सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 268, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 268

[Header] २४६ न्यायमञ्जर्याम्

बहुविधमुत्पश्यन्नाशयानुसारेण केषां चित्क चित्कर्मणि योग्यतामवगम्य तं
तमुपायमुदिशति स्वविभूतिमहिम्ना च नानाशरीरपरिग्रहात्स एव संज्ञाभेदानु-
पगच्छति अर्हन्निति कपिल इति सुगत इति स एवोच्यते भगवान्, नानासर्व-
ज्ञकल्पनायां यत्नगौरवप्रसङ्गात् ।
ननु बुद्धः शुद्धोदनस्याऽपत्यं स कथमीश्वरो भवेत् परिहृतमेतद्भगवता कृ-
ष्णद्वैपायनेन—
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदा ऽऽत्मानं सृजाम्यहमिति ॥
शरीरमेव शुद्धोदनस्यापत्यं नात्मा, अतः प्रतियुगं विष्णुरेव भगवान्धर्मरू-
पेणावतरतीत्यागमविदः प्रतिपन्नाः ।
ननु वेदसमानकर्तृकेष्वागमान्तरेषु कथं तादृशो महाजनसंप्रत्ययो नास्ति,
एवं नास्ति तेन वर्त्मना भगवता कतिपये प्राणिनो ऽनुगृहीताः येषां तादृश
आशयो लक्षितः, वैदिकेन तु वर्त्मना निःसंख्यकाः प्राणिनो ऽनुगृहीता इति
तत्र महानादरः आगमान्तरेषु कृश इति, एककर्तृके परस्परविरोधः कथमिति
चेद् वेदैरेवात्र वर्णितः समाधिः, तेष्वपि भूम्नः परस्परविरोधस्य दर्शनादि-
त्युक्तम्, तस्मादीश्वरप्रणीतत्वादेव सर्वागमानां प्रामाण्यम् ।
अपरे पुनर्वेदमूलत्वेन सर्वागमप्रामाण्यमभ्युपागमन्, यो हि मन्वादिदे-
शनानां वेदमूलतायां न्याय उक्तः—
भ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भकात् ।
दृष्टानुगुणसामर्थ्याच्चोदनैव लघीयसीति ॥
स सर्वागमेषु समानः, न च मन्वादिस्मृतीनां मूलभूता श्रुतिरुपलभ्यते
अनुमानेन तु तत्कल्पनमागमान्तरेष्वपि तुल्यम् ।
ननु चोक्तम् अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यादिति तच्चेह
नास्तीति कथं श्रुत्यनुमानम् , नैष दोषः—
एकाधिकारावगमो न प्रामाण्ये प्रयोजकः ।
मिश्रानुष्ठानसिद्धौ तु कामं भवतु कारणम् ॥
न च पृथगनुष्ठीयमानमपि कर्म न प्रमाणमूलं भवति वर्णाश्रमभेदा-
नुष्ठेयकर्मवत् ।
कर्तृसामान्यशून्यत्वादथ मूलान्तरोदयः ।
तदसद्बाधकाभावाद् भ्रान्त्यादिप्रतिषेधनात् ॥
प्रत्यक्षमूलतायां तु गुर्वी भवति कल्पना ।
वेदस्त्वनन्तशाखत्वान्मूलं तत्र खसङ्गतम् ॥
नन्वत्र वेदमूलत्वे द्वेषो वेदविदां कथम् ।