न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 267, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २४५
इति तदपास्तं भवति, प्रधाने सति भेदाभावात्, क्व चिच्च तद्भावे प्रामाण्य-
विरोधात् , न च क्रोशनहेतुकर्मोपदेशादागमान्तराणामप्रामाण्यम् तस्याप्रमां-
णतायामप्रयोजकत्वात् ।
विचिकित्सा हि नृशिरःकपालाद्यशनेषु या ।
सा ऽप्यन्यदर्शनाभ्यासभावनोपनिबन्धना ॥
तथा च शान्तचित्तानां सर्वभूतदयावताम् ।
वैदिकीष्वपि हिंसासु विचिकित्सा प्रवर्त्तते ॥
अभिचारादिहिंसायां वैदिकायामपि भवतु हृदयोत्कम्पः, करणांशोपनिपाति-
नी हिंसेति लिप्सातस्तस्यां प्रवृत्तिः ।
यत्त्वग्नीषोमीयादिपशुहिसेतिकर्त्तव्यतांशस्था यस्यां क्रत्वर्थो हि शास्त्रादव-
गम्यते इति वैदी प्रवृत्तिः तस्यामपि कारुणिको लोकः सविचिकित्सो भवति
वदति च “यत्र प्राणिवधो धर्मस्त्वधर्मस्तत्र कीदृशः” इति, न चैतावता वेद-
स्याप्रामाण्यमेवमागमान्तरेष्वपि भविष्यति ।
यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरण
कृतः कालान्तरे ऽवश्यं भावीत्युक्तम्, तदपि न युक्तम्, तस्यार्थस्य तदागति-
निषिद्धत्वाभावात् आगमान्तरनिषिद्धत्वे ऽपि वैकल्पिकत्वकल्पनोपपत्तेः, पुरु-
षार्थप्राप्त्युपायत्वाच्च तस्य तस्मिन्सिद्धे कुतः प्रत्यवायः, भवतु वा कालान्तरे
ततः प्रत्यवायः तथा ऽप्यधिकारिभेदेन तत्फले कर्मणि चोद्यमाने श्येनादाविव
नागमप्रामाण्यमत्र हीयते, श्येनेनाभिचरन्यजेतेत्यत्राभिचरन्निति शत्रा लङ्घित-
निषेधमधिकारिणमाचष्टे तस्य च श्येनयागश्चोदितः स च तत्प्रयोगात्कृतवधः
प्रत्यवैत्येव न च वेदस्याप्रामाण्यम् , उक्तं च(१) उभयमिह चोदनया लक्ष्यते
अर्थो ऽनर्थश्चेति, अधिकारभेदाच्च विचित्रकर्मचोदना नानुपपन्ना, मरणकामस्य
सर्वस्वारः चोदितः आयुष्यकामस्य कृष्णलचरुः, तस्मादेतदपि नाप्रामाण्य-
निमित्तम् ।
यदपि बौद्धागमे जातिवादनिराकरणं तदपि सर्वानुग्रहप्रवणकरुणातिशयप्र-
शंसापरं न च यथाश्रुतमवगन्तव्यम् , तथा च तत्रैतत्पठ्यते न जातिकायादुष्टा-
न्प्रव्राजयेदिति, तस्मात्सर्वेषामागमानामाप्तैः कपिलसुगतार्हत्प्रभृतिभिः प्रणी-
तानां प्रामाण्यमिति युक्तम् ।
सर्वागमानामीश्वरप्रणीतत्वम्—
अन्ये मन्यन्ते सर्वागमानामीश्वर एव भगवान्प्रणेतेति स हि सकलप्राणि-
नां कर्मविपाकमनेकप्रकारमवलोकयन् करुणया ताननुग्रहीतुमपवर्गप्राप्तिमार्गं
( १ ) शाबरभाष्ये अ. १ पा. सू. २ ।