सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

२४० न्यायमञ्जर्याम्

तस्मात्पारिशेष्याद्वेदाख्यकारणमूला एव भवितुमर्हन्ति मन्वादिदेशनाः, तद्वच-
नुगुणं समर्थं च कारणमिति तदाह भट्टः(१)—
भ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भकात् ।
दृष्टानुगुण्यसामर्थ्याच्चोदनैव लघीयसीति ॥
तत्र के चित्परिदृश्यमानमन्त्रार्थवादबलोन्नीताविधिमूलत्वं मन्यन्ते, अन्ये
विप्रकीर्णशाखामूलत्वम् ।
अपरे पुनरुत्सन्नशाखामूलत्वमिति, अनेन च विशेषविवरणेन न नः प्रयो-
जनं सर्वथा यथोपपत्ति वेद एव तत्र मूलं प्रकल्प्यतां न मूलान्तरम् अप्रमाण-
कत्वात् , वेदमूलत्वपक्षे ऽपि चेयमखिलजगद्विदिता स्मृतिसमाख्या ऽनुगृहीता
भविष्यति, प्रत्यक्षमूलत्वे हि वेदवदत्रापि कः स्मृतिशब्दार्थः, किं च वेदमूलत्वे
सति स्मृतेः श्रुतिविरोघे सति तत्तुल्यकक्षत्वाद्बाध्यत्वं सुवचं भवति कॢप्तमे-
कत्र मूलमितरत्र कल्प्यम् यावदेव भवान्स्मृतेः श्रुतिः कल्पयितुं व्यवस्यति ताव-
देतद्विरोधिनी प्रत्यक्षश्रुता श्रुतिरवतरति हृदयपथमिति कथं तदा मूलकल्पनायै
स्मृतिः प्रभवेत् , तदाह--
सो ऽयमार्भाणको लोके यदश्वेन हृतं पुरा ।
तत्पश्चाद्गर्दभः प्राप्तुं केनोपायेन शक्नुयादिति(२) ॥
अपर आह, विकल्प एवात्र युक्तः किल द्विविधो वेदः श्रूयमाणो ऽनुमीय-
मानश्च श्रूयमाणश्च श्रुतिरित्युच्यते अनुमीयमानश्च स्मृतिरिति, द्वावपि चैताव-
नादी इति किं केन बाध्यते व्यक्ताव्यक्तो हि वेद एवासौ, अत एव न मन्त्रार्थ-
वादादिमूलकत्वकल्पनं युक्तं स्मर्यमाणस्य वेदस्यानादित्वात् ।
नन्वेवं वेदमूलत्वेन प्रामाण्ये वर्ण्यमाने बाह्यस्मृतीनामपि प्रामाण्यं
वदन्तः प्रवादुकाः कथं प्रतिवक्तव्याः, उच्यते प्रत्युक्ता एव ते तपस्विनः,
उक्तं हि भगवता जैमिनिना, अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यादिति
(३)कर्तृसामान्यादिति को ऽर्थः एकाधिकारावगमादिति, य एव वेदार्थानुष्ठाने
ऽधिकृताः कर्त्तारस्ते एव स्मृत्यर्थानुष्ठाने आचमनादिस्मार्तपदार्थसंवलितवेदि-
स्तरणादिवैदिकपदार्थप्रयोगदर्शनान् , न त्वेवमधिकारावगमो बाह्यस्मृतिषु वि-
द्यते, तस्मान्मन्वादिस्मृतय एव प्रमाणं न बाह्यस्मृतयः ।
ननु मन्वादिस्मृतयो ऽपि वेदमूलत्वात्प्रमाणं नान्यतः इति, अत्रोच्यते, त-
देतद्वेदमूलतया प्रामाणयं योगिप्रत्यक्षं धर्मग्राहकम् अमृष्यमाणाः किलाचक्षते भव-
न्तः, एतच्च न युक्तम् , यथा हि भगवानीश्वरः सर्वस्य कर्त्ता सर्वस्येशिता सर्व-

( १ ) तन्त्रवार्तिके अ० १ पा० ३ सू० २ ।
( २ ) तन्त्रवार्तिके अ० १ पा० ३ सू० ३ अर्थानुवादोऽयम्
( ३ ) जैमिनिसूत्रम् । अ० १ पा० ३ सू० २ ।

दर्शी सर्वानुकम्पी च वेदानां प्रणेता समर्थितः तथा योगिप्रत्यक्षमपि धर्मप्र-
हणे निपुणमस्मदादिप्रत्यक्षविलक्षणं प्रत्यक्षलक्षणे समर्थितमेव तस्मात्तन्मूला
एव मन्वादिदेशना भवन्तु ।
यत्तु त्रिकालानवच्छिन्नः कथं प्रत्यक्षगम्यो धर्मः स्यादिति चोदनैव तत्र
प्रमाणमुच्यते, प्रतिविहितं तदीश्वरप्रत्यक्षं यथा ऽग्निहोत्रादेर्धर्मत्वस्य ग्राहकमेव-
मष्टकादियागे तस्य ग्राहकं मन्वादिप्रत्यक्षं भविष्यतीति किमत्र त्रिकालानवच्छेदेन
तदवच्छेदेन वा कृत्यम् , यद्येवमष्टकादिकर्मणां धर्मत्वाग्राहित्वादसर्वज्ञ ईश्वरः
स्यात् , ज्ञात्वा वा ऽनुपदिशन्नकारुणिको भवेत् , नैष दोषः, सर्वं जानात्येव भ-
गवान् किं चित्स्वयमुपदिशति किं चित्परानुपदेशयति, ते हि तस्यानुग्राह्या भ-
गवतस्तेषां च तदनुग्रहकृतैव तथाविधज्ञानप्राप्तिः, मन्वादीनां प्रत्यक्षो धर्म इति
वेदे ऽपि पठ्यते साक्षात्कृतधर्माण ऋषयो बभूवुः ते परेभ्योऽसाक्षात्कृतधर्मभ्य
उपदेशेन मन्त्रान्संप्राहुरिति वेदे ऽपि पठ्यते ।
नन्वेवं प्रत्यक्षमूलत्वाविशेषाच्छ्रुतिस्मृत्योर्विरोधे विकल्पः प्राप्नोति बृहद्रथ-
न्तरविध्योरिव न बाध्यबाधकभावः, न हीश्वरप्रत्यक्षस्य योगिप्रत्यक्षस्य च प्रा-
माण्ये कश्चिद्विशेषः नैसर्गिकाहार्यत्वकृतस्तु भविष्यति किं तेन, उच्यते, भवतु
विकल्पः को दोषः वेदमूलत्ववादिभिरपि कश्चिद्विकल्पो व्याख्यात एव, विष-
यविभागेन वा विकल्पो व्याख्यास्यते न च श्रुतिस्मृतिविरो धोदाहरणं किं
चिदस्तीति स्वाध्यायाभियुक्ताः, तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानाभिव धर्मशा-
स्त्राणां हि पञ्चमं वेदमाहुः, उक्तं च—
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यतीति ॥
अथ वा किमस्माकं दुरभिनिवेशेन वेदमूलत्वात्स्मृतीनां स्मृतिवत्पुराणा-
नामपि भवतु प्रामाण्यम् , सर्वथा तावद्वेदाश्चत्वारः पुराणं स्मृतिरिति षडि-
मानि विद्यास्थानानि साक्षात्पुरुषार्थसाधनोपदेशीनि, व्याकरणादीनि षडङ्गानि
अङ्गत्वेनैव तदुपयोगीनि न साक्षाद् धर्मोपदेशीनि, कल्पसूत्रेष्वपि विक्षिप्तक-
र्मक्रमनियमसंग्रहमात्र

