सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

तपःकार्यत्वाद्, आनन्त्यब्रह्मसायुज्यवत् । साङ्ख्ययोगाभ्युदयादि-
गतिविशेषविशेषितत्वाद् उपरिष्टाद् वर्तत इत्यर्थः । तस्मात् तपसः फलं
विशेषार्थमभिधीयते योगोऽतिगतिमि(?रि)ति । अतिगतिमिति कर्म ।
गमयते । न तावद् गतः गमिष्यति, किन्तु गमयतीत्यर्थः ॥ १७ ॥
आह—अतिदानाद् यथावत् तपसो गुणवचनं किमस्ति नेति ? ।
उच्यते—अस्ति । यस्मादाह—
तस्मात् ॥ १८ ॥
इति । अत्र तस्माच्छब्दस्तपसो गुणवचने । तस्मादतिदानादि-
निष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति । न स्थानशरीरे-
न्द्रियविषयादिप्राप्तौ । ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवाना-
वृत्तिफलत्वं च दृष्ट्वा । अतो ब्रवीति तस्मादिति ॥ १८ ॥
आह—अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं
कर्तव्यम् ? । तदुच्यते—तदर्थमेव,
भूयस्तपश्चरेत् ॥ १९ ॥
अत्र भूयः पुनःसन्धाने द्रष्टव्यः, इष्टापूर्तवत् । कथम्? । हर्षेष्वभि-
सक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा सन्धाने
भूयःशब्दोऽभिहितः । तस्मादत्र तपस्तदेव । निरुक्तमस्य पूर्वोक्तम् ।
चरेद् इत्यर्जनमधिकुरुते । धर्मानेकसंशयान्यत्वाच्च अपुनरुक्तोऽयं चर-
शब्दो द्रष्टव्यः ॥ १९ ॥
आह—यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ? ।
माहात्म्यस्य वा को गुणः, यस्मात् तद् ग्राह्यमिति ? । तदुच्यते—
कुरुते माहात्म्यम् । *यस्मादाह—

  • अवतारिकेयं न सङ्गच्छते इति प्रतिभाति.

द्वितीयोऽध्यायः । ७१
नान्यभक्तिस्तु शङ्करे ॥ २० ॥
अयं नकारोऽन्यभक्तिप्रतिषेधे । भक्तिर्भावनेत्यर्थः । तुशब्दो
विशेषणे । कथम् ? । ये हर्षेष्वभिसक्ताः दूप्यतः(?) तस्करत्व-
मापन्नाः, ते विशेषेण तु शङ्कराद् दूरस्था भवन्ति । शङ्करः कस्मात् ? ।
समस्तसुखनिर्वाणकरत्वाच्छङ्करः । शङ्करे इत्यौपश्लेषिकं सन्निधानम् ।
शङ्करे भावना कर्तव्या नान्यत्रेत्यर्थः । उक्तं हि—
“कर्मणा मनसा वाचा यदश्लक्ष्णं निषेवते ।
तदभ्यासो हरत्येनं तस्मात् कल्याणमाचरेत् ॥
एवमेते महात्मानः प्राहुरात्मचिन्तकाः ।
यच्चित्तस्तन्मयो भावो गुह्यमेतत् सनातनम् ॥
गच्छंस्तिष्ठन् शयानो वा जाग्रच्चैव स्वपंस्तथा ।
शङ्करे भावनां कुर्याद् यदीच्छेद् योगमात्मनः ॥
यस्मात् क्षयान्ते त्रैलोक्यं शङ्करे याति संक्षयम् ।
तस्मात् संवर्तको धाता शङ्करस्त्वभिधीयते ॥”
एवं शङ्करे भाव उपश्लेषितव्यो नान्यत्रेत्यर्थः ॥ २० ॥
एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम्—
अत्रेदं ब्रह्म जपेत् ॥ २१ ॥
इति । अस्य पूर्वोक्तोऽर्थः ॥ २१ ॥
आह—धर्मपरिणामकत्वात् शङ्करत्वात् सुखद ईश्वरोऽभिहितः ।
अथान्तरसृष्टयां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवद्

