सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 75, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 75

६८ सभाष्ये पाशुपतसूत्रे
मभिमीतिविशेषणमतिगतिसंस्तवनावामिश्र (१)। तस्मान्मन्त्रबलवद् धर्म-
बलमेवास्य माहात्म्यमवाप्नोतीत्यर्थः ॥ १४ ॥
आह—कः सोऽभ्युपायः ? । कानि वा तानि धर्मसाधनानि,
यैर्हर्षोत्पत्तिर्माहात्म्यलाभश्च भवति ? । चरिक्रियाणां वा कतिविधो
विभागः ? । दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ? ।
उच्यते—अस्ति । यस्मादाह—
अतिदत्तमतीष्टम् ॥ १५ ॥
अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि । कस्मात् ? । अनैकान्तिका-
नात्यन्तिकासातिशयफलत्वात्, कुपथाध्वप्रवादाच्च (अ० ४, सू० १८) ।
तस्मादत्र अतिशब्दो विशेषणम् । अतिदानं चात्मप्रदानम् । कस्मात् ? ।
आत्मनः दातृत्वाद्, भूयो दानप्रयोजनाभावात् । स्थानशरीरे-
न्द्रियविषयाद्यप्रापकत्वात् । ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवा-
नावृत्तिफलत्वाद् असाधारणफलत्वाच्चात्मप्रदानमतिदानम् ।
तथा कुयजनान्यग्निष्टोमादीनि । कस्मात् ? । सङ्ग्रहप्रतिग्रह-
हिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात् पत्नीरात्रिजदेवतादिसाधारण-
फलत्वाद् (?) अनित्यसातिशयसङ्कीर्णफलत्वाच्च कुयजनान्यग्निष्टोमादीनि ।
तस्मादत्रातिशब्दो विशेषणम् । अतियजनं नाम यदायतने लोके
वा । तत्रायतने स्नानहसिताद्या, लोके च क्राथनस्पन्दनाद्या
विधिक्रिया । कस्मात् ? । सङ्ग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण
स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ।
अतश्चैतदुच्यते अतियजनम् ॥ १५ ॥