२४२ न्यायमञ्जर्याम्
तदुपजनितायाः प्रतीतेः संदेहबाधकारणकालुष्यकलापस्यानुपलम्भात्, ईश्वर-
कर्तृकत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात्, मूलान्तरस्य लोभमोहादेः
कल्पयितुमशक्यत्वात्, न हि तत्रेदंप्रथमता स्मर्यते वेदवदेकदेशसंवादाश्च भू-
म्ना दृश्यन्ते इति कुतो मलान्तरकल्पनाऽवकाशः, न च वेदप्रतिपक्षतया तेषा-
मवस्थानं वेदप्रसिद्धचातुर्वर्ण्यादिव्यवहारापरित्यागात् ।
मन्वादिचोदनान्यायः स यद्यपि न विद्यते ।
शैवागमे तथा ऽप्यस्य ननु युक्ता प्रमाणता ॥
सर्वोपनिषदामर्था निःश्रेयसपदस्पृशः ।
विविच्यमाना दृश्यन्ते ते हि तत्र पदे पदे ॥
ये च वेदविदामग्र्याः कृष्णद्वैपायनादयः ।
प्रमाणमनुमन्यन्ते ते ऽपि शैवादिदर्शनम् ॥
पञ्चरात्रे ऽपि तेनैव प्रामाण्यमुपवर्णितम् ।
अप्रामाण्यनिमित्तं हि नास्ति तत्रापि किं चन ॥
तत्र च भगवान्विष्णुः प्रणेता कथ्यते स चेश्वर एव ।
एकस्य कस्य चिदशेषजगत्प्रसूति-
हेतोरनादिपुरुषस्य महाविभूतेः ।
सृष्टिस्थितिमलयकार्यविभागयोगाद्
ब्रह्मेति विष्णुरिति रुद्र इति प्रतीतिः ॥
वेदे च पदे पदे एक एव रुद्रो ऽवतस्थे न द्वितीय इति इदं विष्णुर्विचक्रमे
इति रुद्रो विष्णुश्च पठ्यते, तद्योगाच्च तदाराधनोपाया वेदे ऽपि चोदिता एव
शैवपञ्चरात्रयोस्तु तद्योगा एवान्यथोपविश्यन्ते, न चैष वेदविरोधो वैकल्पिक-
त्वादुपायानाम्, अत आप्तप्रणीतत्वाद्भेदाविरुद्धत्वाच्च न तयोरप्रामाण्यम् ।
बौद्धाद्यागमानामप्रामाण्यम्—
ये तु सौगतसंसारमोचकागमाः पापकाचारोपदेशिनः कस्तेषु प्रामाण्य-
मार्यो ऽनुमोदते ।
बुद्धशास्त्रे हि'विस्पष्टा दृश्यते वेदबाह्यता ।
जातिधर्मोचिताचारपरिहारावधारणात् ।
संसारमोचकाः पापाः प्राणहिंसापरायणाः ।
मोहप्रवृत्ता'एवेति न प्रमाणं तदागमः ॥
निषिद्धसेवनप्रायं यत्र कर्मोपदिश्यते ।
प्रामाण्यकथने तस्य कस्य जिह्वा प्रवर्त्तते ॥
ततो यद्यपि'सिद्धिः स्यात् कदा चित्कस्य चित् क चित् ।

प्रमाणप्रकरणम् २४३
ब्रह्महत्यार्जितग्राम्यभोगवन्नरकाय सा ॥
निषिद्धाचरणोपात्तं दुष्कृतं केन शाम्यति ।
अतः कालान्तरेणापि नरके पतनं पुनः ॥
यच्चात्र चोदितं परेषु पूर्वोक्तक्रमेण बुद्धाद्याप्तकल्पनां कुर्वत्सु किं प्रतिवि-
धेयमिति तत्रोच्यते, महाजनप्रसिद्ध्यनुग्रहे हि सति सुवचमाप्तोक्तत्वं भवति
नान्यथा, महाजनश्च वेदानां वेदार्थानुगामिनां च पुराणधर्मशास्त्राणां वेदावि-
रोधिनां च केषां चिदागमानां प्रामाण्यमनुमन्यते न वेदविरुद्धानां बौद्धाद्याग-
मानाम् इति कुतस्तेषामाप्तप्रणीतत्वम्, मूलान्तरं हि तत्र सुवचम् अज्ञानलो-
भादीत्येवमभिधाय वेदस्पर्धिनो बौद्धादयो निषेद्धव्याः, आह—
को ऽयं महाजनो नाम किमाकारः किमास्पदः ।
किसंख्यः किंसमाचार इति व्याख्यातुमर्हसि ।
अपि च, बौद्धादयो बुद्धादीनाप्तान् स्वागमप्रामाण्यसिद्धये वदन्ति ते महा-
जनमपि निजं तत्सिद्धये वृन्दादिकं वदेयुरेव कस्तत्र प्रतीकारः, उच्यते, चातु-
र्वर्ण्यं चातुराश्रम्यं च यदेतदार्यदेशप्रसिद्धं स महाजन उच्यते, आकारस्तु तस्य
कीदृशं पाणिपादं कीदृशं शिरोग्रीवं वाकियती तस्य संख्येति पुरुषलक्षणानि गण-
यितुं न जानीमः, चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महाजनो वेदप्रथमप्रवृत्त आ-
गमान्तरवादिभिरप्रत्याख्येय एव, तथा चैते बौद्धादयो ऽपि दुरात्मानो वेदप्रा-
माण्यनियमिता एव चण्डालादिस्पर्शं परिहरन्ति निरस्ते हि जातिवादावलेपे
वा क चाण्डालादिस्पर्शो दोषः ये ऽपि अन्ये के चिदशुचिभक्षणागम्यागमना-
दिनिर्विकल्पदीक्षाप्रकारमकार्यमनुतिष्ठन्ति ते ऽपि चातुर्वर्ण्यादिमहाजनभीता
स्तं तं रहसि कुर्वन्ति न प्रकाशम्, निर्विशङ्के हि तच्छास्त्रप्रत्यये किमिति चौ-
र्यवत्तदर्थानुष्ठानम्, अत एव न निजो महाजन उत्थापयितुं शक्यते वृन्दका-
दिः किं त्वयमेव चातुर्वर्ण्यादिमहाजनः स चैष महाजनो वेदविरुद्धमागमं परि-
हरत्येव नानुमोदते ।
संसारमोचकं स्पृष्ट्वा शिष्टाः स्नान्ति सवाससः ।
बौद्धैरपि सहैतेषां व्यवहारो न कश्चन ॥
वेदधर्मानुवर्ती च प्रायेण सकलो जनः ।
वेदबाह्यस्तु यः कश्चिदागमो वञ्चनैव सा ॥
ईदृशश्चायमनन्यसामान्यविभवो महाभागो वेदनामा ग्रन्थराशिः यदन्ये
बाह्यागमवादिन एवमेव स्पर्धन्ते, ते हि स्वागमप्रामाण्यमभिवदन्तो वेदरीत्या-
भिदधति वेदे यथा तथा प्रवेष्टुमीहन्ते वैदिकानर्थानन्तरान्तरा स्वागमेषु
निबध्नन्ति वेदस्पर्शपूतमिवात्मानं मन्यन्ते तेषामप्यन्तर्हृदये ज्वलतीव प्रामा-
ण्यम्, अत एवंविधाया महाजनप्रसिद्धेरागमन्तरेष्वदर्शनान्न तेषामाप्तप्रणी-

