ञाते पदसङ्-
कलितयोश्च ज्ञातयोर्न्यासः—
आ११ ०, मिश्रं ५, गच्छः ५, सङ्कलितम्१२ ४० ।
अत्र कर्म—पदस्य ५ वर्गः २५, विपदः २०, अर्धं १०, मिश्रेण ५ गुणितं ५०,
सङ्कलितेन ४० हीनं १०, व्येकस्य पदस्यार्धेन २ व्येकेन १ पदगुणितेन ५ भजेदिति लब्ध
आदिः २, एतद्विशुद्ध (मिश्र) प्रमाणः ५ प्रचयः (३) उत्तरः ।
अथ राशिगतयुतौ आद्युत्तरपदेषु ज्ञातेषु सङ्कलितानयनार्थं करणसूत्रमार्यामाह—
निर्विकलपदघ्नचयस्सादिरनष्टो मुखान्वितो विचयः ।
निर्विकलपदार्धहतो१३ विकलघ्नानष्टयुग्गणितम्१४ ॥ ८९ ॥
१ ‘कस्मात् ऊ ४० । २ ॰च्छिष्ट्राव्यक्तस्य तं । ३ प्रशे ऊ १ । ४ ज्ञातं ३३ ।
५ यावत्तावदिदं । ६ ‘मिथोघ्न’ । ७ पञ्च रूपाणि । ८ ‘विपदं पदं व॰ । ९ तं फल॰ ।
१० पक्षसोधनं क्रमायां । ११ आ ३— । १२ ॰त ४० । १३ ॰पदावहतो । १४ ॰लम्ना॰ ।
श्रेढीव्यवहारः १२७
सङ्कलितक्रमेण क्षेत्रफलक्रमेण च श्रेढ्याश्रितमेव गतमिति पुनः प्रारम्भसामर्थ्यात्
राशि(ग)तमेतदिति विज्ञायते, तत्रापि (नि)विकलपदे क्षेत्रराशिगणितयोरभेदाद्विकलाश्रयमेव
सूत्रमारभ्यते । एवमुत्तरसूत्रेष्वपि वाच्यम् । रूपभागस्य विकलसंज्ञा, सकलत्वाद्रूपस्य । तत्र
विकलमेव¹ पदं स्याद्विकलान्वितमेव वा । विकलपदे रूपस्थाने शून्यं कल्प्यं सविकलापत्त्यर्थं
विकलपदाश्रयेणैव सूत्रस्य वृत्तत्वात्, तथा च निर्विकलं विकलविहीनं कृतं यत्पदं तेन गुणितो
यश्चयः² स आदिना सहितो द्वितीयस्थाने स्थाप्यः, स चानष्टसंज्ञ उत्तरकर्मार्थः, यस्त्वन्त्यस्थः³
(स) मुखेनान्वितः चयेन रहितो निर्विकलपदस्यार्धेन हतो विकलहतेनानष्टसंज्ञकेन राशिना
युक्तो राशियुतो गणितो सङ्कलितं भवति ।
उदाहरणम्—
एको लभते त्रीणि द्विरूपवृद्ध्या⁴ ततोऽपरे पुरुषाः ।
इत्यर्धपञ्चमनराः कियलभन्ते समाचक्ष्व⁵ ॥ १०६ ॥
केचित्पञ्च पुरुषाः कस्यचित्कार्यार्थिनः भृत्यकर्मणि⁶ प्रवृत्ताः, येषामेकस्त्रीणि रूपाणि
लभते, द्वितीयस्ततोऽधिकसामर्थ्यः पञ्च लभते, तृतीयोऽपि प्रथमा(द्) द्वितीय इव द्वितीया-
धिकसामर्थ्यः सप्त लभते, एवमुक्तयोरनन्तराधिकसामर्थ्यादन्ये द्विद्विरूपवृद्ध्या भृतिं लभन्ते
यावच्चत्वारः । पञ्चमस्तु यावत्प्राप्तभृतिदलभागी⁷ तावत एव सामर्थ्यादित्यर्धं तु सङ्ख्यायते
यदि वा सोऽपि चतुर्थात्तद्वदधिकसामर्थ्य एव नियमितकालार्धकर्मकरणात्तु सङ्ख्यायते । एवं,
स्थिते तेषामेवार्धपञ्चमानां नराणां भृतिसङ्कलितं किं भवतीति ।
न्यासः—आ ३, च २, गच्छः⁸ ४ १/२ | , सङ्कलितं न ज्ञायते ।
अत्र कर्म—पदं ४ १/२ | , विकलेन १/२ विहीनं ४, एतेन चयः २ गुणितः ८, आदिना ३ सहितः
११, एषोऽनष्टसंज्ञाङ्कतरश्च कल्प्यः, यथा न्यासः—अनष्टः ११, स तु मुखेन अन्वितः १४,
चयेन २ विरहितः १२, निर्विकलपदस्य ४ अर्धेन २ हतः २४, विकलेन १/२ | गुणितोऽनष्ट-
संज्ञको राशिः ११ जातः ११/२, एतेन २४ संयुतः⁹ ५९/२, एतद् गणितमिति¹⁰ ।
तथा चतुर्णां तावत्¹¹ पदं ४, व्येकं पदं ३, अर्धं ३/२, चयेन¹² २ हतं ३, सादिः¹³ ६, पदेन ४
गुणितं २४ । पञ्चमस्य सकलस्य धनं ११, तथा च पदं ५, एकहीनं ४, उत्तरं (२) गुणितं (८),
संयुक्तमादिना ११, एतदन्त्यस्य पञ्चमस्य धनम् । तदर्धं ११/२ | एतदेवानष्टसंज्ञकस्य राशेः
विकलहतस्य प्रमाणं भवति । एतेन युक्तं चतुर्णां सङ्कलितं २४ इदं ५९/२ | भवति ।
¹ ॰मेवा । ² यच्चयः । ³ ॰स्य । ⁴ ॰वृद्धा । ⁵ समानलक्ष्य । ⁶ भृत्याक॰ । ⁷ ॰दलाभा॰ ।
⁸ गच्छ । ⁹ एते संयुतः । ¹⁰ गुणितं । ¹¹ तांवक्त । ¹² क्षयेन । ¹³ आदिः ।
१२८ श्रेढीव्यवहारः
अनेन सूत्रेण 'निर्विकलपदघ्नचयः सादिरनष्ट' इति अन्त्यधनमानीय 'विकलघ्नानष्टे'ति
तदर्धभागिधनं साधितं, शेषेण सूत्रेण चतुर्णां सङ्कलितम् । तत्कथमिति चेदुच्यते । अन्त्यधनानयने
तावत् 'पदमेकहीनमि'ति कर्तव्ये निर्विकलं पदं कृतम्, 'उत्तरगुणितमि'ति तु 'पदघ्नचय'१ इति
'संयुक्तमादिने'ति च 'सादिरि'ति च न भिन्नार्थम् । एवमेतदन्त्यधनमानीय न्यस्तम् । 'मुखान्वितो
