न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 269, कुल 654 में से
संदर्भ में पढ़ेंगत्वा त एव पृच्छ्यन्तां येषां द्वेषादि विद्यते ॥
गोवधे वा कथं तेषां द्वेषः सुस्पष्टवैदिके ।
प्रत्युक्तं च विरुद्धत्वं शाखानन्त्याच्च दुर्गमम् ॥
कि मियद्वेदसर्वस्वं यावदस्मन्मुखे स्थितम् ।
शाखान्तराद्वा संवादो न लभ्येतेति का प्रमा ॥
तथाच सांख्यशास्त्रप्रसिद्धत्रिगुणात्मकप्रकृतिसूचनपरम् अजामेकां लोहि-
शुक्लकृष्णामिति वैदिकं लिङ्गमप्युपलभ्यते, निर्ग्रन्थकथितवचसः चित्तत्त्वज्ञान-
शंसी चायमनुवादो दृश्यते मुनयो वातरसना इति, एवं रक्तपटपरिग्रहभस्मक-
पालधारणादिमूलमप्यभियुक्ता लभन्ते एव ।
मन्वादिस्मृतिवत्कर्तृसाम्यस्यासम्भवे ऽप्यतः ।
प्रमाणं वेदमूलत्वाद्ग्राह्या सर्वागमा स्मृतिः ॥
ततश्च—
(१) यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्त्तितः ।
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥
इत्यत्र यथा मनुग्रहणं गौतमयमापस्तम्बसंवर्तकाठकादिस्मृत्यन्तरोपलक्ष-
णम् एवमर्हत्कपिलसुगताद्युपलक्षणपरमपि व्याख्येयम् ।
ननु च लोकायताद्यागमो ऽप्येवं प्रामाण्यं प्राप्नोति विज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञा ऽस्तीति वेदमूलदर्शनात्,
ततश्च लोकायतदर्शने प्रमाणभूते सति स्वस्ति सर्वागमेभ्यः, उच्यते—
न हि लोकायते किं चित् कर्तव्यमुपदिश्यते ।
वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥
ननु च यावज्जीवं सुखं जीवेदिति तत्रोपदिश्यते, न स्वभावसिद्धत्वेनात्रो-
पदेशवैफल्यात्, धर्मो न कार्यस्तदुपदेशेषु न प्रत्येतव्यमित्येवं वा यदुपदिश्यते
तत्प्रतिविहितमेव पूर्वपक्षवचनमूलत्वाल्लोकायतदर्शनस्य, तथा च तत्रोत्तर-
ब्राह्मणं भवति (२) न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरे ऽयमात्मा
मात्रासंसर्गस्त्वस्य भवतीति, तदेवं पूर्वपक्षवचनमूलत्वाल्लोकायतशास्त्रमपि न
स्वतन्त्रम् , उत्तरवाक्यप्रतिहतत्वात्तु तदनादरणीयम् , शास्त्रान्तराणां तु पूर्वप-
क्षवाक्यमूलकत्वकल्पनमयुक्तम् , समनन्तरमेव तत्प्रतिपक्षवचनानुपलब्धेरि-
त्यतो वेदमूलत्वात्सर्वागमः प्रमाणम् ।
( १ ) मनुस्मृतौ अ. २ श्लो. ७ ।
( २ ) बृहदारण्यकोपनिषदि अ० ४ ब्रा० ५ खं० १२-१३ ।