२४४ न्यायमञ्जर्याम्
तत्त्वम् , आह—
महाजनप्रसिद्धयैव वेदप्रामाण्यनिश्चयात् ।
किमर्थः कण्ठशोषो ऽयमियानार्येण संश्रितः ॥
वेदप्रामाण्यसिद्धयर्थं हि इदं शास्त्रमारब्धमिति गीयते वेदप्रामाण्यस्य च
महाजनसिद्धयैव सिद्धत्वात्किं शास्त्रेण, अलं क्षुद्रचोद्यैरीदृशैः ।
महाजनप्रसिद्धं हि के चिद्विप्लावयन्त्यपि ।
अतस्तदुपघाताय शस्त्रमस्त्रं प्रयुज्यते ॥
तस्मात्पूर्वोक्तानामेव प्रामाण्यमागमानां न वेदबाह्यानामिति स्थितम् ।
आप्तोक्तत्वेन सर्वागमानां प्रामाण्यस्य स्थापनम्—
अन्ये सर्वागमानां तु प्रामाण्यं प्रतिपेदिरे ।
सर्वत्र बाधसन्देहरहितप्रत्ययोदयात् ॥
सर्वत्र वेदवत्कर्तुराप्तस्य परिकल्पना ।
दृष्टार्थैकदेशेषु प्रायः संवाददर्शनात् ॥
यत्पुनरोक्तं सर्व एवागमाः परस्परविरुद्धार्थोपदेशित्वादप्रमाणं स्युरिति त-
त्रोच्यते, आप्तप्रणीतत्वेन तुल्यकक्ष्यत्वादन्यतमदौर्बल्यनिमित्तानुपलम्भाच्च न
कश्चिदागमः कं चिद्बाधते, विरोधमात्रं त्वकिंचित्करं प्रमाणत्वाभिमतेषु वेद-
वाक्येष्वपि परस्परविरोधदर्शनात् , पुरुषशीर्षस्पर्शनसुराग्रहगवालम्भादिचोदना-
सु वचनान्तरविरुद्धमर्थजातमुपदिष्टमेव, किं चागमानां विरोधो ऽपि नातीव
विद्यते प्रमाणानां पुरुषार्थे सर्वेषामविवादात् ।
नानाविधैरागममार्गभेदैरादिश्यमाना बहवो ऽभ्युपायाः ।
एकत्र ते श्रेयसि संपतन्ति सिन्धौ प्रवाहा इव जाह्नवीयाः ॥
तथा ह्यपवर्ग उपेयः सर्वशास्त्रेषु निर्दिश्यते ज्ञानविषये तु विवदन्ते, तत्रा-
पि प्रायश आत्मविषयतायां बहूनामविप्रतिपत्तिः, प्रकृतिपुरुषविवेकज्ञानपक्षे तु
प्रकृतेर्विविक्ततया पुरुष एव ज्ञेयः, नैरात्म्यवादिनस्तु आत्मशैथिल्यजननायाऽप-
दिशन्ति, स्वच्छं तु ज्ञानतत्त्वं यत्तैरिष्यते तत्स्वातन्त्र्यादनाश्रितत्वादात्मकल्प-
मेव कूटस्थनित्यत्वे प्रवाह्नित्यत्वे च विशेषः, एवं प्रधानयोस्तावदुपायोपेययोर-
विवादः, क्रिया तु विचित्रा प्रत्यागमं भवतु नाम भस्मजटापरिग्रहो वा दण्डक-
मण्डलुग्रहणं वा रक्तपटधारणं वा दिगम्बरता वा ऽवलम्ब्यतां को ऽत्र विरोधः,
वेदे ऽपि किमल्पीयांसः पृथगितिकर्त्तव्यताकलापखचिताः स्वर्गोपायाश्चोदिताः,
तस्मात्परस्परविरोधे ऽपि न प्रामाण्यविरोधः, अतश्च यदुच्यते—
कपिलो यदि सर्वज्ञः सुगतो नेति का प्रमा ।
अथोभावपि सर्वज्ञौ मतभेदस्तयोः कथम् ॥

प्रमाणप्रकरणम् २४५
इति तदपास्तं भवति, प्रधाने सति भेदाभावात्, क्व चिच्च तद्भावे प्रामाण्य-
विरोधात् , न च क्रोशनहेतुकर्मोपदेशादागमान्तराणामप्रामाण्यम् तस्याप्रमां-
णतायामप्रयोजकत्वात् ।
विचिकित्सा हि नृशिरःकपालाद्यशनेषु या ।
सा ऽप्यन्यदर्शनाभ्यासभावनोपनिबन्धना ॥
तथा च शान्तचित्तानां सर्वभूतदयावताम् ।
वैदिकीष्वपि हिंसासु विचिकित्सा प्रवर्त्तते ॥
अभिचारादिहिंसायां वैदिकायामपि भवतु हृदयोत्कम्पः, करणांशोपनिपाति-
नी हिंसेति लिप्सातस्तस्यां प्रवृत्तिः ।
यत्त्वग्नीषोमीयादिपशुहिसेतिकर्त्तव्यतांशस्था यस्यां क्रत्वर्थो हि शास्त्रादव-
गम्यते इति वैदी प्रवृत्तिः तस्यामपि कारुणिको लोकः सविचिकित्सो भवति
वदति च “यत्र प्राणिवधो धर्मस्त्वधर्मस्तत्र कीदृशः” इति, न चैतावता वेद-
स्याप्रामाण्यमेवमागमान्तरेष्वपि भविष्यति ।
यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरण
कृतः कालान्तरे ऽवश्यं भावीत्युक्तम्, तदपि न युक्तम्, तस्यार्थस्य तदागति-
निषिद्धत्वाभावात् आगमान्तरनिषिद्धत्वे ऽपि वैकल्पिकत्वकल्पनोपपत्तेः, पुरु-
षार्थप्राप्त्युपायत्वाच्च तस्य तस्मिन्सिद्धे कुतः प्रत्यवायः, भवतु वा कालान्तरे
ततः प्रत्यवायः तथा ऽप्यधिकारिभेदेन तत्फले कर्मणि चोद्यमाने श्येनादाविव
नागमप्रामाण्यमत्र हीयते, श्येनेनाभिचरन्यजेतेत्यत्राभिचरन्निति शत्रा लङ्घित-
निषेधमधिकारिणमाचष्टे तस्य च श्येनयागश्चोदितः स च तत्प्रयोगात्कृतवधः
प्रत्यवैत्येव न च वेदस्याप्रामाण्यम् , उक्तं च(१) उभयमिह चोदनया लक्ष्यते
अर्थो ऽनर्थश्चेति, अधिकारभेदाच्च विचित्रकर्मचोदना नानुपपन्ना, मरणकामस्य
सर्वस्वारः चोदितः आयुष्यकामस्य कृष्णलचरुः, तस्मादेतदपि नाप्रामाण्य-
निमित्तम् ।
यदपि बौद्धागमे जातिवादनिराकरणं तदपि सर्वानुग्रहप्रवणकरुणातिशयप्र-
शंसापरं न च यथाश्रुतमवगन्तव्यम् , तथा च तत्रैतत्पठ्यते न जातिकायादुष्टा-
न्प्रव्राजयेदिति, तस्मात्सर्वेषामागमानामाप्तैः कपिलसुगतार्हत्प्रभृतिभिः प्रणी-
तानां प्रामाण्यमिति युक्तम् ।
सर्वागमानामीश्वरप्रणीतत्वम्—
अन्ये मन्यन्ते सर्वागमानामीश्वर एव भगवान्प्रणेतेति स हि सकलप्राणि-
नां कर्मविपाकमनेकप्रकारमवलोकयन् करुणया ताननुग्रहीतुमपवर्गप्राप्तिमार्गं
( १ ) शाबरभाष्ये अ. १ पा. सू. २ ।

