पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
द्वितीयाऽध्यायः। ६५
असम्बन्धो ग्रहणक्षयादिवद्, (ग्रहनक्षत्रादिवत् ?) न त्वत्र अमङ्गलादिभिः ।
कस्मात् ?। शेषाभावात् । एवमिहापि दूरस्थ(स्या ?)ः सम्बन्धः। कस्मात् ?।
इह पुरस्तादुक्तम्—अकलुषमतेः, चरतः, ततोऽस्य योगः प्रवर्तते (अ० १,
सू० १८-२०) । अत्र कलुषव्यतिरेकेण येऽन्ये योगव्याघातकरा
हेतवः, तान् वक्ष्यामः। यथा चैका चरितव्या योगप्रापिका इति
व्याख्यास्यामः। तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति,
तद् बलं वक्ष्यामः। तद्बलप्राप्तौ चोपायं वक्ष्यामः। हर्षाप्रमादी इति ।
अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः।
ते त्विह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः (?)। कथंलक्षणा
इति चेत् ?। तदुच्यते—कार्यकरणविशुद्धिलक्षणाः । तत्र कार्य-
विशुद्धिस्तावत्—यदैतद् देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि
भुव्यन्तरिक्षे च रुक्मदण्डवदुच्छ्रितमात्मानं पश्यति, तदा दि(वि) अणिमा
लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति । अन्तरिक्षे च यस्माद्धर्म-
विशेषात् (?)। तथा करणविशुद्धिरपि—गरिमादिभिः (भुवि) बाह्यैरन्तः-
करणेन च दूरविषयग्राहकत्वालोचनसङ्कल्पाध्यवसायाभिमानादयो
भवन्ति(?)। कस्मात् ?। धर्मादिवचनात् । अपिच प्राप्तिः प्राकाम्यम्
ईशित्वं (वशित्वं) च यत्र कामावसायित्वमिति पञ्च करणगुणा
भवन्ति । इत्येवं यदन्येषामणिमाद्यष्टगुणं चतुष्षष्टिविकल्पं धर्मकार्यमैश्वर्यं
तदिह शास्त्रे हर्षः इति संज्ञितम् । तेषु मदमकुर्वन् हर्षाप्रमादी
भवति। धर्मविद्यावलेनेत्यर्थः ॥ १२ ॥
आह—कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते ?, कीदृशस्य वा ?।
तदुच्यते—
9
६६ सभाष्ये पाशुपतसूत्रे
चर्यायां चर्यायाम् ॥ १३ ॥
अत्र चर्यायां चर्यायाम् इति वीप्सा। आह—अनिर्देशादिह
वीप्सा एकवचनद्विवचनबहुवचनेषु भवति। तत्रैकवचने तावद् भवति।
यस्मादुक्तम्—
"अद्य ते रुधिरं तीव्रं पिवामि पुरुषाधम ! ।
वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥"
इति। तथा द्विवचनेऽपि भवति—
"उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे।
संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥"
तथा बहुवचनेऽपि भवति। यस्मादुक्तम्—
"पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता।
तुष्यन्ति च पृथक् सर्वे ते मनुष्यास्तथा तथा ॥"
इत्यतः संशयः। अतः किमेका चरिः उत चरिद्वयम् उत
चरिबहुत्वमिति ?। उच्यते—एका चरिः क्रियाबहुत्वेऽपि भवति।
यथायतने लोके च। १तत्रायतने स्नानहसिताद्याः, लोके
च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा
वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः। तस्मात्
सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति। वृक्षवलिवत्। किञ्च—
१. 'एष ते रुधिरं तीव्रं पिवामि पुरुषादवत्' । इति महाभारते कर्णपर्वणि
दुःशासनवधे।
द्वितीयेऽध्यायः । ६७
माहात्म्यमिति (अ० २, सू० १४) चर्योत्तरसम्बन्धात् कथ्यते एका
चरिः क्रियाबहुत्वे भवति । कार्यकारणविशुद्धिलक्षणा हर्षा इत्युक्तम् ।
न च विभा (?) कार्यकारणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते
कार्यकारणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः ॥ १३ ॥
आह—अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः ? । तदुच्यते—
माहात्म्यमवाप्नोति ॥ १४ ॥
माहात्म्यं नाम अर्यम्प्रकाशवत् । तदुच्यते— (य)स्य सान्निध्यादयं
ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर्देहेन्द्रियादिभि-