विचय' इति चतुर्णां२ सङ्कलितमुपक्रान्तं, पञ्चमधनादेकादशभ्यो हि एकगुणचयहीनं३ चतुर्थस्य
धनं भवतीत्यस्य 'विचय' इति कृतं, निर्विकलपदार्धेन गुणं मुखान्वितचतुर्थम् इत्यनेन सङ्क-
लितार्थं४ 'मध्यधनं पदगुणं५ गणितमि'ति निर्वाहितम्, इदानीमत्र सङ्कलिते पञ्च(म)-
धनमनुपात्य 'विकलघ्नानष्टयुग्गणितमि'ति६ (कृतम्) ।
अथ द्वितीयोदाहरणम्—
मासि प्रथमेऽध्यर्धं७ त्रिभागवृद्ध्या ततो(ऽन्य)मासेषु ।
यदि कर्मकरो लभते तत्किं मासत्रये सार्धे८ ॥ १०७ ॥
यो भृतकः प्रथमे मासि सार्धं रूपं लभते द्वितीयादिमासेषु रूपत्रिभागवृद्ध्या,
स कस्यचिन्मासत्रयं पक्षमेकं च कर्म कृत्वा प्रथममासात्प्रभृति सङ्कलितानि भृतिरूपाणि
कियन्ति लभते इति ।
न्यासः—आ १ १/२, च १/३, ग ३ १/२, सङ्कलितं न ज्ञायते ।
तदर्थं कर्म—पदं ३ १/२, निर्विकलं ३, चयेन १/३ हतं १, आदिना ३/२ सहितं१० ५/२, एषोऽनष्टः,
एष मुखान्वितः ४, विचयः ११/३, निर्विकलपदार्धे(न) ३/२ हतः११ ११/२, विकलघ्नोऽनष्टो
जात: ५/४, एतेन युतः २७/४, लब्धं सङ्कलितम् ।
अथात्रैव राशिगते (उ)त्तरपदसङ्कलितेषु ज्ञातेषु आदेरज्ञातस्यानयनार्थं करणसूत्र-
मार्यामाह—
निर्विकलपदाद् व्येकाद् दलं सविकलं चयेन सङ्गुणयेत् ।
विकलविहीनपदेन च तदूनधनं१२ पदहृतं१३ प्रभवः ॥ १०८ ॥
पदाद्विकलहीनाद्विरूपात् अर्धं विकलसहितं चयेन तथा निर्विकलपदेन च गुणयेत्,
१ तुल्यं चय । २ चतुर्णां । ३ ०णमादिहीनं । ४ निर्विकलपदार्धेन गुणयिष्य-
माणस्य चतुर्थ इत्यनेनांत्यधनार्थं । ५ पदगुणं । ६ निर्विकलघ्ना । ७ ऽध्यर्धं ।
८ मासत्रयः सार्धः । ९ न्यासः आ १ १/२, च १/३, ग ३ १/२ । १० सहितं ५/२ । ११ हतं ।
१२ उदूधनं । १३ पदस्यतं ।
श्रेढीव्यवहारः १२६
तद्धनादपास्य शेषं¹ पदेन भक्तं सदादिर्भवति । इहापि 'निर्विकलपदाद् व्येकाद् दलं सविकलं
चयेन संगुणयेत् विकलविहीनपदेन चे' त्यन्तेन प्राचयिकधनसंकलना कृता, तथा द्वितीयपदात्प्र-
भृति चयः प्रवृत्त इति 'व्येकादि'(ति) कृतम् । चयेन संगुणितस्यार्धीकरणेन तुल्यमर्धीकृतस्य चयेन
गुणनमित्यादावेवार्धीकरणं², 'सविकलमि'ति विकले च भागप्राप्त्यर्थं, 'विकलविहीनपदेन' इत्य-
तश्च³ 'तदूनधन'मित्यनेनार्धपञ्चमे⁴ पदे प्रत्येकं परिसमाप्यादिसङ्कलितमवशेषयति⁵, 'पदहृत-
मि'त्यनेनादिलाभः ।
आदावज्ञाते पूर्वोक्तप्रथमोदाहरणे न्यासः—
आ⁶ ०, उ २, गच्छः ४ १/२, फलं २१ १/२ ।
अत्र कर्म—पदात् ४ १/२, निर्विकलात्⁷ (४), व्येकात् ३, दलं ३/२, सविकलं २, चयेन २
सङ्गुणयेत् ४, तथा निर्विकलपदेन च ४ गुणयेत् १६, तदू(न)धनं १९ १/२, पदेन हृतम् ३,
एष आदिः ।
अथ द्वितीयोदाहरणे⁸ न्यासः--
आ ०, च ३/२, पदं ९, सङ्कलितम् २७ १/२ ।९
निर्विकलपदात् ३, व्येकात्१० २, दलं (१), सविकलं ३/२, चयेन (३/२) सङ्गुणयेत् ९/४,
विकलविहीनपदेन (३) च¹¹ सङ्गुणयेत् २७/४, तदू(न)धनं २१/४, पदहृतम् ३/२, एष आदिः ।
अथादिपदसङ्कलितेषु ज्ञातेषूत्तरस्याज्ञातस्यानयनार्थं करणसूत्रमार्यामाह—
मुखपदवधेन हीनं धनं भजेद्रूपरहितगच्छस्य ।
सङ्कलितस्वेनैकादिचयेनावाप्यते¹² वृद्धिः ॥ ९१ ॥
मुखस्य पदस्य च वधेन हीनं सङ्कलितं भजेत्, केनेति भाजकं¹³ साधयति, गच्छस्य
रूपरहितस्य पदत्वेन स्थापितस्यैकाद्युत्तरेण यत् सङ्कलितं सोऽस्य भागहारः, ततो भागहारा-
दाप्तफलं प्रचयो भवति ।
पूर्वोक्तप्रथमोदाहरणे उत्तरेऽज्ञाते न्यासः--
आ ३, उ ०, प ५ १/२, सङ्कलितम् ५ १/२ ।१४
¹ शेष । ² ॰मित्याद्यावर्धी॰ । ³ ॰पदोन् मित्य॰ । ⁴ तदून । धनं॰ । ⁵ परिसमाप्तमादिं कलिंत्तम॰ ।
६ आ ३ २ गच्छः ४ १/२ फलं २१ १/२ । ७ पदात् ४ विर्विक॰ । ८ ॰हरण । ९ आ ३ ३/२ सं २७ १/२ ।
१० व्ये १ कात् । ११ च १ । १२ ॰लित स्वेनेकादियेनावाप्यते । १३ भाजनं । १४ आ •
३ ३ ० ५ १/२ । संक ५ १/२ ।
१३० श्रेणीव्यवहारः
मुखस्य १ ३ पदस्य ८ च वधः २४, एतेन धनं २ (४०) हीनम् १६, अस्य भागहारः
तद्यथा—रूपरहितो गच्छः ७, अस्मात्पदत्वेन स्थापितादेकादिचयेन सङ्कलितार्थे न्यासः—
आ १, उ ३ १, गच्छः ७, सङ्कलितं न ज्ञायते ।