[Header] २४६ न्यायमञ्जर्याम्

बहुविधमुत्पश्यन्नाशयानुसारेण केषां चित्क चित्कर्मणि योग्यतामवगम्य तं
तमुपायमुदिशति स्वविभूतिमहिम्ना च नानाशरीरपरिग्रहात्स एव संज्ञाभेदानु-
पगच्छति अर्हन्निति कपिल इति सुगत इति स एवोच्यते भगवान्, नानासर्व-
ज्ञकल्पनायां यत्नगौरवप्रसङ्गात् ।
ननु बुद्धः शुद्धोदनस्याऽपत्यं स कथमीश्वरो भवेत् परिहृतमेतद्भगवता कृ-
ष्णद्वैपायनेन—
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदा ऽऽत्मानं सृजाम्यहमिति ॥
शरीरमेव शुद्धोदनस्यापत्यं नात्मा, अतः प्रतियुगं विष्णुरेव भगवान्धर्मरू-
पेणावतरतीत्यागमविदः प्रतिपन्नाः ।
ननु वेदसमानकर्तृकेष्वागमान्तरेषु कथं तादृशो महाजनसंप्रत्ययो नास्ति,
एवं नास्ति तेन वर्त्मना भगवता कतिपये प्राणिनो ऽनुगृहीताः येषां तादृश
आशयो लक्षितः, वैदिकेन तु वर्त्मना निःसंख्यकाः प्राणिनो ऽनुगृहीता इति
तत्र महानादरः आगमान्तरेषु कृश इति, एककर्तृके परस्परविरोधः कथमिति
चेद् वेदैरेवात्र वर्णितः समाधिः, तेष्वपि भूम्नः परस्परविरोधस्य दर्शनादि-
त्युक्तम्, तस्मादीश्वरप्रणीतत्वादेव सर्वागमानां प्रामाण्यम् ।
अपरे पुनर्वेदमूलत्वेन सर्वागमप्रामाण्यमभ्युपागमन्, यो हि मन्वादिदे-
शनानां वेदमूलतायां न्याय उक्तः—
भ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भकात् ।
दृष्टानुगुणसामर्थ्याच्चोदनैव लघीयसीति ॥
स सर्वागमेषु समानः, न च मन्वादिस्मृतीनां मूलभूता श्रुतिरुपलभ्यते
अनुमानेन तु तत्कल्पनमागमान्तरेष्वपि तुल्यम् ।
ननु चोक्तम् अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यादिति तच्चेह
नास्तीति कथं श्रुत्यनुमानम् , नैष दोषः—
एकाधिकारावगमो न प्रामाण्ये प्रयोजकः ।
मिश्रानुष्ठानसिद्धौ तु कामं भवतु कारणम् ॥
न च पृथगनुष्ठीयमानमपि कर्म न प्रमाणमूलं भवति वर्णाश्रमभेदा-
नुष्ठेयकर्मवत् ।
कर्तृसामान्यशून्यत्वादथ मूलान्तरोदयः ।
तदसद्बाधकाभावाद् भ्रान्त्यादिप्रतिषेधनात् ॥
प्रत्यक्षमूलतायां तु गुर्वी भवति कल्पना ।
वेदस्त्वनन्तशाखत्वान्मूलं तत्र खसङ्गतम् ॥
नन्वत्र वेदमूलत्वे द्वेषो वेदविदां कथम् ।

गत्वा त एव पृच्छ्यन्तां येषां द्वेषादि विद्यते ॥
गोवधे वा कथं तेषां द्वेषः सुस्पष्टवैदिके ।
प्रत्युक्तं च विरुद्धत्वं शाखानन्त्याच्च दुर्गमम् ॥
कि मियद्वेदसर्वस्वं यावदस्मन्मुखे स्थितम् ।
शाखान्तराद्वा संवादो न लभ्येतेति का प्रमा ॥
तथाच सांख्यशास्त्रप्रसिद्धत्रिगुणात्मकप्रकृतिसूचनपरम् अजामेकां लोहि-
शुक्लकृष्णामिति वैदिकं लिङ्गमप्युपलभ्यते, निर्ग्रन्थकथितवचसः चित्तत्त्वज्ञान-
शंसी चायमनुवादो दृश्यते मुनयो वातरसना इति, एवं रक्तपटपरिग्रहभस्मक-
पालधारणादिमूलमप्यभियुक्ता लभन्ते एव ।
मन्वादिस्मृतिवत्कर्तृसाम्यस्यासम्भवे ऽप्यतः ।
प्रमाणं वेदमूलत्वाद्ग्राह्या सर्वागमा स्मृतिः ॥
ततश्च—
(१) यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्त्तितः ।
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥
इत्यत्र यथा मनुग्रहणं गौतमयमापस्तम्बसंवर्तकाठकादिस्मृत्यन्तरोपलक्ष-
णम् एवमर्हत्कपिलसुगताद्युपलक्षणपरमपि व्याख्येयम् ।
ननु च लोकायताद्यागमो ऽप्येवं प्रामाण्यं प्राप्नोति विज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञा ऽस्तीति वेदमूलदर्शनात्,
ततश्च लोकायतदर्शने प्रमाणभूते सति स्वस्ति सर्वागमेभ्यः, उच्यते—
न हि लोकायते किं चित् कर्तव्यमुपदिश्यते ।
वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥
ननु च यावज्जीवं सुखं जीवेदिति तत्रोपदिश्यते, न स्वभावसिद्धत्वेनात्रो-
पदेशवैफल्यात्, धर्मो न कार्यस्तदुपदेशेषु न प्रत्येतव्यमित्येवं वा यदुपदिश्यते
तत्प्रतिविहितमेव पूर्वपक्षवचनमूलत्वाल्लोकायतदर्शनस्य, तथा च तत्रोत्तर-
ब्राह्मणं भवति (२) न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरे ऽयमात्मा
मात्रासंसर्गस्त्वस्य भवतीति, तदेवं पूर्वपक्षवचनमूलत्वाल्लोकायतशास्त्रमपि न
स्वतन्त्रम् , उत्तरवाक्यप्रतिहतत्वात्तु तदनादरणीयम् , शास्त्रान्तराणां तु पूर्वप-
क्षवाक्यमूलकत्वकल्पनमयुक्तम् , समनन्तरमेव तत्प्रतिपक्षवचनानुपलब्धेरि-
त्यतो वेदमूलत्वात्सर्वागमः प्रमाणम् ।
( १ ) मनुस्मृतौ अ. २ श्लो. ७ ।
( २ ) बृहदारण्यकोपनिषदि अ० ४ ब्रा० ५ खं० १२-१३ ।

२४८ न्यायमञ्जर्याम्
आगमविशेषाप्रामाण्यस्थापनम् —
सर्वागमप्रमाणत्वे नन्वेवमुपपादिते ।
अहमप्यद्य यं कं चिदागमं रचयामि चेत् ॥
तस्यापि हि प्रमाणत्वं दिनैः कतिपयैर्भवेत् ।
तस्मिन्नपि न पूर्वोक्तन्यायो भवति दुर्वचः ॥
जरत्पुस्तकलेखितं यदपि तदपि किं चिदिदानीं केनापि धूर्त्तेन प्रख्याप्यते।
महाजनसमूहे ये प्रसिद्धिं प्रापुरागमाः ।
कृतश्च बहुभिर्यैषां शिष्टैरिह परिग्रहः ॥
अद्य प्रवर्त्तमानाश्च नापूर्वा इव भान्ति ये ।
येषां न मूलं लोभादि येभ्यो नोद्विजते जनः ॥
तेषामेव प्रमाणत्वमागमानामिहेष्यते ।
न मृष्यते तु यत्किं चित्प्रमाणं कुट्टिनीमतम् ॥
तथा हि—
अमितैकपटनिवीतानियतस्त्रीपुंसविहितबहुचेष्टम् ।
नीलाम्बरव्रतमिदं किल कल्पितमासीद्विटैः कैश्चित् ॥
तदपूर्वमिति विदित्वा निवारयामास धर्मतत्त्वज्ञः ।
राजा शङ्करवर्मा न पुनर्जेनादिमतमेवम् ॥
इत्याप्तोक्तत्वहेतोः परिमुषितपरोदीरिताशेषदोषा-
देषां वेदागमानां सुदृढमुपगते मानभावे प्ररोहे ।
तन्मूलत्वात्तथात्वं पुरुषवचनतो वा ऽस्तु शास्त्रान्तराणां
तद्वारेणापि वक्तुं न खलु कलुषता शक्यते वेदवाचाम् ॥
वेदप्रामाण्याक्षेपः —
ननु नाद्यापि वेदस्य प्रामाण्यं सुव्यवस्थितम् ।
स्वदेहसंभवैरेव दोषैरनृततादिभिः ॥
चित्रया यजेत पशुकामः पुत्रकामः पुत्रेष्ट्या यजेतेति श्रूयते न चेष्ट्यन-
न्तरं पुत्रपश्वादिफलमुपलभ्यते, तस्मादसत्याः चित्रादिचोदनाः,
ननु च यः पशुकामः स इष्टिं कुर्यादितियानेव वाक्यार्थः तत्र यागात्पशवो
भवन्तीति एतदेव तावदुपपाद्यम, ते च भवन्तो ऽप्यनन्तरमेव भवन्तीति एतद्
दुरुपपादनम् अतः कथं न सत्यार्थत्वं चित्रादिचोदनानाम्,उच्यते यावज्जीवं यजेत
यावज्जीवं जुहुयादिति जीवनवदसाध्यमानपशुकामनैव नाधिकारिविशेषणं भवि-
तुमर्हति पशूनां ततः कर्मणः सिद्धिमनवबुध्यमानस्य तत्राधिकार एव न सम्प्रव-
र्त्तते एव इति निर्णयिष्यते एतत् , आनन्तर्यमपि कर्मस्वभावपर्यालोचनेनैव गम्यते

