मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
उत्साहवृद्धिरप्यस्य जायतेऽल्पश्रमेण तु ।
तस्मादल्पश्रमो नित्यं कर्तव्यः सुखमिच्छता ॥ ३३ ॥
अथालपश्रमसंभूतं लक्षणं कथयाम्यहम् ।
अल्पश्रमे कृते प्रातः श्वासः स्वेदो न जायते ॥ ३४ ॥
अर्धश्रमेण जायन्ते नित्याभ्यासेन ये गुणाः ।
तानहं कथयिष्यामि मल्लानां सुखहेतवे ॥ ३५ ॥
सौमनस्यं बलं चैव पुष्टिरुत्साह एव च ।
हर्षश्चैव सुखं २५ प्राणबलवृद्धिश्चैस्तथैव च ॥ ३६ ॥
अग्निमूर्च्छाविनाशैश्च मेदोनाशस्तथैव च ।
पित्तस्यापि विनाशः स्यात् द्वादशैते वरा गुणाः ॥ ३७ ॥
अर्धश्रमः कृतो यैस्तु लक्ष्यंते २७ श्रुणु तान्गुणान् ।
अर्धश्रमेण मल्लानां प्रस्वेदो २८ जायते पुनः ॥ ३८ ॥
कक्षाकण्ठकपोलेषु ललाटे करसन्धिषु ।
पादसन्धिषु प्रस्वेदो हृदि श्वासश्च जायते ॥ ३९ ॥
अथ पूर्णः श्रमो यैस्तु कर्तव्यः सुसमाहितैः ।
तानहं कथयिष्यामि यथाशास्त्रं यथाबलम् ॥ ४० ॥
ज्येष्ठी तथान्तरज्येष्ठी तथा गोपकुलोऽपि च ।
एतैः पूर्णश्रमः कार्यः संयुक्तैर्भावितैर्गुणैः २९ ॥ ४१ ॥
आरोग्यबलवान् शूरैः ३० प्राणवान् सुश्रमस्तथा ।
श्रमसहः क्लेशसहः पुष्टकायाग्निमानापि ॥ ४२ ॥
पूर्णश्रमेपि मल्लानां जायन्ते ये गुणा अपि ।
तानहं कथयिष्यामि यथाशास्त्रं यथाबलम् ३१ ॥ ४३ ॥
तथा हृद्रोगनाशश्च पित्तनाशोऽपि जायते ।
कृमिनाशः कुष्ठनाशः स्वाङ्गसामर्थ्यमेव च ॥ ४४ ॥
२५ मुख P. २६ अग्निमूर्त्सा विनाशश्वन् P. २७ लक्ष्यंते B. २८ प्रश्वेदो B.
२९ नावितै P. ३० शूरः P. ३१ यथाफलं P.
अष्टमोऽध्यायः । ३७
क्लेशे सहिष्णुता शौर्यं रोगाणां क्षय एव च ।
अग्निवृद्धिः क्रमादेते भवन्त्यत्र गुणा दश ॥ ४५ ॥
३२परिपूर्णश्रमस्तस्माद् कर्तव्यस्तु समाहितैः ।
पूर्णश्रमे कृते मल्लैर्जायन्ते लक्षणानि वै ॥ ४६ ॥
तान्यहं कथयिष्यामि श्रूयतां च प्रयत्नतः ।
स्वेदः सर्वेषु चाङ्गेषु नेत्रयोश्चैव रक्तिमा ॥ ४७ ॥
जरानाशः कफनाशो मेदोनाशस्तथा परः ।
प्रस्वेदं शोषयत्येव मुखे श्वासः प्रवर्तते ॥ ४८ ॥
हृदयं शोषयत्याशु कण्ठे शोषश्च तत्क्षणात् ।
तथा मुखं च शोषयति३३ कलां शोषयति क्रमात् ॥ ४९ ॥
अ्रमोऽत्यन्तमर्वै३४ स्यात् मूर्छा प्रकुरुते परम् ।
पिपासा जायते सद्यो बलहानिर्विशेषतः ॥ ५० ॥
छर्दिर्भमश्वासकासरक्तपित्तभयानि च ।
तथा हृदयदाहं च ज्वरमुत्पादयेदलम् ॥ ५१ ॥
इति ज्ञात्वा च सकलं कर्तव्यं हितमात्मनः ।
येन कृतेन मल्लानां जायते सुखमाशु वै ॥ ५२ ॥
तदहं कथयिष्यामि शृण्वन्तु विधिपूर्वकम् ।
स्नानं शीतोदकेनैव कारयेत् प्रथमं सदा ॥ ५३ ॥
कर्तव्यं च पयःपानं शी(सि)तया च समन्वितम् ।
द्राक्षाणां भक्षणं चैव श्वेतवस्त्रनिषेवणम्३५ ॥ ५४ ॥
विलेपनं चन्दनेन कर्पूरेण च शोभनम् ।
अर्धवस्त्राच्छादनं३६ च कटुतिक्ताम्लवर्जनम् ॥ ५५ ॥
B. ३२ This śloka is not found in B. ३३ शुष्यति P. ३४ भ्रमश्चात्य-
न्तमेव P. ३५ निषेवनम् B. ३६ आर्द्रवस्त्र° B.