७२ सभाष्ये पाशुपतसूत्रे
उत नेति ? । उच्यते— अत्र य उपायः सुखदः तथा वक्ष्यामः
यथावान्यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ।
ननु कोर्यकलवन्निराधिकारस्तथा वक्ष्यामो विस्तरशश्चास्मिन् ब्रह्मणि
कारणशक्तिं वक्ष्यामः । शक्तिं च ज्ञात्वा यथा साधकोऽष्टाभिर्नमस्कारै-
रात्मानं ददाति, तथा वक्ष्यामः । अत इदमारभ्यते—
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २२ ॥
इति । प्रयोगान्यत्वात् प्रयोजनान्यत्वाच्चापुनरुक्ता वामदेवा दिशब्दा
द्रष्टव्याः। अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च (अ० २, सू० १-४)
पूर्वोक्तम् । वामदेवज्येष्ठरुद्रायेति चतुर्थी । नम इत्यात्मप्रदाने
पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वत्रनमस्कारा द्रष्टव्याः
॥ २२ ॥
आह— किं चतुष्कमेवात्र कारणे चिन्त्यते ? । नामचतुष्कापदेशेन
वा नाम्नि नमस्कारो द्रष्टव्यः ? । उच्यते— न । यस्मादाह—
कालाय नमः ॥ २३ ॥
अत्र काल इत्येष महेश्वरपर्यायः । कस्मात् ? । पूर्वोत्तरसूत्र-
सामर्थ्यात् । कलयते यस्मात् क्षेत्रसाधिनिष्ठानि(?)स्थानानि कलादि-
शरीरेन्द्रियविषयादिभ्यो वियोगेनेति, ततः कालः । उक्तं हि—
१. 'परमोत्कृष्टं गुणधर्मनिमित्तनामाभिधेयत्वं वामत्वम् । दुःखान्तनिमित्तधर्मो-
त्पादकनामाभिधेयत्वं वा । स्वेच्छयैवाशेषकार्योत्पत्त्यादिकारणस्वभावः क्रीडा, तद्धर्मित्वं
देवत्वम् । सिद्धसाधकपशुभ्यः परत्वं ज्येष्ठत्वम् । सर्गादावपि रुतभयंसंयोजकत्वं रुद्रत्वम्' ।
गणकारिकाव्याख्या page 11.

द्वितीयोऽध्यायः । ७३
“ब्रह्मादिभूर्जपर्यन्तं जगदेतच्चराचरम् ।
यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥
काल्यान् कलयते यस्मात् कलाभ्यः कालपर्ययात् ।
कलनात् कालनाच्चापि काल इत्यभिधीयते ॥”
एवं कालो हि भगवान् । काल्याः क्षेत्रज्ञाः । स्थानानि तु
ब्रह्मेन्द्रदेवर्षिपत्रादिवचनाद् ब्राह्मं प्राजापत्यं सौम्यम् ऐन्द्रं गान्धर्वं याक्षं
राक्षसं पैशाचमिति । तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्तादिवचनात्
तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् । तथा योगेश्वराः
देवेष्वन्तर्भूताः। कस्मात् ?। धर्मबाहुल्यात् । तथा नारकास्तिर्यक्ष्वन्त-
र्भूताः। कस्मात् ?। अधर्मबाहुल्यात् । एवं स्थानतश्चतुर्दशकः संसार
इत्युपचर्यते । एतेषु कलादिवचनान्महेश्वरो निमित्तम् । कस्मात् ?।
पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् । आदिमान् संसारो
द्रष्टव्यः । तत्फलभोक्तृत्वात् । कार्यकारणयोरनादित्वाद्, अनादिः
अकृताभ्यागमादित्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं
ज्ञात्वा युक्तं वक्तुं कालाय नमः। अत्रापि कालाय इति चतुर्थी ।
नम इत्यात्मप्रदाने पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्तोऽयं
नमस्कारो द्रष्टव्यः ॥ २३ ॥
आह—अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः
कर्ता भवति नेति ?। उच्यते—प्रभुः कर्तैव । यस्मादाह—
१'अन्तस्सृष्ट्यावपि संहार कर्तृत्वे कालत्वम्' गणकारिका व्याख्या Page 11

७४ सभाष्ये पाशुपतसूत्रे
कलविकरणाय नमः ॥ २४ ॥
अत्र कला नाम—कार्यकरणाख्याः कलाः । तत्र कार्याख्याः
पृथिव्यापस्तेजो वायुराकाशः । आकाशः शब्दगुणः ।
“शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि ।
ते रसश्च जले ज्ञेयास्ते च गन्धः क्षितावपि ॥”
शब्दस्पर्शरूपरसगन्धाः । तथा करणाख्याः श्रोत्रं त्वक् चक्षुः जिह्वा
घ्राणं पादः पायुः उपस्थः हस्तः वाक् मनः अहङ्कारः बुद्धिरिति । तासां
विकरणो भगवानीश्वरः । कस्मात् ? । दृक्क्रियाशक्त्योरप्रतिघातात् ।
विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसन्निवेशेन विस्तरविभाग-
विशेषतश्च कार्यकरणाख्याभिः कलाभिर्धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञाना-
वैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद् भगवत्यभ्यधिकत्वं शेषेषु
च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ।
अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ।
सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमःशब्दः ॥ २४ ॥
आह—कालनाविकरणत्वाद् अवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे
चापेक्षते नेति ? । धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान्
प्रभुर्भवति नेति ? । उच्यते—प्रभुः । यस्मादाह—
बलप्रमथनाय नमः ॥ २५ ॥
बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्या(णि) इच्छा-
द्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि । प्र इति भृशार्थे कामित्वाकर्षणे च ।
१. ‘कार्यकरणाख्यानां कलानां स्थानशरीरादिभावेन संयोजकत्वं कलविकरणत्वम्’ ।
गणकारिकाव्याख्या page 11.