तत्र कर्म—पदं ७, निर्विकलं ३, चय १ गुणम् ३, आदिना १ युतम् ४, एषोऽनष्टसंज्ञः,
मुखान्वितः ५, विचयः ४, निर्विकलपदार्धेन ४ ३/२ | हतः ६, विकलघ्नानष्टेन २ युतः ८,
एतत् सङ्कलितम् । एष भाग (हारः) स्यात् ५ षोडशानां, ततो लभ्यते (२), एष उत्तरः ।
द्वितीयोदाहरणे न्यासः—
आ ३/२ |, उत्तरो न ज्ञायते, गच्छः ७/२ |, सङ्कलितम् २७/४ ।
कर्म—मुखपदवधः २१/४, एते(न) धनं |२७/४| हीनम् ३/२, अस्य भागहारोऽयं तद्यथा—आ
१, उ ६ १, रूपरहितो गच्छः ५/२, सङ्कलितं न ७ ज्ञायते, तदर्थं कर्म—पदं ५/२, निर्विकलं २,
चयघ्नं २, सादिः ८ ३, अनष्टाख्यः, मुखान्वितः ४, विचयः ३, निर्विकलपदार्धेन १ हतः ३,
विकलघ्नानष्टेन ३/२ युतः ९/२, एतद्भागादाप्तं प्रचयः |१/३| ।
अथ वासना—'मुखपदवधेन हीनं धनमि'त्यनेन प्रचयसङ्कलितं पृथक् कृतम् ९, प्रथमपदं
वर्जयित्वा द्वितीयपदात्प्रभृति चयः प्रवर्तित इति रूपरहितं पदं कृतं तदेकाद्युत्तरेण सङ्कलितम्,
तत् १० प्रचयसङ्कलिताद्यावत्कृत्वः पतति तत्सम्मितेनेहोत्तरेण भाव्यमिति लाघवार्थं भाज्य-
भाजकवृत्तिमाश्रितः ११ ।
अथ मुखप्रचयसङ्कलितेषु (ज्ञातेषु) अज्ञातपदानयनार्थं करणसूत्रमार्याद्वयम्—
द्विचयघ्नधनात् चयदलरहितादेः १२ कृतियुतात् समासन्नम् ।
मूलं प्राङ्मूलोनं चयहतमविकलमनष्टाख्यम् ॥ ९२ ॥
व्येकं १३ चयार्धगुणितं समुखमनष्टाहतं क्षयो गणिते १४ ।
तदनष्टघ्नचयान्वितमुखभक्तमनष्टयुग्गच्छः १५ ॥ ९३ ॥
द्वाभ्यां चयेन च गुणिताद्धनाच्चयस्य दलेन रहितो य आदिस्तद्वर्गेण संयुतात्समासन्नं
वर्गमूलं, चयदलरहितादिविरहितं चयेन हृतं १६ विकलेन रहितमनष्टसंज्ञम्, तद् रूपोनं
चयस्यार्धेन गुणितमादिसहितमनष्टसंज्ञकेन राशिना गुणितं, तेन चोनं गणितं, तदनष्ट-
१ मुख्यस्य । २ °धन । ३ ३१ । ४ °र्थेन ३/२ । ५ स्यत् । ६ ३१ । ७ संकलितेन ।
८ सादि । ९ पृथक् पृथक्तुल्य । १० उत्तरः । ११ लाघवार्थं भाज्यो भाजक वृत्तमा° ।
१२ द्विचयघ्नधनाश्रयदल° । १३ एक । १४ °नष्टहतंक्षयो गणिते । १५ °तदनष्टघ्नेच° । १६ हृतं ।
श्रेढीव्यवहारः १३१
संज्ञकराशिगुणितोत्तरोपेतमुखहृतम्¹, अ(न)ष्टसहितं, पदं भवति ।
उदाहरणम् । पूर्वोक्तप्रथमोदाहरणेऽज्ञाते² गच्छे न्यासः—
आ ३, उ २, ग ०, सङ्कलितधनं ५९/३ ।³
धनात् | ५९/३ |, द्विघ्नात्⁴ ३९, (चयघ्नात् ११८, चयदलसहितादिकृति ४ युतात् १२२),
समासन्नं वर्गमूलं ११, पूर्वस्याः कृतेः ४ मूलम् २, अनेनोनात्⁵ ६, चय (२) हृतम् ३, अविकलं
(४, अनष्टाख्यम्, एतत् ४ व्येकं ३, चयार्धेन १ गुणितं ३, समुखम् ६)⁶, अनष्टसंज्ञकेन राशिना
४ गुणितं २४, क्षयो गणिते ५९/३ जातम् १३/३, एतदनष्टघ्नचयेन ८ अन्वितस्य मुखस्य ११
भाज्यम्, अतो लब्धम् १/३, अनष्टेन ४ युतं ४ १/३, सवर्णिंतं जातम् १३/३, एष गच्छः ।
१३२ श्रेढीव्यवहारः
एतद्धनोत्तरे । ऋणोत्तरे न्यासः—
आ ३, उ¹ २+, ग ३/२ ।
अत्र राशिगते कर्म—पदं ३/२, निर्विकलं ४, चयघ्नं² 'ऋणं धनर्णयोर्घात' इति ८+,
सादिः³ ऋणे योज्यमाने धनेऽन्तरमिति४ यथाऽऽहुः 'तयोर्योगे वियोगः स्यादि'ति ततो जातं ५+
अष्टषट्संज्ञञ्चैतत्, मुखान्वितं प्राग्वदृणशेषः २+, विचयः ऋणधनं पात्यमधिकीभवति यथाऽऽहुः
'वियोगे सति सङ्गम्' इति ततो जातं ०, ५निर्विकलपदार्धहतं ०, विकलघ्नानष्टः ९+, एतेन
युतं जातं ९/२+, एतदत्र गणितम् ।
क्षेत्रगते तु कर्म—६व्येकं पदं १/२, दलितं १/४, चयघ्नं १/२+, सादिः ३/२+, पदसङ्गुणं ९/४+,
(गणितम्), अनेन सवर्णितं प्राच्यं १४/४+,
।-> line 17:तदङ्घ्रिच्छेदताऽस्वपक्षसवर्णताऽवसरे१७ Footnote 18:१८ विनष्ट्वेव ।-> line 17:विनष्टैव१८, Footnote 19:१९ चयं ।-> line 18:चयग्रहणेन१९, Footnote 20:२० रहितादि ग्रं ।-> line 18:'सादिरि'ति ग्रहणेन२० Footnote 21:२१ व्यक्तेन ।-> line 20:तेनाव्यक्तार्धेनोन्मि ति२१ Footnote 22:२२ चस्यतं ।-> line 20:'चयहृतमि'ति२२ ।`
Now let's check line 2 fraction again:
In line 2: वर्गभाजितम् १ ३/२, or वर्गभाजितम् ३/२?