३८ मल्लपुराणे
भोजनं सरसं चैव गुडसारैश्च गोधूमैः ।
एवं कृते ततः पुष्टिः शरीरे गच्छति श्रमैः३७ ।
मल्लैः कर्तव्यमित्येवमुपचारः सुखावहः ॥ ५६ ॥
इति श्रीमल्लपुराणे चतुर्मल्लश्रमलक्षणं नाम पञ्चमो [अष्टमो] ऽध्यायः३८ ।
३७ ततः शीघ्रं उपगछत्यतिश्रमः B. ३८ In B the colophon reads as
under-इति श्रीचतुर्मल्लश्रमलक्षणप्रकरणं अष्टमम् ।
श्रीकृष्ण उवाच ।
अत
उद्
व्या
का
शौर्य
मान
भया
सदा
आल
वात
राज
यशः
दुर्जन
सेर्वक
श्रमहे
श्रमं
पद्माि
पादर
उत्पा
षट्प्र
१ अनांध क
५ This line is
७ श्रीकृष्ण उवाच is
found in P.
नवमोऽध्यायः ।
श्रीकृष्ण उवाच ।
अतः परं१ प्रवक्ष्यामि ज्येष्ठिनः श्रमजान् गुणान् ।
उदयो लभ्यते यैस्तु लोके कीर्तिरनुत्तमं(मा) ॥ १ ॥
व्यायामोमिस्तथाहारो बलप्राणसमुच्चयः ।
काठिन्यतोद्यमोत्साहलघूकरणमेव च ॥ २ २ ।
शौर्यकरः सुखकरस्तथा मतिकरोऽपि च ।
मानकरो हर्षकरः सौभाग्यकर एव च ॥ ३ ॥
भयहरः कफहरो मेदोहर इति स्मृतः ।
सदा क्लेशहरो लोके जडत्वहर एव च ॥ ४ ॥
आलस्यहरणं चैव शत्रुनाशस्तथैव च ।
वातहरः पित्तहरस्तथा वलिहरोपि च ॥ ५ ॥
राजप्रसादकरणं तथार्थकरणं परम् ।
यशः करोति सततं स्वजनाह्लाद३कारकः ॥ ६ ॥
दुर्जनानां दाहकरो ह्यनुरागकरो यतैः ।
सर्वकार्यकरश्चेति ज्येष्ठिनः श्रमलक्षणम् ॥ ७ ॥
श्रमहेतोर्गुणाः सर्वे प्रभवन्ति न संशयः ।
श्रमं विना विनश्यन्ति तस्मात्कार्यः श्रमः सदा४ ॥ ८ ॥
पञ्चभिः स्वाङ्गसंस्थानैर्जातिस्थानैश्चतुर्विधैः६।
पादस्थानैश्चतुर्भिश्च विविधाकारं९चेष्टितैः ॥ ९ ॥
उत्पादितं मया पूर्वं मल्लानां हितकाम्यया ।
षट्प्रकारैश्च घातैश्च१० षट्त्रिंशद्द्भिश्च घातकैः ॥ १० ॥
१ अनांथ कथयिष्यामि P. २ ॰स्वाप्स्यति P. ३ सुजनाहाद° P. ४ ह्रातः P.
५ This line is not found in B. ६ This line is not found in B.
७ श्रीकृष्ण उवाच is found in B after verse eight ८ This line is not
found in P. ९ विविधपर P १० वातैश्च P.