द्वितीयोऽध्यायः । ७५
मथनत्वं नाम बलवृत्तिनिरोधनम् उदधिमथनवत् । न वाभिज्ञानादीनि
दुर्बलानि (?) । यस्मादुक्तं—
“ न ह्यतेजस्विनाशाय तैजसाः प्रभवन्ति वै ।
बलान्यतिबलान्यस्य न भवेऽतिबलानि वै (?) ॥”
इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं
बलप्रमथनाय नमः । अत्रापि बलप्रमथनाय इति चतुर्थी । नम इत्यात्म-
प्रदाने पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो
द्रष्टव्यः ॥ २५ ॥
आह—केषां कालनविकरणमथनानि करोति ? । तदुच्यते—
भूतानाम् । यस्मादाह—
सर्वभूतदमनाय नमः ॥ २६ ॥
अत्र कलावचने पुनरुक्तिदोषात्न पृथिव्यादिषु सर्व(भूत)शब्दः ।
किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः । आह—भूतत्वानुपपत्तेर्न
चेतनेषु सर्वभूतशब्दः* । तदुच्यते—दमनाय । शमु दमु उपशमे ।
देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधि-
वासना तत्सर्वमन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद् भगवत्य-
भ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय
१. ‘धर्मादिबलानां यथेष्टं वृत्तिलाभलोपाक्षेपकर्तृत्वं बलप्रमथनत्वम्’ । गणकारिका-
व्याख्या page 11.

  • Seems few words are missing here.

७६ सभाष्ये पाशुपतसूत्रे
नमः¹ । अत्रापि सर्वभूतदमनाय इति चतुर्थी । नम इत्यात्मप्रदानं-
पूजायां च । सम्भावनान्यत्वाचापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ २६ ॥
आह—कीदृशे महेश्वरे कालनादिशक्तिरुच्यते ?, किं सकले
निष्कले उत उभयोरपि ? । उच्यते—उभयोरपि । यस्मादाह—
मेनोऽमनाय नमः ॥ २७ ॥
अत्र मनःशब्देनान्तःकरणं, तत्तत्त्वादुदाहरणार्थत्वाच्च मनो-
ग्रहणस्य, उभयात्मकत्वाच्च मनसः सर्वकरणग्रहणानुग्रहणाच्च, कार्य-
ग्रहणमित्यतः कार्यकारणाधिष्ठातृत्वाच्च सकल इत्युपचर्यते । तथा
चैतादृशमनसः प्रतिषेधादत्र कार्यकारणरहितो निष्कलो भगवान्
अमन इत्युच्यते । तस्मात् सकलेतरानुग्राहकानादिशक्तिर्विद्यते । उक्तं
हि—
“ अपाणिपादोदरपार्श्वजिह्वः
अतीन्द्रियो व्याप्तिस्वभावसिद्धः ।
पश्यत्यचक्षुः स शृणोत्यकर्णो
न चास्त्यबुद्धं न च बुद्धिरस्ति ॥
स वेत्ति सर्वं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् ॥ ”
१. 'सर्वदेवमानुषतिरश्चां रतिरञ्जनाधिवासनाकर्तृत्वं सर्वभूतदमनत्वम्' । गण-
कारिकाव्याख्या page 11.
२. 'वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कल-
विकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो
मनोन्मनाय नमः' इति तैत्तिरीयपाठः.