रपनीयते अपह्रियते तदमाहात्म्यम् । विधियोगाभिनिवेशासामर्थ्यम्
अधर्मबलम् । उक्तं हि—
“ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः ।
अमूढसंज्ञो दुर्दान्तैर्दुष्टाश्वैरिव सारथिः(?) ॥”
माहात्म्यमतो विपरीतम् । यस्य सान्निध्यादयं ब्राह्मणः स्नानशयनानु-
स्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया
श्रद्धया युक्तस्तन्माहात्म्यम् ।
आह—किं तदिति ? । उच्यते—यदेतत्तं प्रभ्रष्टस्य तपसो
वीर्यं तपोबलं तपश्शक्तिस्तन्माहात्म्यम् । कथं गम्यते ? । चर्या-
नन्तरोक्तत्वात् । यदनन्तरं यदवाप्नोति तत एव तदासादयतीत्यर्थः ।
आह—प्राप्नोतीति अस्तु पाठः । लब्धुर्भाविष्यतीत्युच्यते । अवरस्य
क्षणगतिप्रीतिप्राप्त्यर्थत्वात् तेन विधिचरणेन रक्षते हर्षविशेषाणा-
६८ सभाष्ये पाशुपतसूत्रे
मभिमीतिविशेषणमतिगतिसंस्तवनावामिश्र (१)। तस्मान्मन्त्रबलवद् धर्म-
बलमेवास्य माहात्म्यमवाप्नोतीत्यर्थः ॥ १४ ॥
आह—कः सोऽभ्युपायः ? । कानि वा तानि धर्मसाधनानि,
यैर्हर्षोत्पत्तिर्माहात्म्यलाभश्च भवति ? । चरिक्रियाणां वा कतिविधो
विभागः ? । दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ? ।
उच्यते—अस्ति । यस्मादाह—
अतिदत्तमतीष्टम् ॥ १५ ॥
अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि । कस्मात् ? । अनैकान्तिका-
नात्यन्तिकासातिशयफलत्वात्, कुपथाध्वप्रवादाच्च (अ० ४, सू० १८) ।
तस्मादत्र अतिशब्दो विशेषणम् । अतिदानं चात्मप्रदानम् । कस्मात् ? ।
आत्मनः दातृत्वाद्, भूयो दानप्रयोजनाभावात् । स्थानशरीरे-
न्द्रियविषयाद्यप्रापकत्वात् । ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवा-
नावृत्तिफलत्वाद् असाधारणफलत्वाच्चात्मप्रदानमतिदानम् ।
तथा कुयजनान्यग्निष्टोमादीनि । कस्मात् ? । सङ्ग्रहप्रतिग्रह-
हिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात् पत्नीरात्रिजदेवतादिसाधारण-
फलत्वाद् (?) अनित्यसातिशयसङ्कीर्णफलत्वाच्च कुयजनान्यग्निष्टोमादीनि ।
तस्मादत्रातिशब्दो विशेषणम् । अतियजनं नाम यदायतने लोके
वा । तत्रायतने स्नानहसिताद्या, लोके च क्राथनस्पन्दनाद्या
विधिक्रिया । कस्मात् ? । सङ्ग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण
स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ।
अतश्चैतदुच्यते अतियजनम् ॥ १५ ॥
द्वितीयोऽध्यायः । ६९
आह—किं दानं यजनं च साधनद्वयमेवात्रातिशब्देन विशिष्टं
कर्तव्यमिति ?। उच्यते—न । यस्मादाह—
अतितप्तं तपस्तथा ॥ १६ ॥
अतिशब्दो विशेषणे । नायान्त्याध्यात्मिकाधिभौतिकाधिदैवि-
कास्तेषां स्वशास्त्रोक्तेन क्रमेण मनसि सम्मतानां मतानाम् (?) अनुपायतः
प्रतीकारमकुर्वतां तपो निष्पद्यते । यत्र तृतीयायामात्मसंयोगान्निष्पद्यते,
तत् तप इत्यर्थः । तदा शयनार्थे कथम् ?* । तथातितापेभ्यो-
ऽतितपो निष्पद्यते तथा (न?) दानयजनाभ्यामपीति । तथाशब्दः
साधनत्रयोपसंहारार्थः । यदा ददाति तदा यजति तप्यति च ।
यदापि यजति तदा ददाति तप्यति च । यदा तप्यति तदा
ददाति यजति च । एवमादिदीक्षाप्रभृतिरस्य ब्राह्मणस्य (?) । (यदा)
एभिस्त्रिभिरुपायैर्गङ्गास्रोतोवद् धर्मस्यायोऽधर्मस्य व्ययो भवति, तदा-
तिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्य-
लाभश्च सम्भवतीत्यर्थः ॥ १६ ॥
आह—अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का
गतिर्भवतीति ? । उच्यते—अभ्युदयकैवल्यव्यतिरेकेण,
अत्यागतिं गमयते ॥ १७ ॥
अत्र अतिशब्दो विशेषणे । आङ् इति मर्यादायां भवति ।
कथमध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति 'तदभ्यासो
हरत्येनम्' इति वचनात् । अतिगतिरिति योगपर्यायः । कथं गम्यते ? ।
- Seems few words are left out.