४० मल्लपुराणे
पञ्चतालप्रकारैश्च पञ्चदृष्टिप्रलोचनैः ।
चतुर्दशाङ्गलागैश्च वलनैर्विविधैरपि ॥ ११ ॥
द्वादशस्थानप्रवेशैश्च चतुर्निःसारणैस्तथा ।
चतुःषष्ट्यधिकशतैर्विज्ञानग्रहणेस्तथा ॥ १२ ॥^१२
पञ्चभिः स्वाङ्गसंस्थानैर्जातिस्थानैश्चतुर्विधेः ।
पादस्थानैश्चतुर्भिश्च तथान्यैर्विविधैरपि ॥ १३ ॥
पूर्वं खल्पश्रमः कार्यः पश्चादति(मध्य)श्रमस्तथा ।
पूर्णश्रमस्ततः पश्चाज्ज्येष्ठी च तदनन्तरम् ॥ १४ ॥
नत्वा गुरूंश्च वृद्धांश्च बालवृद्धविवर्जितः ।
प्रविशेच्च ततो रङ्गं शिष्यैरिष्टैः सहैव तु^१५ ॥ १५ ॥
श्रमं च विविधं तत्र मल्लैः सह प्रवर्तयेत् ।
निवर्तिते श्रमे शिष्यै^१६ रङ्गपूजां प्रकारयेत्^१७ ॥ १६ ॥
प्रकुर्यादपि^१८ चैतानि कृष्णेन कथितानि च ।
गतं^१९ च मलमूत्रं च हासनं त्रासनं तथा ।
असद्वाक्यादि^२० चैतानि परित्यज्य जयी भवेत् ॥ १७ ॥
मया तत्रै^२१ समाख्याताः सर्वे विजयहेतवे ।
श्रमश्चतुर्विधो ज्ञेयः कथितः कैटभारिणा ॥ १८ ॥
अतिश्रमोऽल्पश्रमः पूर्णश्रैवार्ध एव च ।
अतिश्रमोऽनिषेधश्च कर्तव्योत्र महच्छ्रमः ॥ १९ ॥
तानहं कथयिष्यामि यथाकालं यथागुणम्^२२ ।
मार्गशीर्षादिचैत्रान्तं^२३ पूर्णं कुर्याद् श्रमं बुधः ॥ २० ॥
११ वल्गनै P. १२ श्रीकृष्ण उवाच is found in B after verse 12.
१३ ज्ञातिस्थानै P. १४ वर्जयेत्तिवृद्धांश्च P. १५ सहायितैः P. १६ सर्वै B. १७ विधा-
नतः B १८ सर्वसहपि P. १९ गर्मं P. २० असद्वाक्यं हि B. २१ मयाऽतोत्र P.
२२ यथा शृणु P. २३ चैत्रपर्यन्तं B.