Wait, is there a superscript number in line 2?
Look at: वर्गभाजितम् then there is a symbol:
Wait, it's १, then a bar, then २ below? No, it looks like ३ with a horizontal bar and २ below! Wait, no, look at the numeral:
Could it be १ over २?
१३४ श्रेढीव्यवहारः
उक्ताभिप्रायात् निर्विकलमिति विकलत्वस्यातात्त्विकत्वाच्यागः¹ लब्धमविकलं पदं, तदनष्टसंज्ञया
स्थापितमुत्तरकर्मार्थं पुनरानयनार्थं च तात्त्विकविकलमात्रेणैव हि युयोजयिषत, स च विकलं
विकलधनात्सकलधनं² च ‘व्येकमित्यादिना व्येकपदार्थेत्यनुवादिना'ऽनष्ट(हित)मि'त्यन्तेन³ लब्धं⁴,
‘क्षयो गणित’ इति सविकलधनाच्छोधिते शेषं⁵ विकलधनं, तत्पञ्च(म)धनांशत्वात्तद्धनज्ञान-
मूलमिति⁶ तदानयनं ‘तदनष्टघनचयान्वितमुखभक्तम’तस्त्रैराशिकं⁷ कृतमिति⁸ लब्धस्तात्विको
विकलः, ‘अनष्टयुगि’ति सविकलपदलाभः तदुक्तं 'गच्छ' इति ।
करणसूत्रमार्या—
विषमे पदे निरेके गुणं समेऽर्धीकृते कृतिं न्यस्य ।
क्रमशः रूपस्योत्क्रमशो गुणकृतिफलमादिना गुणयेत् ॥ ९४ ॥
गुणोत्तरसङ्कलितमनेन⁹ प्रदर्श्यते, तत्र पदं विषमं वा स्यात् समं वा । यदा विषमं तदा
तन्निरेकं कार्यं गुणशब्दः गुणशब्दाद्यक्षरं ‘गु’शब्दो न्यसनीयः¹⁰, एवंकृते शेषमर्धीकृतं ततश्च
कृतिशब्दः कृतिशब्दाद्यक्ष(रं) ‘कृ’’¹¹ शब्दो न्यसनीयः, एवमपि कृते विषमात्मको यदि शेषस्तदा
तन्निरेकीकार्यं गुणशब्द इति प्राग्वत्, एवं तावत्कुर्याद्यावच्छून्यमवशिष्यते, तदनुरूपं क्रमन्यस्तगुण-
कृत्युपलक्षणाक्षरमालिकायास्तिर्यग्वीत्तराधर्येण वा व्यवस्थापिताया अन्ते (रूपं) स्थाप्यं, ततस्तस्य
रूपस्य समीपवर्त्यक्षरं गुणोपलक्षणं चेत्ततस्तद्रूपं प्रश्नस्थितेन गुणोत्तरेण गुणयेत्, वर्गोपलक्षणं
चेत्तत्तदा तद्रूपं वर्गणीयं, एवं यथाप्राप्तैकतरकर्मणि कृते तद्रूपलक्षणाक्षरं निवारयेत्,
तदनन्तरं च यदुपलक्षणाक्षरं कृतकर्मणो रूपस्य समीपमापद्यते तच्चेद् गुणोपलक्षणं
ततस्तत्प्रश्नस्थितेनेत्यादि वर्गोपलक्षणं चेत्याद्यपि उपलक्षणाक्षरलोपान्तं कर्म प्राग्वत्, एवं
यावत्सम्भवं कृत्वा यज्जायते¹² तत्प्रश्नोक्तेनादिना गुणयेत् तद् गुणोत्तरसङ्कलितं भवतीति ।
उदाहरणम्—
रूपत्रयं गृहीत्वा लाभार्थं निर्गतो वणिक् कश्चित् ।
प्रतिमासं द्विगुणधनं तस्य भवेत् किं त्रिभिर्वर्षैः ॥ १०८ ॥
कश्चिद्वणिक्¹³ रूपत्रयं मूलधनं गृहीत्वा पण्यवीथिकां निर्गतः (ए)तेन मूलधनेन व्यव-
हरतो मे लाभोऽस्त्विति, एवं तस्य वर्धयितुकामस्य तन्मूलधनं प्रतिदिवसव्यवहारात्
प्रथममासान्ते द्विगुणं भवेत् मूलधनसमो लाभः स्यात् येन त्रीणि रूपाणि षड्¹⁴ भवेयुरिति
संभाव्यते, द्वितीये च मासे तद्रूपषट्कं मूलधनं कृत्वा तथैव व्यवहारः तस्य मासान्ते¹⁵ द्विगुणितं
भवेत् यथा द्वादशरूपधनं संजायते, इत्येवं यदि वर्षत्रयं स व्यवहरेत् तदा कियद्धनं¹⁶ स्यादिति ।
¹ ºस्यता० । ² ºधानात्सक० । ³ ºपदार्थेत्य० । ⁴ ºलम्बितं । ⁵ ºधितशेषं । ⁶ ज्ञामूलनमिति ।
⁷ ºचयार्धेन ततस्त्रै० । ⁸ कृतं भक्तमिति । ⁹ कृतोत्तरमनेन । ¹⁰ निस० । ¹¹ कृश । ¹² य ज्ञायते ।
¹³ ºद्व्रिणिग् । ¹⁴ षद् । ¹⁵ प्रमासान्ते । ¹⁶ व्यहारेतिदायि कियद्धनः ।
श्रेढीव्यवहारः १३५
न्यासः—
आ¹ ३, गु २, गच्छः मासाः ३६ ।
द्विगुणिताया मासावधिकत्वाद्वर्षाणि मासीकृत्या स्थापितानि । अतः कर्म—पदं ३६,
विषमत्वाभावाच्चिरेकीकरणं सम्प्रति तावन्नास्ति सममित्य(तोऽ)र्धीक्रियते १८ लब्धमुपलक्षणार्थं
वकारः, पुनरपि सममित्यतोऽर्धीक्रियते ९ लब्धमुपलक्षणार्थं वकारः, इदानीं विषमत्वान्निरेकी-