तृतीयोऽध्यायः । ७७
इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं
वक्तुं मनोऽमनाय नमः । १मनोऽमनाय इति चतुर्थी । नम इत्यात्म-
प्रदाने पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वे नमःशब्दा
द्रष्टव्याः ॥ २७ ॥
एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये द्वितीयोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥
तृतीयोऽध्यायः ।
इदानीं तृतीयमध्यायमवसरप्राप्तं सम्बन्धं कृत्वा वक्ष्यामः ।
आह—यद्येवं तस्मादुच्यतां कतमस्य पदार्थस्य विचारणायां तृतीयो-
ऽध्यायः सम्बध्यते ? । तदुच्यते—विधिशेषेण । कस्मात् ? । इह
पुरस्तादुक्तम्—अकलुषमतेः, चरतः (अ० १, सू० १८-१९) चर्यायां
चर्यायां (अ० २, सू० १३) तस्माद्, भूयस्तपश्चरेद् (अ० २, सू० १८-१९)
इति नियोगोऽभिहितः । तस्माद् लिङ्गधारि-त्रिपवण-आयतन-
हसितादिषु (अ० १, सू० ६, २, ७, ८) सूत्रेषु पूर्वोक्तान्यवस्थानकाल-
देशक्रियाप्रयोगप्रयोजनान्तराणि । तद्व्यतिरिक्तानि अन्यान्यपि
अवस्थानकालदेशादीनि शुद्धिवृद्ध्यर्थं वक्ष्यामः । यस्मादाह—
१. 'सकलनिष्कलावस्थायास्तुल्यशक्तित्वं मनोऽमनत्वम्' । गणकारिकाव्याख्या
page 11.

७८ सभाष्ये पाशुपतसूत्रे
अव्यक्तलिङ्गी ॥ १ ॥
इति । अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति । अवसित-
प्रयोजनः पूर्वोक्तैर्लिङ्गोपकरणैरनुस्नाननिर्मात्यैकवासाद्यैः प्रयोजनै-
र्विनिवृत्तैर्लोकसन्निधौ स्नानं कुर्वन्नपि । पेड़ाश्रमलिङ्गानु'प'लब्धावनवधृतो-
क्तालिङ्गवदव्यक्ताः क्रियाः कार्याः ॥ १ ॥
आह—कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ? ।
तदुच्यते—
व्यक्ताचारः ॥ २ ॥
अत्र व्यक्तशब्दो दिवसमधिकुरुते । व्यक्ताः स्फुटाः प्रकाशाः ।
अहनीत्यर्थः । आङ् इत्यवमानादिनिष्पत्तिमर्यादामधिकुरुते । चार इति
क्राथनादीनामुद्देशः । तान् क्राथनादीन् साधको नटदवस्थितो रङ्ग-
वल्लौकिकानाधिजन्य (?) नाटकवदाचारानाचरति करोति प्रयुङ्क्त
इत्यतोऽयं व्यक्ताचारः ॥ २ ॥
आह—अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ? ।
तदुच्यते—अवमानः । यस्मादाह—
अवमतः ॥ ३ ॥
अत्र अव वर्जने । मानेन तेषां लिङ्गाचारज्ञानविधिविपरीत-
प्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयता-
न्यतोऽयमवहुमतत्वं प्राप्नोति(?) । उक्तं च—
१. ब्रह्मचारी, गृहस्थः 'वानप्रस्थः, संन्यासी, पाषण्डः and सिद्धः ।

तृतीयोऽध्यायः । ७९
“अमृतस्येव लिप्सेत नैव मानं विचक्षणः ।
विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥
सुखं ह्यवमतः शेते सर्वसङ्गविवर्जितः ।
दोषान् परस्य न ध्यायेत् तस्य पापं सदा मुनिः ॥ ”
इति ॥ ३ ॥
आह—केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ? ।
तदुच्यते—
सर्वभूतेषु ॥ ४ ॥
अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः । कस्मादुच्यते वर्णा-
श्रमिष्विति ? । भूतेषु इत्युक्तं, नतु देवतिर्यग्योनिम्लेच्छादिषु ।
कस्मात् ? । व्यक्ताचारावमानदानादानविरोधात् । उक्तं हि—
“ (धन्यो देशो) यत्र गावः प्रभूताः
मेध्यं चान्नं पार्थिवा धर्मशीलाः ।
पुण्या नद्यः सर्वलोकोपभोग्याः
तांस्तान् देशान् सिद्धिकामो व्रजेत ॥”
भूतेषु इति सामीपिकं सन्निधानम् । भूतसमीपे भूताभ्याशे
भूतानामध्यक्ष इत्यर्थः । सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतर-
त्वादस्य विध्याचरणम् । असुरेषु (अ० ४, सू० १०) इत्याचरण-
ज्ञापकाच्च ॥ ४ ॥
आह—अवमतेन सर्वभूतेषु किं कर्तव्यम् ? । तदुच्यते—
चरितव्यम् । यस्मादाह—
१. मनुस्मृतिः २-१६२, १६३.

