सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 279, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 279

प्रमाणप्रकरणम् २५७

धूम इति प्रत्यक्षविरुद्धमिदमभिधीयते नक्तन्दिनं द्वयोरपि इन्द्रियार्थसन्निकर्षे
सति ग्रहणात् ।
किं च एतन्न विद्मो यदि ब्राह्मणाः स्मोऽब्राह्मणा वेति ब्राह्मणजातेरुपदेश-
सहायप्रत्यक्षगम्यत्वात्तद्विरुद्ध एषो ऽर्थवादः शास्त्रविरोधो ऽप्यस्ति को ह वै
तद्वेद यदमुष्मिँल्लोके ऽस्ति वा न वेति, शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्म-
णामुपदेशाच्छक्येमनवक्लृप्तिः ।
अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते शोभते ऽस्य मुखं य एवं वेदेति
न हि कस्य चिदेवं विदतो मुखं शोभते इति प्रत्यक्षविरोधः ।
अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति पूर्णाहूत्या सर्वान्कामान-
वाप्नोति पशुबन्धयाजी सर्वांल्लोकानभिजयति तरति मृत्युं तरति पाप्मानं तरति
ब्रह्महत्यां यो ऽश्वमेघेन यजते यश्चैनं वेदेति यदि पूर्णाहूत्यैव सर्वकामावाप्तिः
पशुबन्धयागेनैव सर्वलोकजयः अश्वमेधवेदनेनैव तत्फलावाप्तिः तत्किमर्थमन्य-
कर्मोपदेशः, उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयु-
रनेनैव लघुनोपायेन तत्फलप्राप्तेर्दर्शनात् ।
अपि च न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीति वेदे चयननिषेध
एवात्र भङ्ग्या भवेद्दिवि चान्तरिक्षे च तावच्चयनप्रयोग एव नास्ति किं तन्निषे-
धेन पृथिवीचयननिषेधार्थं च यद्वाक्यं तच्चयनप्रतिषेधार्थमेव भवेत्, अपृथिव्य-
धिकरणस्य चयनस्यानुपपत्तेः,
अपि च यजमानः प्रस्तर आदित्यै। यूप इत्येवंजातीयानां प्रत्यक्षविरुद्धा-
र्थाभिधायिनामर्थवादानां का परिनिष्ठेति, तस्मान्न स्वरूपपरत्वं तेषामुपपद्यते,
नापि तेभ्य एव कार्यरूपार्थपरिकल्पनमुपपन्नम् अशक्यत्वात् , सो ऽरोदीद्य-
दरोदीत्तद्रुद्रस्य रुद्रत्वमित्यत्र कार्यं कल्प्यमानमेवं कल्प्येत रुद्रः किल अरोद
दतो ऽन्येनापि रोदितव्यमिति तच्चाशक्यम् प्रियविप्रयोगजनितसंतापवशेन
हि वाष्पमोचनं रोदनमुच्यते न तच्चोदनापदेशात्कर्तुं शक्यते, प्रजापतिरात्मनो-
वपामुत्खिखेद तस्मादन्यो ऽप्येवमुत्खिदेदात्मनो वपामिति दुरनुष्ठानो ऽयमर्थः
को हि नामात्मनो वपामुत्खिदेत् कस्य वा वपाहोमे सति समनन्तरमेव अजः
पशुस्तूपर उद्गच्छेद् इति देवा दिशो नाज्ञासिषुरतो ऽन्यो ऽपि न जानीयादिति
अशक्योपदेशो न हि दिङ्मोहो नामोपदेशात्कर्तुं शक्यः, न च सर्वस्मादर्थवा-
दाद्विधिः कल्पयितुं शक्यः इति मध्यमो ऽपि न सत्पक्षः ।
नापि तृतीयः पक्षः संभवति वाक्यान्तरविहितकार्यरूपार्थोपयिकत्वं हि
तदुपयोगिद्रव्यदेवतादिविधानद्वारकं भवति यथा ऽग्निहोत्रं जुहोतीत्यत्र दध्ना
जुहोति पयसा जुहोतीति द्रव्यविनियोगविधेरग्नये च प्रजापतये च सायं
जुहोति देवताविधेर्वा, न चायमर्थवादेषु प्रकारः संभवति न चैभिः व्रीहीनवह-
३३ न्या०