सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 185, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 185

१३० श्रेणीव्यवहारः
मुखस्य १ ३ पदस्य ८ च वधः २४, एतेन धनं २ (४०) हीनम् १६, अस्य भागहारः
तद्यथा—रू‍परहितो गच्छः ७, अस्मात्पदत्वेन स्थापितादेकादिचयेन सङ्कलितार्थे न्यासः—
आ १, उ ३ १, गच्छः ७, सङ्कलितं न ज्ञायते ।
तत्र कर्म—पदं ७, निर्विकलं ३, चय १ गुणम् ३, आदिना १ युतम् ४, एषोऽनष्टसंज्ञः,
मुखान्वितः ५, विचयः ४, निर्विकलपदार्धेन ४ ३/२ | हतः ६, विकलघ्नानष्टेन २ युतः ८,
एतत् सङ्कलितम् । एष भाग (हारः) स्यात् ५ षोडशानां, ततो लभ्यते (२), एष उत्तरः ।
द्वितीयोदाहरणे न्यासः—
आ ३/२ |, उत्तरो न ज्ञायते, गच्छः ७/२ |, सङ्कलितम् २७/४ ।
कर्म—मुखपदवधः २१/४, एते(न) धनं |२७/४| हीनम् ३/२, अस्य भागहारोऽयं तद्यथा—आ
१, उ ६ १, रूपरहितो गच्छः ५/२, सङ्कलितं न ७ ज्ञायते, तदर्थं कर्म—पदं ५/२, निर्विकलं २,
चयघ्नं २, सादिः ८ ३, अनष्टाख्यः, मुखान्वितः ४, विचयः ३, निर्विकलपदार्धेन १ हतः ३,
विकलघ्नानष्टेन ३/२ युतः ९/२, एतद्भागादाप्तं प्रचयः |१/३| ।
अथ वासना—'मुखपदवधेन हीनं धनमि'त्यनेन प्रचयसङ्कलितं पृथक् कृतम् ९, प्रथमपदं
वर्जयित्वा द्वितीयपदात्प्रभृति चयः प्रवर्तित इति रूपरहितं पदं कृतं तदेकाद्युत्तरेण सङ्कलितम्,
तत् १० प्रचयसङ्कलिताद्यावत्कृत्वः पतति तत्सम्मितेनेहोत्तरेण भाव्यमिति लाघवार्थं भाज्य-
भाजकवृत्तिमाश्रितः ११ ।
अथ मुखप्रचयसङ्कलितेषु (ज्ञातेषु) अज्ञातपदानयनार्थं करणसूत्रमार्याद्वयम्—
द्विचयघ्नधनात् चयदलरहितादेः १२ कृतियुतात् समासन्नम् ।
मूलं प्राङ्मूलोनं चयहतमविकलमनष्टाख्यम् ॥ ९२ ॥
व्येकं १३ चयार्धगुणितं समुखमनष्टाहतं क्षयो गणिते १४ ।
तदनष्टघ्नचयान्वितमुखभक्तमनष्टयुग्गच्छः १५ ॥ ९३ ॥
द्वाभ्यां चयेन च गुणिताद्धनाच्चयस्य दलेन रहितो य आदिस्तद्वर्गेण संयुतात्समासन्नं
वर्गमूलं, चयदलरहितादिविरहितं चयेन हृतं १६ विकलेन रहितमनष्टसंज्ञम्, तद् रूपोनं
चयस्यार्धेन गुणितमादिसहितमनष्टसंज्ञकेन राशिना गुणितं, तेन चोनं गणितं, तदनष्ट-
१ मुख्यस्य । २ °धन । ३ ३१ । ४ °र्थेन ३/२ । ५ स्यत् । ६ ३१ । ७ संकलितेन ।
८ सादि । ९ पृथक् पृथक्तुल्य । १० उत्तरः । ११ लाघवार्थं भाज्यो भाजक वृत्तमा° ।
१२ द्विचयघ्नधनाश्रयदल° । १३ एक । १४ °नष्टहतंक्षयो गणिते । १५ °तदनष्टघ्नेच° । १६ हृतं ।