मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठम् ७४
७४ मध्यमकशास्त्रे [७. ३४-
यथा मायादयः स्वभावेनानुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्च
लोकस्य, एवमेतेऽपि लोकप्रसिद्धमात्रेण उपादादयः स्वभावेन अविद्यमाना अपि भगवता
तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति । अत एवोक्तम्—
त्वक्स्नायुमांसास्थिसमुच्चये च
उत्पाद्य संज्ञां मम पत्निरिष्टा ।
मूढा हि बाला जनयन्ति रागं
स्त्रियो न जानन्ति यथैव मायाम् ॥
यथा कुमारी सुपिनान्तरस्मि
सा पुत्र जातं च मृतं च पश्यति ।
जातेऽतितुष्टा मृति दौर्मनस्थिता
तथोपमान् जानथ सर्वधर्मान् ॥
[समाधिराजसूत्र - ९.१७]
यथैव गन्धर्वनगरं मरीचिका
यथैव माया सुपिनां यथैव ।
स्वभावशून्या तु निमित्तभावना
तथोपमान् जानथ सर्वधर्मान् ॥
[समाधिराजसूत्र - ९.११]
संस्कृतासंस्कृतधर्मविविक्ता
नास्ति विकल्प न तेषमृषीणाम् ।
सर्वगतीषु असंस्कृतप्राप्ता
दृष्टिगतेहि सदैव विविक्ता ॥
नित्यमरक्त अदुष्ट अमूढाः
तस्य सभावसमाहितचित्ता ।
एष समाधिर्बली बलवन्तो
यो इमु जानति शून्यकधर्मान् ॥ इति ॥ ३४ ॥
[समाधिराजसूत्र - ३७.२७-२८]
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ॥
१. P संस्कृतासंस्कृतसर्वविविक्ता for the line.
पृष्ठम् ८
८
कर्मकारकपरीक्षा अष्टमं प्रकरणम् ।
अत्राह — विद्यन्त एव संस्कृतस्वभावतो विज्ञानादयः संस्कृता धर्माः, तद्धेतुककर्मकारक-
सद्भावात् । उक्तं हि भगवता —
अविद्यानुगतोऽयं भिक्षवः पुरुषपुद्गलः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि,
आनिङ्ग्यानपि संस्कारानभिसंस्करोति ।
इत्यादिना कर्मणां कारको व्यपदिष्टः, तत्कर्मफलं च विज्ञानादिकमुपदिष्टम् । यस्य च
कारकोऽस्ति, तदस्ति, तद्यथा घटः । यन्नास्ति, न तस्य कारकः, तद्यथा कूर्मरोमप्रावारस्येति ।
उच्यते । स्याद्विज्ञानादिकं संस्कृतं यदि तस्य निष्पादककर्मकारको स्याताम् । न तु स्तः ।
यस्मात् —
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥ १ ॥
तत्र करोतीति कारकः कर्ता । कुर्व्वाणस्यैव किंचित् कारकव्यपदेशो नाकुर्वाणस्य । तच्च
करणं सद्भूतस्य वा कर्तुः परिकल्प्येत, असद्भूतस्य वा, सदसद्भूतस्य वा ? क्रियते इति कर्म
कर्तुरीप्सिततमम् [ पा० १.४.४९ ] । तदपि त्रिविधम्, सद्भूतमसद्भूतं सदसद्भूतं च । तत्र
सद्भूतः कारकः क्रियायुक्तः सद्भूतं क्रियायुक्तं कर्म न करोतीत्येका प्रतिज्ञा । इदानीमसद्भूतोऽपि
क्रियाकारकरहितोऽसद्भूतं क्रियारहितं कर्म न करोतीत्यपरा प्रतिज्ञा ॥ १ ॥
तत्राद्यां प्रसाधयितुमाह—
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
क्रियानिबन्धनत्वात्कारकव्यपदेशस्य, करोति क्रियायुक्त एव कश्चित्सद्भूतः कारकव्यपदेशं
लभते, ततश्च तस्यैवंविधस्य क्रियाहेतुकलब्धकारकव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म
कुर्यात् । क्रियाभावाच्च यदा कारकः कर्म न करोति, तदा कारकनिरपेक्षमकर्तृकं कर्म स्यात् ।
न चाकर्तृकं कर्म संभवति वन्ध्यासूनोरिव घटकरणमिति । एवं तावत्
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
इति दोषप्रसङ्गात् सद्भूतः कारकः कर्म न करोति ।
इदानीं सद्भूतमपि कर्म कारको न करोतीति प्रतिपादयन्नाह —
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥ २ ॥
सद्भूतं नाम कर्म क्रियायुक्तम् । तस्येदानीं क्रियानिबन्धनलब्धकर्मव्यपदेशस्य अपरा क्रिया
नास्ति यया कर्म क्रियेतेति । एवं तावत्सद्भूतस्य कर्मणः क्रिया नास्ति । यदा नास्ति परा क्रिया,
तदा कारकस्तत्सद्भूतं कर्म नैव करोति । यदा च न करोति कर्मणो द्वितीयक्रियाभावात्, तदा
१. Mss. घटाः for घटः.
७६ मध्यमशास्त्रे [ ८. ३-
अकर्मक एव अविद्यमानकर्मक एव तस्य कर्मणः कारकः स्यात् । न चैतद्युक्तम् । न हि
अकृतानन्तर्यकर्मणः आनन्तर्यकर्मकारकत्वं दृष्टमिति ॥ २ ॥
B 182 एवं सद्भूतः कारकः सद्भूतं कर्म न करोति इति संसाध्य इदानीं यथा असद्भूतमपि
कर्म असद्भूतः कारको न करोति तथा प्रतिपादयन्नाह -
करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥ ३ ॥
असद्भूतः कारको यः क्रियारहितः । क्रिया च कारकव्यपदेशे हेतुरिति क्रियारहितः
कारकोऽपि निर्हेतुकः स्यात् । कर्माप्यसद्भूतं निर्हेतुकं स्यात् ॥ ३ ॥
सति च अहेतुकवादाभ्युपगमे कार्यं च कारणं च सर्वमपोदितं स्यादित्याह-
10 हेतावसति कार्यं च कारणं च न विद्यते ।
सत्येव हि हेतोरभ्युपगमे हेतुना यन्निष्पाद्यते तत् कार्यम्, तस्य च यो निष्पादकः,
तत्कारणमिति युज्यते । तद्यथा घटस्य मृद् हेतुः, घटः कार्यम्, तस्य च चक्रादयः सहकारिकार-
णम् । अहेतुकवादाभ्युपगमे तु हेत्वनपेक्षत्वान्मण्डूकजटाशिरोमणिमयघटवन्न स्यादयं घटः ।
असति घटे कुतस्तत्कारणमिति । एवम्-
15 हेतावसति कार्यं च कारणं च न विद्यते ।
ततश्च-
तदभावे क्रिया कर्ता करणं च न विद्यते ॥ ४ ॥
B 183 तदभावे कार्यकारणाभावे, किं कुर्वाणस्य क्रिया संभवेत्, कस्यां वा क्रियायां कुम्भकारस्य
स्वातन्त्र्यात्कर्तृत्वं स्यात् ? न चापि मृदां तादात्म्यप्रवृत्त्या साधकतमत्वेन करणत्वं युज्यत इति ।
20 एवं तावत्-
तदभावे क्रिया कर्ता करणं च न विद्यते ॥
ततश्च-
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे ।
इह यदा देवदत्तः प्राणातिपातविरतिक्रियास्वातन्त्र्यात्कर्ता सन् स्वतन्त्रकार्येण करण-
25 भूतेन प्राणातिपातविरतिक्रियां करोति, तदास्य धर्म उपजायते । एवं दशास्वपि कुशलेषु कर्म-
पथेषु कुशलक्रियानिष्पाद्येषु रत्नत्रयमातापितृतदन्यपूज्यपूजादिलक्षणेषु च कुशलधर्मप्रारम्भेषु
योज्यम् । एवमधर्मेऽपि प्राणातिपातादिलक्षणे कुशलविपर्ययेण क्रियाकर्तृकरणानामभावे सति
कर्मणामभावप्रसङ्ग उद्भावनीयः ।।
यदा चैवं धर्माधर्मौ न संभवतः, तदा तत्फलमपि नास्त्येवेति प्रतिपादयन्नाह -
१. Mss. मृदा for मृद्. २. T आकाशपुष्प ° for मण्डूकजटाशिरोमणि °. ३. Mss. सति for
असति.
-८. ७] कर्मकारकपरीक्षा अष्टमं प्रकरणम् । ७७
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ ५ ॥
धर्माधर्मजनितमिष्टानिष्टफलं सुगतिदुर्गल्योर्धर्माधर्मयोरभावे सति न स्यात् ॥ ५ ॥
ततश्च-
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः
यदि हि फलमिष्टानिष्टं स्यात्, स्याल्लौकिकस्य मार्गस्य ध्यानाख्यसमाधिसमापत्तिलक्षणं B 184
स्वर्गः, तदानीं तदर्थं लौकिकमार्गभावना ज्यायसी स्यात्, कुँगतिगमनकर्मपथविरतिसाफल्यं च
स्यात् । यदि च मोक्षलक्षणं निर्वाणं फलं स्यात्, तदर्थं लोकोत्तराष्टाङ्गमार्गभावनासाफल्यं
स्यात् । यदा तु फलं नास्ति, तदा-
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते । 10
मार्गः ।
किं च । एवं फलाभावे सति -
सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ ६ ॥
या अपि ह्येताः कृषिवणिज्यबल( भृति ? ) गतादिकाः क्रियाः फलार्थं प्रारभ्यन्ते,
ता अपि सर्वाः फलाभावे सति नोपपद्यन्त इति । एवं सर्वक्रियाणां नैरर्थक्यं प्रसज्यते भवताम् । 15
न चासां नैरर्थक्यम् । तस्मान्निरवशेषदोषविषवृक्षारभूतोऽयं स्वर्गापवर्गोपवादी नरकादिमहापाय- B 185
प्रपातैर्तनहेतुः दृष्टादृष्टहेतुपदार्थविरोधीति कृत्वा, सद्भिः असद्भूतः कारकोऽसद्भूतं कर्म करोतीति
पक्षो निकृष्ट एवेति त्याज्यः ॥ ६ ॥
तदेवं प्रतिज्ञाद्वयं संसाध्य इदानीमुभयरूपः कारकः, उभयरूपमपि कर्म न करोती-
त्याह- 20
कारकः सदसद्भूतः सदसत्कुरुते न तत् ।
तत्र यदेतदसद्भूतं कर्म क्रियायुक्तमक्रियायुक्तं च, तत् सदसद्भूतः कारको न करोतीति ।
यस्मात् --
परस्परविरुद्धं हि सच्चांसच्चैकतः कुतः ॥ ७ ॥
एकः पदार्थः एकस्मिन् काले क्रियायुक्तश्चाक्रियायुक्तश्चेति न युज्यत एवैतत् । ततश्च 25
सदसद्भूतोऽपि कारकः सदसद्भूतं कर्म न करोति, अविद्यमानत्वादित्यभिप्रायः ॥ ७ ॥
एवं समे पक्षे दूषणमुद्भाव्य विषमपक्षस्यापि निराचिकीर्षया आह -
१. T om. इष्टानिष्टं. २. T om. कुगतिगमनकर्मपथविरतिसाफल्यं च स्यात्. ३. T om.
°साफल्यं. ४. T om. °विषवृक्ष° ५. Mss. सन्मार्गापवर्गावादी for स्वर्गापवर्गापवादी which is
confirmed by T. ६. T om. °वर्तन°. ७. Mss. न हि for न तत्.