प्रमाणप्रकरणम् २४९
समनन्तरफलत्वेन कर्मणां दृष्टत्वात् , आह च कर्मकाले च फलेन भवितव्यम्
यत्कालं हि मर्दनं तत्कालं मर्दनसुखमिति, अधिकार्यपि पश्चाद्भावपरितप्यमा-
नमानस एव कर्मण्यधिक्रियते यदि सद्य एव ततः फलमासादयेन् , कालान्तरे
च कर्मणः प्रध्वंसात्कुतः फलम्, आह च यदा तावदियं विद्यमाना ऽऽसीत्तदा
फलं न दत्तवती यदा फलमुत्पद्यते तदाऽसौ नास्ति असती कथं फलं दास्यतीति
अपि च कालान्तरे फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादि तस्मिंश्च
कारणे दृष्टे सति को नाम सूक्ष्ममदृष्टिरदृष्टं चित्रादिकारणं कल्पयेत्, तस्मादस-
त्याश्चित्रादिचोदनाः प्रत्यक्षादिप्रमाणपरिच्छेदयोग्यार्थोपदेशत्वे सत्यपि तत्संवा-
दशून्यत्वाद् एवंविधविप्रलम्भकवाक्यवत् ।
चित्रादिवचसामेवमपचारस्य दर्शनात् ।
अनाश्वास

२६० न्यायमञ्जर्य्याम्
सूत्रकारः "तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः"(१) पुत्रकामेष्टहवना-
भ्यासेष्विति ।
वेदप्रामाण्याक्षेपपरिहारः—
अत्र समाधिमाह "न कर्मकर्तृसाधनवैगुण्यादिति"(२) अयमाशयः अप्रा-
माण्यसाधनमनृतत्वं परैरुक्तम् , अनृतत्वे च साधनं फलादर्शनम् एतच्चानैका-
न्तिकम्, अन्यथा ऽपि फलादर्शनोपपत्तेः किं वेदस्यासत्यार्थत्वादत्र फलादर्श-
नम् उत कर्तृादिवैगुण्यादिति न विशेषहेतुरस्ति, ननु न कदा चिदपि कर्म-
समनन्तरमेव फलमुपलब्धमिति तदनृतत्वमेव तददर्शनकारणं न कारणवैगु-
ण्यमिति तदयुक्तम्, अविगुणायां कारीर्य्यां प्रयुक्तायां सद्य एव वृष्टेर्दर्शनात् ,
न च तत्काकतालीयम् आगमेनान्वयव्यतिरेकाभ्यां च तत्कारणत्वदर्शनात् ,
पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्यालोचनयैव न सद्यो भवितुमर्हति
न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः स्त्रीपुंसयोगकारणान्तरस-
व्यपेक्षत्वात्तदुत्पत्तेः, पश्चादिप्राप्तिस्तु कस्य चिदुत्तरकाले ऽपि दृश्यते प्रतिग्रहा-
दिना, तथा ह्यस्मत्पितामह एव ग्रामकामः सांग्रहणीं कृतवान् स इष्टिसमाप्तिस-
मनन्तरमेव गौरमूलकं ग्राममवाप, नन्वेवं तर्हि प्रतिग्रहाद्येव दृष्टं कारणमस्तु
पश्वादेः पुत्रस्य च स्त्रीपुंसयोगः किमिष्टेः कारणत्वकल्पनयेति मैवं वोचः, स-
त्स्वपि च दृष्टेषु कारणेषु तददर्शनाद् इष्टिप्रयोगानन्तरं चैतद्दर्शनादिष्टिकृतं स्त्री-
पुंसयोगादिकारणत्वमिति निश्चीयते । किं च—
सेवाध्ययनकृष्यादिसाम्ये ऽपि फलभेदतः ।
वक्तुं न युक्ता तत्प्राप्तिर्दृष्टकारणमात्रजा ।।
भूतस्वभाववादादि पुरस्तात्प्रतिषिध्यते ।
• तस्मान्ननुपेतव्यमत्रान्यदपि कारणम् ।।
तदुक्तम् तच्चैव हि कारणं शब्दश्चेति, यत्र पुनरविगुणे ऽपि कर्मणि प्र-
युज्यमाने कालान्तरे ऽपि पुत्रपश्वादिफलं न दृश्यते तत्र तीव्रं किमपि प्राक्तनं
कर्म प्रतिबन्धकं कल्पनीयम् , यथोक्तम् "फलति यदि न सर्वं तत्कदा चित्तदेव
ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते" इति, कर्मादिवैगुण्यग्रहणमुपलक्षणार्थमृ-
षिणा प्रयुक्तम् , न तु वेदस्याप्रामाण्यकल्पना साध्वी साद्गुण्ये कर्मणः प्राचुर्येण
फलदर्शनात् ,
अपि च चित्रातः पशवो भवन्तीत्येतावानेव शास्त्रार्थः आनन्तर्ये तु न किं
चित्प्रमाणमस्ति तदयं प्रत्यक्षादिसंवाद आनन्तर्यविषयः चित्रादिचोदना त्वनि-
र्दिष्टकालविशेषविषयेति विषयभेदान्न सा तेन बाध्यते । तदाह भट्टः
(१) गौतमसूत्रम् अ. १ आ. २ सू. ५६ । (२) गौतमसूत्रम् अ. १ आ. २ सू. ५७।

प्रमाणप्रकरणम् १६१

आनन्तर्याद्यसंवादो नाविशेषप्रवर्तिनीम् ।
चोदनां बाधितुं शक्तः स्फुटाद्विषयभेदतः(१) इति ॥
यत्तु कर्मस्वभावपर्यालोचनया चित्रादेरनन्तरफलत्वमुक्तम् यत्कालं हि
मर्दनं तत्कालं मर्दनसुखमिति तदेतदत्यन्तमनभिज्ञस्याभिधानम् विधि-
फलानां क्रियाफलतुल्यत्वानुपपत्तेः इह, किं चिद्विधिफलं भवति किं चित्क्रि-
याफलम्, कृष्यादौ तु भूमिपाटवादि क्रियाफलं सस्यसम्पत्तिस्तु विधिफलम्,
कः पुनः कृष्यादौ विधिः अस्ति वार्त्ताविद्यायां वृद्धोपदेशो वा कश्चिद्विधिः, अन्व-
यव्यतिरेकौ वा तत्र विधिस्थानीयौ भविष्यतः, लोके ऽपि च वेतनकामः पच-
तीत्यादौ पाकक्रियाफलमोदनः ,विधिफलं तु वेतनम्, तत्र क्रियाफलानामेवैष
नियमो यत्क्रियानन्तरभावित्वम् , विधिफलानां तु वेतनादीनां नास्ति कालनि-
यमः इ

