पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 79, कुल 166 में से
संदर्भ में पढ़ें७२ सभाष्ये पाशुपतसूत्रे
उत नेति ? । उच्यते— अत्र य उपायः सुखदः तथा वक्ष्यामः
यथावान्यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ।
ननु कोर्यकलवन्निराधिकारस्तथा वक्ष्यामो विस्तरशश्चास्मिन् ब्रह्मणि
कारणशक्तिं वक्ष्यामः । शक्तिं च ज्ञात्वा यथा साधकोऽष्टाभिर्नमस्कारै-
रात्मानं ददाति, तथा वक्ष्यामः । अत इदमारभ्यते—
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २२ ॥
इति । प्रयोगान्यत्वात् प्रयोजनान्यत्वाच्चापुनरुक्ता वामदेवा दिशब्दा
द्रष्टव्याः। अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च (अ० २, सू० १-४)
पूर्वोक्तम् । वामदेवज्येष्ठरुद्रायेति चतुर्थी । नम इत्यात्मप्रदाने
पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वत्रनमस्कारा द्रष्टव्याः
॥ २२ ॥
आह— किं चतुष्कमेवात्र कारणे चिन्त्यते ? । नामचतुष्कापदेशेन
वा नाम्नि नमस्कारो द्रष्टव्यः ? । उच्यते— न । यस्मादाह—
कालाय नमः ॥ २३ ॥
अत्र काल इत्येष महेश्वरपर्यायः । कस्मात् ? । पूर्वोत्तरसूत्र-
सामर्थ्यात् । कलयते यस्मात् क्षेत्रसाधिनिष्ठानि(?)स्थानानि कलादि-
शरीरेन्द्रियविषयादिभ्यो वियोगेनेति, ततः कालः । उक्तं हि—
१. 'परमोत्कृष्टं गुणधर्मनिमित्तनामाभिधेयत्वं वामत्वम् । दुःखान्तनिमित्तधर्मो-
त्पादकनामाभिधेयत्वं वा । स्वेच्छयैवाशेषकार्योत्पत्त्यादिकारणस्वभावः क्रीडा, तद्धर्मित्वं
देवत्वम् । सिद्धसाधकपशुभ्यः परत्वं ज्येष्ठत्वम् । सर्गादावपि रुतभयंसंयोजकत्वं रुद्रत्वम्' ।
गणकारिकाव्याख्या page 11.