पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 73, कुल 166 में से
संदर्भ में पढ़ें६६ सभाष्ये पाशुपतसूत्रे
चर्यायां चर्यायाम् ॥ १३ ॥
अत्र चर्यायां चर्यायाम् इति वीप्सा। आह—अनिर्देशादिह
वीप्सा एकवचनद्विवचनबहुवचनेषु भवति। तत्रैकवचने तावद् भवति।
यस्मादुक्तम्—
"अद्य ते रुधिरं तीव्रं पिवामि पुरुषाधम ! ।
वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥"
इति। तथा द्विवचनेऽपि भवति—
"उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे।
संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥"
तथा बहुवचनेऽपि भवति। यस्मादुक्तम्—
"पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता।
तुष्यन्ति च पृथक् सर्वे ते मनुष्यास्तथा तथा ॥"
इत्यतः संशयः। अतः किमेका चरिः उत चरिद्वयम् उत
चरिबहुत्वमिति ?। उच्यते—एका चरिः क्रियाबहुत्वेऽपि भवति।
यथायतने लोके च। १तत्रायतने स्नानहसिताद्याः, लोके
च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा
वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः। तस्मात्
सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति। वृक्षवलिवत्। किञ्च—
१. 'एष ते रुधिरं तीव्रं पिवामि पुरुषादवत्' । इति महाभारते कर्णपर्वणि
दुःशासनवधे।