सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 265, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 265

प्रमाणप्रकरणम् २४३
ब्रह्महत्यार्जितग्राम्यभोगवन्नरकाय सा ॥
निषिद्धाचरणोपात्तं दुष्कृतं केन शाम्यति ।
अतः कालान्तरेणापि नरके पतनं पुनः ॥
यच्चात्र चोदितं परेषु पूर्वोक्तक्रमेण बुद्धाद्याप्तकल्पनां कुर्वत्सु किं प्रतिवि-
धेयमिति तत्रोच्यते, महाजनप्रसिद्ध्यनुग्रहे हि सति सुवचमाप्तोक्तत्वं भवति
नान्यथा, महाजनश्च वेदानां वेदार्थानुगामिनां च पुराणधर्मशास्त्राणां वेदावि-
रोधिनां च केषां चिदागमानां प्रामाण्यमनुमन्यते न वेदविरुद्धानां बौद्धाद्याग-
मानाम् इति कुतस्तेषामाप्तप्रणीतत्वम्, मूलान्तरं हि तत्र सुवचम् अज्ञानलो-
भादीत्येवमभिधाय वेदस्पर्धिनो बौद्धादयो निषेद्धव्याः, आह—
को ऽयं महाजनो नाम किमाकारः किमास्पदः ।
किसंख्यः किंसमाचार इति व्याख्यातुमर्हसि ।
अपि च, बौद्धादयो बुद्धादीनाप्तान् स्वागमप्रामाण्यसिद्धये वदन्ति ते महा-
जनमपि निजं तत्सिद्धये वृन्दादिकं वदेयुरेव कस्तत्र प्रतीकारः, उच्यते, चातु-
र्वर्ण्यं चातुराश्रम्यं च यदेतदार्यदेशप्रसिद्धं स महाजन उच्यते, आकारस्तु तस्य
कीदृशं पाणिपादं कीदृशं शिरोग्रीवं वाकियती तस्य संख्येति पुरुषलक्षणानि गण-
यितुं न जानीमः, चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महाजनो वेदप्रथमप्रवृत्त आ-
गमान्तरवादिभिरप्रत्याख्येय एव, तथा चैते बौद्धादयो ऽपि दुरात्मानो वेदप्रा-
माण्यनियमिता एव चण्डालादिस्पर्शं परिहरन्ति निरस्ते हि जातिवादावलेपे
वा क चाण्डालादिस्पर्शो दोषः ये ऽपि अन्ये के चिदशुचिभक्षणागम्यागमना-
दिनिर्विकल्पदीक्षाप्रकारमकार्यमनुतिष्ठन्ति ते ऽपि चातुर्वर्ण्यादिमहाजनभीता
स्तं तं रहसि कुर्वन्ति न प्रकाशम्, निर्विशङ्के हि तच्छास्त्रप्रत्यये किमिति चौ-
र्यवत्तदर्थानुष्ठानम्, अत एव न निजो महाजन उत्थापयितुं शक्यते वृन्दका-
दिः किं त्वयमेव चातुर्वर्ण्यादिमहाजनः स चैष महाजनो वेदविरुद्धमागमं परि-
हरत्येव नानुमोदते ।
संसारमोचकं स्पृष्ट्वा शिष्टाः स्नान्ति सवाससः ।
बौद्धैरपि सहैतेषां व्यवहारो न कश्चन ॥
वेदधर्मानुवर्ती च प्रायेण सकलो जनः ।
वेदबाह्यस्तु यः कश्चिदागमो वञ्चनैव सा ॥
ईदृशश्चायमनन्यसामान्यविभवो महाभागो वेदनामा ग्रन्थराशिः यदन्ये
बाह्यागमवादिन एवमेव स्पर्धन्ते, ते हि स्वागमप्रामाण्यमभिवदन्तो वेदरीत्या-
भिदधति वेदे यथा तथा प्रवेष्टुमीहन्ते वैदिकानर्थानन्तरान्तरा स्वागमेषु
निबध्नन्ति वेदस्पर्शपूतमिवात्मानं मन्यन्ते तेषामप्यन्तर्हृदये ज्वलतीव प्रामा-
ण्यम्, अत एवंविधाया महाजनप्रसिद्धेरागमन्तरेष्वदर्शनान्न तेषामाप्तप्रणी-