८० सभाष्य पाशुपतसूत्रे
परिभूयमानश्चरेत् ॥ ५ ॥
अत्र परि सर्वतोभावे । पगक्ष्याः परीक्ष्या इत्यर्थः(?) । भूय
इति बहुधा । यष्टिमुष्ट्यादिभिः संयोजनं परिभवः । कायिक
इत्यर्थः । मान इति साधककालकर्माभिधाने । परिभूयमानेनैव ।
स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः । कनकपाषाणवद्
इन्द्रकीलकवच्च भवितव्यम् । चरेद् इत्यर्जनमधिकुरुते । धर्मार्जने
नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ ५ ॥
आह—अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव, उत
शुद्धिरप्यस्ति ? । उच्यते—अस्ति ! यस्मादाह—
अपहतपाप्मा ॥ ६ ॥
भवतीति वाक्यशेषो वचनाधिकाराद् गम्यते । अत्र अप
वर्जने आघाते नाशे च । अपहता अन्यतनष्टा इत्यर्थः(?) । पाप्मानोऽत्र
द्विविधाः सुखलक्षणाः दुःखलक्षणाश्च । (तत्र सुखलक्षणाः)—उन्मादः
मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं
बहुभोजनमित्येवमाद्याः । तथा दुःखलक्षणाः—शिरोरोगदन्तरोगाक्षि-
रोगाद्याः । एवमेते पाप्मान आत्मगताः कार्यकारणेष्वादर्शप्रतिरूपक-
वदभिव्यक्ताः । कृत्स्नाः अपहताः (अन्यतमस्य?) पाप्मानः सोऽयमप-
हतपाप्मा भवतीत्यर्थः ॥ ६ ॥
आह—किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य
पापक्षयशुद्धिहेतुः, आहोस्वित् वाचिकमप्यस्ति नेति ? । उच्यते—
यस्मादाह—

• ८१
तृतीयोऽध्यायः ।
परेषां परिवादात् ॥ ७ ॥
अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः
संयोजयन्ति, तेषाम् । परेषाभ् इति षष्ठीबहुवचनम् । आह—(स्वप)र-
वाक्यावमानादिभिः शुद्धिरैवास्य, न तु वृद्धिः । सा च साधकस्य फला-
भिधानाद् अतिदानादिष्वित्युच्यते, न पूर्वकृतसुकृतदानविवक्षया ।
परि इति च सर्वतोभावे । वद वादः । अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं
मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्कामी असभ्यकारी
असम्यग्वादी इत्येवमुग्रैर्वचोभिरभिघ्नन्तीति वादाः । वादाद् इति
निमित्तपञ्चमी द्रष्टव्या । तस्मादवमानादिभिः परान् संयोजयता
स्वयमेवात्मा संयोक्तव्यः । अन्यथा पाशमात्रः स्यादिति (?) ॥ ७ ॥
(आह)—पाप्मनां वा जानपदेशात् सन्देहः । कस्य कार्यं
पाप्मनः (१) । कथं वा तेषां कार्यकारणेष्वभिव्यक्तानां परसमुत्थैरव-
मानादिभिर्निर्घातनं भवति ? तदुच्यते । यस्मादाह—
पापं च तेभ्यो ददाति ॥ ८ ॥
अत्र पापम् इत्यधर्मपर्यायः । तद्यथा—
“ आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् ।
पापं पाप्मानं वृजिनं स्तेयम् ........ (?) ॥”
१. 'पञ्चसु पवित्रेष्वावर्त्यमानेषु दशभिर्नमस्कारैः परमेश्वरायात्मसमर्पणं दानं,
तदेवातिदानम् अनावृत्तिफलत्वात् । परमेश्वरनियोगाभिसन्धिना भस्मस्नानादिक्रियाणां यथा-
विहितकरणं यागः, स एवातियागः । स्वाविध्यभिनिविष्टस्यैव त्रिविधदुःखोपनिपाते सति
अनुपायतः प्रतीकारमकुर्वतः सहिष्णुत्वं तापः, स एवातितापः'. गणकारिकाव्याख्या
page 17 & 18.
11