क्रियते ८ लब्धमुपलक्षणाक्षरं गुणकारः, पुनः समत्वादर्थीक्रियते ४ लब्धं वकारः, पुनरपि
समत्वादर्थीक्रियते २ लब्धं वकारः, पुनरपि समत्वादर्थीक्रियते १ लब्धं वकारः, विषमत्वान्निरे-
कीक्रियते शून्यमवशिष्यते लब्धं गुणकारः, एवं जाते सर्वान्ते रूपन्यासः, तदेवं लब्धम्
व व गु व व व गु १
अथास्य रूपस्य लब्धाक्षरानुसारोक्तं कर्म—रूपं १, गुणः २, एतेन गुणनात् २ गुण-
शब्दलोपः, वर्गेणात् ४ वकारलोपः, वर्गणात् १६ वकारलोपः, वर्गणात्² २५६ वकारलोपः,
गुणनात् ५१२ गुकारलोपः, वर्गणात् २६२१४४ वकारलोपः, वर्गणात्³ ६८७१६४७६७३६,
एतद्रूपस्योत्क्रमगुणकृतिफलम्, आदिना ३ गुणयेत्⁴ २०६१५८४३०२०८, तल्लब्धं सङ्कलितम् ।
इदं सूत्रपदसम्मितार्वाङ्मूलधनं गुणोत्तरेणावेदिषुरिति लाघवार्थं तथापि हि सिद्धयत्येतत्तथा च
प्रथमादिमासेषु द्विगुणं द्विगुणं मूलधनं प्रतिमासं यथाऽऽगच्छति तथा लिख्यते⁶—
१. ६ १३. २४५७६ २५. १००६६३२९६
२. १२ १४. ४९१५२ २६. २०१३२६५९२
३. २४ १५. ९८३०४ २७. ४०२६५३१८४
४. ४८ १६. १९६६०८ २८. ८०५३०६३६८
५. ९६ १७. ३९३२१६ २९. १६१०६१२७३६
६. १९२ १८. ७८६४३२ ३०. ३२२१२२५४७२
७. ३८४ १९. १५७२८६४ ३१. ६४४२४५०९४४
८. ७६८ २०. ३१४५७२८ ३२. १२८८४९०१८८८
९. १५३६ २१. ६२९१४५६ ३३. २५७६९८०३७७६
१०. ३०७२ २२. १२५८२९१२ ३४. ५१५३९६०७५५२
• ११. ६१४४ २३. २५१६५८२४ ३५. १०३०७९२१५१०४
१२. १२२८८ २४. ५०३३१६४८ ३६. २०६१५८४३०२०८
¹ आ० ३ प्रगु २ गच्छ मासाः ३६ । ² वर्गणात् २२५६ ।
। । । । । । । ।
³ वर्गणात् २•६१५८४३०६८७१६८७१६४७६७ । ⁴ गुणयेत् २•६१५८४३०२० ।
५ ‘मूले’ । ६ ‘वेधिषु’ । ७ ‘लिख्यते ६।१२।२४।४८।९६।१९२।३८४।७६८।१५३६। ३०७२।
भाण्ड-प्रतिभाण्ड, जीव-विक्रय एवं सुवर्ण-गणित (Alligation)
१३६ श्रेढीव्यवहारः
करणसूत्रमार्यापूर्वार्धम्--
प्राग्वत्फलमाद्यूनं निरेकगुणभाजितं भवेद् गणितम् ।
पूर्वसूत्रोक्तवद् 'विषमे पदे निरेके गुणं समेऽर्धीकृते² कृतिं न्यस्ये'त्यादिवद्यत्फलं तत्प्रश्नो-
क्तेनादिना प्रभवेण विरहितं रूपोनेन³ गुणोत्तरेण हृतं सङ्कलितं स्यात् ।
उदाहरणम्--
एको लभते त्रीणि द्विगुणं द्विगुणं ततो परे पुरुषाः ।
पञ्चैवं लप्स्यन्ते कियद्धनं कथ्यतामाशु⁴ ॥ १०६ ॥
इदमाशु कथ्यतां (यत्) पञ्च पुरुषाः परस्य वैतनेये⁵ कर्मणि प्रवृत्तास्तेषां कर्मनिष्पा-
दनविशेषादेकः पुरुषस्त्रीणि रूपाणि लभते द्वितीयः षट् तृतीयो द्वादश चतुर्थश्चतुर्विंशतिः
पञ्चमोऽष्टाचत्वारिंशतं (तदा) तदीयलाभधनपिण्डसङ्ख्या कियतीति ।
आद्युत्तरपदेषु ज्ञातेषु (अ)ज्ञातसङ्कलितानयनार्थो न्यासः--
आ ३, गु २, गच्छः⁶ ५, सङ्कलितं न ज्ञायते ।
कर्म--'प्राग्वदि'त्यतिदेशाद्विषमे पदे निरेके ४ लब्धो गुणः, समेऽर्धीकृते⁷ २ लब्धो व, पुनः
समेऽर्धीकृते १ लब्धो व, विषमे पदे निरेके लब्धो गुणः, अन्ते रूपम् । एवं लब्धकस्थापनम्--
गु व व गु १
अथास्य रूपस्य लब्धाक्षरानुसारोक्तं कर्म--रू १, गुणः⁸ २, वर्गः ४, वर्गः १६, गुणः९ ३२, आदिना
गुणने१० (९६), इदमातिदेशिकं कर्म, अतो जातं प्राग्वत्फलं ९६, आद्यूनं११ ९३, निरेकेन१२ गुणेन १
भाजितं ९३, लब्धं सङ्कलितम्१३ (९३) ।
पूर्वस्मिन् गणिते प्रथमपद(त) एव वृद्धिप्रवृत्तिः अस्मिंस्तु द्वितीयपदात्प्रभृतीति१४
गणितविशेषारम्भः तुल्येष्वपि मुखोत्तरपदेषु (न) क्षेत्रगतराशिगतवत्१५ ।
अथ यत्राद्यन्तधनपदानि ज्ञायन्ते तत्र सङ्कलितानयनार्थं करणसूत्रमार्यापरार्धमाह--
आद्यन्तवलयधनयुतिदलेन वलयाहतिर्मूल्यम् ॥ ९५ ॥
६१४४।१२२८८।२४५७६ । ४६१५२ । ६८३ * ४। १६६६ * ८ । ३६३२१६ । ७८६४३६ ।