सकलजनपदसंतापकारिणि महत्यवग्रहे प्रस्तूयते वृष्टिलक्षणं च तत्फलं स्वभा-
वत एव सकललोकसाधारणम् आसन्नतयैव तदभिलषणीयमिति सद्य एव
भवितुमर्हति वचनानि च तत्र तादृशान्येव दृश्यन्ते यदि वर्षेत्तावत्येवेष्टिं समापये-
द्यदि न वर्षेच्छोभूते जुहुयादिति, आमुष्मिकफलं तु कर्म ज्योतिष्टोमादि फल-
स्वभावमहिम्नैव पारलौकिकफलं भवति ।
स्वर्गो निरुपमः प्रीतिर्देशो वा तद्विशेषणः ।
भोक्तुं नोभयथा ऽप्येष देहेनानेन शक्यते ॥
चित्रादि त्वनियत फलं कर्म तत्फलस्य पश्वादेरिह वा परत्र वा लोके स-
म्भवात्, अवश्यं चैतदेवं विज्ञेयम्, तथा ह्यकृतचित्रायागानामपि इह जन्मनि
पशवो दृश्यन्ते ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने कर्म-
निमित्तत्वहानेः बृहस्पतिमतानुप्रवेशप्रसङ्गः, कर्मनिमित्तकत्वे तु तेषां पशूनामुप-
पादकं किं कर्मेति निरूपणीयम् न हि ब्रह्मवर्चसादिफलात् कर्मणः पशवो निष्प-
द्यन्ते, चित्रा च पशुफलेह जन्मनि तैर्न कृतैव पूर्वजन्मकृता तु तस्मिन्नेव ज-
न्मनि फलं दत्तवतीति नियतैहिकफलाभ्युपगमादिति कुतः पशुसंपत्, ननु गौ-
तमवचनप्रामाण्यात्पूर्वकृतभुक्तशिष्टज्योतिष्टोमादिकर्मनिमित्तकः पशुलाभो भवि-
ष्यति, यथोक्तम्(१) वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य फलमनुभूय पतन्तः
शेषेण विशिष्टदेशश्रुतवृत्तवित्तादियुक्तं जन्म प्रतिपद्यन्ते इति, नैतद्यथाश्रुतं बोद्धुं
युक्तम्—
न ह्यन्यफलं कर्म दातुमीष्टे फलान्तरम् ।
साध्यसाधनभावो हि नियतः फलकर्मणाम् ॥
तस्मात्समूहापेक्षाशेषवाचोयुक्तिर्व्याख्येया बहूनि कर्माणि वर्णा आश्रमाश्च
कृतवन्तः ततः कर्मसमूहाज्ज्योतिष्टोमादिफलं प्रेत्यानुभूयते ततः शेषेण चित्रा-
दिना कर्मणा विशिष्टं जन्म प्रतिपद्यन्ते इत्यर्थः, तस्मात्पूर्वजन्मकृतचित्रादिनि-
बन्धन इह जन्मनि पशुलाभो नाकर्मनिमित्तको नान्यकर्मनिमित्तक इत्येवम-
नियतफलत्वाच्चित्रादेरिह जन्मनि फलादर्शने ऽपि नानृतत्वं तच्चोदनानां जन्मा-
न्तरे हि ता इष्टयः फलं दास्यन्तीति ।
मतान्तरेण वेदप्रामाण्याक्षेपपरिहारस्य निराकरणम् ।
अत्रोच्यते, किं वाचनिकमेतत्कर्मणां त्रैविध्यम् अथ विधिवृत्तपरीक्षाल-
भ्यम् आहो फलस्वरूपपर्यालोचनया लभ्यम् उत पुरुषेच्छाधीनमिति, तत्र वचनं
तावत्त्रिविधविभागप्रतिपादकं नास्ति कारीरीं निर्वपेद् वृष्टिकामः ज्योतिष्टोमेन
स्वर्गकामो यजेतेति चित्रया पशुकामः इत्येतावन्मात्रश्रवणम्, न ह्यत्रैहिकत्वं


( १ ) शांकरब्रह्मसूत्रभाष्ये अ० ३ पा० १ सू० ८ स्मृतित्वेनेदम् ।

closely look at L15:
रादिभक्षणसुखा - then:
Letter 1: पे?
Letter 2: क्षि?
Wait! सुखापेक्षी? No, look at the matra:
There is पे and then क्षा?
Wait, let's look at:
सु खा पे क्षि क र्म नि मि त्त कः?
Wait! In Sanskrit, "सुखापेक्षिकर्मनिमित्तकः" (caused by karma that has happiness in view) - wait, or "सुखापेक्ष-कर्मनिमित्तकः"?
Look at the character after सुखा:
It's पे! (Single loop, vertical stem, e-slant).
Then क्षी or क्षि? It's क्ष with ि!
Then क with repha: र्क? No, wait!
Look at: सु, खा, पे, क्षि, क, र्म? No, क followed by र्म?
Wait, let's look at the letters one by one in L15:
रा दि भ क्ष ण सु खा पे क्षि क र्म नि `

२६४ न्यायमञ्जर्याम्
स्तृप्तिमाप्नोति सुखमक्षयमश्नद" इत्यादिवचनोपदिष्टसामान्यसुखसाधनादृष्टनिब-
न्धनैवेयमिहाकृतकर्मणां वृष्टिपश्वादिसम्पदिति न बृहस्पतिमत्तवदकर्मनिमित्तं
फलम्, नापि कर्मफलसाध्यसाधनभावनियमव्यवहारोल्लङ्घनमिति ।
यच्च कारीर्याः क चित्फलविसंवादे समाधानमुक्तं "फलति यदि न सर्वं
तत्कदा चित्तदेव ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते" इति तेन सा ऽप्यनियत-
फलैव स्याद् न हि तत्कर्मान्तरमासंसारं प्रतिबन्धकं भवति फलोपभोगाद्धि
तस्यावश्यं क्षयेण भवितव्यम्, प्रतिबन्धके च क्षीणे कारीर्या स्वफलं तदा
दातव्यमेव सा ऽप्यदत्तफला न क्षीयते एवेत्येवं जन्मान्तरे तत्फलसम्भवात्तस्य
अनियतफलत्वम्, अनेन च प्रकारेण चित्रादेरप्यनियतफलत्वमस्माभिरिष्यते
एव यत्र सम्यक् प्रयुक्तायामपीष्टौ कर्मान्तरप्रतिबन्धादेव पशूनामनुपलम्भः
कल्प्यते सर्वथा सद्यःफलत्वमात्रवर्जं समानयोगक्षेमा कारीर्या चित्रेष्टिः, एतेन
ब्रह्मवर्चसवीर्यान्नाद्यग्रामादिकामेष्टयो ऽपि व्याख्याताः, तस्माद्यथाश्रुतं गौतमं
बोद्धव्यम् ।
यदप्यभ्यधायि समग्राङ्गोपसंहारेण काम्यकर्मप्रयोगात्कुतः कर्मणो वैगु-
ण्यावसर इति तदप्यसारम्, सर्वाङ्गोपसंहारेण प्रवृत्तावपि प्रमादादसंवेद्यमान-
वैगुण्यसम्भवात्, स च विचित्रः भाष्यकारेण प्रदर्शितः तस्मात्पूर्वोक्त एव
प्रतिसमाधानमार्गः श्रेयान् ।
स्वमतेन धर्मपदार्थनिरूपणम् ।
यत्पुनः पूर्वपाक्षिकेण कथितं कालान्तरे कर्माभावात्कुतः फलमिति तदपि
न सम्यक्—
यद्यप्या फलनिष्पत्तेः कर्मणो नास्त्यवस्थितिः ।
तथा ऽप्यस्त्येव संस्कारः पुरुषस्य तदाहितः ॥
कर्मजन्यो हि संस्कारः पुंसां बुद्ध्यादिवद्गुणः ।
तस्य चाफलसंयोगादवस्थितिरुपेयते ॥
यथेन्द्रियादिसंयोगादात्मनो बुद्धिसंभवः ।
तथा यागादिकर्मभ्यस्तस्य संस्कारसंभवः ॥
बुद्धिस्तु भङ्गुरा तस्य संस्कारस्तु फलावधिः ।
साध्यसाधनभावो हि नान्यथा फलकर्मणोः ॥
स्मृतिबीजं तु संस्कारस्तस्यान्यैरपि मृष्यते ।
तथैव फलसंयोगबीजं सो ऽस्य भविष्यति ॥
स यागदानहोमादिजन्यो धर्मगिरोच्यते ।
ब्रह्महत्यादिजन्यस्तु सो ऽधर्म इति कथ्यते ॥

"?
Let's check every single line carefully to make sure there are zero errors.