तपःकार्यत्वाद्, आनन्त्यब्रह्मसायुज्यवत् । साङ्ख्ययोगाभ्युदयादि-
गतिविशेषविशेषितत्वाद् उपरिष्टाद् वर्तत इत्यर्थः । तस्मात् तपसः फलं
विशेषार्थमभिधीयते योगोऽतिगतिमि(?रि)ति । अतिगतिमिति कर्म ।
गमयते । न तावद् गतः गमिष्यति, किन्तु गमयतीत्यर्थः ॥ १७ ॥
आह—अतिदानाद् यथावत् तपसो गुणवचनं किमस्ति नेति ? ।
उच्यते—अस्ति । यस्मादाह—
तस्मात् ॥ १८ ॥
इति । अत्र तस्माच्छब्दस्तपसो गुणवचने । तस्मादतिदानादि-
निष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति । न स्थानशरीरे-
न्द्रियविषयादिप्राप्तौ । ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवाना-
वृत्तिफलत्वं च दृष्ट्वा । अतो ब्रवीति तस्मादिति ॥ १८ ॥
आह—अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं
कर्तव्यम् ? । तदुच्यते—तदर्थमेव,
भूयस्तपश्चरेत् ॥ १९ ॥
अत्र भूयः पुनःसन्धाने द्रष्टव्यः, इष्टापूर्तवत् । कथम्? । हर्षेष्वभि-
सक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा सन्धाने
भूयःशब्दोऽभिहितः । तस्मादत्र तपस्तदेव । निरुक्तमस्य पूर्वोक्तम् ।
चरेद् इत्यर्जनमधिकुरुते । धर्मानेकसंशयान्यत्वाच्च अपुनरुक्तोऽयं चर-
शब्दो द्रष्टव्यः ॥ १९ ॥
आह—यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ? ।
माहात्म्यस्य वा को गुणः, यस्मात् तद् ग्राह्यमिति ? । तदुच्यते—
कुरुते माहात्म्यम् । *यस्मादाह—
- अवतारिकेयं न सङ्गच्छते इति प्रतिभाति.
द्वितीयोऽध्यायः । ७१
नान्यभक्तिस्तु शङ्करे ॥ २० ॥
अयं नकारोऽन्यभक्तिप्रतिषेधे । भक्तिर्भावनेत्यर्थः । तुशब्दो
विशेषणे । कथम् ? । ये हर्षेष्वभिसक्ताः दूप्यतः(?) तस्करत्व-
मापन्नाः, ते विशेषेण तु शङ्कराद् दूरस्था भवन्ति । शङ्करः कस्मात् ? ।
समस्तसुखनिर्वाणकरत्वाच्छङ्करः । शङ्करे इत्यौपश्लेषिकं सन्निधानम् ।
शङ्करे भावना कर्तव्या नान्यत्रेत्यर्थः । उक्तं हि—
“कर्मणा मनसा वाचा यदश्लक्ष्णं निषेवते ।
तदभ्यासो हरत्येनं तस्मात् कल्याणमाचरेत् ॥
एवमेते महात्मानः प्राहुरात्मचिन्तकाः ।
यच्चित्तस्तन्मयो भावो गुह्यमेतत् सनातनम् ॥
गच्छंस्तिष्ठन् शयानो वा जाग्रच्चैव स्वपंस्तथा ।
शङ्करे भावनां कुर्याद् यदीच्छेद् योगमात्मनः ॥
यस्मात् क्षयान्ते त्रैलोक्यं शङ्करे याति संक्षयम् ।
तस्मात् संवर्तको धाता शङ्करस्त्वभिधीयते ॥”
एवं शङ्करे भाव उपश्लेषितव्यो नान्यत्रेत्यर्थः ॥ २० ॥
एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम्—
अत्रेदं ब्रह्म जपेत् ॥ २१ ॥
इति । अस्य पूर्वोक्तोऽर्थः ॥ २१ ॥
आह—धर्मपरिणामकत्वात् शङ्करत्वात् सुखद ईश्वरोऽभिहितः ।
अथान्तरसृष्टयां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवद्
७२ सभाष्ये पाशुपतसूत्रे
उत नेति ? । उच्यते— अत्र य उपायः सुखदः तथा वक्ष्यामः
यथावान्यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ।
ननु कोर्यकलवन्निराधिकारस्तथा वक्ष्यामो विस्तरशश्चास्मिन् ब्रह्मणि
कारणशक्तिं वक्ष्यामः । शक्तिं च ज्ञात्वा यथा साधकोऽष्टाभिर्नमस्कारै-
रात्मानं ददाति, तथा वक्ष्यामः । अत इदमारभ्यते—
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २२ ॥
इति । प्रयोगान्यत्वात् प्रयोजनान्यत्वाच्चापुनरुक्ता वामदेवा दिशब्दा
द्रष्टव्याः। अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च (अ० २, सू० १-४)
पूर्वोक्तम् । वामदेवज्येष्ठरुद्रायेति चतुर्थी । नम इत्यात्मप्रदाने
पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वत्रनमस्कारा द्रष्टव्याः
॥ २२ ॥
आह— किं चतुष्कमेवात्र कारणे चिन्त्यते ? । नामचतुष्कापदेशेन
वा नाम्नि नमस्कारो द्रष्टव्यः ? । उच्यते— न । यस्मादाह—
कालाय नमः ॥ २३ ॥
अत्र काल इत्येष महेश्वरपर्यायः । कस्मात् ? । पूर्वोत्तरसूत्र-