पृष्ठम् ७८
७८ मध्यमकशास्त्रे [८. ८-
सता च क्रियते नासन्नासता क्रियते च सत्।
कर्त्रा
सता सद्भूतेन तावत्कर्त्रा क्रियायुक्तेन असद्भूतमसत्क्रियायुक्तं कर्म न क्रियते। यस्मात्—
सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥ ८ ॥
B 186 5 सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम्। [८.२]
इत्येवं तावत् सद्भूतः कारकः कर्म न करोति, नाप्यसद्भूतं कर्म क्रियते। असद्भूतं हि कर्म अहेतुकं
भवेत्। ततश्च—
हेतावसति कार्यं च कारणं च न विद्यते। [८.४]
इत्यादिना सर्वं दूषणमापद्यते। तस्मात्पूर्वोक्तैरेव हेतुभिर्दूषितत्वादस्य विषमपक्षस्य न
10 पुनर्हेतोरुपादानमनुष्ठीयते। यथा चैतत् सता कर्त्रा असत्कर्म न क्रियते इति प्रतिपादितम्,
एवमसता कर्त्रा अक्रियायुक्तेन सत्कर्म न क्रियते इति व्याख्येयमुक्तपन्थानूसारेण ॥ ८ ॥
एवं तावद्विपमपक्षे एकैकपदपरामर्शेन दूषणमभिधाय इदानीमेकैकस्य पदस्य पदद्वय-
परामर्शेन दूषणाभिधानमाह—
नासद्भूतं न सद्भूतः सदसद्भूतमेव वा।
15 करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ९ ॥
स कारकः सद्भूतः असद्भूतं कर्म सदसद्भूतमेव वा न करोतीति। कथमित्याह — पूर्वोक्तैरेव
हेतुभिरिति। तत्र 'सद्भूतस्य क्रिया नास्ति' इत्यादिना सद्भूतः कारको न करोति। असद्भूतर्माप
कर्म न क्रियते 'अहेतुकं भवेत्कर्म' 'हेतावसति कार्यं च' इत्यादिना विहितदोषात्। सदसद्भूत-
मपि कर्म न क्रियते—
20 परस्परविरुद्धं हि सचासच्चैकतः कुतः [८.७]
इति वचनात्। एवं तावत्सद्भूतः कारकोऽसद्भूतं सदसद्भूतं च कर्म न करोति ॥ ९ ॥
B 187 इदानीमसद्भूतोऽपि कारकः सद्भूतं कर्म सदसद्भूतं च कर्म न करोतीत्याह —
नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ १० ॥
25 असद्भूतः कारको निर्हेतुको भवेत्। 'हेतावसति कार्यं च' इत्यादिना उक्तदोषादसद्भूतः
कारको न करोति।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः। [८.२]
इति प्रसङ्गात् सद्भूतं कर्म न क्रियते। सदसद्भूतमपि कर्म न क्रियते,
परस्परविरुद्धं हि सचासच्चैकतः कुतः। [८.७]
30 इति वचनात् ॥ १० ॥
पृष्ठम् ७९
-८. १२] कर्मकारकपरीक्षा अष्टमं प्रकरणम्। ७९
इदानीं सदसद्भूतोऽपि कारकः एकैक एवोभयरूपः सन् यथा सद्भूतंमसद्भूतं च भिन्नसंकेतं
कर्म न करोति तथा प्रतिपादयन्नाह—
करोति सदसद्भूतो न सन्नासच्च कारकः।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥ ११ ॥
परस्परविरुद्धं हि सचासच्चैकतः कुतः। [८.७] 5 B 188
इति वचनात्सदसद्भूतः कारको न करोति।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः। [८.२]
इति प्रसङ्गादसद्भूतं कर्म न क्रियते। असद्भूतमपि कर्म अहेतुकं 'हेतावसति कार्यं च'
इत्यादिनोक्तदोषान्न क्रियते। यतश्चैवं समपक्षेषु विषमपक्षेषु च कर्तुः कर्मणश्च सर्वथा सिद्धिरयुक्ता,
तस्माद्यदुक्तं विद्यन्त एव विज्ञानादयः संस्कृता धर्माः संस्कृतस्वभावाः तद्धेतुककर्मकारक सद्भावादिति, 10
तदयुक्तम् ॥
अत्राह — किमवधारितमेतद्भवता न सन्ति भावा इति ? न हि। भवतस्तु सस्वभाव-
वादिनः स्वभावस्य भावानां वैधुर्यात्सर्वभावापवादः संभाव्यते। वयं तु प्रतीत्योत्पन्नत्वात्सर्वभावानां
स्वभावमेवनोपलभामहे, तत्कस्यापवादं करिष्यामः ? यथोक्तमार्यरत्नरावल्याम्—
मरीचि तोयमित्येतदिति मत्वागतोऽत्र सन्। 15
यदि नास्तीति तत्तोयं गृह्णीयान्मूढ एव सः ॥
मरीचिप्रतिमं लोकमेवमस्तीति गृहतः।
नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते ॥
अज्ञानकल्पितं पूर्वं पश्चात्त्वत्त्वार्थनिर्णये।
यदा न लभते भावमेवाभावस्तदा कुह ॥ इति ॥ ११ ॥
तदेवं निःस्वभावानां सर्वभावानां कुतो यथोक्तप्रकारसिद्धिः ? तस्माल्लौकिकं विपर्यास- 20 B 189
मभ्युपेत्य सांवृतानां पदार्थानां मरीचिकाजलकल्पनामिदंप्रत्ययतामात्रामभ्युपगमेनैव प्रसिद्धिरित्यवे-
त्याह —
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम्।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् ॥ १२ ॥ 25
इह अकुर्वाणस्य कर्मनिरपेक्षस्य कारकत्वाभावात् कर्मापेक्ष्य कारकस्य कारकत्वं भवति ।
कारकेण चाक्रियमाणस्य कस्यचित्कर्मत्वाभावात् क्रियमाणस्यैव कर्मव्यपदेशात्, तं कारकं
प्रतीत्य कर्म प्रवर्तते इत्येवं कर्मकारकयोः परस्परापेक्षिकीं सिद्धिं मुक्त्वा नान्यत्सिद्धिकारणं
पश्यामः ॥ १२ ॥
यथा च कर्मकारकयोः परस्परापेक्षिकी सिद्धिः, एवमन्येषामपि भावानामित्यतिदिशन्नाह—
१. Mss. परिचिन्तोयं for मरीचिं तोयं which is confirmed by T. २. Mss. कारणेन for
कारकेण which is confirmed by T.
पृष्ठम् ८०
८० मध्यमकशास्त्रे [८. १३-
एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः ।
कर्तृश्च
एवमित्यनेन अनन्तरं कर्मकारकप्रज्ञप्तिं दर्शयति । उपात्तिरुपादानम् । अनेन चोपात्ति-
क्रियामाह । सा च स्वसाधनं कर्तारमुपादातारं कर्म चोपादानं संनिधापयति । तयोश्च उपादेयोपा-
दात्रोः परस्परापेक्षयोः कर्मकारकवदेव सिद्धिर्न स्वाभाविकी । कस्मात्पुनः स्वाभाविकी न भवति
इत्याह — व्युत्सर्गादिति कर्मणः, कर्तुश्चेति । इतिशब्दो हेतुपरामर्शी । व्युत्सर्गो व्युदासः । ततश्च
अयमर्थ उपपद्यते — यैरेव हेतुभिः कर्मणश्च व्युत्सर्गोऽस्माभिरुक्तः, तैरेव हेतुभिः उपादाता
उपादेयं च प्रतिषिद्धं वेदितव्यम् । न च केवलमनयोरन्योन्यापेक्षिकी सिद्धिः कर्तृश्च कर्मणश्च
प्रतिषेधेनावसेया, अपि च
कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥ १३ ॥
प्राज्ञ इति वाक्यशेषः । कर्मकारकोपादेयोपादातृव्यतिरिक्ता येऽन्ये भावा जन्यजनक-
गन्तृगमनद्रव्यदर्शनलक्ष्यलक्षणोत्पाद्योत्पादकाः, तथा अवयवावयविगुणगुणिप्रमाणप्रमेयादयो
निरवशेषा भावाः, तेषां कर्तृकर्मविचारेण स्वभावतोऽस्तित्वं प्रतिषिध्य परस्परापेक्षिकीमेव सिद्धिं
प्राज्ञो निर्मुमुक्षुर्जातिजरामरणादिनिबन्धेभ्यो मोक्षाय विभावयेत् ॥
एषां च विस्तरेण विचारो मध्यमावतारादियोऽवसेयः ॥
ननु च शेषान् भावान् विभावयेदित्यनेनैव उपादानोपादात्रोरधिगतत्वादुपादानोपादानं
पुनरुक्तम् । सत्यमेतत् । तथापि तत्त्वविचारे प्राधान्यज्ञापनार्थमुपादानोपादात्रोर्भेदेनोपादानम्,
तथा हि उत्तरेषु प्रकरणेषु भूयसा अनयोरेव विचारो भविष्यतीति । अत एवोक्तं भगवता
आर्योपालिपृपृच्छायाम्—
भैय दर्शित नैरयिकं मे सत्त्वसहस्रं संवेजित नैके ।
न च विद्यति कश्चिह सत्त्व यो च्युतु गच्छति घोरमपायम् ॥
न च कारकु कारणं सन्ति येहि कृता असितोमरशखाः ।
कल्पवशेन तु पश्यति तत्र कायि पतन्ति अपायित शखाः ॥
चित्रमनोरम सज्जितपुष्पाः स्वर्णविमान जलन्ति मनोज्ञाः ।
तेष्वपि कारकु नास्तिह कश्चि तेऽपि च स्थापित कल्पवशेन ॥
कल्पवशेन विकल्पितु लोकः संज्ञगहेण विकल्पितु बालः ।
सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पाः ॥ इति ॥ १३ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
कर्मकारकपरीक्षा नाम अष्टमं प्रकरणम् ॥
१. Mss. विद्यानुपादानं for विद्यादुपादानं. २. Mss. अथ for तथा which is confirmed by T. ३ This very citation occurs in chapter I on page 18.
पृष्ठम् ८१
९
पूर्वपरीक्षा नवमं प्रकरणम् ।
अत्राह — यदुक्तम् — ‘एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः । कर्तृश्च’ [८.१३]
इति, तदयुक्तम् । यस्मात्—
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति यस्य प्रागेभ्यः सोऽस्तीत्येके वदन्त्युत ॥ १ ॥
यस्य उपादातुः दर्शनश्रवणघ्राणरसनादीनि वेदनास्पर्शमनस्कारादीनि च भवन्ति, स
उपादाता पूर्वेभेभ्य उपादानेभ्योऽस्तीति सांमितीया वदन्ति ॥ १ ॥
किं कारणम् ? यस्मात्—
कथं ह्यविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात्प्रागेभ्यः सोऽस्ति भावो व्यवस्थितः ॥ २ ॥
इह विद्यमान एव देवदत्तो धनोपादानं कुरुते नाविद्यमानो वन्ध्यातनयः । एवं यदि
तावत्पुद्गलो दर्शनादिभ्यः पूर्वं व्यवस्थितो न स्यात्, नासौ दर्शनादिकस्योपादानमकरिष्यत् ।
तस्मादस्ति असौ धनात्प्रागेव स्थितदेवदत्तवत् दर्शनादिभ्यः पूर्वं पुद्गलो योऽस्य उपादानं
करिष्यतीति ॥ २ ॥
उच्यते —
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञाप्यतेऽथ सः ॥ ३ ॥
योऽसौ पुद्गलो दर्शनादिभ्यः पूर्वमस्तीति व्यवस्थाप्यते, स केन प्रज्ञप्यताम् ?
