मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 56, कुल 176 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the Sanskrit text from both pages:
[Page 82 / ८२]
इह बीजाख्येन कारणेन किंचित्कार्यमभिव्यज्यतेऽङ्कुराख्यम्, तेन च कार्येण किंचित्
कारणमभिव्यज्यते बीजाख्यम् – अस्येदं कारणमिदमस्य कार्यमिति । एवं यदि केनचिद्दर्शनादिके-
नोपादानेन कश्चिदात्मस्वभावोऽभिव्यज्यते अस्यायमुपादातेति, केनचिच्चात्मना किंचिदुपादानं
दर्शनादिकमभिव्यज्यते इदमस्योपादानमिति, तदानीं स्यात्परस्परापेक्षयोरुपादानोपादात्रोः सिद्धिः ।
यदा तु उपादातारं विना पृथक् सिद्धं दर्शनादिकमभ्युपगम्यते, तदा तन्निराश्रयमसदैव ।
तस्मान्नास्त्युभयोरपि सिद्धिः, इति न युक्तमेतत् – दर्शनादिभ्यः पृथगवस्थित उपादातेति ॥ ५ ॥
अत्राह – यदुक्तं दर्शनश्रवणादिभ्य इत्यादि, अत्रोच्यते । यदि सर्वेभ्यो दर्शनादि