सामर्थ्यात् । कलयते यस्मात् क्षेत्रसाधिनिष्ठानि(?)स्थानानि कलादि-
शरीरेन्द्रियविषयादिभ्यो वियोगेनेति, ततः कालः । उक्तं हि—
१. 'परमोत्कृष्टं गुणधर्मनिमित्तनामाभिधेयत्वं वामत्वम् । दुःखान्तनिमित्तधर्मो-
त्पादकनामाभिधेयत्वं वा । स्वेच्छयैवाशेषकार्योत्पत्त्यादिकारणस्वभावः क्रीडा, तद्धर्मित्वं
देवत्वम् । सिद्धसाधकपशुभ्यः परत्वं ज्येष्ठत्वम् । सर्गादावपि रुतभयंसंयोजकत्वं रुद्रत्वम्' ।
गणकारिकाव्याख्या page 11.
द्वितीयोऽध्यायः । ७३
“ब्रह्मादिभूर्जपर्यन्तं जगदेतच्चराचरम् ।
यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥
काल्यान् कलयते यस्मात् कलाभ्यः कालपर्ययात् ।
कलनात् कालनाच्चापि काल इत्यभिधीयते ॥”
एवं कालो हि भगवान् । काल्याः क्षेत्रज्ञाः । स्थानानि तु
ब्रह्मेन्द्रदेवर्षिपत्रादिवचनाद् ब्राह्मं प्राजापत्यं सौम्यम् ऐन्द्रं गान्धर्वं याक्षं
राक्षसं पैशाचमिति । तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्तादिवचनात्
तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् । तथा योगेश्वराः
देवेष्वन्तर्भूताः। कस्मात् ?। धर्मबाहुल्यात् । तथा नारकास्तिर्यक्ष्वन्त-
र्भूताः। कस्मात् ?। अधर्मबाहुल्यात् । एवं स्थानतश्चतुर्दशकः संसार
इत्युपचर्यते । एतेषु कलादिवचनान्महेश्वरो निमित्तम् । कस्मात् ?।
पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् । आदिमान् संसारो
द्रष्टव्यः । तत्फलभोक्तृत्वात् । कार्यकारणयोरनादित्वाद्, अनादिः
अकृताभ्यागमादित्येतद् भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं
ज्ञात्वा युक्तं वक्तुं कालाय नमः। अत्रापि कालाय इति चतुर्थी ।
नम इत्यात्मप्रदाने पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्तोऽयं
नमस्कारो द्रष्टव्यः ॥ २३ ॥
आह—अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः
कर्ता भवति नेति ?। उच्यते—प्रभुः कर्तैव । यस्मादाह—
१'अन्तस्सृष्ट्यावपि संहार कर्तृत्वे कालत्वम्' गणकारिका व्याख्या Page 11
७४ सभाष्ये पाशुपतसूत्रे
कलविकरणाय नमः ॥ २४ ॥
अत्र कला नाम—कार्यकरणाख्याः कलाः । तत्र कार्याख्याः
पृथिव्यापस्तेजो वायुराकाशः । आकाशः शब्दगुणः ।
“शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि ।
ते रसश्च जले ज्ञेयास्ते च गन्धः क्षितावपि ॥”
शब्दस्पर्शरूपरसगन्धाः । तथा करणाख्याः श्रोत्रं त्वक् चक्षुः जिह्वा
घ्राणं पादः पायुः उपस्थः हस्तः वाक् मनः अहङ्कारः बुद्धिरिति । तासां
विकरणो भगवानीश्वरः । कस्मात् ? । दृक्क्रियाशक्त्योरप्रतिघातात् ।
विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसन्निवेशेन विस्तरविभाग-
विशेषतश्च कार्यकरणाख्याभिः कलाभिर्धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञाना-
वैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद् भगवत्यभ्यधिकत्वं शेषेषु
च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ।
अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ।
सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमःशब्दः ॥ २४ ॥
आह—कालनाविकरणत्वाद् अवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे
चापेक्षते नेति ? । धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान्
प्रभुर्भवति नेति ? । उच्यते—प्रभुः । यस्मादाह—
बलप्रमथनाय नमः ॥ २५ ॥
बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्या(णि) इच्छा-
द्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि । प्र इति भृशार्थे कामित्वाकर्षणे च ।
१. ‘कार्यकरणाख्यानां कलानां स्थानशरीरादिभावेन संयोजकत्वं कलविकरणत्वम्’ ।
गणकारिकाव्याख्या page 11.