पुद्गलप्रज्ञप्तेर्हि दर्शनादिकं कारणम् । स यदि तेभ्यः प्राग्व्यवस्थितोऽस्तीति कल्प्यते, तदा
दर्शननिरपेक्षः स्याद् घटादिव पटः । यश्च स्वकारणनिरपेक्षः स निर्हेतुको धनादिनिरपेक्षः
धनिकवन्नास्तीत्यभिप्रायः ॥ ३ ॥
किं चान्यत्—
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः ॥ ४ ॥
यदि मन्यसे — दर्शनादिभ्यः पूर्वं पुद्गलो नामास्ति, स दर्शनादिकमुपादानमुपादत्ते इति ।
नन्वेवं सति निरस्तसंशयम्अमून्यपि दर्शनादीनि विना पुद्गलेन भविष्यन्ति । तथाहि देवदत्तो
धनसंबन्धात्पूर्वं धनव्यतिरिक्तो व्यवस्थितः सन् अर्थान्तरभूतमेव पृथक्सिद्धं धनमुपादत्ते ।
एवमुपादातुरपि स्वात्मव्यतिरिक्तेणार्थान्तरभूतं दर्शनादिकमुपादानं स्यात् ॥ ४ ॥
न तु संभवतीत्याह —
अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते ।
कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः ॥ ५ ॥
म. ११
An accurate, line-by-line transcription of the Sanskrit text from both pages:
[Page 82 / ८२]
इह बीजाख्येन कारणेन किंचित्कार्यमभिव्यज्यतेऽङ्कुराख्यम्, तेन च कार्येण किंचित्
कारणमभिव्यज्यते बीजाख्यम् – अस्येदं कारणमिदमस्य कार्यमिति । एवं यदि केनचिद्दर्शनादिके-
नोपादानेन कश्चिदात्मस्वभावोऽभिव्यज्यते अस्यायमुपादातेति, केनचिच्चात्मना किंचिदुपादानं
दर्शनादिकमभिव्यज्यते इदमस्योपादानमिति, तदानीं स्यात्परस्परापेक्षयोरुपादानोपादात्रोः सिद्धिः ।
यदा तु उपादातारं विना पृथक् सिद्धं दर्शनादिकमभ्युपगम्यते, तदा तन्निराश्रयमसदैव ।
तस्मान्नास्त्युभयोरपि सिद्धिः, इति न युक्तमेतत् – दर्शनादिभ्यः पृथगवस्थित उपादातेति ॥ ५ ॥
अत्राह – यदुक्तं दर्शनश्रवणादिभ्य इत्यादि, अत्रोच्यते । यदि सर्वेभ्यो दर्शनादि
Here is the line-by-line transcription of the Sanskrit text from the provided image:
Left Page
प्रतिपादितम्, तदा तस्मिन्नात्मनि उपादातरि असति, कुतो दर्शनादीनामुपादानभूतानामस्तित्व-
मित्यह —
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि ॥ ११ ॥
यस्य दर्शनादीनि परिकल्प्यन्ते स यदा नास्तीत्युक्तम्, ननु तदैव दर्शनादिकमपि
नास्तीति स्पष्टमदर्शितं भवति । ततश्च दर्शनाद्यभावान्नास्त्येवात्मेति ॥ ११ ॥
अत्राह — किं खलु भवतो निश्चितमेतन्नास्त्येवात्मेति ? केन एतैदुक्तम् ? ननु च
अनन्तरमेवोक्तं दर्शनाद्यभावादात्मापि नास्तीति । उक्तमेतदेस्माभिः । न तु अस्यार्थो
भवता सम्यग्निश्चितः । यतो भावरूप आत्मेति परिकल्पितः, सँ स्वभावतो न विद्यते,
तस्य च मया स्वभावाभिनिवेशानिवर्तकमेव वचनमुक्तमसद्दर्पर्यास्प्रतिपक्षेण, न तु अस्य अभावः
परिकल्पितः । द्वयं ह्येतत् परित्याज्यं यश्च भावेष्वभिनिवेशः, यश्च अभावेषु अभिनिवेश इति ।
यथोक्तमार्यदेवेन —
यस्तवात्मा ममानात्मा तेनात्मानियमन्न सः ।
नन्वनिordinaryत्येषु भावेषु कल्पना नाम जायते ॥
[ चतुःशतक—१०.३ ]
इति ॥ ११ ॥
एतदेव प्रतिपादयन्नाह —
प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च ।
न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥ १२ ॥
प्राक् तावद्दर्शनादिभ्य आत्मा नास्ति, तत्र हि तस्यास्तित्वाभावात् । दर्शनादिसहभूतोऽपि
नास्ति, पृथक्पृथगासिद्धयोः सहभावादर्शनात् शशशृङ्गयोरिव । आत्मोपादानयोश्च परस्परनिरपेक्षयोः
पृथक्पृथगासिद्धत्वात् सांप्रतमपि नास्ति । ऊर्ध्वमपि । यदि हि पूर्वं दर्शनादीनि स्युः, उत्तरकाल-
मात्मा स्यात्, तदानीमूर्ध्वं संभवेत् । न चैवम् , अकर्तृकस्य कर्मणोऽसिद्धत्वात् । यश्चैवमात्मा
दर्शनादिभ्यः प्राक् पश्चाद् युगपच्च परीक्ष्यमाणो नास्ति, तस्य इदानीमनुपलब्धस्वभावस्य
अस्तित्वं नास्तित्वं वा कः परिकल्पयेत्प्राज्ञः ? तस्मात्कर्मकारकवदेव उपादानोपादात्रोः परस्परापेक्षा
सिद्धिर्न स्वाभाविकीयति स्थितम् ॥
अत एवोक्तं भगवता आर्यसमाधिराजभट्टारके —
तहि कालि सो दशबलो अनघो
जिनु भाषते इमु समाधिवरम् ।
सुपिनोपमा भवगती सकला
न हि कश्चि जायति न चो म्रियते ॥
Footnote:
१. Mss. एतद्युक्तम् for एतदुक्तम्.
Right Page
न च सखु लभ्यति न जीवु नरो
इमि धर्म फेनकद्लीसदृशाः ।
मायोपमा गगनविद्युसमा
दकचन्द्रसंनिभ मरीचिसमाः ॥
न च अंस्मि लोकि मृतु कश्चि नरो
परलोक संक्रमति गच्छति वा ।
न च कर्म नश्यति कदाचि कृतं
फलु देति कृष्णशुभ संसरतो ॥
न च शाश्वतं न च उच्छेद पुनौ
न च कर्मसंचयु न चापि स्थितिः ।
न च सोऽपि कृत्व पुनरास्पृशति
न च अन्यु कृत्व पुन वेदयते ॥
न च संक्रमो न च पुनागमनं
न च सर्वमस्ति न च नास्ति पुनः ।
न च दृष्टिस्यानगतिशुद्धिरिह
न च सत्त्वचारसुप्रशान्तगति ॥
अनुत्पाद शान्त अनिमित्तपदं
सुगतान गोचर जिनान गुणा ।
बल धारणी दशबलान बलं
बुद्धानियं वृषभिता परमा ॥
[ समाधिराजसूत्र—२९.१३-१८ ]
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
पूर्वपरीक्षा नाम नवमं प्रकरणम् ॥
१०
अग्नीन्धनपरीक्षा दशमं प्रकरणम् ।
अत्राह — यदिदमुक्तं तस्मात्कर्मकारकवदेव उपादानोपादात्रोरपि न स्वाभाविकी सिद्धिरिति,
तदयुक्तम्, सापेक्षाणामपि पदार्थानां स्वभावभावदर्शनात् । तथा हि अग्निरिन्धनमपेक्ष्य भवति ।
न च निःस्वभावोऽग्निः, तस्य औष्ण्यदाहकत्वादिखभावकार्योपलब्भात् । एवमग्निमपेक्ष्य इन्धनं
भवति । न च तन्निःस्वभावम्, बाह्यमहाभूतचतुष्टयस्वभावत्वात् । एवमुपादानसापेक्षोऽप्युपादाता
स्वभावतो भविष्यति, उपादातृसापेक्षं चोपादानमित्यग्नीन्धनवदेतौ भविष्यत उपादानोपादाताराविति ।
उच्यते । स्यादेतदेवम्, यदि अग्नीन्धने एव स्याताम्, न तु स्तः । कथम् ? इह यदि अग्नीन्धने
स्याताम्, नियतं ते एकत्वेन वा स्यातामन्यत्वेन वा ? उभयथा तु न युज्यत इत्याह—
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
...? NO! Look at the length of line 25: It is centered (bold, verse font): यदीन्धनमपेक्ष्याग्निरेः सिद्धस्य साधनम् ।Wait, let's count words: There are only TWO or THREE words in line 25! Word 1:यदीन्धनमपेक्ष्याग्नि...Word 2:सिद्धस्यorसिद्धेऽग्नेः? Wait! Look at the word with साधनम्: It ends with साधनम् ।Beforeसाधनम्, is the word सिद्धस्य? Look at the letters of that word: Letter 1: सि(with i-matra) Letter 2:द्द्? द्ध? द्धस्य! Yes, सि, द्ध, स्य! Wait, but before सिद्धस्य, what is at the end of the first word? Is it: यदीन्धनमपेक्ष्याग्निः? Wait, why did I see रेः? Look at the end of the first word: यदीन्धनमपेक्ष्याग्निThen: a colon-like thingः? Wait, look at ग्नि: गwith virama,नwithि. Wait! Is it यदीन्धनमपेक्ष्याग्निः`?
Look at the character
An accurate, line-by-line transcription of the two pages follows:
[Page 90]
९० मध्यमकशास्त्रे [ १०.१२-
नानपेक्ष्याग्निरिन्धनम्।
अन्यत्वप्रतिषेधाद्धेतुकत्वप्रसङ्गाच्च। यथा च अग्निरपेक्ष्य वा अनपेक्ष्य वा इन्धनं न
संभवति, एवमिन्धनमपीत्याह —
अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निरिन्धनम् ॥ १२ ॥
एतच्च अनन्तरमेव गतार्थत्वान्न पुनरुच्यते ॥ १२ ॥
अत्राह — किमनया अस्माकमतिसूक्ष्मेक्षिकया प्रयोजनम्, ये वयं ब्रूमः — यस्मादग्निना
इध्यमानमिन्धनं प्रत्यक्षत उपलभ्यते, तस्मात्ते एव अग्नीन्धने इति। उच्यते। स्यादेतदेवम्, यदि
अग्निरिन्धनं दहेत्। यदि इन्धनेऽग्निः संभवेत्, स इन्धनं दहेत्। न तु संभवतीत्याह —
आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते।
इन्धन
Left Page
९२ | मध्यमकशास्त्रे | [१०. १५-
कः पुनः सर्वस्य निरवशेषस्य च भेदः ? सर्वग्रहणेनैव पञ्च पक्षाः समनन्तरप्रक्रान्ता
अभिसंबध्यन्ते । सर्वे एते पञ्चापि पक्षाः अग्नीन्धनवदात्मोपादानयोरप्यविक्ला ढौकनीयाः । यथैषां
प्रतिपादने उपपत्तिक्रमः प्रागुपवर्णितः, तेन निरवशेषेण आत्मोपादानयोः प्रतिषेधो वेदितव्यः ।
इत्यनेन सर्वात्मना प्रतिषेधसाम्यमग्नीन्धनाभ्यामात्मोपादानयोर्वेदितव्यमित्युपदर्शनार्थं सर्वो निरव-
शेषेणेत्याह । तत्र यदेवोपादानं स एव आत्मा, इत्येवं कर्तृकर्मणोरेकत्वप्रसङ्गान्न युज्यते ।
नान्यन्दुपादानमन्य उपादाता, स्कन्धव्यतिरेकेणात्मोपलब्धिप्रसङ्गात्, परत्र निरपेक्षत्वा-
दित्यादिप्रसङ्गाच्च । एकत्वान्यत्वप्रतिषेधाच्च स्कन्धवानप्यात्मा न भवति । अन्यत्वाभावाच्च नात्मनि
स्कन्धा न स्कन्धेष्वात्मा । यत एवं पञ्चसु प्रकारेषु आत्मनो न सत्त्वम्, तस्मात्कर्मकारकवदेव
आत्मोपादानयोः परस्परापेक्षिकी सिद्धिरिति स्थितम् ॥
यश्चायमात्मोपादानयोः क्रमः, स नान्ययोरेव, किं तर्हि-
सार्धं घटपटादिभिः ॥ १५ ॥
निरवशेषैः पदार्थैः सर्वथा व्याख्यातो वेदितव्यः । घटादयो हि कार्यकारणभूत
अवयवावयविभूता लक्षणलक्ष्यभूता गुणगुणिभूता वा स्युः । तत्र मृद्दण्डचक्रसूत्रसलिलकुलाल-
करव्यायामादयो घटस्य कारणभूताः, घटः कार्यभूतः । कपालदयो नीलादयो वा अवयवभूताः,
घटोऽवयवी । पृथुबुध्नोदरोष्ठदीर्घग्रीवलादीनि लक्षणानि, घटो लक्ष्यः । श्यामलादयो गुणाः, घटो
गुणी । इत्येवं व्यवस्थाप्य अग्नीन्धनवत् क्रमो योज्यः । एषां च घटादीनामात्मोपादानयोश्च
मध्यमावतारप्रकरणाद् व्याख्यानमवसेयम् ॥ १५ ॥
तदेवं कर्मकारकवदात्मोपादानयोर्घटादीनां च परस्परापेक्षकियां सिद्धौ व्यवस्थितायां तथा-
गतवचनाविपरीताथर्वबोधाभिमानितया तीर्थ्यमतोपकल्पितपदार्थव्यवस्थां सौगतप्रवचनार्थत्वेनोपनीय
अतिमूढतया —
आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् ।
निर्दिशन्ति न तान्मन्थे शासनस्यार्थकोविदान् ॥ १६ ॥
तत्र सह तेन वर्तत इति सतत्, सततो भावः सतत्त्वम्, अपृथक्त्वम्, अनन्यत्वम् ,
एकत्वमित्यर्थः । तैदेतत् सतत्त्वं ये वर्णयन्ति, न तानाचार्यः शासनाथर्पण्डितान् मन्यते ।
तथथा — आत्मा उपादानेन प्रज्ञप्यते येन, सहैव तेनोपादानेन संभवति । स न पृथक् ।
अव्यतिरेकेणैव भवतीत्यर्थः । एवं येन कारणेन मृदादिना घटः प्रज्ञप्यते, तद्व्यतिरेकेणैव स भवति,
न पृथक् । एवमात्मनो भावानां च सतत्त्वं ये वर्णयन्ति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्य
शाश्वतोच्छेदरहितस्य उपादायप्रज्ञप्यभिधानस्य तत्त्वं पश्यन्ति । पृथक् पृथक् च ये निर्दिशन्ति,
पृथगित्यात्मानम्, पृथगुपादानम्, पृथक् कार्यम्, पृथक् कारणम्, इत्यादिना अन्यत्वं पश्यन्ति,