नवमोऽध्यायः । ४१
हिमयोगो बलं तत्र भक्षणं कुरुते दृढम् ।
पूर्णश्रमस्य योगेन वर्धते जठरानलः ॥ २१ ॥
वर्धिते जठरस्याग्नौ आहारः प्रबलो भवेत् ।
आहाराद्वलबृद्धिः स्यात् बलाच्छ्रमसहो भवेत् ॥ २२ ॥
पञ्च मासांश्च मल्लानां श्लाघ्याः पूर्णश्रमस्तदा ।
वैशाखे ज्येष्ठमासे च तथाषाढेऽपि दुःसहः २४ ॥ २३ ॥
अर्धश्रमं प्रकुर्वन्ति यथा सौख्यं २५ न लुप्यते ।
वर्षासुं २६ श्रावणे चैव तथा भाद्रपदेपि च ॥ २४ ॥
ऊष्मा भवति मध्ये तु बहिर्मेघावडम्बरम् ।
अल्पश्रमो युक्त एव कर्तुं तत्रापि नान्यथा ॥ २५ ॥
यतोधिकश्रमाभ्यासादन्तः स्वापः प्रजायते ।
आश्विने कार्तिके चैव पित्तं तत्र प्रकुप्यति ॥ २६ ॥
पित्तेन जाठरो वह्निर्मन्दः स्याद् भवति ज्वरः ।
मन्दे च जाठरे वह्नौ कुत आहारसंभवः ॥ २७ ॥
अनाहारस्य न बलमबलस्य कुतः क्रिया ।
तस्मादभ्यासयोगेन श्रमः स्वल्पः प्रशस्यते २७ ।
एवं कुर्वन् सदा मल्लो नियुद्धविजयी भवेत् ॥ २८ ॥
२८अष्टम्यां च चतुर्दश्यां दर्शे चैव क्षयेऽहनि ।
सूतके च महाष्टम्यां प्रेतपक्षेऽयनेपि च ॥ २९ ॥
अथाक्षय्यनवम्यां तु ग्रहणे चन्द्रसूर्ययोः ।
तथाक्षय्यतृतीयायामनध्यायाः प्रकीर्तिताः ॥ ३० ॥
उद्वर्तनं द्वादशधा सदा देहोपकारकम् ।
वातहरं कफहरं मेदोहरमथापि वा ॥ ३१ ॥
२४ पाठे विदुः सहः B. २५ यथायासो B. २६ वर्षा B. २७ प्रकुर्वते P,
२८ Verse 29 is not found in P.
६
४२ मल्लपुराणे
स्थैर्यकरं तथा गन्धकरं वर्णकरं स्मृतम् ।
गौर²९वैककरमेवैते तन्द्राहरमपि ध्रुवम् ॥ ३२ ॥
कण्डूहरं मलहरमरोचकहरं परम् ।
स्वेदोहरमित्येवं गुणा द्वादश कीर्तिताः ॥ ३३ ॥
स्नानं च द्वादशगुणं कथयिष्यामि साम्प्रतम् ।
बल्यं च परमायुष्यं तथा पित्तहरं ध्रुवम् ॥ ३४ ॥
कण्डूहरं मलहरं तथा श्रमहरं परम् ।
निद्रा³¹हरं स्वेदहरं तृष्णाहरमपि स्मृतम् ॥ ३५ ॥
स्थिरकेशं कान्तिकरं वक्त्रनिर्मलकारकम् ।
इत्येवं द्वादशगुणं सदा स्नानं समाचरेत् ॥ ३६ ॥
तथा श्रान्तः श्रमी घर्मपीडितः पित्तसंयुतः ।
रतिश्रान्तो³²ऽतिश्रमी³³ च मदपीडित एव च ॥ ३७ ॥
शीतोदकेन स्नानं च करिष्यति यथार्थतः³⁴ ।
तदेव स्नानमेतेषां परिणामप्रदं सदा ॥ ३८ ॥
कफयुतो वातयुतो मन्दाग्निरर्धश्रमिकैः³⁵ ।
दद्रुकण्डूशिरोरोगी षडुष्णोदकमाभजेत् ॥ ३९ ॥
एवं स्नानं तु निर्वर्त्य³⁷ सन्ध्यां कृत्वा यथाविधि ।
देवपितृमनुष्यादींस्तर्पयित्वा सुभक्तितः ॥ ४० ॥
उपविष्टो गृहे स्वे च यथाकालं यथासुखम् ।
शरीरे जायते पुष्टिः पुष्टाहारसमुद्भवा ॥ ४१ ॥
आहारोपि रसैर्यत्नैः³⁸ कर्तव्यः सुखमिच्छता ।
उपयोग्यौ³९ भवन्त्येते मल्लानां⁴⁰ भोजनार्थिनाम् ।
तानहं कथयिष्यामि यथायोग्यं यथाबलम् ॥ ४२ ॥
२९ गौरकरं तथैवैतत् P. ३० अरोचकहरम् P. ३१ तंद्राहरम् P. ३२ अतिश्रान्त P.
३३ श्रमी चैव P. ३४ कुर्वीत च यथा यतः P. ३५ अर्धश्वासिकः P. ३६ भोजनः P.
३७ निर्वृत्त्य B. ३८ रसो यत्नैः P. ३९ उपयोगो P. ४० मल्लानो P.