द्वितीयोऽध्यायः । ७५
मथनत्वं नाम बलवृत्तिनिरोधनम् उदधिमथनवत् । न वाभिज्ञानादीनि
दुर्बलानि (?) । यस्मादुक्तं—
“ न ह्यतेजस्विनाशाय तैजसाः प्रभवन्ति वै ।
बलान्यतिबलान्यस्य न भवेऽतिबलानि वै (?) ॥”
इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं
बलप्रमथनाय नमः । अत्रापि बलप्रमथनाय इति चतुर्थी । नम इत्यात्म-
प्रदाने पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो
द्रष्टव्यः ॥ २५ ॥
आह—केषां कालनविकरणमथनानि करोति ? । तदुच्यते—
भूतानाम् । यस्मादाह—
सर्वभूतदमनाय नमः ॥ २६ ॥
अत्र कलावचने पुनरुक्तिदोषात्न पृथिव्यादिषु सर्व(भूत)शब्दः ।
किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः । आह—भूतत्वानुपपत्तेर्न
चेतनेषु सर्वभूतशब्दः* । तदुच्यते—दमनाय । शमु दमु उपशमे ।
देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधि-
वासना तत्सर्वमन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद् भगवत्य-
भ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय
१. ‘धर्मादिबलानां यथेष्टं वृत्तिलाभलोपाक्षेपकर्तृत्वं बलप्रमथनत्वम्’ । गणकारिका-
व्याख्या page 11.
- Seems few words are missing here.
७६ सभाष्ये पाशुपतसूत्रे
नमः¹ । अत्रापि सर्वभूतदमनाय इति चतुर्थी । नम इत्यात्मप्रदानं-
पूजायां च । सम्भावनान्यत्वाचापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ २६ ॥
आह—कीदृशे महेश्वरे कालनादिशक्तिरुच्यते ?, किं सकले
निष्कले उत उभयोरपि ? । उच्यते—उभयोरपि । यस्मादाह—
मेनोऽमनाय नमः ॥ २७ ॥
अत्र मनःशब्देनान्तःकरणं, तत्तत्त्वादुदाहरणार्थत्वाच्च मनो-
ग्रहणस्य, उभयात्मकत्वाच्च मनसः सर्वकरणग्रहणानुग्रहणाच्च, कार्य-
ग्रहणमित्यतः कार्यकारणाधिष्ठातृत्वाच्च सकल इत्युपचर्यते । तथा
चैतादृशमनसः प्रतिषेधादत्र कार्यकारणरहितो निष्कलो भगवान्
अमन इत्युच्यते । तस्मात् सकलेतरानुग्राहकानादिशक्तिर्विद्यते । उक्तं
हि—
“ अपाणिपादोदरपार्श्वजिह्वः
अतीन्द्रियो व्याप्तिस्वभावसिद्धः ।
पश्यत्यचक्षुः स शृणोत्यकर्णो
न चास्त्यबुद्धं न च बुद्धिरस्ति ॥
स वेत्ति सर्वं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् ॥ ”
१. 'सर्वदेवमानुषतिरश्चां रतिरञ्जनाधिवासनाकर्तृत्वं सर्वभूतदमनत्वम्' । गण-
कारिकाव्याख्या page 11.
२. 'वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कल-
विकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो
मनोन्मनाय नमः' इति तैत्तिरीयपाठः.