अमूनपि न शासनस्यार्थकोविदानाचार्यो मन्यते । यथोक्तम्-
१. T तदत्र for तदेतत्.
Right Page
-१०.१६] | अग्नीन्धनपरीक्षा दशमं प्रकरणम् । | ९३
एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् ।
संक्रान्तिमासोद्य गतं बुद्ध्वांसत्वमनिन्दितः ॥
[ निरुपमस्तव - १३ ]
एवं च अग्नीन्धनपरीक्षया अधिगतधर्मतत्त्वपरमस्य योगिनः कल्पेनाकालौलिंसितैरपि
नैव वपुर्दह्यते रागद्वेषमोहहुताशनैरपि वा इति । यथोक्तं भगवता –
यथ गगण् न जातु दग्धपूर्वं
सुबहुभि कल्पशतैर्हि दह्यमानम् ।
गगनसम विजानमान धर्मान्
सोऽपि न दह्यति जातु साग्निमघ्ये ॥
सर्व्हि हि ज्वलमाणि बुद्धक्षेत्रे
प्रणिधि करोति समाधिये स्थिहित्वा ।
ज्वलत अयु प्रशाम्यतामशेष
पृथिवि विनश्यिपि नैवस्याम्यथात्वम् ॥
तथा –
अरणि यथ चोत्तराणि
हस्तव्यायामु त्रयेभि संगतिः ।
इति प्रत्ययतोऽग्नि जायते
जातु कृतु कार्यं लघु निरूध्यते ॥
अथ पण्डितु कश्चि मार्गतै
कुत अयमागतु कुत्र याति वा ।
विदिशो दिश सर्व मार्गतो
नागतिर्नास्य गतिश्च लभ्यति ॥
स्कन्वायतनानि धातवः
शून्य आध्यात्भिक शून्य बाहिराः ।
सर्वात्मविविक्तन्रालया
धर्म आकाशस्वभावलक्षणाः ॥
इमु ईदृश धर्मलक्षणा
बुद्ध दीर्पंकरदर्शने त्वया ।
१. Mss. corrupt. Our reading is conjectural. T suggests संक्रान्तिव्ययरहितम् or
°व्ययविगतम्. २. T युगान्तज्वालाभिर्वा for अकालालिखिताैरपि. ३. Mss. तेऽपि for सोऽपि. T क्वचन न
दह्यति जातु सोऽग्निमष्ये for the line.
९४ मध्यमकशास्त्रे [ २. १६-
अनुबुद्ध यथ त्वयात्मना
तथ बोधेहि सदेवमानुषान् ॥
विपरीतअभूतकल्पितै
रागदोषैः परिदह्यते जगत् ।
5 कृपमेघशमाम्बुशीतलं
मुञ्च धाराममृतस्य नायक ॥
[ ललितविस्तर - १३.१०८, ११५-११९]
इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
अग्नीन्धनपरीक्षा नाम दशमं प्रकरणम् ॥
११
पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् ।
अत्राह - विद्यत एव आत्मा, संसारसद्भावात् । यदि हि आत्मा न स्यात्, कस्य B 218
पञ्चगतिके आजवंजीवीभावेन जन्ममरणपरंपरया संसरणं स्यात् ? उक्तं हि भगवता - अनवराग्रो
हि भिक्षवो जातिजरामरणसंसारः इति । अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां तृष्णा-
गण्डुरबद्धानां संसरतां संधावतां पूर्वा कोटिर्न प्रज्ञायत इति । यदा च भगवदुपदेशात्संसारोऽस्ति, 5
तदा संसर्ताप्यस्ति । स च आत्मा उच्यत इति । उच्यते । स्यादात्मा, यदा संसार एव स्यात् । B 219
कथम् ? यस्मादस्य -
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥ १ ॥
कोटिर्भागो देश इति पर्यायाः । पूर्वा कोटिः पूर्वो देश इत्यर्थः । यदि हि संसारो नाम 10
कश्चित् स्यात्, नियतं तस्य पूर्वमपि स्यात्, पश्चिममपि, घटादीनामिव । उक्तं च भगवता -
अनवराग्रो हि भिक्षवो जातिजरामरणसंसार इति । यदेव अत्रै³ग्रे न स्तः, संसारस्य अनवराग्र-
वचनात्, संसार एव नास्तीति ननु स्पष्टमादेशयामास भगवान् । तस्मान्नास्ति संसारः, पूर्वी-
परकोट्यनुपलम्भात्, अलातचक्रवत्, इति स्थितम् ॥
अत्रेदं विचार्यते-यदि पूर्वं चापरं च संसारस्य निषिद्धं भगवता, कथं पुनरिदमाह - तस्मात्तर्हि 15
संसारक्षयाय प्रतिपत्स्यामह इत्येवं वो भिक्षवः शिक्षितव्यम्, इति ? उच्यते । अविद्यानीवरणानां
सत्त्वानामित्यादिविशेषोपादानात्तेषामेवायमनवराग्रः संसार इति प्रतीयते, न पुनस्तत्त्वज्ञानानिल-
बलात् समुन्मूलिताविद्यानीवरणतरूणाम् । तेषां तु लोकोत्तरमार्गज्ञानाग्निना दग्धाशेषक्लेशवासना-
मूलनिःशेषादपानां भवत्येव अन्तः इति विज्ञेयम् ॥
कथं पुनरादिरहितानामन्तोपदेश इति यावत् । दृष्टमेतद् बाह्येषु व्रीह्यादिषु आद्यभावेऽपि 20 B 220
दहनादिसंपर्कादन्तसद्भावः । यथोक्तमार्यदेवपादैः -
यथा बीजस्य दृष्टोऽन्तो न चादिस्तस्य विद्यते ।
तथा कारणवैकल्याज्जन्मनोऽपि न संभवः ॥ इति ।
[ चतुःशतक - ८.२५]
स च अन्तोपदेशो लौकिक एव व्यवहारे स्थित्वा संसारचारकाबद्धानामुत्साहनार्थं सत्त्वानां
देशितो लौकिकज्ञानापेक्षया । वस्तुकांचिन्तायां तु संसार एव नास्ति, तत्कुतोऽस्य परिक्षयः ? 25
प्रदीपावस्थायां रज्जूरगपरिक्षयवत् ॥
१. P पाञ्च° for पञ्च° against Mss. २. P °निवरणानां for °नीवरणानां. ३. Mss. corrupt :
यदेव शत: for अनवरागे न स्तः. T seems to suggest : यस्मादेवं संसारोऽनवराग्र उक्तः, तस्मात्संसार
एव नास्ति. ४. Mss. अवस्तुकं for वस्तुकां which is based on T. ५. T om. रज्जूरगपरिक्षयवत.
९६ | मध्यमशास्त्रे | [ ११.२-
अत्राह — यद्येवं लौकिकज्ञानापेक्षया अन्तवद् आदिरपि किं नोच्यते ? उच्यते ।
अहेतुकदोषप्रसङ्गात् लौकिकज्ञानापेक्षयापि संसारस्यादिरभाव इत्युभयथाप्यादेरभाव एवेति
विज्ञेयम् ॥ १ ॥
अत्राह — यद्यपि अवराग्रे न स्तः संसारस्य, तथापि मध्यमस्ति, अप्रतिषेधात् । ततश्च
५ अस्ति संसारो मध्यसद्भावात् । इह यन्नास्ति, न तस्य मध्यमस्ति तद्यथा कूर्मरोमप्रावरणस्येति ।
हास्यः खल्वसि । ननु च भोः,
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।
B 221 अग्रमिति आदिः, पूर्वम्, प्रथमम् उच्यते । अवरमिति अवसानम्, अन्तः, व्यवच्छेदः
उच्यते । यस्य संसारस्य आदिरन्तश्च प्रतिषिद्धः, तस्य कुतो मध्यं भविष्यति ? ततश्च संज्ञामात्रक-
१० मेव विपर्यासपरवशमानसानां संसारः आदिमध्यावसानविरहितत्वादाकाशवदलातचक्रादिवदिति
भावः । संसाराभावाच्च नास्ति आत्मेति । यत एवं संसारस्यादिमध्यावसानानि न सन्ति, अत
एव संसाराभावाज्जातिजरामरणादीनां पूर्वापरसहक्रमा अपि नैव सन्तीत्याह —
तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः ॥ २ ॥
यथा च नोपपद्यन्ते तथा प्रतिपादयन्नाह —
15 पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् ।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः ॥ ३ ॥
यदि पूर्वं जातिर्भवेत्, तदा मरणसहिता स्यात् । न च जरादिरहिता जातिर्युज्यते,
असंस्कृतत्वप्रसङ्गात् । जरामरणरहितस्य भावस्य जातौ परिकल्प्यमानायामन्यत्र अमृतस्यैव देवदत्तस्य
प्रथमिह जातिः परिकल्प्यमाना स्यात् । ततश्च आदिमान् संसारः स्यादहेतुकदोषश्च । अभूत्व-
२० मतीतमध्वानम्, इत्येवं पूर्वान्तकल्पना च न स्यात् । अभूत्वा च पूर्वं पश्चादिहोत्पादः स्यात्॥
B 222 अथ स्यात् — आम्रादीनां यथा पूर्वं विनापि जरामरणसंबन्धात् प्रथममेव उत्पादो दृष्टः,
एवमात्मनोऽपीति । नैवम् । साध्यसमत्वात् । आम्रादीनामपि हि स्वबीजनिरोधे समुत्पद्यमानत्वात्
नान्यत्राविनाशनामुत्पाद इति सममेतत् पूर्वेण ॥
अथ स्यात् — अन्यदेव वृक्षाद्वीजम्, अतोऽन्यत्राविनाशपूर्वक एव वृक्षस्योत्पाद इति
25 नैवम् । कार्यकारणयोरन्यत्वस्यासिद्धत्वात् । तथा च वक्ष्यति —
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥
[ मध्यमकशास्त्र - १८.१० ]