१५७२६६४।३१४५७२८।६१६१४५६।१२५६२६१२।२५१६५८२४।५ * ३३१६४६।१००६६-
३३६६।२०१३२६५६२।४०२६५३१८।४६५३०६३८८।१६६ * ६१२७३६।३२२१२२५४७२ ।
८४४२२४४ * ६४४ । १२८८४६ * २८८८ । २५७६६८०३७७६ । ५१५३६६०७ * ५५२ ।
१०३७६२१४११०४२०६१५८४३ * २०८ ।
१ प्राग्वत्फफमा० । २ समधीँ० । ३ रूपेण । ४ कथिता० । ५ वैनतेये । ६ आ ३३२
गच्छ । ७ समधीँक्रियते । ८ गुणः १ । ९ गुणः २ । १० गुणन । ११ अद्यूनं । १२ निरेकेतु ।
१३ संकलित । १४ ०यपादा० । १५ ०गतशशि० ।
श्रेढीव्यवहारः १३७
सीमन्तिनीभुजलताऽलङ्करणवलयावली नियमत एव परिपाटचा विपुलवृत्तोत्तरवलया
भवतीति वलयोपादानं प्रकृत्याऽऽद्युत्तरिकानुवृत्तिसूचनार्थम् । एवमादिविषये आदिधनान्त्यधन-
योगार्धं पदगुणं सङ्कलितं भवति, यथोक्तम् —
‘आदियुतान्त्यधनार्धं मध्यधनं पदगुणं गणितम् ।’
इति । यद्यपि चान्त्यधना(दा)दिधनमपास्य व्येकेन पदेनाप्तं प्रचयमुपलभ्य प्राक्तनेनैव
‘व्येकपदे’त्यादिना सूत्रेण सङ्कलितावाप्तिरस्ति तथापि लघुकरणार्थो वचनारम्भः । उक्तञ्च
यत्तत्रापि प्राचयिकम्, आद्यसम्बन्धि च धनमन्त्यधने संयोज्य¹ दलनेन मध्यधनतां नीत्वा पदघ्नं
विधाय युक्त्या सङ्कलितं साधितमिति च तस्मादन्त्यधनादानीतेनोत्तरेणान्त्यापत्तिरेव
सङ्कलितानुसरणाय कार्येति किमयत्नलब्
१३८ श्रेढीव्यवहारः
सङ्कलितं व्यक्तेन सङ्कलितेनामुना¹ २५२ सममिति न्यासः—
| या १२ | रू १५६ |
| या ० | रू २५२ |
पक्षयोरपवर्तनं द्वादशभिर्विधाय² न्यासः³—
| या १ | रू १३ |
| या ० | रू २१ |
‘संशोध्याव्यक्तमि’त्यादिना (लब्धम)व्यक्तप्रमाणं रूॅ ८, एतदादिधनम् ।
अथान्तधनं न ज्ञायते तदा⁴ यावत्तावत्परिकल्पनयाऽऽनीतगणितेन व्यक्तं गणितं स्पर्धयेत्त-
तोऽन्त्यस्वरूपं व्यक्तं भवतीति । इत्थं च कर्म—आॅ ८, अन्त्य⁶ या १, ग २४, आद्यन्तवलय-
धनयुतिः या १ रूॅ ८, दलं या | १/२ | रूॅ ४, वलयै २४ राहतं या १२ रूॅ ६६, एतद्व्यक्तसङ्कलितं
व्यक्तेनामुना २५२ सममिति न्यासः—
(या १२ रू ६६
या ० रू २५२
द्वादशभिरपवर्तिते)
या १ रूॅ ८
(या ० रू २१)
‘संशोध्याव्यक्तमि’त्यादिना लब्धमव्यक्तप्रमाणं १३, एतदन्त्यधनम् ।
अथ पदं न ज्ञायते (तदा) अव्यक्तसङ्कलित्तानयनं यथा—आॅ ८, अ १३, ग या १,
आद्यन्तवलयधनयुतिः रूॅ २१, दलं | २१/२ |, वलयैरिति गच्छेन या १ आहते८ या २१/२, एतद्-
व्यक्तसङ्कलितं व्यक्तेनामुना २५२ सममिति समच्छेदीकृत्य छेदराशिना⁹ न्यासः¹⁰—
या २१ रूॅ ०
या ० रू ५०४
पक्षयोरेकविंशत्याऽपवर्तनं
(या १ रू ०
या ० रू २४)
¹ ॰मुना १५२ सममिति न्यासः | या १२ | ऊ १५६ | ² ॰धान ।
| या ० | ऊ २५२ |
³ न्यासः या १ | ऊ १ | ⁴ ऊ । ⁵ तदाया । ⁶ अत्र या १६ । ⁷ दंलं । ८ ग्राहते | १/२ | ।
या ० | २१३ |
⁹ च्छेदराशि । १० न्यासः या २१ ऊ ॰ या ॰ ऊ ५४ ।
'संशोध्याव्यक्तमि'त्यादिना लब्धमव्यक्तप्रमाणं रू १ २४, एतत् पदम् ।
अथाद्यन्तधनयुतिः २ ज्ञायते न तु तौ पृथगिति तज्ज्ञानं यथा—आ ३ या १, अं रू २१
या १+, ग २४ ; आद्यन्तवलयधनयुतिः रू ४ २१, दलं रू ५ २१/२, वलयैराहतं रू २५२, एतद्-
व्यक्तसङ्कलितमिति व्यक्ताव्यक्तपक्षयोः साम्याद्यादृच्छिको बीजराशिः (आदिराशिः),
तच्छुद्धो मिश्रराशिः (अन्त्यराशि)रिति ।
द्विविधमिह सङ्कलितं नियतमनियतञ्च, नियतमपि द्विविधं प्रत्युत्पन्नात्मकमादिप्रच-
यात्मकं च । तत्रानन्तरोक्तयोः पदपरिच्छेदेन भाव्यम् । यदा चैतयोः पदसाम्यं धनसाम्यं चेष्यते
प्रत्युत्पन्नस्य प्रथमज्ञाने आदिप्रचयस्य चाद्युत्तरजातयोस्तदा तत्काललाभाय ६ करणसूत्र-
मार्यामाह—
नियतगतेस्त्यक्त्वाऽऽदिं ७ शेषं द्वाभ्यां समाहतं ८ विभजेत् ।