तृतीयोऽध्यायः । ७७
इत्येतद् भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं
वक्तुं मनोऽमनाय नमः । १मनोऽमनाय इति चतुर्थी । नम इत्यात्म-
प्रदाने पूजायां च । सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वे नमःशब्दा
द्रष्टव्याः ॥ २७ ॥
एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये द्वितीयोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥
तृतीयोऽध्यायः ।
इदानीं तृतीयमध्यायमवसरप्राप्तं सम्बन्धं कृत्वा वक्ष्यामः ।
आह—यद्येवं तस्मादुच्यतां कतमस्य पदार्थस्य विचारणायां तृतीयो-
ऽध्यायः सम्बध्यते ? । तदुच्यते—विधिशेषेण । कस्मात् ? । इह
पुरस्तादुक्तम्—अकलुषमतेः, चरतः (अ० १, सू० १८-१९) चर्यायां
चर्यायां (अ० २, सू० १३) तस्माद्, भूयस्तपश्चरेद् (अ० २, सू० १८-१९)
इति नियोगोऽभिहितः । तस्माद् लिङ्गधारि-त्रिपवण-आयतन-
हसितादिषु (अ० १, सू० ६, २, ७, ८) सूत्रेषु पूर्वोक्तान्यवस्थानकाल-
देशक्रियाप्रयोगप्रयोजनान्तराणि । तद्व्यतिरिक्तानि अन्यान्यपि
अवस्थानकालदेशादीनि शुद्धिवृद्ध्यर्थं वक्ष्यामः । यस्मादाह—
१. 'सकलनिष्कलावस्थायास्तुल्यशक्तित्वं मनोऽमनत्वम्' । गणकारिकाव्याख्या
page 11.
७८ सभाष्ये पाशुपतसूत्रे
अव्यक्तलिङ्गी ॥ १ ॥
इति । अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति । अवसित-
प्रयोजनः पूर्वोक्तैर्लिङ्गोपकरणैरनुस्नाननिर्मात्यैकवासाद्यैः प्रयोजनै-
र्विनिवृत्तैर्लोकसन्निधौ स्नानं कुर्वन्नपि । पेड़ाश्रमलिङ्गानु'प'लब्धावनवधृतो-
क्तालिङ्गवदव्यक्ताः क्रियाः कार्याः ॥ १ ॥
आह—कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ? ।
तदुच्यते—
व्यक्ताचारः ॥ २ ॥
अत्र व्यक्तशब्दो दिवसमधिकुरुते । व्यक्ताः स्फुटाः प्रकाशाः ।
अहनीत्यर्थः । आङ् इत्यवमानादिनिष्पत्तिमर्यादामधिकुरुते । चार इति
क्राथनादीनामुद्देशः । तान् क्राथनादीन् साधको नटदवस्थितो रङ्ग-
वल्लौकिकानाधिजन्य (?) नाटकवदाचारानाचरति करोति प्रयुङ्क्त
इत्यतोऽयं व्यक्ताचारः ॥ २ ॥
आह—अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ? ।
तदुच्यते—अवमानः । यस्मादाह—
अवमतः ॥ ३ ॥
अत्र अव वर्जने । मानेन तेषां लिङ्गाचारज्ञानविधिविपरीत-
प्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयता-
न्यतोऽयमवहुमतत्वं प्राप्नोति(?) । उक्तं च—
१. ब्रह्मचारी, गृहस्थः 'वानप्रस्थः, संन्यासी, पाषण्डः and सिद्धः ।
तृतीयोऽध्यायः । ७९
“अमृतस्येव लिप्सेत नैव मानं विचक्षणः ।
विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥
सुखं ह्यवमतः शेते सर्वसङ्गविवर्जितः ।
दोषान् परस्य न ध्यायेत् तस्य पापं सदा मुनिः ॥ ”
इति ॥ ३ ॥
आह—केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ? ।
तदुच्यते—
सर्वभूतेषु ॥ ४ ॥
अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः । कस्मादुच्यते वर्णा-
श्रमिष्विति ? । भूतेषु इत्युक्तं, नतु देवतिर्यग्योनिम्लेच्छादिषु ।
कस्मात् ? । व्यक्ताचारावमानदानादानविरोधात् । उक्तं हि—
“ (धन्यो देशो) यत्र गावः प्रभूताः
मेध्यं चान्नं पार्थिवा धर्मशीलाः ।
पुण्या नद्यः सर्वलोकोपभोग्याः
तांस्तान् देशान् सिद्धिकामो व्रजेत ॥”
भूतेषु इति सामीपिकं सन्निधानम् । भूतसमीपे भूताभ्याशे
भूतानामध्यक्ष इत्यर्थः । सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतर-
त्वादस्य विध्याचरणम् । असुरेषु (अ० ४, सू० १०) इत्याचरण-
ज्ञापकाच्च ॥ ४ ॥
आह—अवमतेन सर्वभूतेषु किं कर्तव्यम् ? । तदुच्यते—
चरितव्यम् । यस्मादाह—
१. मनुस्मृतिः २-१६२, १६३.