न च बीजाद्वृक्षस्यान्यत्वम् । अतः साध्यसममेतत् । यतश्च अन्यत्रामृतस्य इहोत्पादो
नास्ति, न पूर्वं जातिरभ्युपेया ॥ ३ ॥
१. Mss. अप्र, अल, अम. P अग्र for आम्र, which is based on T.
-११. ६ ] | पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् । | ९७
अथ पूर्वं जरामरणम्, पश्चाज्जातिः, एवमपि —
पश्चाज्जातिर्यदि भवेज्जरामरणमादितः ।
अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥ ४ ॥
जातिप्रत्ययं जरामरणमिति वचनाज्जातिहेतुकं जरामरणमुक्तं भगवता । यदि एतत्पूर्वं
स्यात्तदा निर्हेतुकं स्यात् । तस्मान्न युक्तमेतत् । यतोऽप्युक्तम् —
5 यैथ उक्खित्ते लोढम्मि उक्खेवे अत्थि कारणं ।
पडने कारणं णत्थि अण्णं उक्खेवकारणा ॥ इति ।
यथायत्रोल्क्षेपः पतनकारणं नान्यत्, एवमिहापि जातिमेव कारणत्वेन विनाशस्य वर्णयामो | B 223
नान्यत्, इति नास्त्यहेतुकता विनाशस्य । जातिहेतुकत्वाच्चास्योद्भमनेव विनाशस्य हेतुरिति
10 कृत्वा एषापि गाथा सुनीता भवति —
ऐविमे संख्ता धम्मा संभवन्ति सकारणा ।
स भाव एव धम्माणं यं विभोन्ति समुग्गता ॥
इति ॥ ४ ॥
इदानीं सहभावेनापि जातिजरामरणानामसद्भावं प्रतिपादयन्नाह —
15 न जरामरणेनैव जातिश्च सह युज्यते ।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥ ५ ॥
यदि सहभावो जातिजरामरणानां स्यात्, तदा जायमानस्य मरणं स्यात् । न | B 224
चैतद्युक्तम् । न च परस्परविरुद्धत्वादालोकान्धकारवदेककालता युक्ता । न चैवं लोके दृष्टं
यज्जायमान एव म्रियते इति । अपि च । अहेतुकत्वं जात्यादीनां सहभावकल्पनायां स्यात् । न हि
20 सहभूतयोः सव्येतरगोविषाणयोरन्योन्यहेतुकता दृष्टेति न युक्तमेतत् ॥ ५ ॥
तदेवम् —
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥ ६ ॥
यस्यां जातौ यत्र जरामरणे एते पूर्वापरसहक्रमाः न सन्ति, तां जातिमनुपलभमाना आर्याः
25 किं प्रपञ्चयन्ति ? किंशब्दोऽसंभवे । नैव प्रपञ्चयन्तीत्यर्थः । अथवा । एवमविद्यमानेषु जात्यादिषु तां
जातिमविद्यमानां बालाः किं प्रपञ्चयन्ति तच्च जरामरणं यन्न संविद्यते ? तस्माद्वस्तुक एव
बालानां प्रपञ्च इत्यभिप्रायः ॥ ६ ॥
१. This quotation, taken from a Prakrit text, is not yet traced. The Mss. are
corrupt for this stanza and also for the following. Even P gives incorrect read-
ings. P क्षेपः for उत्क्षेपः. २. P reads धम्माः, सकारणाः, धम्माणं and समुद्गताः which go
against Prakrit idiom.
म. १३
९८ मध्यमकशास्त्रे [११.७-
यथा च संसारस्य पूर्वा कोटिर्नास्ति, एवमन्येषामपि भावानामित्याह –
कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन ॥ ७ ॥
पूर्वा न विद्यते कोटिः संसारस्य न केवलम्।
सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते ॥ ८ ॥
तत्र यदि पूर्वं कारणं पश्चात्कार्यं स्यात्, अकार्यकं कारणं निर्हेतुकं स्यात्। अथ
पूर्वं कार्यं पश्चात्कारणम्, एवमपि कारणात्पूर्वं कार्यं निर्हेतुकमेव स्यात्। अथ युगपत्कार्यकारणे
स्याताम्, एवमुभयमप्यहेतुकं स्यात्। एवं लक्ष्यलक्षणे वेदनावेदकौ च योज्यौ। न च
केवलं संसारस्य व्याख्यानेन कार्यकारणादिकं व्याख्यातं वेदितव्यम्, अपि च येऽप्यन्ये
पदार्था ज्ञानज्ञेयप्रमाणप्रमेयसाधनावयवावयविगुणगुण्यादयः, तेषामपि पूर्वा कोटिर्न विद्यत
इति योज्यम् ॥ अत एव आर्यरत्नमेघसूत्रे आर्यसर्वनीवरणविष्कम्भिणा महाबोधिसत्त्वेन
भगवान् स्तुतः –
आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव च निर्वृताः।
धर्मास्ते विवृता नाथ धर्मचक्रप्रवर्तने ॥ इति !
तथा –
आदित शून्य अनागत धर्मा
नो गत अस्तित स्थानविविक्ताः।
नित्यमसारक मायसभावाः
शुद्ध विशुद्ध नमोपम सर्वे ॥
यं च पभाषति धर्म जिनस्य
तं च न पश्यति सोऽक्षयताय।
आदिनिरात्म निसत्त्विमि धर्मा-
स्तांश्च च पभाषति नो च क्षपेति।
कल्पित वुच्चति कल्पितमात्रं
अन्तु न लभ्यति संसरमाणे।
कोटि अलक्षण या पुरि आसी-
देति अनागति प्रत्ययताये ॥
कर्म क्रिया च प्रवर्तति एवं
हीनेउत्कृष्टतया समुदेन्ति।
१. P कोटी न for कोटिर्न. २. Mss. नागत for नो गत which reading is confirmed by T.
३. Mss. जनस्यो for जिनस्य which is confirmed by T. ४. Mss. क्षयेति for क्षपेति. ५. T मध्यम° for हीन°.
-११.८ ] पूर्वापरकोटीपरीक्षा एकादशमं प्रकरणम्। ९९
जङ्क धर्म सदा प्रकृतीये
शून्य निरात्म विजानथ सर्वान् ॥
[ समाधिराज सूत्र–३७.१८, २४, ३२-३३ ]
इत्यादि ॥ ७-८ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
पूर्वापरकोटिपरीक्षा नामैकादशं प्रकरणम् ॥
१. Mss. जङ्क for जङ्ग; Text: विविक्त against जातुकु, जङ्क, जन्तुक in Mss.
Left Page
१२
दुःखपरीक्षा द्वादशमं प्रकरणम्।
B 227 अत्राह — विद्यत एव आत्मा, तत्संबन्धिदुःखसद्भावात्। इह हि पञ्चोपादानस्कन्धा
दुःखमित्युच्यते, तच्च अस्ति, तेन च दुःखेन कस्यचिद्भवितव्यं न निराश्रयेणेति, अतो विद्यत
एव दुःखस्याश्रयः, स चात्मेति। उच्यते। स्यादात्मा यदि दुःखमेव स्यात्। तद्धि भवेत् स्वयं
5 कृतं वा परकृतं वा उभयकृतं वा हेतुराहितं वा। सर्वथा च इष्यमाणं तत्कार्यमेव नास्तीति
प्रतिपादयन्नाह —
स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम्।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥ १॥
तत्रैके वादिनः स्वयं कृतं दुःखमिति प्रतिपन्नाः। अपरे पुनः परकृतम्, अन्ये च
10 उभयकृतम्। केचिदहेतुसमुत्पन्नमेव दुःखमिति प्रतिपन्नाः। सर्वथा च तद्दुःखमिष्यमाणं कार्यं
कर्तव्यं न युज्यते, तदेतत्प्रतिज्ञामात्रकमिति ॥ १ ॥
तत्प्रतिपादयन्नाह —
B 228 स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत्।
स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि ॥ २ ॥
15 यैस्मादिमान् मरणान्तिकान् स्कन्धान् प्रतीत्य इमे औपपत्त्यांशिकाः स्कन्धा उत्पद्यन्ते,
तस्मात्स्वयं कृतं दुःखमिति नोपपद्यते ॥ २ ॥
B 229 इदानीं परकृतमपि दुःखं यथा न संभवति, तथा प्रतिपादयन्नाह—
यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः ॥ ३ ॥
20 यदा अमीभ्यो मरणान्तिकेभ्यः स्कन्धेभ्यः इमे औपपत्त्यांशिकाः स्कन्धा अन्ये स्युः, एभ्यो
वा औपपत्त्याशिकेभ्यः अमी मरणान्तिकाः स्कन्धाः परे स्युः, स्यातत्तदानीं परकृतं दुःखम्। न
चैषामन्यत्वं दृष्टं हेतुफलसंबन्धावस्थानात् ३। वक्ष्यति हि —
B 230 प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्स्मान्नोच्छिन्नं नापि शाश्वतम् ॥ इति।
[ मध्यमकशास्त्र - १८.१० ]
Footnotes (Left Page)
१. P suggests स्कन्धानिमूनमी स्कन्धा: for स्कन्धानिमानमी स्कन्धाः. २. T presents here a
passage which our Mss. do not give; that passage however seems to be necessary
to explain the first line of the kārikā. Here is P's rendering of T in Sanskrit: तत्र
स्वयमिति स्वात्मना इत्यर्थः। यदि स्वयं दुःखं कृतं भवेत्, तेनैव दुःखस्वरूपेण तदेव दुःखस्वरूपं कृतं स्यात्।
तस्मात्प्रतीत्यसमुत्पन्नं न स्यात् इत्यर्थः। स्वरूपसद्भावात्। अभावादेव स्वरूपं न कारकमस्ति तत्प्रतीत्यसमुत्पन्नमेव।
तद्यथा — स्कन्धानमूनिमे स्कन्धाः संभवन्ति प्रतीत्य हि। यस्मान्मरणकालिकानमून. ३. T संबन्धस्थानाभावात्.
