सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 274, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 274

सकलजनपदसंतापकारिणि महत्यवग्रहे प्रस्तूयते वृष्टिलक्षणं च तत्फलं स्वभा-
वत एव सकललोकसाधारणम् आसन्नतयैव तदभिलषणीयमिति सद्य एव
भवितुमर्हति वचनानि च तत्र तादृशान्येव दृश्यन्ते यदि वर्षेत्तावत्येवेष्टिं समापये-
द्यदि न वर्षेच्छोभूते जुहुयादिति, आमुष्मिकफलं तु कर्म ज्योतिष्टोमादि फल-
स्वभावमहिम्नैव पारलौकिकफलं भवति ।
स्वर्गो निरुपमः प्रीतिर्देशो वा तद्विशेषणः ।
भोक्तुं नोभयथा ऽप्येष देहेनानेन शक्यते ॥
चित्रादि त्वनियत फलं कर्म तत्फलस्य पश्वादेरिह वा परत्र वा लोके स-
म्भवात्, अवश्यं चैतदेवं विज्ञेयम्, तथा ह्यकृतचित्रायागानामपि इह जन्मनि
पशवो दृश्यन्ते ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने कर्म-
निमित्तत्वहानेः बृहस्पतिमतानुप्रवेशप्रसङ्गः, कर्मनिमित्तकत्वे तु तेषां पशूनामुप-
पादकं किं कर्मेति निरूपणीयम् न हि ब्रह्मवर्चसादिफलात् कर्मणः पशवो निष्प-
द्यन्ते, चित्रा च पशुफलेह जन्मनि तैर्न कृतैव पूर्वजन्मकृता तु तस्मिन्नेव ज-
न्मनि फलं दत्तवतीति नियतैहिकफलाभ्युपगमादिति कुतः पशुसंपत्, ननु गौ-
तमवचनप्रामाण्यात्पूर्वकृतभुक्तशिष्टज्योतिष्टोमादिकर्मनिमित्तकः पशुलाभो भवि-
ष्यति, यथोक्तम्(१) वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य फलमनुभूय पतन्तः
शेषेण विशिष्टदेशश्रुतवृत्तवित्तादियुक्तं जन्म प्रतिपद्यन्ते इति, नैतद्यथाश्रुतं बोद्धुं
युक्तम्—
न ह्यन्यफलं कर्म दातुमीष्टे फलान्तरम् ।
साध्यसाधनभावो हि नियतः फलकर्मणाम् ॥
तस्मात्समूहापेक्षाशेषवाचोयुक्तिर्व्याख्येया बहूनि कर्माणि वर्णा आश्रमाश्च
कृतवन्तः ततः कर्मसमूहाज्ज्योतिष्टोमादिफलं प्रेत्यानुभूयते ततः शेषेण चित्रा-
दिना कर्मणा विशिष्टं जन्म प्रतिपद्यन्ते इत्यर्थः, तस्मात्पूर्वजन्मकृतचित्रादिनि-
बन्धन इह जन्मनि पशुलाभो नाकर्मनिमित्तको नान्यकर्मनिमित्तक इत्येवम-
नियतफलत्वाच्चित्रादेरिह जन्मनि फलादर्शने ऽपि नानृतत्वं तच्चोदनानां जन्मा-
न्तरे हि ता इष्टयः फलं दास्यन्तीति ।
मतान्तरेण वेदप्रामाण्याक्षेपपरिहारस्य निराकरणम् ।
अत्रोच्यते, किं वाचनिकमेतत्कर्मणां त्रैविध्यम् अथ विधिवृत्तपरीक्षाल-
भ्यम् आहो फलस्वरूपपर्यालोचनया लभ्यम् उत पुरुषेच्छाधीनमिति, तत्र वचनं
तावत्त्रिविधविभागप्रतिपादकं नास्ति कारीरीं निर्वपेद् वृष्टिकामः ज्योतिष्टोमेन
स्वर्गकामो यजेतेति चित्रया पशुकामः इत्येतावन्मात्रश्रवणम्, न ह्यत्रैहिकत्वं


( १ ) शांकरब्रह्मसूत्रभाष्ये अ० ३ पा० १ सू० ८ स्मृतित्वेनेदम् ।