नवमोऽध्यायः । ४३
हरीतकी सैन्धवं च हिंगु पिप्पली४१ नागरम् ।
गोलयित्वोपभुक्तेनै जाठरोग्निः प्रवर्धते ॥ ४३ ॥
हरीतक्येकादशगुणा विज्ञेया शास्त्रपारगैः ।
आयुष्या चक्षुष्या चैव लवणा मधुरा रसा ॥ ४४ ॥
तथोष्मदीपनी चैव दोषघ्नी शोषकुष्ठनुत् ।
व्रणान्यपाहरेद्वै वातानेकादशगुणा स्मृता ॥ ४५ ॥
पिप्पल्येकादशगुणा स्निग्धोष्णा मधुरापि च ।
रूक्षा च कटुका चैव दीपनी सारकारिणी ।
मरूश्लेष्मश्वासकासरोगवन्धविनाशिनी ॥ ४६ ॥
हिङ्गुश्चैकादशगुणो लघूष्णैः पाचनोपि४५ च ।
दीपनः कफवातघ्नः स्निग्धश्च कटुतिक्तकः४६ ।
शूलाजीर्णाविबन्धघ्नी चैवमेकादशेव तु ॥ ४७ ॥
सैन्धवश्च(स्य) नव गुणाः स्वादुवांलवणोत्कटः४८ ।
चक्षुष्यो रेचको वृष्यः४९ पाचनोप्यतिदाहकः ।
विबन्धघ्नो मलघ्नश्च नैवैते विमला गुणाः ॥ ४८ ॥
मया तव समाख्याताः सर्वे ते पुष्टिवेतवे ।
अन्यानि चापि वक्ष्यामि मल्लानां पुष्टिकारिणाम् ॥ ४९ ॥
ससत्वमत्स्यमांसानि५० दधिदुग्धघृतानि च ।
शाकमूलफलादीनि पानकानि बहून्यपि ॥ ५० ॥
तत्राङ्गीकृतैखण्डस्य संभवन्ति गुणास्त्विमे ।
वातहरं पित्तहरं तथैव च सुशीतलम् ॥ ५१ ॥
४१ पिंपरि P. ४२ गोलबिल्वो B. ४३ ब्रह्वन्पापहंरद्वातान् P. ४४ ह्युष्णश्च P.
४५ पाचनापि B. ४६ The line reads as दीपनी कफवातघ्नी स्निग्धा च कटुतिक्तका
in B. ४७ शूलाजीर्ण P. ४८ कटुः P. ४९ चक्षुरोगे च को वृष्यः ५० ससत्यमाष
द्विदल P. ५१ अंगीकृतस्य P.
चक्षुष्यं बृंहणं हृद्यं^{५२} बल्यं वृष्यं तथैव च ।
एते खण्डस्य विज्ञेया नवधा कीर्तिता गुणाः ॥ ५२ ॥
शर्करा तु नवगुणा कथिता पूर्वसूरिभिः ।
ज्वरहरा पित्तहरा तथा शीतकरापि च ॥ ५३ ॥
छर्दिहरा तृड्हरा तथा श्लेष्महरापि च ।
मूर्छाहरा क्लेशहरा^{५३} विषाग्नी^{५४} चैव कथ्यते ॥ ५४ ॥
माक्षिकं मधु विज्ञेयं संयुक्तं नवभिर्गुणैः ।
कषायं शीतलं रूक्षं मधुरं दीपनं तथा ॥ ५५ ॥
तथैव लेखनं चैव बल्यं व्रणविशोधनम् ।
शोषणं चैव नवधा माक्षिकस्य गुणा इमे ॥ ५६ ॥
गव्यं पयो दशगुणं श्रूयतां च यथा तथा ।
रसायनं बलकरं हृद्यं मेधाकरं तथा ॥ ५७ ॥
आयुष्यं^{५५} पुष्टिदं चैव तथा वातहरं परम् ।
रक्तकरं पित्तहरं विकारहरमेव च ॥ ५८ ॥
अजापयो नवगुणं कषायं मधुरं तथा ।
संग्राहिकं शीतलं च लघु रक्तकरं तथा ॥ ५९ ॥
विशेषतः पित्तहरमतिसारघ्नमेव च ।
क्षयकासज्वरहरं तेन सेव्यं^{५६} सदा भवेत् ॥ ६० ॥
माहिष्यं सप्तधा दुग्धं कथितं पूर्वसूरिभिः ।
माहिष्यं च हि मधुरं वह्निनाशनमेव च ॥ ६१ ॥
निद्राकरं शीतकरं^{५७} जडत्वकरमेव च ।
मेदःकरं कफकरं कथिताः सप्त गुणा इमे ॥ ६२ ॥
५२ सद्यं P. ५३ त्रासहरा P. ५४ विषघ्ना P. ५५ पुष्टदम् P. ५६ सौख्यं P.