Right Page
१२.७] दुःखपरीक्षा द्वादशमं प्रकरणम्। १०१
अतः परकृतमपि दुःखं न संभवति। यदि हि अन्यत्वं स्यात्, तदा सति अन्यत्वे
एतैः परभूतैः स्कन्धैरेमी परभूताः कृता इति युक्तं वक्तुं स्यात्। न चैतदेवम्। इति परकृतमपि
दुःखं न संभवति ॥ ३ ॥
अथ स्यात्—न ब्रूमो यस्माद्दुःखेनैव दुःखं कृतम्, अतः स्वयं कृतमिति। किं
तर्हि स्वपुद्गलेन यस्मात्स्वयमेव कृतम्, नापरेण कृत्वा दत्तम्, इत्यतः स्वयं कृतं दुःखमिति 5
ब्रूमः। उच्यते—
स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥ ४ ॥
यदेतन्मनुष्यदुःखं पञ्चोपादानस्कन्धलक्षणं स्वयं पुद्गलेन कृतमिति परिकल्प्यते, कल्प्यता-
मसौ पुद्गलो येन तद्दुःखं स्वयं कृतम्। यदि तावत्तेन दुःखेन स्वपुद्गलः प्रज्ञप्यते, तदेव दुःखं 10
तेन कृतमिति, स भेदेन कथ्यतामिदं तद्दुःखमयमस्य कर्तेति। अथापि मनुष्यदुःखोपादानेन
पुद्गलेन तदेव दुःखं कृतं स्यात्, न तर्हि स्वपुद्गलकृतं तत्, परपुद्गलकृतमेव स्यात्। B 231
अथोपादानभेदेऽपि पुद्गलाभेद इष्यते, एतच्च नास्ति, उपादानव्यतिरिक्तस्य भिन्नस्य पुद्गलस्य
दर्शयितुमशक्यत्वात्। एवं तावत् स्वपुद्गलकृतं दुःखं न भवति ॥ ४ ॥
अत्राह — क्व एवमाह स्वपुद्गलकृतं दुःखमिति? किं तर्हि परपुद्गलजं दुःखम्। अन्य 15
एव देवदुःखान्मनुष्यपुद्गलः, मनुष्यपुद्गलश्च देवदुःखं कृत्वा यस्माद्देवपुद्गलाय ददाति, तेन
च देवदुःखेन देवपुद्गलः प्रज्ञप्यते, तस्मात्तस्य पुद्गलस्य तद्दुःखं परपुद्गलजमेव भवति। उच्यते—
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः ॥ ५ ॥
यदि देवदुःखं मनुष्यपुद्गलकृतम्, तेन च मनुष्यपुद्गलेन तद्दुःखं कृत्वा परस्मै देवपुद्गलाय 20
प्रदीयते इति स देवपुद्गलो देवदुःखविनिर्मुक्तः कुतो यस्मै प्रदीयेतेति। एवं तावदपरपुद्गलजस्य
दुःखस्य प्रतिग्राहक एव नास्ति ॥ ५ ॥
इदानीं यश्च ददाति, असावपि नास्तीत्याह —
परपुद्गलजं दुःखं यदि कः परपुद्गलः।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥ ६ ॥ 25
येनोपादानेन स मनुष्यपुद्गलः प्रज्ञप्यते, स मनुष्योपादानव्यतिरिक्तः कतमो यो B 232
देवपुद्गलाय देवदुःखं कृत्वा प्रहेष्यति? तस्मात्परपुद्गलजमपि दुःखं न संभवति ॥ ६ ॥
ततश्च —
स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥ ७ ॥
Footnotes (Right Page)
१. T इमे for अमी. २. Mss. हेदेन or देहेन for भेदेन. ३. Mss. यद्दुःखं for तद्दुःखं. Our
reading is based on T and Com.
पृष्ठम् १०२
यदि देवपुद्गलदुःखं मनुष्यपुद्गलेन कृतत्वात्परकृतं भवति, ननु, मनुष्यपुद्गलस्य
स्वयंकृतमेव तद्भवति । एतच्च नास्तीत्युक्तम् । ततः स्वयंकृतस्याप्रसिद्धेर्यदा मनुष्यपुद्गलेन स्वयं
तद्दुःखं न कृतम्, तदा कुतः परपुद्गलस्य देवास्येर^y तद्दुःखं परकृतं भविष्यतीति । अतोऽपि
परकृतं दुःखं न संभवति ॥ ७ ॥
इदानीं प्रकरणान्तरेणापि पक्षद्वयासंभवं प्रतिपादयन्नाह —
न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् ।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥ ८ ॥
इतश्च स्वपराभ्यां दुःखस्य करणं न युज्यते, यस्मान्न तावत्स्वकृतं दुःखम् । किं
कारणम् ? यस्मान्न तेनैव हि तत् कृतम्, स्वात्मनि वृत्तिविरोधात्, अतः स्वकृतं नास्ति । न
परकृतमपि, यस्माद्योऽसौ परः करोतीति परिकल्प्यते, स एव तावन्नात्मना कृतो नात्मना निष्पन्नः,
तस्यापि हेत्वन्तरापेक्षणात् । यश्च स्वात्मना न निष्पन्नः, स कथमविद्यमानस्वभावः सन् परं
करिष्यतीति न युक्तमेतत् ॥ ८ ॥
इदानीमुभयकृतमपि दुःखमसदित्याह —
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।
यदि हि एकैकेन दुःखस्य करणं स्यात्, स्यात्तदानीमुभाभ्यां कृतं दुःखम् । न चैकैक-
कृतं तत्, उक्तदोषात् । न चैकैकेन प्राणातिपाते कृते द्वाभ्यां कृत इति व्यपदेशो दृष्टः ॥
इदानीं निर्हेतुकमपि दुःखं यथा नास्ति, तथा प्रतिपादयन्नाह —
पराकारात्स्वयंकारं दुःखमहेतुकं कुतः ॥ ९ ॥
परेण अकारो अकरणं यस्येति पराकारम् । न स्वयंकारोऽस्येत्यस्वयंकारम् । यदि
दुःखं स्वयंकृतं नास्ति, परकृतमपि नास्ति यथोक्तेन न्यायेन, तदिदानीं कुत एव निर्हेतुकं
भविष्यति खपुष्पसौगन्ध्यवत् ? दुःखभावात्कुतस्तस्याश्रयभूत आत्मा ॥ ९ ॥
यथा च चतुर्धा विचार्यमाणं दुःखमसत्, एवं बाह्या अपि बीजाङ्कुरघटपटादयो भावा
वेदितव्याः, इति प्रतिपादयन्नाह—
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।
सर्वेषां
बाह्यानामपि भावानां चातुर्विध्यं न विद्यते ॥ १० ॥
पूर्ववत्सर्वं समं योज्यम् । यदि खल्वेषां दुःखादीनां चातुर्विध्यासंभवः, तत्कतमेन तर्हि
इदानीं प्रकारेण एषां सिद्धिरिति । उच्यते । स्वभावतो यदि एतानि दुःखादीनि स्युः, नियतमेषां
चतुर्णां प्रकाराणामन्यतमेन प्रकारेण सिद्धिः स्यात् । न त्वस्ति । तस्मात्स्वभावतो न सन्ति
दुःखादीनीत्यवसीयते । अथ विपर्यासमात्रलब्धात्मसत्ताकाया दुःखदिक्संवृतेः प्रतीत्यसमुत्पाद-
पादटिप्पण्यः :
१. T om. अकारो.
२. The Com. seems to read सर्वेषां for बाह्यानां.
पृष्ठम् १०३
[R1] व्यवस्था मृग्यते, तदा कर्मकारकपरीक्षाप्रकरणविहितविधिना यथोदितपक्षचतुष्टयतिरस्कारेण
[R2] इन्द्रप्रत्ययतामात्रार्थप्रतीत्यसमुत्पादसिद्ध्या सिद्धिरभ्युपेया । यथोक्तम्—
[R3] स्वयंकृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
[R4] तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ इति ॥
[R5] [लोकातीतस्तव — १९]
[R6] उक्तं च भगवता आर्योपालिपृच्छायाम् —
[R7] .......................................
[R8] तथो —
[R9] संवृति भाषितु धर्म जिनेन
[R10] संस्कृतऽसंस्कृत पश्यथ एव ।
[R11] नास्तिह भूततु आत्म नरो वा
[R12] एत्तकु लक्षण सर्वजगस्य ॥
[R13] कृष्णशुभं च न नश्यति कर्म
[R14] आत्मन कृत्व च वेदयितव्यम् ।
[R15] नोऽपि तु संक्रम कर्मफलस्य
[R16] नो च अहेतुक प्रत्यनुभोति ॥
[R17] सर्वि
Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown, preserving original Devanagari characters, chapter headings, verse numbers, footnotes, and line markers.
[Left Page]
१३
संस्कारपरीक्षा त्रयोदशमं प्रकरणम्।
यतश्चैवं समनन्तरतिक्रान्तप्रकरणविधिना स्वपरोभयकृतत्वमहेतुसमुत्पन्नत्वं च निरूप्यमाणं
भावानामसत्, अन्यथोत्पादको विधिरसन्, उत्पन्नरूपत्वेन चैते भावा अविद्यातिमिरोपहतमतिनयनानां
बालपृथग्जनानां ख्यान्ति, तस्मान्निःस्वभावा एव सन्तो बालानां विसंवादका मायाकरितुरगादिवत्
तदनभिज्ञानां न तु विज्ञानाम् । अत एव सर्वधर्मस्वाभाव्यापरोक्षधीनयनः समुन्मूलिताशेषा-
विद्यावासनः चतुर्विपर्यासविवर्यस्तात्राणसत्त्वपरित्राणाय अविपरीतनिःस्वाभाव्योपदेशतत्परो बुद्धो
जगद्विबोधको महाकारुणिकः –
तन्मृषा मोषधर्म यद्भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥ १ ॥
सूत्रे उक्तम्—तन्मृषा मोषधर्म यदिदं संस्कृतम् । एतद्धि खलु भिक्षवः परमं सत्यं
यदिदममोषधर्मं निर्वाणम् । सर्वसंस्काराश्च मृषा मोषधर्माणः इति । तथा – नास्यत्र तथतो
अवितथता वा । मोषधर्मकमप्येतत् । प्रलोपधर्मकमप्येतत् इति । तदनेन न्यायेन यन्मोधर्म
तन्मृषेत्येवं यस्मादुक्तवांस्तथागतो भगवान्, सर्वे च मोषधर्माणः संस्काराः, तस्मान्मोषधर्मकत्वेन
ते संस्कारा मृषा भवन्ति चित्रैकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयन-
वत्सराजवत् । तत्र विसंवादकं मोषधर्मकं वितथहत्यालातचक्रवत् । अतो निःस्वभावत्वेन मृषा
सर्वसंस्काराः मोषधर्मकत्वात् मरीचिकादिजलवत् । यत्तु सत्यं न तन्मोधर्मकम्, तथ्या निर्वाण-
मेकैम् । ततश्च विहितया उपपत्त्या अस्माचागमात् सिद्धं सर्वभावानां निःस्वाभाव्यम् । शून्याः
सर्वधर्मा निःस्वभावयोगेन इति च प्रज्ञापारमिता-अर्थशतिकापाठात् ॥ १ ॥
अत्राह – यद्येवं मोषधर्मकत्वेन सर्वसंस्काराणां मृषात्वं प्रतिपादितं भवता, नन्वेवं सति न
सन्ति सर्वे भावा इति सर्वपदार्थापवादिनी मिथ्यादृष्टिरेव स्यात् । उच्यते । सत्यं मोषधर्मकाः
सर्वसंस्काराः, येऽद्यापि भवन्तं मुष्णन्ति । ननु च भोः,
तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते ।
यदा अस्माभिः तन्मृषा मोषधर्मकम् इत्युक्तम्, तदा किं तत्र मुष्यते ? किं तत्राभावो
भवति ? कश्चिद्यदि पदार्थोऽभविष्यत्, स्यात्तस्यापवादादभावदर्शनान्मिथ्यादृष्टिः । यदा तु पदार्थमेव
कांचन्न पश्यामः, तदा किं तत्र मुष्यते ? नैव किंचिदभावो भवतीत्ययुक्तोऽयमुपालम्भो भवतः ॥
अत्राह-यदि अभावदर्शनमपि न प्रतिपाद्यते, किं पुनरनेनागमेन प्रतिपाद्यत इति ? उच्यते-
एतच्चोक्तं भगवता शून्यतापरिदीपकम् ॥ २ ॥
यदेतदुक्तं भगवता, तन्न भावानामाभावपरिदीपकम् किं तर्हि शून्यतापरिदीपकम्
स्वभावानुत्पादपरिदीपकमित्यर्थः । यथोक्तमनवतप्तह्रदापसंक्रमणसूत्रे –
[Left Page Footnotes]
१. P तथता वा for तथता against Mss. and T. २. T विनाशधर्मकमेतत् ; Pप्रलाप° for प्रलोप°.
३. T om. चित्रकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत्. ४. T om. एकम्.
[Right Page]
-१३.४ ] संस्कारपरीक्षा त्रयोदशमं प्रकरणम् । १०५
यः प्रत्ययैर्जायति स ह्यजातो
नो तस्य उत्पादु स्वभावतोऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो
यः शून्यतां जानति सोऽप्रमत्तः ॥
इति ॥ २ ॥
अत्राह – नायमागमो भावस्वभावानुत्पादं परिदीपयति, किं तर्हि निःस्वभावत्वम्, स्वभाव-
स्थानवस्थायित्वम्, विनाशित्वम्, इति । कुत एतदिति चेत्,
भावानां निःस्वभावत्वमन्यथाभावदर्शनात् ।
विचार्यमाणानामन्यथात्वं विपरिणामदर्शनात् इत्यर्थः । एतदुक्तं भवति – यदि भावानां
स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत । उपलभ्यते च परिणामः । तस्मात्स्वभावानव-
स्थायित्वमेव सूत्रार्थ इति विज्ञेयम् ॥
इतश्चैतदेवम् । यस्मात् –
अस्वभावो भावो नास्ति भावानां शून्यता यतः ॥ ३ ॥
यो ह्यस्वभावो भावः, स नास्ति । भावानां च शून्यता धर्म इष्यते । न च असति धर्मिणि
तदाश्रितो धर्म उपपद्यते । न हि असति वन्ध्यातनये तच्छायामतीवोपपद्यत इति । तस्मादस्त्येव
भावानां स्वभाव इति ॥ ३ ॥
अपि च –
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते ।
यदि भावानां स्वभावो न स्यात्, योऽयं विपरिणामलक्षणः अन्यथाभावः, स कस्य स्यादिति ?