Let's go line by line:

Title:
प्रमाणप्रकरणम् २५५

Heading:
मतान्तरेण धर्मपदार्थस्य निरूपणं तत्खण्डनं च ।

Line 2:
कापिलास्तु अन्तःकरणस्य बुद्धेर्वृत्तिविशेषमाहुः, आर्हताः पुण्यपुद्गलान्
Note: "पुण्यपुद्गलान्" has a hyphen at the end? Yes, there's a hyphen: पुण्यपुद्गलान्- or dot? It's a hyphen/dash.
Let's check: "पुण्यपुद्गलान्-"

Line 3:
धर्मत्वेन व्यपदिशन्ति, शाक्यभिक्षवश्चित्तवासनां धर्ममाचक्षते, वृद्धमीमांसकाः
Note: "वृद्धमीमांसकाः" - correct.

Line 4:
यागादिकर्मनिर्वर्त्यमपूर्व नाम धर्ममभिवदन्ति, यागादिकमेव शाबरा ब्रुवते,
Note: "यागादिकमेव शाबरा ब्रुवते," - correct.

Line 5:
वाक्यार्थ एव नियोगात्मा ऽपूर्वशब्दवाच्यो धर्मशब्देन स एवोच्यते इति प्राभा-
Note: "नियोगात्मा ऽपूर्वशब्दवाच्यो" - correct.

Line 6

[२६६ न्यायमञ्जर्याम्]

ततश्चान्यतमं कालमभ्युपेत्यैनमुज्झतः ।
निन्देति न विरोधो ऽत्र कश्चिद्विधिनिषेधयोः ॥
अभ्यासे पौनरुक्त्यं च कार्यार्थत्वाददूषणम् ।
संपाद्यं पाञ्चदश्यं हि सामिधेनीषु चोदितम् ॥
इममहं पञ्चदशारेण वज्रेणापबाधे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इति
श्रूयते एकादशसामिधेन्य ऋचः पठ्यन्ते तत्राभ्यासमन्तरेण पाञ्चदश्यं
नावकल्पते इत्येवमवश्यकर्त्तव्यो ऽभ्यासः स चायमनियमेन प्राप्तो वचनेन
नियम्यते प्रथमोत्तमे ऋचौ त्रिरन्वाह्ये इति तस्मात्तत्प्रयोजनार्थत्वान्न पुन-
रुक्ततादोषः ।
अभ्यासे फलरहिते हि पौनरुक्त्यं
दोषः स्यादिह तु न तस्य निष्फलत्वम् ।
व्याघाताऽनृतपुनरुक्तता

प्रमाणप्रकरणम् २५७

धूम इति प्रत्यक्षविरुद्धमिदमभिधीयते नक्तन्दिनं द्वयोरपि इन्द्रियार्थसन्निकर्षे
सति ग्रहणात् ।
किं च एतन्न विद्मो यदि ब्राह्मणाः स्मोऽब्राह्मणा वेति ब्राह्मणजातेरुपदेश-
सहायप्रत्यक्षगम्यत्वात्तद्विरुद्ध एषो ऽर्थवादः शास्त्रविरोधो ऽप्यस्ति को ह वै
तद्वेद यदमुष्मिँल्लोके ऽस्ति वा न वेति, शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्म-
णामुपदेशाच्छक्येमनवक्लृप्तिः ।
अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते शोभते ऽस्य मुखं य एवं वेदेति
न हि कस्य चिदेवं विदतो मुखं शोभते इति प्रत्यक्षविरोधः ।
अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति पूर्णाहूत्या सर्वान्कामान-
वाप्नोति पशुबन्धयाजी सर्वांल्लोकानभिजयति तरति मृत्युं तरति पाप्मानं तरति
ब्रह्महत्यां यो ऽश्वमेघेन यजते यश्चैनं वेदेति यदि पूर्णाहूत्यैव सर्वकामावाप्तिः
पशुबन्धयागेनैव सर्वलोकजयः अश्वमेधवेदनेनैव तत्फलावाप्तिः तत्किमर्थमन्य-
कर्मोपदेशः, उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयु-
रनेनैव लघुनोपायेन तत्फलप्राप्तेर्दर्शनात् ।
अपि च न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीति वेदे चयननिषेध
एवात्र भङ्ग्या भवेद्दिवि चान्तरिक्षे च तावच्चयनप्रयोग एव नास्ति किं तन्निषे-
धेन पृथिवीचयननिषेधार्थं च यद्वाक्यं तच्चयनप्रतिषेधार्थमेव भवेत्, अपृथिव्य-
धिकरणस्य चयनस्यानुपपत्तेः,
अपि च यजमानः प्रस्तर आदित्यै। यूप इत्येवंजातीयानां प्रत्यक्षविरुद्धा-
र्थाभिधायिनामर्थवादानां का परिनिष्ठेति, तस्मान्न स्वरूपपरत्वं तेषामुपपद्यते,
नापि तेभ्य एव कार्यरूपार्थपरिकल्पनमुपपन्नम् अशक्यत्वात् , सो ऽरोदीद्य-
दरोदीत्तद्रुद्रस्य रुद्रत्वमित्यत्र कार्यं कल्प्यमानमेवं कल्प्येत रुद्रः किल अरोद
दतो ऽन्येनापि रोदितव्यमिति तच्चाशक्यम् प्रियविप्रयोगजनितसंतापवशेन
हि वाष्पमोचनं रोदनमुच्यते न तच्चोदनापदेशात्कर्तुं शक्यते, प्रजापतिरात्मनो-
वपामुत्खिखेद तस्मादन्यो ऽप्येवमुत्खिदेदात्मनो वपामिति दुरनुष्ठानो ऽयमर्थः
को हि नामात्मनो वपामुत्खिदेत् कस्य वा वपाहोमे सति समनन्तरमेव अजः
पशुस्तूपर उद्गच्छेद् इति देवा दिशो नाज्ञासिषुरतो ऽन्यो ऽपि न जानीयादिति
अशक्योपदेशो न हि दिङ्मोहो नामोपदेशात्कर्तुं शक्यः, न च सर्वस्मादर्थवा-
दाद्विधिः कल्पयितुं शक्यः इति मध्यमो ऽपि न सत्पक्षः ।
नापि तृतीयः पक्षः संभवति वाक्यान्तरविहितकार्यरूपार्थोपयिकत्वं हि
तदुपयोगिद्रव्यदेवतादिविधानद्वारकं भवति यथा ऽग्निहोत्रं जुहोतीत्यत्र दध्ना
जुहोति पयसा जुहोतीति द्रव्यविनियोगविधेरग्नये च प्रजापतये च सायं
जुहोति देवताविधेर्वा, न चायमर्थवादेषु प्रकारः संभवति न चैभिः व्रीहीनवह-
३३ न्या०