८२ सभाष्ये पाशुपतसूत्रे
इत्येकार्थवाचकाः शब्दाः । इह चोक्तं पापमिति । पापं च कस्मात् ? ।
पावक(पातक)पासकत्वात् पापम् । पावयति यस्मात् शिरोरोगदन्त-
रोगाक्षिरोगादिभिः, पातयति नरकादिषु, पासयति वानिष्टाभिः कार्य-
करणाख्याभिः कलाभिरिति । अतः पावकपातकपासकत्वात् पापम् ।
एवं च बीजाङ्कुरवत् पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः । बीज-
पापप्रसवाः पाप्मान इत्यर्थः । तेभ्य इति चतुर्थी सम्प्रदानार्था ।
अथ (ये) एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति,
सङ्क्रामयतीत्यर्थः ॥ ८ ॥
आह—किमवमानादिभिः शुद्धिरेवास्य, न तु वृद्धिरिति ? ।
तदुच्यते—वृद्धिरप्यस्ति । यस्मादाह—
सुकृतं च तेषामादत्ते ॥ ९ ॥
अत्र सु प्रशंसायाम् । कृतम् इति धर्मपर्यायः । चशब्दः शुद्धि-
समुच्चयार्थः पूर्वधर्मनियोगार्थश्च । तेषाम् इति । ये अवमानादिभिः
संयोजयन्ति, तेषामित्यर्थः । तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य
कृत्स्नस्यादानज्ञापनार्थम् । आदत्ते । आ ग्रहणे । स्वात्मनि करोति
विषमं वा इहातुरवदित्यर्थः ॥ ९ ॥
आह—अतिदानाद्यतितपोवदवमानादिसाधनं गुणवचनं किमस्ति
नेति ? । उच्यते—अस्ति । यस्मादाह—
तस्मात् ॥ १० ॥
इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने । कथम् ? ।
यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ।

तृतीयोऽध्यायः । ८३
यस्माच्च तन्निष्ठाल्लौकिकशरीरेन्द्रियविषयादिप्रापकः (?) ऐकान्तिका-
त्यन्तिकरुद्रसमीपप्राप्तिरेकान्तेनात्यन्तिकी भवति । अतो ब्रवीति
तस्मादिति ॥ १० ॥
आह—अथैतदवमानादिसाधनमेव कर्तव्यम् ? । किं वा अव्यक्ताव-
स्था(नाये ? ने)नैव चरितव्यम् ? । तदुच्यते—न । यस्मादाह—
प्रेतवच्चरेत् ॥ ११ ॥
अत्र पुरुषाख्यः प्रेतः, न मृताख्यः । कस्मात् ? । आचरणोप-
देशात् । वद् इति किञ्चिदुपमा । उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन
रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् । अतो
वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते । प्रयोजननिष्पत्तिश्च भवति
अवमानादि । चरेद् इत्याज्ञामधिकुरुते । धर्मार्जने नियोगे च ।
संशयान्यत्वाच्चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ ११ ॥
आह—चरतोऽस्य के क्रियाविशेषाः ? । का वार्थनिष्पत्तिः ? ।
आचाराणां वा को विस्तारः ? । तदुच्यते—
क्राथेत वा ॥ १२ ॥
अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः, तदा आचार्य-
सकाशान्निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां
समूहस्तत्र तेषां नातिदूरे नातिसन्निकर्षे यत्र च तेषां नोपरोधो
दृष्टिनिपातश्च भवति, तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य
निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि । तत्रैवानेनासुप्तेन
सुप्त इव भवितव्यम् । ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः

कर्तव्यः। ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः
प्रपद्यन्ते परिभवन्ति च । अनेनानृताभियोगेनास्य यत् तेषां सुकृतं
तदागच्छति । अस्यापि च यत् पापं तत् तान् प्रति ।
एवं क्राथनम् इति क्रिया । इत इत्यभिजने आज्ञायां नियोगे च ।
वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ १२ ॥
आह—अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः,
हसितादिवत् (अ० १, सू० ८) । कस्माद् भाविवचनं भवति ? ।
उच्यते—पृथगभिधाने सत्यपि हसितगीतनृत्यवत् सन्देहः। पृथगभिधाने
सत्यपि हसितगीतयोः पृथक् पृथक् प्रयोगः । अत्र विभक्तयोस्तु
गीतनृत्ययोः । अध्ययनयन्त्रणयोश्च । तस्मात् पृथगभिधानमनुरतो
वा विभागे भवतान्यदोषः (?) । ततः क्राथनक्रियायावमानादिषु
निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् । यथा
लौकिकानां सम्प्रत्ययो भवति, किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति।
अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् । यस्मादाह—
स्पन्देत वा ॥ १३ ॥
अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते । कस्मात् ? । ज्ञानेच्छा-
प्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः । द्रष्टारो हि वायुसंसृष्टो-
ऽयमिति लौकिकाः प्रतिपद्यन्ते (प)रिभवन्ति च। अनेनानृताभियोगेनास्य
तत्पुण्यमागच्छति, अस्यापि च यत् पापं तान् गच्छति । एवं
स्पन्दनम् इति क्रिया । इत इत्यभिजने आज्ञायां नियोगे च । एवमादि-
१. 'असुप्तस्यैव सुप्तलिङ्गप्रदर्शनं क्राथनम्', २. 'वातवाभिभूतस्येव शरीरावयवानां
कम्पनं स्पन्दनम्' । गणकारिकाव्याख्या page 19.