अत्रोच्यते । एवमपि परिकल्प्यमाने
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥ ४ ॥
इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अप्रप्रति-
बद्धत्वात् । अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते । तदेव औष्ण्यमप्सूपलभ्यमानं
परप्रत्ययसंभूतत्वात्कृत्रिमत्वात्र स्वभाव इति । यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा
अस्य अव्यभिचारित्वादन्धथाभावः स्यादभावः । न हि अग्नेिः शैत्यं प्रतिपद्यते । एवं भावानां
सति स्वभावानुपगमेऽन्यथात्वमेव न संभवेत् । उपलभ्यते चैषामन्यथात्वम् । अतो नास्ति
स्वभावः ॥ ४ ॥
अपि च । अयमन्यथाभावो भावानां नैव संभवति, यद्दर्शनात्सस्वभावता स्यात् । यथा च
न संभवति, तथा प्रतिपादयन्नाह –
[Right Page Footnotes]
१. T om. विचार्यमाणानां. २. Mss. निःस्वभावो. Our reading is supported by T.
३ Mss. wrongly नास्वभावश्च भावो नास्ति. Our text is supported by T and Com.
४ P अग्नेः for अनिः.
म. १४
पृष्ठम् १०६
१०६ मध्यमकशास्त्रे [१३.५-
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥ ५ ॥
तस्यैव तावत् प्रागवत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते । तथा हि
यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम् । अथापि अवस्थान्तरप्राप्तस्यैव अन्यथात्वं
परिकल्प्यते, तदपि नोपपद्यते । अन्यथात्वं नाम जरायाः पर्यायः । तद्यदि यूनो नेष्यते,
अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते । यस्मान्न हि जीर्णस्य पुनर्जरया संबन्धः,
निष्प्रयोजनत्वात् । किं हि जीर्णस्य पुनर्जरया संबन्धः कुर्यात् ? तदागमनान्तरेण जीर्णताभावा-
ज्जीर्णो जीर्यत इति न युज्यते । अथ यून एवान्यथाभावः, तदयुक्तम्, अप्राप्तजरावस्थस्य
युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात् ॥ ५ ॥
अपि च ।
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि ।
अथ स्यात् — क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अतः न क्षीरमेव दधि भवतीति ।
उच्यते । यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात् —
क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति ॥ ६ ॥
किमुदकस्य दधिभावो भवतु ? तस्मादसंबद्धमेव तदन्यस्य दधिभावो भविष्यतीति ।
तदेवमन्यथात्वासंभवात् कुतस्तद्दर्शनात् सस्वभावता भावानां प्रसेत्स्यतीति न युक्तमेतत् । यथोक्त-
मार्यरत्नाकरमहायानसूत्रे —
यो न पि जायति नो चुपपद्यी
नो च्यवते न पि जीर्यति धर्मः ।
तं जिनु दर्शयती नरसिंह
तत्र निदेशयि सत्त्व महर्षी ॥
यस्य स्वभाव न विद्यति कश्चि
नोऽपरभावतु केनचि लब्धः ।
नान्तरतो न पि बाहिरतो वा
लभ्यति तत्र निवेशयि नाथः ॥
शान्त गती कथिता सुगतेन
नो च गती उपपद्यति काचि ।
तत्र च व्योहरसी गतिमुक्तो
मुक्तकु मोचयसी बहुसत्त्वान् ॥
पादटिप्पणी:
१ T तदन्तरेण for तदागमनान्तरेण. २ P क्षीरादन्यस्य कस्यचिद् for क्षीरादन्यस्य कस्याथ which is supported by Mss. and T. ३ Mss. देशयति for दर्शयती. ४ T तत्र निवेशयि सत्त्वशतानि for the line. ५. P suggests उपलभ्यति for उपपद्यति.
पृष्ठम् १०७
[१३.७] संस्कारपरीक्षा त्रयोदशं प्रकरणम् । १०७
सर्वै वदेसि निरात्मक धर्मान्
सत्त्वँतु ग्राहतु मोचसि लोकम् ।
मुक्त स्वयं गतितो गतिमुक्तो
तेन सि पारगतो न च तीर्णः ॥
पारगतोऽसि भवार्णवतीर्णः
पारगतो न च लम्यति कश्चि ।
पारु न विद्यति नापि अपारु
पारगतोऽस्मि वदेसि च वाक्यम् ॥
वाच न विद्यति यां च वदेसि
यं पि वदेसि न विद्यति तं पि ।
यस्य वदेसि न विद्यति सोऽपि
योऽपि विजानति सोऽपि असन्तो ॥
तत्र प्रणष्टु जगं इमु सर्वं
वितथविकल्पनिवेशवशेन ।
शान्त विजानति यो नरु धर्मा-
स्तेहि तथागतु दृष्ट स्वयंभूः ॥
शान्त प्रजानति धर्मं प्रणीतान्
प्रीति स विन्दति तोषति सत्त्वान् ।
सो भवती जिनु ज्विलैन क्लेशान्
आत्म...................... ॥
तेन विजानित बोधि जिनानां
बुद्धिय बोधयते स जगं पि ।
इत्यादि ॥ ६ ॥
यच्चोक्तम् — अस्वभावो भावो नैवास्ति, शून्यता च भावानामिष्यते, तस्मादस्ति
शून्यताश्रयो भावस्वभाव इति, एतदपि न युज्यते इत्याह —
यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन ।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥ ७ ॥
यदि शून्यता नाम काचित् स्यात्, तदा तदाश्रयो भावस्वभावः स्यात् । न त्वेवम् ।
इह हि शून्यता नामेति सर्वधर्माणां सामान्यलक्षणमित्यभ्युपगमात् अशून्यधर्माभावादशून्यतैव
नास्ति । यदा च अशून्याः पदार्था न सन्ति, अशून्यता च नास्ति, तदा प्रतिपक्षनिरपेक्षत्वा-
पादटिप्पणी:
१. Mss. वदामि for वदेसि. २. Mss. सर्वतु but the sense and T suggest सत्त्वंतु (सत्त्वग्राहात्). ३. T लभ्यति for विद्यति. ४. Mss. ये न च for यो नरु. ५. Mss. ज्वित्व च for ज्विलैन.
च्छून्यतापि खपुष्पमालावान्नास्तीत्यवसीयताम् । यदा च शून्यता नास्ति, तदा तदाश्रया अपि
पदार्था न सन्तीति स्थितमविकलम् ॥ ७ ॥
अत्राह — त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्राणिहिताख्यानि विमुक्तये विनेयेभ्यो
भगवता निर्दिष्टानि सर्वतीर्थिकसमयासाधारणानि सौगत एव प्रवचने समुपलभ्यन्ते । येषामुप-
देशार्थमेव बुद्धा भगवन्तोऽशेषतीर्थ्यवादमहामोहान्धकारानुगतजगति जगदेकप्रदीपा नैरात्म्योप-
देशाविच्छिन्नशिखा उत्पद्यन्ते । स भवांस्तथागतप्रवचनन्यायस्यान्यायेन इदानीं तामेव शून्यतां
प्रतिषेधुमारब्धवान्, इत्यलं भवता स्वर्गापवर्गमार्गसमुच्छेदकेनेति । उच्यते । अहो बत भवानत्यु-
न्मुख इव अत्यन्तविपर्यासान्निर्वाणपुरगामिनं शिवमृजुं परमं पन्थानमवधूय भावाभिनिवेशव्या-
कुलितं संसारकान्तारानुगमेव मार्गं मोक्षपुरगामित्वेन समाश्रितो निर्गुर्मुक्षुः सन् संसारारटवीकान्तारः
सद्भिस्पालम्ब्य एव सन् अभिमानाभिनिवेशग्रहपरवशतया तानेवोपालभते । ननु भोः, निरवशेष-
क्लेशाव्याधिचिकित्सकैर्महावैद्यराजैः —
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यता दृष्टिसान्नासाध्यान् बभाषिरे ॥ ८ ॥
इह सर्वथैव दृष्टिकृतानां सर्वग्रहाभिनिवेशानां यन्निःसरणमप्रवृत्तिः सा शून्यता । न च
दृष्टिकृतानां निवृत्तिमात्रं भावः । ये तु तस्यामपि शून्यतायां भावाभिनिवेशिनः, तान् प्रति
अवाचका वयमिति कुतोऽस्मदुपदेशात् सकलकल्पनाव्यावृत्त्या मोक्षो भविष्यति ? यः नकिंचिदपि
ते पण्यं दास्यामीत्युक्तः, स चेत् 'देहि भोस्तदेव मह्यं नकिंचिन्नाम पण्यम्,' इति ब्रूयात्,
स केनोपायेन शक्यः पण्याभावं ग्राहयितुम् ? एवं येषां शून्यतायामपि भावाभिनिवेशः, केनेदानीं
स तेषां तस्यां भावाभिनिवेशो निषिध्यतामिति ? अतो महाभैषज्येऽपि दोषसंज्ञित्वात् परमचिकि-
त्सकैर्महावैद्यैस्तथागतैः प्रत्याख्याता एव ते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे—
यन्न शून्यता धर्मान् शून्यान् करोति, अपि तु धर्मा एव शून्याः । यन्नानिमित्तेन
धर्माननिमित्तान् करोति, अपि तु धर्मा एवानिमित्ताः । यन्नाप्रणिहितेन धर्मानप्रणिहितान् करोति,
अपि तु धर्मा एवाप्रणिहिताः । यैवं प्रत्यवेक्षा, इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां
भूतप्रत्यवेक्षा । ये हि काश्यप शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति, तानहं नष्टप्रणष्टानिति
वदामि ॥
इति प्रवचनात् ॥
तथा —
वरं खलु काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता, न त्वेव अभावाभिनिवेशिकस्य शून्यता-
दृष्टिः । तत्कस्य हेतोः ? सर्वदृष्टिकृतानां हि काश्यप शून्यता निःसरणं। यस्य खलु पुनः
शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि । तद्यथा काश्यप ग्लानः पुरुषः स्यात् । तस्मै
१ Mss. and P सर्वतीर्थिकामरमतासाधारणानि for सर्वतीर्थिकसमयासाधारणानि which is based
on T. २ T om. निर्गुमुक्षुः सन् संसारारटवीकान्तारः.
