न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 272, कुल 654 में से
संदर्भ में पढ़ें२६० न्यायमञ्जर्य्याम्
सूत्रकारः "तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः"(१) पुत्रकामेष्टहवना-
भ्यासेष्विति ।
वेदप्रामाण्याक्षेपपरिहारः—
अत्र समाधिमाह "न कर्मकर्तृसाधनवैगुण्यादिति"(२) अयमाशयः अप्रा-
माण्यसाधनमनृतत्वं परैरुक्तम् , अनृतत्वे च साधनं फलादर्शनम् एतच्चानैका-
न्तिकम्, अन्यथा ऽपि फलादर्शनोपपत्तेः किं वेदस्यासत्यार्थत्वादत्र फलादर्श-
नम् उत कर्तृादिवैगुण्यादिति न विशेषहेतुरस्ति, ननु न कदा चिदपि कर्म-
समनन्तरमेव फलमुपलब्धमिति तदनृतत्वमेव तददर्शनकारणं न कारणवैगु-
ण्यमिति तदयुक्तम्, अविगुणायां कारीर्य्यां प्रयुक्तायां सद्य एव वृष्टेर्दर्शनात् ,
न च तत्काकतालीयम् आगमेनान्वयव्यतिरेकाभ्यां च तत्कारणत्वदर्शनात् ,
पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्यालोचनयैव न सद्यो भवितुमर्हति
न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः स्त्रीपुंसयोगकारणान्तरस-
व्यपेक्षत्वात्तदुत्पत्तेः, पश्चादिप्राप्तिस्तु कस्य चिदुत्तरकाले ऽपि दृश्यते प्रतिग्रहा-
दिना, तथा ह्यस्मत्पितामह एव ग्रामकामः सांग्रहणीं कृतवान् स इष्टिसमाप्तिस-
मनन्तरमेव गौरमूलकं ग्राममवाप, नन्वेवं तर्हि प्रतिग्रहाद्येव दृष्टं कारणमस्तु
पश्वादेः पुत्रस्य च स्त्रीपुंसयोगः किमिष्टेः कारणत्वकल्पनयेति मैवं वोचः, स-
त्स्वपि च दृष्टेषु कारणेषु तददर्शनाद् इष्टिप्रयोगानन्तरं चैतद्दर्शनादिष्टिकृतं स्त्री-
पुंसयोगादिकारणत्वमिति निश्चीयते । किं च—
सेवाध्ययनकृष्यादिसाम्ये ऽपि फलभेदतः ।
वक्तुं न युक्ता तत्प्राप्तिर्दृष्टकारणमात्रजा ।।
भूतस्वभाववादादि पुरस्तात्प्रतिषिध्यते ।
• तस्मान्ननुपेतव्यमत्रान्यदपि कारणम् ।।
तदुक्तम् तच्चैव हि कारणं शब्दश्चेति, यत्र पुनरविगुणे ऽपि कर्मणि प्र-
युज्यमाने कालान्तरे ऽपि पुत्रपश्वादिफलं न दृश्यते तत्र तीव्रं किमपि प्राक्तनं
कर्म प्रतिबन्धकं कल्पनीयम् , यथोक्तम् "फलति यदि न सर्वं तत्कदा चित्तदेव
ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते" इति, कर्मादिवैगुण्यग्रहणमुपलक्षणार्थमृ-
षिणा प्रयुक्तम् , न तु वेदस्याप्रामाण्यकल्पना साध्वी साद्गुण्ये कर्मणः प्राचुर्येण
फलदर्शनात् ,
अपि च चित्रातः पशवो भवन्तीत्येतावानेव शास्त्रार्थः आनन्तर्ये तु न किं
चित्प्रमाणमस्ति तदयं प्रत्यक्षादिसंवाद आनन्तर्यविषयः चित्रादिचोदना त्वनि-
र्दिष्टकालविशेषविषयेति विषयभेदान्न सा तेन बाध्यते । तदाह भट्टः
(१) गौतमसूत्रम् अ. १ आ. २ सू. ५६ । (२) गौतमसूत्रम् अ. १ आ. २ सू. ५७।