सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 263, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 263

दर्शी सर्वानुकम्पी च वेदानां प्रणेता समर्थितः तथा योगिप्रत्यक्षमपि धर्मप्र-
हणे निपुणमस्मदादिप्रत्यक्षविलक्षणं प्रत्यक्षलक्षणे समर्थितमेव तस्मात्तन्मूला
एव मन्वादिदेशना भवन्तु ।
यत्तु त्रिकालानवच्छिन्नः कथं प्रत्यक्षगम्यो धर्मः स्यादिति चोदनैव तत्र
प्रमाणमुच्यते, प्रतिविहितं तदीश्वरप्रत्यक्षं यथा ऽग्निहोत्रादेर्धर्मत्वस्य ग्राहकमेव-
मष्टकादियागे तस्य ग्राहकं मन्वादिप्रत्यक्षं भविष्यतीति किमत्र त्रिकालानवच्छेदेन
तदवच्छेदेन वा कृत्यम् , यद्येवमष्टकादिकर्मणां धर्मत्वाग्राहित्वादसर्वज्ञ ईश्वरः
स्यात् , ज्ञात्वा वा ऽनुपदिशन्नकारुणिको भवेत् , नैष दोषः, सर्वं जानात्येव भ-
गवान् किं चित्स्वयमुपदिशति किं चित्परानुपदेशयति, ते हि तस्यानुग्राह्या भ-
गवतस्तेषां च तदनुग्रहकृतैव तथाविधज्ञानप्राप्तिः, मन्वादीनां प्रत्यक्षो धर्म इति
वेदे ऽपि पठ्यते साक्षात्कृतधर्माण ऋषयो बभूवुः ते परेभ्योऽसाक्षात्कृतधर्मभ्य
उपदेशेन मन्त्रान्संप्राहुरिति वेदे ऽपि पठ्यते ।
नन्वेवं प्रत्यक्षमूलत्वाविशेषाच्छ्रुतिस्मृत्योर्विरोधे विकल्पः प्राप्नोति बृहद्रथ-
न्तरविध्योरिव न बाध्यबाधकभावः, न हीश्वरप्रत्यक्षस्य योगिप्रत्यक्षस्य च प्रा-
माण्ये कश्चिद्विशेषः नैसर्गिकाहार्यत्वकृतस्तु भविष्यति किं तेन, उच्यते, भवतु
विकल्पः को दोषः वेदमूलत्ववादिभिरपि कश्चिद्विकल्पो व्याख्यात एव, विष-
यविभागेन वा विकल्पो व्याख्यास्यते न च श्रुतिस्मृतिविरो धोदाहरणं किं
चिदस्तीति स्वाध्यायाभियुक्ताः, तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानाभिव धर्मशा-
स्त्राणां हि पञ्चमं वेदमाहुः, उक्तं च—
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यतीति ॥
अथ वा किमस्माकं दुरभिनिवेशेन वेदमूलत्वात्स्मृतीनां स्मृतिवत्पुराणा-
नामपि भवतु प्रामाण्यम् , सर्वथा तावद्वेदाश्चत्वारः पुराणं स्मृतिरिति षडि-
मानि विद्यास्थानानि साक्षात्पुरुषार्थसाधनोपदेशीनि, व्याकरणादीनि षडङ्गानि
अङ्गत्वेनैव तदुपयोगीनि न साक्षाद् धर्मोपदेशीनि, कल्पसूत्रेष्वपि विक्षिप्तक-
र्मक्रमनियमसंग्रहमात्र