वृद्ध्याऽऽप्तमेकसहितं तुल्यगतौ जायते कालः ॥ ९६ ॥
काल इह पदस्योपलक्षणं ९, तुल्यगतावित्यत्र गतिः सङ्कलितस्य, नियतगतेरित्यत्र (च)
प्रत्येकपदधनम्, उभयोरपि धनयोः सङ्कलितयोर्नित्यत्वे परस्परपेक्षया प्रत्युत्पन्नः सुतरां
नियतत्वान्नियतोऽन्यस्त्वनियत १० इति । वापीह तथोपपत्तौ तदयमर्थः । अनियतगतिभाविनमादिं
नियतगतेरपास्य शेषं द्विगुणायानियतगतिभाविनोत्तरेण ११ विभज्य लब्धमेकाधिकं कुर्यात्, जायते
तुल्यपदज्ञानलाभः तुल्यधनलाभश्च, तन्मूल्यमुक्तकरणत एव सर्वत्र १२ ।
उदाहरणम्—
त्र्याद्येकोत्तरवृद्ध्या १३ यात्येकः प्रतिदिनं नरस्त्वन्यः ।
दश योजनानि कियता कालेन तयोर्गतिस्तुल्या ॥ १११ ॥
एकस्मिन्नेव दिने तुल्यप्रमाणमध्वानं तुल्यकालप्राप्तये द्वौ पथिकौ प्रपन्नौ, ययोरेकः
प्रथमदिने त्रीणि योजनानि गच्छति तदुत्तरदिने एकैकं योजनमधिकीकरोति, अन्यस्तु प्रतिदिनं
दशैव योजनानि याति । तयोरिदानीं कियता तुल्येन कालेन तुल्यगन्तव्यप्राप्तिर्भविष्यतीति ।
न्यासः— आ ३, उ १४ १, एकपथिकगतिः
आ १५ १०, उ ०, द्वितीयपथिकगतिः १६
अत्र नियतगते १० रनियतगतिसम्बन्धिनमादिं १७ ३ त्यक्त्वा शेषं ७, द्वाभ्यां २ समाहतं
१ ऊ । २ ॰धनयुतिर्ने । ३ ॰आ या १२ अ २२ या + ग २४ । ४ ऊ ∣ २१/२ ∣ ।
५ ऊ २५ । ६ तल्लाभाय । ७ ॰त्यक्तादि । ८ समाहितं । ९ ॰पादस्यो॰ । १० ॰त्वानियतोऽन्यसनि॰ ।
११ द्विगुणायानियतगतिभाविनात्त॰ । १२ पूर्वत्र । १३ आद्येको॰ । १४ ३ । १५ आ १० ३० ।
१६ द्वितीय॰ । १७ नियता गतिर्योनियतगतिसम्बन्धनं १० अतो आदि॰ ।
: सपञ्चाशतं (शतं)!
Wait, let's look at सपञ्चाशतं:
स प ञ्चा श तं ( शतं ) योजनानि गच्छति
Wait, 150 yojanas! "सपञ्चाशतं शतं" means "hundred with fifty", i.e. 150!
Wait, why is (शतं) in parentheses? Because maybe the editor added (शतं) to clarify that it's 150, or the manuscript had सपञ्चाशतं and (शतं) was supplied.
Yes, exactly: सपञ्चाशतं (शतं) योजनानि गच्छति, तस्माद्यद्येकेनाह्ना
Line 4:
दश योजनानि याति तदा२ पञ्चदशभिः कियन्तीति त्रैराशिकेन लभ्यन्ते३ (१५०) ।
Wait, look at footnote callouts:
तदा२
लभ्यन्ते३
(१५०) ।
Yes!
Line 5:
अनियतगतेरपि तुल्यत्वं तथा च—
Line 6:
आ ३, उ४ १, ग १५ ।
Wait, footnote 4 is on उ: उ४ १.
Line 7:
नियतगतेरपि गतिः प्रकल्पनीया उच्चावचतायाः समीकरणेन, तच्च तस्य मध्यधनं
ज्ञातव्यम् । तच्च द्विगुणं (आदिविहीनम्), अन्त्यधनम्, पुनरादिधनविहीनम्,१ उत्तर-
भक्तमेकयुतं पदं भवति । यदि वा मध्यधनमादिवियुतं द्विगुणमादिधनविहीनान्त्यधनसम्मितं
जायते, तदुत्तरभक्तमेकोनं भवति तदैव सैकं पदमिति स एषोऽन्यः२ प्रकारः सूत्रकारेण लिखितो३
लाघवार्थम् । पूर्वत्र पञ्चकर्माणीह चत्वारि ।
अथ यत्र द्वावपि सङ्कलितराशी एव तुल्यौ विषमान्यादिप्रचयपदानि प्रचययोर्वैषम्य-
मेकत्र च पक्षे४ प्रचयो निश्चितो न त्वादिः द्वितीये प्रचयोऽपि, ततः प्रथमसङ्कलितसाम्यान्तरं
द्वितीयसङ्कलितसाम्ये ज्ञाताद्यादिभिः पदानयनार्थं५ करणसूत्रमार्याद्वयमाह—
अधिकः६ प्रथमस्य चयो७ मुखमिष्टं पदमितिद्वितीयस्य८ ।
इष्टात्प्रथमस्य पदादादिः कल्प्यो द्वितीयस्य ॥ ९७ ॥
पदहृतफलविश्लेषाच्चयहृतपदयोर्विशेषदलहीनात्९ ।
चयविवरदलेन हृतादाप्तं दिवसा१० द्वितीययुतौ ॥ ९८ ॥
प्रथमप्रवृत्तस्य पश्चात्प्रवृत्तसङ्कलिते११ ज्ञातप्रचयादधिकः प्रचयो मन्तव्यः, आदिरितु
यादृच्छिकः, पश्चात्प्रवृत्तस्य१२ पदपरिमाणं यादृच्छिकम् अर्थात्१३ पश्चात्प्रवृत्तपदाधिकप्रथम-
