न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 280, कुल 654 में से
संदर्भ में पढ़ेंन्ति व्रीहीन् प्रोक्षतीतिवद्दृष्टा ऽदृष्टा वा का चिदितिकर्त्तव्यतोपदिश्यते तस्मान्न
तेषां तदौपयिकत्वम् ।
ननु प्रेक्षावतां प्ररोचनातिशयकरणेन प्रवृत्त्युत्साहमावहन्तो ऽर्थवादास्तदुप-
योगिनो भविष्यन्ति, नैतदपि सम्यक् , प्रवृत्त्युत्साहो हि केषां चिन्मते निरपेक्षश-
ब्दप्रत्ययादेव सिद्धयति अस्मन्मते तु तत्प्रणेतृपुरुषप्रत्ययादिति किं प्ररोचनया,
एवंकाम इदं कुर्यादित्युक्ते यस्तत्र न प्रवर्त्तते स प्ररोचनयापि न प्रवर्त्तेतैवेति
यत्किं चिदेतत् , तदेवं प्रकारत्रयेणाप्यर्थवादपदानामनन्वयात् एकदेशाक्षेपेण
सर्वाक्षेप एव क्रियते इति अप्रमाणं वेदः ।
ननु यावत्येव प्रमाणान्तरविरुद्धत्वमुपलभ्यते तावत्येवाप्रामाण्यमस्तु सर्वत्र
तु कुतस्त्या तदाशङ्केति, मैवम् तत्सामान्यादन्यत्राप्यनाश्वासः, मीमांसकपक्षे हि
अर्थवादरहितकेवलवेदग्रन्थानुपलम्भात् तदनुषङ्गेण सर्वत्र सापेक्षत्वमवतरति,
नैयायिकमते तु वेदप्रणेतुरीश्वरस्य क चिद्वित्थवादित्वे दृश्यमाने कथमन्यत्र
सत्यवादितायां दृढः प्रत्ययो भवेदित्यप्रामाण्यं सर्वत्रेति ।
अर्थवादवाक्यमूलकस्य वेदप्रामाण्याक्षेपस्य परिहारः ।
अत्राभिधीयते, विध्येकवाक्यतयैव भूम्ना तावदर्थवादपदानि पठ्यन्ते वाय-
व्यं श्वेतमालभेत भूतिकामः वायुर्वै क्षेपिष्ठा देवता इत्यते। यद्यपि क्रिया नाव-
गम्यते नापि तत्संबद्धः कश्चिदर्थः तथा ऽपि विध्युद्देशेनैकवाक्यत्वं प्रतीयते भूति-
काम इत्येवमन्ते विध्युद्देशस्तेनैकवाक्यभूते। वायुर्वैक्षेपिष्ठेत्येवमादिः कथमेक-
वाक्यभावः पदानां साकाङ्क्षत्वात् ,
ननु भूतिकाम इत्येवमन्तेन वाक्येन विधेयं विहितम् उत्पादितं प्रतिपत्तुर्-
नाकाङ्क्षत्वं कृतं च शब्दकर्त्तव्यमिति किमनेन क्षेपिष्ठेत्यादिना प्रयोजनम्,
तदर्थस्यैव स्तुतिरिति ब्रूमः ।
ननु स्तुत्या किं प्रयोजनम् स्तुतो ऽस्तुतश्च तावानेव सो ऽर्थः, मैवम् , स-
स्तुतिपदे हि वाक्ये स्तुतिपदसहितं विधायकं विधायकं भवति किमिदानीं केवलं
लिङादियुक्तं वाक्यं न विधायकमुच्यते यदि स्तुतिपदानि न श्रूयन्ते तद्बाढं
भवति विधायकम् , एतेषु च सत्सु तत्सहितं तद्विधायकं भवति ने केवलं तथा
प्रतीतेः, स्तुतिपदसंबन्धे सति भिन्नवाक्यता मा भूदिति विधिपदेन च स्तुति-
पदेन च संभूयार्थो विधीयते तथा ऽवगमात् , अन्यथा हि प्रतीयमानः पदार्था-
न्वयस्त्यज्येत वाक्यभेदो वा कल्प्येत तस्मान्न स्तुतिपदानामानर्थक्यम्,
ननु केवलस्यापि विधिवाक्यस्य सामर्थ्यात्किमर्थं स्तुतिपदानि प्रयुज्यन्त
इति, उच्यते, अपर्य्यनुयोज्यो जैमिनीनां मते शब्दः अस्माकं च भगवानीश्वरः
उक्ते सति प्रतिपत्तारो वयं वेदस्य न कर्त्तारः, प्रतिपत्तौ च क्रमो दर्शितः, एवं च