८० सभाष्य पाशुपतसूत्रे
परिभूयमानश्चरेत् ॥ ५ ॥
अत्र परि सर्वतोभावे । पगक्ष्याः परीक्ष्या इत्यर्थः(?) । भूय
इति बहुधा । यष्टिमुष्ट्यादिभिः संयोजनं परिभवः । कायिक
इत्यर्थः । मान इति साधककालकर्माभिधाने । परिभूयमानेनैव ।
स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः । कनकपाषाणवद्
इन्द्रकीलकवच्च भवितव्यम् । चरेद् इत्यर्जनमधिकुरुते । धर्मार्जने
नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ ५ ॥
आह—अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव, उत
शुद्धिरप्यस्ति ? । उच्यते—अस्ति ! यस्मादाह—
अपहतपाप्मा ॥ ६ ॥
भवतीति वाक्यशेषो वचनाधिकाराद् गम्यते । अत्र अप
वर्जने आघाते नाशे च । अपहता अन्यतनष्टा इत्यर्थः(?) । पाप्मानोऽत्र
द्विविधाः सुखलक्षणाः दुःखलक्षणाश्च । (तत्र सुखलक्षणाः)—उन्मादः
मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं
बहुभोजनमित्येवमाद्याः । तथा दुःखलक्षणाः—शिरोरोगदन्तरोगाक्षि-
रोगाद्याः । एवमेते पाप्मान आत्मगताः कार्यकारणेष्वादर्शप्रतिरूपक-
वदभिव्यक्ताः । कृत्स्नाः अपहताः (अन्यतमस्य?) पाप्मानः सोऽयमप-
हतपाप्मा भवतीत्यर्थः ॥ ६ ॥
आह—किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य
पापक्षयशुद्धिहेतुः, आहोस्वित् वाचिकमप्यस्ति नेति ? । उच्यते—
यस्मादाह—
• ८१
तृतीयोऽध्यायः ।
परेषां परिवादात् ॥ ७ ॥
अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः
संयोजयन्ति, तेषाम् । परेषाभ् इति षष्ठीबहुवचनम् । आह—(स्वप)र-
वाक्यावमानादिभिः शुद्धिरैवास्य, न तु वृद्धिः । सा च साधकस्य फला-
भिधानाद् अतिदानादिष्वित्युच्यते, न पूर्वकृतसुकृतदानविवक्षया ।
परि इति च सर्वतोभावे । वद वादः । अव्यक्तोऽयं प्रेतोऽयम् उन्मत्तोऽयं
मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्कामी असभ्यकारी
असम्यग्वादी इत्येवमुग्रैर्वचोभिरभिघ्नन्तीति वादाः । वादाद् इति
निमित्तपञ्चमी द्रष्टव्या । तस्मादवमानादिभिः परान् संयोजयता
स्वयमेवात्मा संयोक्तव्यः । अन्यथा पाशमात्रः स्यादिति (?) ॥ ७ ॥
(आह)—पाप्मनां वा जानपदेशात् सन्देहः । कस्य कार्यं
पाप्मनः (१) । कथं वा तेषां कार्यकारणेष्वभिव्यक्तानां परसमुत्थैरव-
मानादिभिर्निर्घातनं भवति ? तदुच्यते । यस्मादाह—
पापं च तेभ्यो ददाति ॥ ८ ॥
अत्र पापम् इत्यधर्मपर्यायः । तद्यथा—
“ आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् ।
पापं पाप्मानं वृजिनं स्तेयम् ........ (?) ॥”
१. 'पञ्चसु पवित्रेष्वावर्त्यमानेषु दशभिर्नमस्कारैः परमेश्वरायात्मसमर्पणं दानं,
तदेवातिदानम् अनावृत्तिफलत्वात् । परमेश्वरनियोगाभिसन्धिना भस्मस्नानादिक्रियाणां यथा-
विहितकरणं यागः, स एवातियागः । स्वाविध्यभिनिविष्टस्यैव त्रिविधदुःखोपनिपाते सति
अनुपायतः प्रतीकारमकुर्वतः सहिष्णुत्वं तापः, स एवातितापः'. गणकारिकाव्याख्या
page 17 & 18.
