सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 262, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 262

२४० न्यायमञ्जर्याम्

तस्मात्पारिशेष्याद्वेदाख्यकारणमूला एव भवितुमर्हन्ति मन्वादिदेशनाः, तद्वच-
नुगुणं समर्थं च कारणमिति तदाह भट्टः(१)—
भ्रान्तेरनुभवाद्वापि पुंवाक्याद्विप्रलम्भकात् ।
दृष्टानुगुण्यसामर्थ्याच्चोदनैव लघीयसीति ॥
तत्र के चित्परिदृश्यमानमन्त्रार्थवादबलोन्नीताविधिमूलत्वं मन्यन्ते, अन्ये
विप्रकीर्णशाखामूलत्वम् ।
अपरे पुनरुत्सन्नशाखामूलत्वमिति, अनेन च विशेषविवरणेन न नः प्रयो-
जनं सर्वथा यथोपपत्ति वेद एव तत्र मूलं प्रकल्प्यतां न मूलान्तरम् अप्रमाण-
कत्वात् , वेदमूलत्वपक्षे ऽपि चेयमखिलजगद्विदिता स्मृतिसमाख्या ऽनुगृहीता
भविष्यति, प्रत्यक्षमूलत्वे हि वेदवदत्रापि कः स्मृतिशब्दार्थः, किं च वेदमूलत्वे
सति स्मृतेः श्रुतिविरोघे सति तत्तुल्यकक्षत्वाद्बाध्यत्वं सुवचं भवति कॢप्तमे-
कत्र मूलमितरत्र कल्प्यम् यावदेव भवान्स्मृतेः श्रुतिः कल्पयितुं व्यवस्यति ताव-
देतद्विरोधिनी प्रत्यक्षश्रुता श्रुतिरवतरति हृदयपथमिति कथं तदा मूलकल्पनायै
स्मृतिः प्रभवेत् , तदाह--
सो ऽयमार्भाणको लोके यदश्वेन हृतं पुरा ।
तत्पश्चाद्गर्दभः प्राप्तुं केनोपायेन शक्नुयादिति(२) ॥
अपर आह, विकल्प एवात्र युक्तः किल द्विविधो वेदः श्रूयमाणो ऽनुमीय-
मानश्च श्रूयमाणश्च श्रुतिरित्युच्यते अनुमीयमानश्च स्मृतिरिति, द्वावपि चैताव-
नादी इति किं केन बाध्यते व्यक्ताव्यक्तो हि वेद एवासौ, अत एव न मन्त्रार्थ-
वादादिमूलकत्वकल्पनं युक्तं स्मर्यमाणस्य वेदस्यानादित्वात् ।
नन्वेवं वेदमूलत्वेन प्रामाण्ये वर्ण्यमाने बाह्यस्मृतीनामपि प्रामाण्यं
वदन्तः प्रवादुकाः कथं प्रतिवक्तव्याः, उच्यते प्रत्युक्ता एव ते तपस्विनः,
उक्तं हि भगवता जैमिनिना, अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यादिति
(३)कर्तृसामान्यादिति को ऽर्थः एकाधिकारावगमादिति, य एव वेदार्थानुष्ठाने
ऽधिकृताः कर्त्तारस्ते एव स्मृत्यर्थानुष्ठाने आचमनादिस्मार्तपदार्थसंवलितवेदि-
स्तरणादिवैदिकपदार्थप्रयोगदर्शनान् , न त्वेवमधिकारावगमो बाह्यस्मृतिषु वि-
द्यते, तस्मान्मन्वादिस्मृतय एव प्रमाणं न बाह्यस्मृतयः ।
ननु मन्वादिस्मृतयो ऽपि वेदमूलत्वात्प्रमाणं नान्यतः इति, अत्रोच्यते, त-
देतद्वेदमूलतया प्रामाणयं योगिप्रत्यक्षं धर्मग्राहकम् अमृष्यमाणाः किलाचक्षते भव-
न्तः, एतच्च न युक्तम् , यथा हि भगवानीश्वरः सर्वस्य कर्त्ता सर्वस्येशिता सर्व-

( १ ) तन्त्रवार्तिके अ० १ पा० ३ सू० २ ।
( २ ) तन्त्रवार्तिके अ० १ पा० ३ सू० ३ अर्थानुवादोऽयम्
( ३ ) जैमिनिसूत्रम् । अ० १ पा० ३ सू० २ ।