तृतीयोऽध्यायः । ८५
साधने सति, वा विकल्पे, रौद्रीबहुरूपीवत् । अवस्थानक्राथनोत्थान-
स्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ १३ ॥
आह—अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ? । उच्यते—
अस्ति । यस्मादाह—
मण्टेत वा* ॥ १४ ॥
वेति पादवैकल्यमधिकुरुते । मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहृतम्
अस्य पादेन्द्रियम् । कृत्स्नस्याशुभस्य च वृत्तिरस्मिञ्छरीरे उपलभ्यते ।
उक्तं हि—
“दारिद्र्यं (च) व्याधिभूयिष्ठता (च)
मूर्खत्वं चारूपता भ्रंशतापि ।
देहोत्पत्तिर्वर्णहीने कुले वा
प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥”
(द्रष्टारो हि उपहतपाद इति) प्रपद्यन्ते परिभवन्ति च । अनेना-
नृताभियोगेन यत् तेषां सुकृतं तदस्यागच्छति । अस्यापि च यत् पापं
तान् गच्छति । एवं मण्टनम् इति क्रिया । इत इत्याभिजने आज्ञायां
नियोगे च । वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ १४ ॥
आह—स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ? । उच्यते—
अस्ति । यस्मादाह—

  • 'मन्देत' इति सर्वदर्शनसङ्ग्रह-गणकारिकाव्याख्यानुसारी पाठः.
    १. 'उपहतपादेन्द्रियस्येव गमनं मन्दनम्' । गणकारिकाव्याख्या page 19.

८१ सभाष्ये पाशुपतसूत्रे
शृङ्गारेत वा ॥ १५ ॥
अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते । कथम् ? । स्त्री-
जनसमूहस्यानुपरोधे(न) नातिदूरे नातिसन्निकर्षे अभिदृष्टिनिपाते
स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियमधिकृत्यालोचनासङ्कल्पाध्यवसाया-
भिमानादयः प्रयोक्तव्याः । अयुक्ता (?) चेच्छावलोके हि सति
केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि । ततः स्त्रीपुन्नपुंसका-
दयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति । अनेनानृताभि-
योगेनास्य यत् तेषां सुकृतं तदागच्छति, अस्यापि यत् पापं तत्
तेषां गच्छत्येव । शृङ्गारणम् इति क्रिया । इत इत्यभिजने आज्ञायां
नियोगे च । वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां
विकल्पे । क्रियान्यत्वाच्चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ १५ ॥
आह—क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्य-
त्वात्* । उक्तं हि—
“ये हि वै दीक्षितं यजमानं पृष्टतोऽपवदन्ति, ते तस्य पाप्मान-
मभिव्रजन्ति ॥”
पृष्ठतःपदमग्रतः पार्श्वतश्च योज्यम् । तस्मात् क्राथेत् वा स्पन्देत वा
मण्टेत वा शृङ्गारेत वा । कस्मात् ? । अतियोजनादिविशेषितत्वात् ।
कस्मात् ? । सर्वज्ञवचनाद् अर्थाविसंवादित्वाच्च लोकापरिग्रहाभावः
॥ १५ ॥
१. 'रूपयौवनसम्पन्नां स्त्रियमवलोकयन् कामुकमिवात्मानं यैर्लिङ्गैः प्रदर्शयति
तच्छृङ्गारणम्' । गणकारिकाव्याख्या page 19.

  • Seems few words are missing here.

तृतीयोऽध्यायः । ८७
आह—(किं) क्रियाचतुष्कमेवात्र कर्तव्यमिति ? । उच्यते—न ।
यस्मादाह—
अँपितत्कुर्यात् ॥ १६ ॥
अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने । तद् इति
अनैकान्ते । कुर्याद् इति कुशलां हासवृत्तिमधिकुरुते । यमानामविरोधिनां
शुविरूपकाणां (१) द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि
कर्तव्यानि । ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः
कार्याकार्ययोरविभागज्ञ इति । अनेनानृताभियोगेनास्य धर्माधर्मयोश्च
हानादानशुद्धिर्भवति ॥ १६ ॥
आह—किं क्रियापञ्चकमेवात्र कर्तव्यम् ? । तदुच्यते—न ।
यस्मादाह—
अँपितद्भाषेत् ॥ १७ ॥
अत्र अपिशब्दः सर्वेन्द्रियवृत्त्युपादानसम्भावने । तद् इति
अनैकान्ते । भाषेद् इति वाक्यवृत्तिमधिकुरुते । इत्पदम् अपार्थकं
पुनरुक्तं व्याहतं भाषितव्यमिति । ततस्ते वक्तारो वदन्ति
असम्यग्वादी वाच्यावाच्ययोरविभागज्ञ इति । अनेनानृताभियोगेनास्य
धर्माधर्मयोस्त्यागादानशुद्धिर्भवति ॥ १७ ॥
१. ‘अवितत्कुर्यात्’ इति सर्वदर्शनसङ्ग्रहे. ‘कार्याकार्यविवेकशून्यस्येव लोक-
निन्दितकरणम् अपितत्करणम्’ । गणकारिकाव्याख्या page 19. २. ‘अवितद्भाषेत्’
इति सर्वदर्शनसङ्ग्रहे. ‘व्याहतापार्थकादिशब्दोच्चारणम् अपितद्भाषणम्’ । गणकारिकाव्याख्या
page 19.

