पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 184, कुल 337 में से
संदर्भ में पढ़ेंश्रेढीव्यवहारः १२६
तद्धनादपास्य शेषं¹ पदेन भक्तं सदादिर्भवति । इहापि 'निर्विकलपदाद् व्येकाद् दलं सविकलं
चयेन संगुणयेत् विकलविहीनपदेन चे' त्यन्तेन प्राचयिकधनसंकलना कृता, तथा द्वितीयपदात्प्र-
भृति चयः प्रवृत्त इति 'व्येकादि'(ति) कृतम् । चयेन संगुणितस्यार्धीकरणेन तुल्यमर्धीकृतस्य चयेन
गुणनमित्यादावेवार्धीकरणं², 'सविकलमि'ति विकले च भागप्राप्त्यर्थं, 'विकलविहीनपदेन' इत्य-
तश्च³ 'तदूनधन'मित्यनेनार्धपञ्चमे⁴ पदे प्रत्येकं परिसमाप्यादिसङ्कलितमवशेषयति⁵, 'पदहृत-
मि'त्यनेनादिलाभः ।
आदावज्ञाते पूर्वोक्तप्रथमोदाहरणे न्यासः—
आ⁶ ०, उ २, गच्छः ४ १/२, फलं २१ १/२ ।
अत्र कर्म—पदात् ४ १/२, निर्विकलात्⁷ (४), व्येकात् ३, दलं ३/२, सविकलं २, चयेन २
सङ्गुणयेत् ४, तथा निर्विकलपदेन च ४ गुणयेत् १६, तदू(न)धनं १९ १/२, पदेन हृतम् ३,
एष आदिः ।
अथ द्वितीयोदाहरणे⁸ न्यासः--
आ ०, च ३/२, पदं ९, सङ्कलितम् २७ १/२ ।९
निर्विकलपदात् ३, व्येकात्१० २, दलं (१), सविकलं ३/२, चयेन (३/२) सङ्गुणयेत् ९/४,
विकलविहीनपदेन (३) च¹¹ सङ्गुणयेत् २७/४, तदू(न)धनं २१/४, पदहृतम् ३/२, एष आदिः ।
अथादिपदसङ्कलितेषु ज्ञातेषूत्तरस्याज्ञातस्यानयनार्थं करणसूत्रमार्यामाह—
मुखपदवधेन हीनं धनं भजेद्रूपरहितगच्छस्य ।
सङ्कलितस्वेनैकादिचयेनावाप्यते¹² वृद्धिः ॥ ९१ ॥
मुखस्य पदस्य च वधेन हीनं सङ्कलितं भजेत्, केनेति भाजकं¹³ साधयति, गच्छस्य
रूपरहितस्य पदत्वेन स्थापितस्यैकाद्युत्तरेण यत् सङ्कलितं सोऽस्य भागहारः, ततो भागहारा-
दाप्तफलं प्रचयो भवति ।
पूर्वोक्तप्रथमोदाहरणे उत्तरेऽज्ञाते न्यासः--
आ ३, उ ०, प ५ १/२, सङ्कलितम् ५ १/२ ।१४
¹ शेष । ² ॰मित्याद्यावर्धी॰ । ³ ॰पदोन् मित्य॰ । ⁴ तदून । धनं॰ । ⁵ परिसमाप्तमादिं कलिंत्तम॰ ।
६ आ ३ २ गच्छः ४ १/२ फलं २१ १/२ । ७ पदात् ४ विर्विक॰ । ८ ॰हरण । ९ आ ३ ३/२ सं २७ १/२ ।
१० व्ये १ कात् । ११ च १ । १२ ॰लित स्वेनेकादियेनावाप्यते । १३ भाजनं । १४ आ •
३ ३ ० ५ १/२ । संक ५ १/२ ।