न्ति व्रीहीन् प्रोक्षतीतिवद्दृष्टा ऽदृष्टा वा का चिदितिकर्त्तव्यतोपदिश्यते तस्मान्न
तेषां तदौपयिकत्वम् ।
ननु प्रेक्षावतां प्ररोचनातिशयकरणेन प्रवृत्त्युत्साहमावहन्तो ऽर्थवादास्तदुप-
योगिनो भविष्यन्ति, नैतदपि सम्यक् , प्रवृत्त्युत्साहो हि केषां चिन्मते निरपेक्षश-
ब्दप्रत्ययादेव सिद्धयति अस्मन्मते तु तत्प्रणेतृपुरुषप्रत्ययादिति किं प्ररोचनया,
एवंकाम इदं कुर्यादित्युक्ते यस्तत्र न प्रवर्त्तते स प्ररोचनयापि न प्रवर्त्तेतैवेति
यत्किं चिदेतत् , तदेवं प्रकारत्रयेणाप्यर्थवादपदानामनन्वयात् एकदेशाक्षेपेण
सर्वाक्षेप एव क्रियते इति अप्रमाणं वेदः ।
ननु यावत्येव प्रमाणान्तरविरुद्धत्वमुपलभ्यते तावत्येवाप्रामाण्यमस्तु सर्वत्र
तु कुतस्त्या तदाशङ्केति, मैवम् तत्सामान्यादन्यत्राप्यनाश्वासः, मीमांसकपक्षे हि
अर्थवादरहितकेवलवेदग्रन्थानुपलम्भात् तदनुषङ्गेण सर्वत्र सापेक्षत्वमवतरति,
नैयायिकमते तु वेदप्रणेतुरीश्वरस्य क चिद्वित्थवादित्वे दृश्यमाने कथमन्यत्र
सत्यवादितायां दृढः प्रत्ययो भवेदित्यप्रामाण्यं सर्वत्रेति ।
अर्थवादवाक्यमूलकस्य वेदप्रामाण्याक्षेपस्य परिहारः ।
अत्राभिधीयते, विध्येकवाक्यतयैव भूम्ना तावदर्थवादपदानि पठ्यन्ते वाय-
व्यं श्वेतमालभेत भूतिकामः वायुर्वै क्षेपिष्ठा देवता इत्यते। यद्यपि क्रिया नाव-
गम्यते नापि तत्संबद्धः कश्चिदर्थः तथा ऽपि विध्युद्देशेनैकवाक्यत्वं प्रतीयते भूति-
काम इत्येवमन्ते विध्युद्देशस्तेनैकवाक्यभूते। वायुर्वैक्षेपिष्ठेत्येवमादिः कथमेक-
वाक्यभावः पदानां साकाङ्क्षत्वात् ,
ननु भूतिकाम इत्येवमन्तेन वाक्येन विधेयं विहितम् उत्पादितं प्रतिपत्तुर्-
नाकाङ्क्षत्वं कृतं च शब्दकर्त्तव्यमिति किमनेन क्षेपिष्ठेत्यादिना प्रयोजनम्,
तदर्थस्यैव स्तुतिरिति ब्रूमः ।
ननु स्तुत्या किं प्रयोजनम् स्तुतो ऽस्तुतश्च तावानेव सो ऽर्थः, मैवम् , स-
स्तुतिपदे हि वाक्ये स्तुतिपदसहितं विधायकं विधायकं भवति किमिदानीं केवलं
लिङादियुक्तं वाक्यं न विधायकमुच्यते यदि स्तुतिपदानि न श्रूयन्ते तद्बाढं
भवति विधायकम् , एतेषु च सत्सु तत्सहितं तद्विधायकं भवति ने केवलं तथा
प्रतीतेः, स्तुतिपदसंबन्धे सति भिन्नवाक्यता मा भूदिति विधिपदेन च स्तुति-
पदेन च संभूयार्थो विधीयते तथा ऽवगमात् , अन्यथा हि प्रतीयमानः पदार्था-
न्वयस्त्यज्येत वाक्यभेदो वा कल्प्येत तस्मान्न स्तुतिपदानामानर्थक्यम्,
ननु केवलस्यापि विधिवाक्यस्य सामर्थ्यात्किमर्थं स्तुतिपदानि प्रयुज्यन्त
इति, उच्यते, अपर्य्यनुयोज्यो जैमिनीनां मते शब्दः अस्माकं च भगवानीश्वरः
उक्ते सति प्रतिपत्तारो वयं वेदस्य न कर्त्तारः, प्रतिपत्तौ च क्रमो दर्शितः, एवं च

यद्यपि द्रव्यदेवतेतिकर्त्तव्यताविधानद्वारकमङ्गविधिवदर्थवादवाक्यानां कार्योपायि-
कत्वं नास्ति तथापि प्रतीयङ्गस्त्वं न निवार्यते, अत एव प्रामाण्योपायोगित्वमाचक्षते
न प्रमेयापयोगित्वम् , केवलविधिपदश्रवणे हि न तदाद्रियन्ते यज्वानः, तत्र वि-
धिविभक्तेः शक्तिरवसीदति तां निमज्जन्तीमिवार्थवादजनितकर्मप्राशस्त्यप्रत्यय
उत्तभ्नाति सर्वजिता यजेतेत्येता न तथाविधः श्रद्धाऽतिशयो भवति, यथाविधः
सर्वजिता वै देवाः सर्वमयजन्सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेन सर्वं जयति
इत्यर्थवादपदेभ्यः, लोके ऽपि इयं गौः क्रेतव्येत्येतो न तथा क्रेतारः प्रवर्त्तन्ते
यथा एषा बहुस्निग्धक्षीरा सुशीला सापत्या अनवप्रजा चेत्येवमादिभ्यः स्तुति-
पदेभ्यः, स्वानुभवसाक्षिको ऽयमर्थः अत एव के चिदश्रुतार्थवादके ऽपि विधि-
वाक्ये तत्कल्पनमिच्छन्ति, यथा क चिदर्थवादाद्विधिकल्पनमिति यथोक्तम्
“विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते” अनधिगम्यमानविधिवाक्यसंबन्धा-
द्यर्थवादाद्विधिरुन्नीयते न गम्यमानविधिसंबन्धात् ।
अत एव च सो ऽरोदीदित्येवमादिभ्यो न रोदितव्यमित्यादिविधिकल्पन-
मिष्यते मुधैव पूर्वपक्षिणा तदाशङ्कितम्, विध्यन्तरेणैकवाक्यत्वं हि प्रत्यक्ष-
मिहोपदिश्यते बर्हिषि रजतं न देयमित्यस्य विधेः शेषो ऽयं सो ऽरोदीदित्यादिः
रुद्रो हरोद् तस्य यदश्रु अशीर्यत तद्रजतमभवत् यो हि बर्हिषि रजतं ददाति
पुरा ऽस्य संवत्सराद् गृहे रोदनं भवतीति तस्माद्बर्हिषि रजतं न देयमिति,
प्राजापत्यमजं तूपरमालभेतेत्येतस्य विधेः शेषः प्रजापतिरात्मनो वपामुदखिद-
दिति वपाहोममाहात्म्यप्रदर्शनार्थमुच्यते अग्नौ वै प्रगृहीतमात्रायां वपायामज-
स्तूपर उदगादिति, आदित्यः प्रायणीयश्चरुरित्यस्य विधेः शेषो ऽयं देवा वै
देवयजनमध्यवसाय दिशो न प्राजानन्नित्थं व्यामोहानामादित्यः चरुर्नाशयिता
यथा दिङ्मोहोस्येति एवं तत्र तत्र विधिशेषत्वमर्थवादानां वेदितव्यम् ।
कथं पुनरिदमसत्यमेवोच्यते रुद्ररुदिताद्रजतमजायत प्रजापतिवपाहोमस-
मिद्धादग्नेरजस्तूपर उदगादिति, उच्यते नेदमसत्यम् यदस्य वाक्यस्य प्रतिपाद्यं ⸱
तत्र सत्यार्थमेवेदम्, न चास्य यथाश्रुतो ऽर्थः प्रतिपाद्यः किं तु विधेयो निषे-
ध्यो वा कश्चिदर्थः इहान्वाख्याने द्वयमपतति यच्च वृत्तान्तज्ञानं यच्च कस्मिँ-
श्चिदर्थे प्ररोचनाद्वेषौ तत्र वृत्तान्तज्ञानं न प्रवर्त्तकं न निवर्त्तकमिति प्रयोजना-
भावादनर्थकमनादरणीयम्, प्रचोचनाद्वेषौ तु प्रवृत्त्यङ्गत्वात्तदर्थौ गृहीत्वा प्ररोच-
नायाः प्रवर्त्तेत्त द्वेषान्निवर्त्तेतेति तत्र तत्प्रतिपाद्यसत्यार्थ एवार्थवादः ।
यत्त्वरुदति रुद्रे कथं तद्रोदनवचनम् अरोदनप्रभवे वा रजते कथं तदुद्भव-
वताभिधानमिति, गुणवादमात्रं गौण एष वादः श्वेतवर्णसारूप्यादिना रोदन-
प्रभवं रजतं निन्दितुमुच्यते, एवं पशुयागे वपाहोमप्रशंसार्थै प्रजापतिरात्मनो
वपामुदखिददिति वृत्तान्ताख्यानं योजनीयम्, आदित्यचरुप्रशंसार्थै देवा