वैद्यो भैषज्यं दद्यात् । तस्य तद्भैषज्यं सर्वदोषानुच्चार्य स्वयं कोष्ठगतं न निःसरेत् । तत्किं मन्यसे
काश्यप अपि तु स पुरुषस्ततो ग्लान्यान्मुक्तो भवेत् ? नो हीदं भगवन् । गाढतरं तस्य पुरुषस्य
ग्लान्यं भवेत्, यस्य तद्भैषज्यं सर्वदोषानुच्चार्य कोष्ठगतं न निःसरेत् । भगवानाह—एवमेव काश्यप
सर्वदृष्टिकृतानां शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति
वदामि ॥ इति ॥ ८ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संस्कारपरीक्षा नाम त्रयोदशमं प्रकरणम् ॥
१४
संसर्गपरीक्षा चतुर्दशमं प्रकरणम्।
अत्राह—अस्त्येव भावस्वभावः, तत्संसर्गोपदेशात्। इह यन्नास्ति, न तस्य संसर्गः, तद्यथा
वन्ध्यासुतदुहित्रोः। अस्ति च संस्काराणां संसर्गोपदेशः। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते
चक्षुर्विज्ञानम्, त्रयाणां संनिपातः स्पर्शः, स्पर्शसहजा वेदनेति विस्तरः। तथा संज्ञा च वेदना
च संस्कृतावेतौ धर्मों नासंसृष्टाविति संस्काराणां संसर्गोपदेशः। तदेवं संसर्गोपदेशाद्विद्यत एव
भावस्वभाव इति। उच्यते। स्यादेतदेवम्, यदि संसर्ग एव भवेत्तो भवेत्, न त्वस्ति, यस्मात्—
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः।
सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत॥ १॥
तत्र द्रष्टव्यं रूपम्, दर्शनं चक्षुः, द्रष्टा विज्ञानम्। एषां त्रयाणां द्विशो द्विशः संसर्गो
नास्ति। चक्षुषो रूपस्य च, चक्षुषो विज्ञानस्य च, विज्ञानस्य रूपस्य च संसर्गो नास्ति।
इत्येवं द्विशो द्विशः संसर्गो न भवति। सर्वशोऽपि त्रयाणामप्येषां युगपच्च संसर्गो नास्ति॥ १॥
यथा च द्रष्टव्यदर्शनद्रष्टॄणां द्विशो द्विशः सर्वशश्च संसर्गाभावः,
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम्।
रागस्य रक्तस्य च संसर्गो नास्ति, रागस्य रञ्जनीयस्य च, त्रयाणामपि युगपत्संसर्गो
नास्ति। यथा चैषाम्, एवम्—
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च॥ २॥
अन्योन्येन संसर्गं न व्रजन्ति। त्रयः प्रकारास्त्रिधा, त्रिधाभावस्त्रैधम्। तेन त्रैधेन शेषाः क्लेशा
द्वेषमोहादयः, ते एते द्वेषद्विष्टद्वेषणीयादिना त्रैधेन श्रोत्रश्रोतुःश्रोतव्यादिना च॥ २॥
कस्मात्पुनरेतेषां संसर्गो नास्तीत्याह—
अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः॥ ३॥
यदित्ययं यस्मादर्थे। यदि द्रष्टव्यादीनां परस्परमन्यत्वं स्यात्, तदा क्षीरोदकयोरिव अन्येन
अन्यस्य संसर्गः स्यात्। तच्चान्यत्वं यस्मादेषां द्रष्टव्यप्रभृतीनां न संभवति, अतो नैते संसर्गं
व्रजन्ति॥ ३॥
अपि च।
न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते॥ ४॥
न च केवलं कार्यकारणभावस्थितानां द्रष्टव्यादीनामन्यत्वं न संभवति, घटपटादीनामपि
पदार्थानां सर्वेषां नैव संभवतीत्यवसीयताम्॥ ४॥
१ P. om. भवतो against Mss. २ Mss. रञ्नीयश्च for रञ्जनीयं च. ३ Mss. रागस्य रक्तस्य
रञ्जनीयस्य च, but it appears that we should add after: रागस्य रञ्जनीयस्य च.
-१४.६.] संसर्गपरीक्षा चतुर्दशमं प्रकरणम्। १११
यथा चैषां द्रष्टव्यप्रभृतीनां परस्परतोऽन्यत्वमसत्, तथा प्रतिपादयन्नाह—
अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते॥ ५॥
इह यदेतद् घटाह्वयं वस्तु पटादन्यदिति व्यपदिश्यते, तदेतदन्यदन्यत्प्रतीत्य अन्यद्भवति।
अन्यवस्तुनः ऋते, ऋतेऽन्यतः, विना अन्यत्, अन्यदन्यन्न भवति। यच्च पटाख्यं वस्तु
अन्यद् घटाह्वयं वस्तु प्रतीत्य अन्यद्भवति, तस्मात्पटाख्याद्वस्तुनः तद् घटाह्वयं वस्तु नान्यद्भवती-
त्यवसीयताम्। यस्मात्, यत्प्रतीत्य यद्भवति, तस्मात्तदन्यन्न भवति, सापेक्षित्वाद् बीजाङ्कुरवत्
ह्रस्वदीर्घवच्चेति। तथा च वक्ष्यति—
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
[L
११२ मध्यमशास्त्रे [ १४.७ -
अत्राह — यदि पदार्थान्तरे पदार्थान्तरसापेक्षा परबुद्धिः स्यात्, स्यादेष दोषः — तस्मात्तद्-
न्यन्न भवतीति। न त्वेवं ब्रूमः। किं तर्हि इह अन्यत्वं नाम सामान्यविशेषोऽस्ति, तच्चत्र समवेतम्,
स पदार्थः पदार्थान्तरनिरपेक्षोऽपि पर इत्युच्यते, तस्मादुक्तदोषानवसरोऽस्मत्पक्षे इति । उच्यते ।
स्यादेतदेवम्, यदि अन्यत्वमेव स्यात्, न त्वस्ति । इहेदमन्यत्वं कल्प्यमानमन्यस्मिन् वा कल्प्येत,
5 अनन्यस्मिन् वा ? उभयथा च नोपपद्यत इति प्रतिपादयन्नाह —
नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते ।
तत्र अन्यस्मिन्नन्यत्वमस्तीति कल्प्यते, किं तदानीमन्यत्वपरिकल्पनया ? अन्यव्यपदेश-
सिद्धयर्थं हि भवता अन्यत्वं परिकल्प्यते । स च अन्यव्यपदेशो विनाप्यन्यत्वेन सिद्ध एव, यस्मा-
ल्लब्धान्यव्यपदेश एव पदार्थेऽन्यस्मिन् अन्यत्वं कल्प्यते, इत्येवं तावदन्यस्मिन्नन्यत्वं न संभवति ।
10 इदानीमनन्यस्मिन्नपि अन्यत्वं नास्ति, यस्मादनन्य उच्यते एकः, तत्र च अन्यत्वविरुद्धमेकत्वमस्तीति ।
यतः विरोधादनन्यस्मिन्नपि अन्यत्वं न संभवति । यच्च इदानीं नान्यस्मिन्ननन्यस्मिन् विद्यते,
B 255 तद्व्यतिरिक्तस्य पदार्थन्तरस्यासंभवाद् एतद्व्यतिरिक्तेऽपि पदार्थे न संभवति, तन्नैवास्ति । यदा
चैवमन्यत्वमेव नास्ति, तदा अन्यत्वसमवायनिबन्धनः अन्यबुद्धिव्यनिवृत्तिहेतुरन्योऽपि पदार्थो
नास्तीति सिद्धम् ॥
15 अत्राह-यद्यपि अन्यत्वं नास्ति, तथापि अन्यस्तावदस्ति । न च असति अन्यत्वे अन्यो
भवितुमर्हति, अतोऽन्यत्वं भविष्यतीति । उच्यते —
अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥ ७ ॥
यदा अन्यत्वमेव नास्तीति प्राक् प्रतिपादितम्, तदा कुतः असति अन्यत्वे अन्यद्वा
तदेव वा भविष्यति ? तदेवेति अनन्यत्वमित्यर्थः । तस्मान्नास्ति अन्यद्वा तदेव वा ॥ ७ ॥
20 अत्राह-विद्यन्त एव दर्शनादयः, संसर्गसद्भावात् । इह दर्शनादीनां यद्यपि अन्यत्वं
नास्तीति प्रतिपादितम्, तथापि त्रयाणां संनिपातः संगतिः स्पर्श इति संसर्गोऽस्ति । ततश्च
संसर्गसद्भावाद् विद्यन्त एव दर्शनादय इति । उच्यते । स्युरेवम्, यदि तेषां संसर्ग एव स्यात् ।
न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह-
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।
25 इह यदि दर्शनादीनां संसर्गः स्यात्, स एकत्वेन वा परिकल्प्येत अन्यत्वेन वा ? तत्र
एकत्वे नास्ति संसर्गः । न हि एकं क्षीरमुदकनिरपेक्षमुदकेन संसृज्यत इत्युच्यते । पृथक्त्वेऽपि
B 256 संसर्गो नास्ति । न हि उदकात्पृथगवस्थितं क्षीरमुदकेन संसृज्यत इति कथ्यते । एवं दर्शनादीनां
यदि एकत्वे सति संसर्गः परिकल्प्यते, सोऽनुपपन्नः । एककस्यापि चक्षुषः संसृष्टिप्रसङ्गात् ।
अथ पृथक्त्वम्, एवमप्यनुपपन्नः । एककस्यापि चक्षुषो रूपादिभ्यः पृथग्भूतस्य संसृष्टिप्रसङ्गात् ।
30 असति संसर्गे नास्ति दर्शनादिकमिति सिद्धम् ॥
अत्राह - यद्यपि संसर्गो नास्ति, तथापि संसृज्यमानं संसृष्टं संस्रष्टा चास्ति, तदप्रति-
षेधात् । न च संसर्गमन्तरेण संसृज्यमानं संसृष्टं संस्रष्टा च संभवति । तस्मात्संसर्गोऽपि भविष्य-
तीति । उच्यते । एतदपि न युक्तम् । यस्माद्यदा संसर्ग एव नास्तीति प्रतिपादितम्, असति च
-१४.८ ] संसर्गपरीक्षा चतुर्दशमं प्रकरणम् । ११३
संसर्गे तदा कुतः संसृज्यमानादिकम् ? तत्र वर्तमानसंसर्गक्रियासाधनकर्मभूतं संसृज्यमानम्,
संसृष्टं निष्पन्नसंसर्गक्रियम्, संस्रष्टा कर्ता क्रियानिष्पत्तौ स्वातन्त्र्येणावस्थितः । तदत्र संसर्गा-
भावादेव संसृज्यमानादिकमपरंयस्तत्प्रतिषेधं निगमयन्नाह —
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥ ८ ॥
इति । यथोक्तं भगवता [ उपालिपरिपृच्छायाम् ]
5 सर्वसद्योगि तु पश्यति चक्षु-
स्तन्न पश्यति प्रत्ययहीनम् ।
[ नैव च ] चक्षु पपश्यति [ रूपं ]
तेन संयोगवियोगविकल्पः ॥
10 आलोकसमाश्रित पश्यति चक्षु
रूप मनोरम चित्रविचित्रम् ।
येन च योगसमाश्रित चक्षु-
स्तेन न पश्यति चक्षु कदाचि ॥
B 257 ते परिनिर्वृत लौकिक शूरा
15 येहि स्वभावत ज्ञातिमि धर्माः ।
कामगुणैर्हि चरन्ति असङ्गाः
सङ्ग विवर्जिय सत्त्व विनेन्ति ॥
नो पि च सत्त्व न जीविह कश्चि
सत्त्वहितं च करोन्ति जिनेन्द्राः ।
20 १ ............................................
सत्त्वु न अस्ति करोन्ति च अर्थम् ॥
सङ्गु न विद्यति अत्र कदाचि
............................................
............................................
25 तस्य न विद्यति वेदन लोके ॥
तथा — B 258
भावितु मार्ग पवर्तिंतु ज्ञान
शून्यक धर्म निरात्मक सर्वं ।
येन विभावित भोन्तिमि धर्मा-
स्तस्य भवेत्प्रतिभानमनन्तम् ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणम् ॥
१ Mss. damaged.
म. १५