८८ सभाष्ये पाशुपतसूत्रे
आह—किं हसितादिवद् यथापाठक्रमेणैव क्राथनादयः प्र-
योक्तव्याः ? । किं वा प्रयोजनं कर्तव्यम् ? । तदुच्यते—परिभवादि-
निष्पत्त्यर्थम् । यस्मादाह--
येन परिभवं गच्छेत् ॥ १८ ॥
अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च । परिभवः
पूर्वोक्तः । गच्छेदू इत्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः । एवमत्र
व्यक्ताचार(अ० ३, सू० २)समासोक्तानां क्राथनादीनामाचाराणां
विस्तरविभागविशेषोपसंहारादयश्च व्याख्याता इत्यर्थः ॥ १८ ॥
आह—कियन्तं कालं परिभवादयः प्राप्तव्याः ? । कीदृशेन वा ? ।
तदुच्यते—
परिभूयमानो हि विद्वान्
कृत्स्नतपा भवति ॥ १९ ॥
अत्र परि सर्वतोभावे । भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ।
मान इत्यस्य पूर्वोक्तोऽर्थः । हिशब्दः कृत्स्नतपउत्कर्षे । उत्कर्षापेक्षो
द्रष्टव्यः । विद्या नाम (सा), या ग्रन्थार्थवर्तिपदार्थानामभिव्यञ्जिका
विप्रत्वलक्षणा । न्यायात् पदार्थानामधिगतप्रत्ययो लाभमलोपायाभिज्ञः
(अधिगतप्रत्ययस्य ?) विद्वानित्युच्यते । कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधि-
कुरुते, न तु हर्षादिप्राप्तावित्यर्थः । कृत्स्नतपाः पर्याप्ततपाः साधक
इत्यर्थः । भवति इति भूतार्थवादो निस्संशयम् । यदा यमनियमेषु
दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति । कृत्स्नस्य
तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ १९ ॥

चतुर्थ एवं पञ्चम अध्याय: पाशुपत विधि, दुःखांत (मुक्ति) व उपसंहार

तृतीयाऽध्यायः । ८९
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम्—
अत्रेदं ब्रह्म जपेत् ॥ २० ॥
इति । अस्य पूर्वोक्तोऽर्थः ॥ २० ॥
किंपुनस्तद् ब्रह्मेति ? । तदुच्यते—
( अघोरेभ्यः ॥ २१ ॥
अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति । कथम् ? । मनो-
ग्रहणाद् रूपादिविहीना अर्थाः । किं तानि सुरूपाणि सलक्षणानि,
विलक्षणानि, उत सलक्षणविलक्षणानीति ? । किं परिमितानि, उत
अपरिमितानि, उत परिमितापरिमितानि ? । उच्यते—कारणत्वबहु-
त्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरि-
मितत्वं चोच्यते—अघोरेभ्यः । अकारो रूपाणां घोरत्वं प्रतिषेधति ।
अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः । एभ्य इत्यपरिमितापरि-
संख्यातेभ्य इत्यर्थः ॥ २१ ॥
आह—किमेतान्येव, एभ्य एव वा ? । तदुच्यते—न। यस्मादाह—
अथ घोरेभ्यः ॥ २२ ॥
अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः । घोराणि अशिवानि
अशान्तानि अननुग्रहकारीणीत्यर्थः । एभ्य इत्यपरिमितापरिसंख्या-
तेभ्य इत्यर्थः ॥ २२ ॥
आह—किमेतान्येव, द्विसंस्थानसंख्येभ्य(?) एव वा ? । उच्यते—
यस्मादाह—
१. 'सुखकरानन्तशरीराधिष्ठातृत्वम् अघोरत्वम्' । गणकारिकाव्याख्या page 11.
12