पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
DevanagariHindipublished337 पृष्ठ
पृष्ठ 192, कुल 337 में से
संदर्भ में पढ़ेंपृष्ठ 192
श्रेढीव्यवहारः १३७
सीमन्तिनीभुजलताऽलङ्करणवलयावली नियमत एव परिपाटचा विपुलवृत्तोत्तरवलया
भवतीति वलयोपादानं प्रकृत्याऽऽद्युत्तरिकानुवृत्तिसूचनार्थम् । एवमादिविषये आदिधनान्त्यधन-
योगार्धं पदगुणं सङ्कलितं भवति, यथोक्तम् —
‘आदियुतान्त्यधनार्धं मध्यधनं पदगुणं गणितम् ।’
इति । यद्यपि चान्त्यधना(दा)दिधनमपास्य व्येकेन पदेनाप्तं प्रचयमुपलभ्य प्राक्तनेनैव
‘व्येकपदे’त्यादिना सूत्रेण सङ्कलितावाप्तिरस्ति तथापि लघुकरणार्थो वचनारम्भः । उक्तञ्च
यत्तत्रापि प्राचयिकम्, आद्यसम्बन्धि च धनमन्त्यधने संयोज्य¹ दलनेन मध्यधनतां नीत्वा पदघ्नं
विधाय युक्त्या सङ्कलितं साधितमिति च तस्मादन्त्यधनादानीतेनोत्तरेणान्त्यापत्तिरेव
सङ्कलितानुसरणाय कार्येति किमयत्नलब्