11
८२ सभाष्ये पाशुपतसूत्रे
इत्येकार्थवाचकाः शब्दाः । इह चोक्तं पापमिति । पापं च कस्मात् ? ।
पावक(पातक)पासकत्वात् पापम् । पावयति यस्मात् शिरोरोगदन्त-
रोगाक्षिरोगादिभिः, पातयति नरकादिषु, पासयति वानिष्टाभिः कार्य-
करणाख्याभिः कलाभिरिति । अतः पावकपातकपासकत्वात् पापम् ।
एवं च बीजाङ्कुरवत् पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः । बीज-
पापप्रसवाः पाप्मान इत्यर्थः । तेभ्य इति चतुर्थी सम्प्रदानार्था ।
अथ (ये) एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति,
सङ्क्रामयतीत्यर्थः ॥ ८ ॥
आह—किमवमानादिभिः शुद्धिरेवास्य, न तु वृद्धिरिति ? ।
तदुच्यते—वृद्धिरप्यस्ति । यस्मादाह—
सुकृतं च तेषामादत्ते ॥ ९ ॥
अत्र सु प्रशंसायाम् । कृतम् इति धर्मपर्यायः । चशब्दः शुद्धि-
समुच्चयार्थः पूर्वधर्मनियोगार्थश्च । तेषाम् इति । ये अवमानादिभिः
संयोजयन्ति, तेषामित्यर्थः । तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य
कृत्स्नस्यादानज्ञापनार्थम् । आदत्ते । आ ग्रहणे । स्वात्मनि करोति
विषमं वा इहातुरवदित्यर्थः ॥ ९ ॥
आह—अतिदानाद्यतितपोवदवमानादिसाधनं गुणवचनं किमस्ति
नेति ? । उच्यते—अस्ति । यस्मादाह—
तस्मात् ॥ १० ॥
इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने । कथम् ? ।
यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ।
तृतीयोऽध्यायः । ८३
यस्माच्च तन्निष्ठाल्लौकिकशरीरेन्द्रियविषयादिप्रापकः (?) ऐकान्तिका-
त्यन्तिकरुद्रसमीपप्राप्तिरेकान्तेनात्यन्तिकी भवति । अतो ब्रवीति
तस्मादिति ॥ १० ॥
आह—अथैतदवमानादिसाधनमेव कर्तव्यम् ? । किं वा अव्यक्ताव-
स्था(नाये ? ने)नैव चरितव्यम् ? । तदुच्यते—न । यस्मादाह—
प्रेतवच्चरेत् ॥ ११ ॥
अत्र पुरुषाख्यः प्रेतः, न मृताख्यः । कस्मात् ? । आचरणोप-
देशात् । वद् इति किञ्चिदुपमा । उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन
रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् । अतो
वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते । प्रयोजननिष्पत्तिश्च भवति
अवमानादि । चरेद् इत्याज्ञामधिकुरुते । धर्मार्जने नियोगे च ।
संशयान्यत्वाच्चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ ११ ॥
आह—चरतोऽस्य के क्रियाविशेषाः ? । का वार्थनिष्पत्तिः ? ।
आचाराणां वा को विस्तारः ? । तदुच्यते—
क्राथेत वा ॥ १२ ॥
अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः, तदा आचार्य-
सकाशान्निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां
समूहस्तत्र तेषां नातिदूरे नातिसन्निकर्षे यत्र च तेषां नोपरोधो
दृष्टिनिपातश्च भवति, तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य
निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि । तत्रैवानेनासुप्तेन
सुप्त इव भवितव्यम् । ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः
कर्तव्यः। ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः
प्रपद्यन्ते परिभवन्ति च । अनेनानृताभियोगेनास्य यत् तेषां सुकृतं
तदागच्छति । अस्यापि च यत् पापं तत् तान् प्रति ।
एवं क्राथनम् इति क्रिया । इत इत्यभिजने आज्ञायां नियोगे च ।
वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ १२ ॥
आह—अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः,
हसितादिवत् (अ० १, सू० ८) । कस्माद् भाविवचनं भवति ? ।
उच्यते—पृथगभिधाने सत्यपि हसितगीतनृत्यवत् सन्देहः। पृथगभिधाने
सत्यपि हसितगीतयोः पृथक् पृथक् प्रयोगः । अत्र विभक्तयोस्तु
गीतनृत्ययोः । अध्ययनयन्त्रणयोश्च । तस्मात् पृथगभिधानमनुरतो
वा विभागे भवतान्यदोषः (?) । ततः क्राथनक्रियायावमानादिषु
निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् । यथा
लौकिकानां सम्प्रत्ययो भवति, किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति।
अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् । यस्मादाह—
स्पन्देत वा ॥ १३ ॥
अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते । कस्मात् ? । ज्ञानेच्छा-
प्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः । द्रष्टारो हि वायुसंसृष्टो-
ऽयमिति लौकिकाः प्रतिपद्यन्ते (प)रिभवन्ति च। अनेनानृताभियोगेनास्य
तत्पुण्यमागच्छति, अस्यापि च यत् पापं तान् गच्छति । एवं
स्पन्दनम् इति क्रिया । इत इत्यभिजने आज्ञायां नियोगे च । एवमादि-
१. 'असुप्तस्यैव सुप्तलिङ्गप्रदर्शनं क्राथनम्', २. 'वातवाभिभूतस्येव शरीरावयवानां
कम्पनं स्पन्दनम्' । गणकारिकाव्याख्या page 19.