न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 264, कुल 654 में से
संदर्भ में पढ़ें२४२ न्यायमञ्जर्याम्
तदुपजनितायाः प्रतीतेः संदेहबाधकारणकालुष्यकलापस्यानुपलम्भात्, ईश्वर-
कर्तृकत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात्, मूलान्तरस्य लोभमोहादेः
कल्पयितुमशक्यत्वात्, न हि तत्रेदंप्रथमता स्मर्यते वेदवदेकदेशसंवादाश्च भू-
म्ना दृश्यन्ते इति कुतो मलान्तरकल्पनाऽवकाशः, न च वेदप्रतिपक्षतया तेषा-
मवस्थानं वेदप्रसिद्धचातुर्वर्ण्यादिव्यवहारापरित्यागात् ।
मन्वादिचोदनान्यायः स यद्यपि न विद्यते ।
शैवागमे तथा ऽप्यस्य ननु युक्ता प्रमाणता ॥
सर्वोपनिषदामर्था निःश्रेयसपदस्पृशः ।
विविच्यमाना दृश्यन्ते ते हि तत्र पदे पदे ॥
ये च वेदविदामग्र्याः कृष्णद्वैपायनादयः ।
प्रमाणमनुमन्यन्ते ते ऽपि शैवादिदर्शनम् ॥
पञ्चरात्रे ऽपि तेनैव प्रामाण्यमुपवर्णितम् ।
अप्रामाण्यनिमित्तं हि नास्ति तत्रापि किं चन ॥
तत्र च भगवान्विष्णुः प्रणेता कथ्यते स चेश्वर एव ।
एकस्य कस्य चिदशेषजगत्प्रसूति-
हेतोरनादिपुरुषस्य महाविभूतेः ।
सृष्टिस्थितिमलयकार्यविभागयोगाद्
ब्रह्मेति विष्णुरिति रुद्र इति प्रतीतिः ॥
वेदे च पदे पदे एक एव रुद्रो ऽवतस्थे न द्वितीय इति इदं विष्णुर्विचक्रमे
इति रुद्रो विष्णुश्च पठ्यते, तद्योगाच्च तदाराधनोपाया वेदे ऽपि चोदिता एव
शैवपञ्चरात्रयोस्तु तद्योगा एवान्यथोपविश्यन्ते, न चैष वेदविरोधो वैकल्पिक-
त्वादुपायानाम्, अत आप्तप्रणीतत्वाद्भेदाविरुद्धत्वाच्च न तयोरप्रामाण्यम् ।
बौद्धाद्यागमानामप्रामाण्यम्—
ये तु सौगतसंसारमोचकागमाः पापकाचारोपदेशिनः कस्तेषु प्रामाण्य-
मार्यो ऽनुमोदते ।
बुद्धशास्त्रे हि'विस्पष्टा दृश्यते वेदबाह्यता ।
जातिधर्मोचिताचारपरिहारावधारणात् ।
संसारमोचकाः पापाः प्राणहिंसापरायणाः ।
मोहप्रवृत्ता'एवेति न प्रमाणं तदागमः ॥
निषिद्धसेवनप्रायं यत्र कर्मोपदिश्यते ।
प्रामाण्यकथने तस्य कस्य जिह्वा प्रवर्त्तते ॥
ततो यद्यपि'सिद्धिः स्यात् कदा चित्कस्य चित् क चित् ।