पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 191, कुल 337 में से
संदर्भ में पढ़ें१३६ श्रेढीव्यवहारः
करणसूत्रमार्यापूर्वार्धम्--
प्राग्वत्फलमाद्यूनं निरेकगुणभाजितं भवेद् गणितम् ।
पूर्वसूत्रोक्तवद् 'विषमे पदे निरेके गुणं समेऽर्धीकृते² कृतिं न्यस्ये'त्यादिवद्यत्फलं तत्प्रश्नो-
क्तेनादिना प्रभवेण विरहितं रूपोनेन³ गुणोत्तरेण हृतं सङ्कलितं स्यात् ।
उदाहरणम्--
एको लभते त्रीणि द्विगुणं द्विगुणं ततो परे पुरुषाः ।
पञ्चैवं लप्स्यन्ते कियद्धनं कथ्यतामाशु⁴ ॥ १०६ ॥
इदमाशु कथ्यतां (यत्) पञ्च पुरुषाः परस्य वैतनेये⁵ कर्मणि प्रवृत्तास्तेषां कर्मनिष्पा-
दनविशेषादेकः पुरुषस्त्रीणि रूपाणि लभते द्वितीयः षट् तृतीयो द्वादश चतुर्थश्चतुर्विंशतिः
पञ्चमोऽष्टाचत्वारिंशतं (तदा) तदीयलाभधनपिण्डसङ्ख्या कियतीति ।
आद्युत्तरपदेषु ज्ञातेषु (अ)ज्ञातसङ्कलितानयनार्थो न्यासः--
आ ३, गु २, गच्छः⁶ ५, सङ्कलितं न ज्ञायते ।
कर्म--'प्राग्वदि'त्यतिदेशाद्विषमे पदे निरेके ४ लब्धो गुणः, समेऽर्धीकृते⁷ २ लब्धो व, पुनः
समेऽर्धीकृते १ लब्धो व, विषमे पदे निरेके लब्धो गुणः, अन्ते रूपम् । एवं लब्धकस्थापनम्--
गु व व गु १
अथास्य रूपस्य लब्धाक्षरानुसारोक्तं कर्म--रू १, गुणः⁸ २, वर्गः ४, वर्गः १६, गुणः९ ३२, आदिना
गुणने१० (९६), इदमातिदेशिकं कर्म, अतो जातं प्राग्वत्फलं ९६, आद्यूनं११ ९३, निरेकेन१२ गुणेन १
भाजितं ९३, लब्धं सङ्कलितम्१३ (९३) ।
पूर्वस्मिन् गणिते प्रथमपद(त) एव वृद्धिप्रवृत्तिः अस्मिंस्तु द्वितीयपदात्प्रभृतीति१४
गणितविशेषारम्भः तुल्येष्वपि मुखोत्तरपदेषु (न) क्षेत्रगतराशिगतवत्१५ ।
अथ यत्राद्यन्तधनपदानि ज्ञायन्ते तत्र सङ्कलितानयनार्थं करणसूत्रमार्यापरार्धमाह--
आद्यन्तवलयधनयुतिदलेन वलयाहतिर्मूल्यम् ॥ ९५ ॥
६१४४।१२२८८।२४५७६ । ४६१५२ । ६८३ * ४। १६६६ * ८ । ३६३२१६ । ७८६४३६ ।
१५७२६६४।३१४५७२८।६१६१४५६।१२५६२६१२।२५१६५८२४।५ * ३३१६४६।१००६६-
३३६६।२०१३२६५६२।४०२६५३१८।४६५३०६३८८।१६६ * ६१२७३६।३२२१२२५४७२ ।
८४४२२४४ * ६४४ । १२८८४६ * २८८८ । २५७६६८०३७७६ । ५१५३६६०७ * ५५२ ।
१०३७६२१४११०४२०६१५८४३ * २०८ ।
१ प्राग्वत्फफमा० । २ समधीँ० । ३ रूपेण । ४ कथिता० । ५ वैनतेये । ६ आ ३३२
गच्छ । ७ समधीँक्रियते । ८ गुणः १ । ९ गुणः २ । १० गुणन । ११ अद्यूनं । १२ निरेकेतु ।
१३ संकलित । १४ ०यपादा० । १५ ०गतशशि० ।