पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 84, कुल 166 में से
संदर्भ में पढ़ेंतृतीयोऽध्यायः । ७७
इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं
वक्तुं मनोऽमनाय नमः । १मनोऽमनाय इति चतुर्थी । नम इत्यात्म-
प्रदाने पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वे नमःशब्दा
द्रष्टव्याः ॥ २७ ॥
एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये द्वितीयोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥
तृतीयोऽध्यायः ।
इदानीं तृतीयमध्यायमवसरप्राप्तं सम्बन्धं कृत्वा वक्ष्यामः ।
आह—यद्येवं तस्मादुच्यतां कतमस्य पदार्थस्य विचारणायां तृतीयो-
ऽध्यायः सम्बध्यते ? । तदुच्यते—विधिशेषेण । कस्मात् ? । इह
पुरस्तादुक्तम्—अकलुषमतेः, चरतः (अ० १, सू० १८-१९) चर्यायां
चर्यायां (अ० २, सू० १३) तस्माद्, भूयस्तपश्चरेद् (अ० २, सू० १८-१९)
इति नियोगोऽभिहितः । तस्माद् लिङ्गधारि-त्रिपवण-आयतन-
हसितादिषु (अ० १, सू० ६, २, ७, ८) सूत्रेषु पूर्वोक्तान्यवस्थानकाल-
देशक्रियाप्रयोगप्रयोजनान्तराणि । तद्व्यतिरिक्तानि अन्यान्यपि
अवस्थानकालदेशादीनि शुद्धिवृद्ध्यर्थं वक्ष्यामः । यस्मादाह—
१. 'सकलनिष्कलावस्थायास्तुल्यशक्तित्वं मनोऽमनत्वम्' । गणकारिकाव्याख्या
page 11.