प्रवृत्तगतकालपरिमाणं१४ पदं भवति । एवं च सति प्रथमप्रवृत्तस्यादिप्रचयपदानि जातानीति ।
तेभ्य उक्तकरणेन सङ्कलितं लभ्यते एव, तदेव चापि द्वितीयस्य१५ प्राश्निकेनेवेष्टत्वात् ।
स हि प्रथमधनसाम्ये काल१६ इष्यते । किन्त्वत्रादिरवशिष्यते स च ज्ञातैरुत्तरपदसङ्कलि-
तैरूक्तानयनकरणेनैव१७ । इतीत्थं प्रथमधनसाम्ये समधिगतपदाभ्यां१८ पृथक् पृथक् फलं विभज्य
भागाप्तयोरन्तरमासाद्य पृथक् पृथक्१९ प्रचयगुणितयोः पदयोरन्तरस्यार्धेन न्यूनीकृतं
चययोर्विशेषस्यार्धेन भजे(त्) लब्धं द्वितीयधनसाम्यकालः, प्राक्पदयोरिच्छिप्सितयोजिते२०
प्रवृत्तिकाललाभो द्वयोरपीति ।
उदाहरणम्—
षड्दिवसैः पुंसि गते केनापि मुखोत्तरेण यातोऽन्यः ।
तेनैव पथा द्विकचयमभूत् कथं मेलकद्वितयम्२१ ॥ ११२ ॥
१ आदिधनं० । २ ०ऽन्यः । ३ लम्बितो । ४ पक्षं । ५ द्वितीयोऽपि प्रचयोऽपि
संकलितयोश्च ज्यायानीयो भावो विचितकालः संकलितयोश्च मध्ये धनसम्पद्वयं ततो ज्ञाता-
द्यानयनार्थं । ६ अधिकः । ७ च युतो । ८ ०मितिद्वि० । ९ ०षाश्चय० । १० दिवसा ।
११ ०कलित । १२ ०वृत्तस्य । १३ अर्थेतु । १४ ०वृत्तेपदाधिकं प्रथमं । १५ यदेव चाप्य
द्वितीय । १६ तदैवकाल । १७ ०करण एव । १८ ०गतेपदा० । १९ ०मास्यत् पृथक्पृथथा ।
२० ०योरुच्छाप्सित्यो० । २१ मेककद्वितयं ।
१४२ श्रेढीव्यवहारः
कस्मिंश्चित्पथिके केनाप्यविज्ञातेनाद्युत्तरक्रमेण पूर्वं याते दिवसषट्ककृतप्रस्थाने
पश्चादन्यः पथिकः केनापि मुखेन द्वाभ्यामुत्तरेण¹ यातः, तयोरेवं प्रवृत्तयोरेवं गच्छतोः पथि
द्वयोर्जनयोः² (वारद्वयं) सङ्गमो दृष्टः स कथं स्यात् केनाद्युत्तरपदनियमेनेति ।
न्यासः³—प्रथमस्य आ ०, च ०, ग अतीतदिनानि ६, सं ० ।
द्वितीयस्य आ ०, च २, ग अतीतदिनानि, सं ० ।
अत्र प्रथमस्य द्वितीयादधिकश्चयः षट् च⁵ ६, मुखमिष्टमिति आदिरेकः आ १ । अथ
द्वितीयपदमिष्टं⁴ चतुष्कं ग ४ अर्थात् प्रथमस्य जातं पदं दश (१०) ।
इदानीं फलमानीयते ।
आ १, च⁶ ६, ग १० ।
पदस्य १० व्येकस्य⁷ ९ अर्धेन | ९/२ | चयः ६ गुणितः २७, सादिः २८, गच्छेन १०
गुणितः २८० (सङ्कलितम्) ।
एतदेव द्वितीयस्येति उत्तरपदसङ्कलितेषु ज्ञातेष्व अज्ञातस्यादेरानयनार्थो न्यासः—
आ ०, च २, ग⁴ ४, सं २८० ।⁸
गणितं २८०, गच्छेन ४ हृतं ७०; गच्छो ४ निरेकः⁹ ३, चयेन २ (नि)घ्नः (६), दलेन
३ ऊनं¹⁰ ६७, एष द्वितीयस्यादिः, अनेन चादिना फलं प्रथमसममेवेति तत्प्रदर्शनार्थो न्यासः—
आ ६७, च¹¹ २, ग ४ ।
पदस्य ४ व्येकस्य⁷ ३ अर्धेन | ३/२ | चयो २ (नि)घ्नः ३, सादिः¹² ७०, (प)देन (४)
सङ्गुणितः २८०, एतद् गणितम्¹³ ।
कथिताध्वना इयता च कालेनैवं गच्छतोरेको मेलको जातः । यत्र द्वितीयोऽपीष्यते
तत्राद्युत्तरौ द्वयोरपि पक्षयोरानीतावेव कालविशेषात्मकं त्वधिकं पदं ज्ञेयं तत एव च सङ्-
कलितविशेषो लभ्यते इति तदर्थं कर्म—
प्रथमपक्षस्थेन पदेन १० हृतं फलं २८, तथा द्वितीयपक्षस्थेन पदेन ४ हृतं फलं ७०,
अनयोरन्तरं ४२; तथा प्रथमपक्षस्थेन चयेन ६ स्वपदं¹⁴ १० हतं ६०, तथा द्वितीयपक्षस्थेन
चयेन २ स्वपदं¹⁵ ४ हतं (८), अनयोर्विश्लेषस्य¹⁶ ५२ दलेन २६ हीनात् (१६), चययो¹⁷
(२, ६) विवरस्य (४) (द)लेन २ हृतात् लब्धं¹⁸ ८, द्वितीययुतिकालः ।
¹ ॰रेणा । ² गच्छतो पथि द्वयोर्जनैः । ³ न्यासः आ ० ६ ० ग अती ६ त दिनानि
६ सं आ ८२ ग अतीतदि स १ । ⁴ ८ । ⁵ २१ ॰मिष्ट । ⁶ ८ । ⁷ एकस्य ।
⁸ आ ६२ ग ४ सं २६० । ⁹ स्यतं ७ | गच्छेनातिरेक ३ । ¹⁰ ऊनं ८७ । ¹¹ ६ ।
१२ सादिः ७५ । ¹³ गुणितं । ¹⁴ स्वपदं १० हतं ६० । ¹⁵ स्वपपद । ¹⁶ ॰लेषेण ।
¹⁷ दल्यो । ¹⁸ लब्धं ६ ।