५७ शीतकम् B.
नवमोऽध्यायः । ४५
गव्यं दधि स्वादुकरं म(ब)लकं ग्राहकं तथा ।
उष्मघ्नं च वातघ्नं मेदःशुक्रकरं तथा ॥ ६३ ॥
रक्तपित्तश्लेष्मशोषनाशनं स्निग्धमेव च ।
तथैव पाके मधुरं दीपनं बलवर्धनम् ॥ ६४ ॥
वातहरं पवित्रं च रुचिकामिकरं५८ तथा ।
इति ज्ञात्वा प्रयोक्तव्यं गव्यं दधि यथोचितम् ॥ ६५ ॥
आजं५९ दधि चाष्टगुणं कफवातहरं परम् ।
पाचनं बलसंयुक्तं कृमिनाशनमेव च ॥ ६६ ॥
कासहरं श्वासहरं अग्निदीपनमेव च ।
एवंगुणं६० च विज्ञाय भोक्तव्यं सर्वदा दधि ॥ ६७ ॥
माहिषं६१ द्वादशगुणं दधि निश्चित्य कथ्यते ।
विपाके मधुरं वृष्यं रक्तपित्तहरं तथा ॥ ६८ ॥
बलसंवर्धनं स्निग्धं महन्मादकर्मेव६२ च ।
मधुरं कफहरं६३ चैव मेदोवृद्धिकरं परम् ॥ ६९ ॥
रसे पाके६४ च मधुरं तथा वातकरं परम् ।
गव्यघृतस्य चाष्टौ ये गुणा मे कथितास्तवै ॥ ७० ॥
विपाके मधुरं चैव६६ वातपित्तहरं तथा ।
विषहरं चाग्निकरं चक्षुर्निर्मलकारकम्६७ ॥ ७१ ॥
तथा बलंकरं६८ चैव गुणा गव्यघृतस्य च ।
आजस्य च घृतस्यापि गुणास्तेपि प्रकीर्तिताः ॥ ७२ ॥
चाक्षुष्यं दीपनं बल्यं कासघ्नं६९ श्वासनाशनम् ।
क्षयरोगहरं चैव अजाया घृतमुत्तमम् ॥ ७३ ॥
५८ रुचिकामकरम् B. ५९ आज्यं P. ६० गुणां P. ६१ माहिष्यम् P.
६२ महामोदकमेव B. ६३ कलहरम् P. ६४ रसपाके B. ६५ गुणान्स्ते कथयाम्यहम् P.
६६ शीत P. ६७ चक्षुर्निर्माल्याकारकम् P. ६८ मलकरम् B. ६९ काशघ्नं B.
मल्ल-युद्ध तकनीकें, दांव-पेंच, बन्धन, मालिश एवं मल्लपुराण उपसंहार
४६ मल्लपुराणे
माहिषस्य घृतस्यैव गुणाः सप्त प्रकीर्तिताः ।
मधुरं पित्तरक्तघ्नं गुरु पाके७० क्षयापहम् ।। ७४ ।।
वातघ्नं शीतलं चैव माहिषं घृतमुत्तमम् ।
रक्तशालिश्चाष्टगुणो नयविद्भिरुदाहृतः ॥ ७५ ॥
चक्षुष्यः शुक्रकृत् चैव मूत्रकृत्७२ परमार्थतः७३ ।
तृषाहरो बलकरो हृद्यः स्वरकरोऽपि च ॥ ७६ ॥
गौरषष्टिश्चतुर्धा तु गुरुशीतार्तिदोषहृत् ।
यवाश्चाष्टादशगुणा रूक्षाः शीतास्तथैव च ॥ ७७ ॥
गुरवः स्वादवन्तश्च शीतला वातकारकाः७४ ।
वृष्यैस्थैर्यकराश्चैव पित्तहन्तार एव च ॥ ७८ ॥
मेदोहराः७५ कफहरास्तथा चाग्निकरा अपि ।
पित्तअर्ष(त्तार्शो) हराः७६ श्वासकासघ्नाश्च विशेषतः ।
गुरुस्तम्भहराश्चैव७७ कण्ठरोगहरास्तथा७८ ॥ ७९ ॥
गोधूमा द्वादशगुणा वातला७९ गुरुवस्तथा ।
स्निग्धाश्च जीवनाश्चैव वातपित्तहरा अपि ।
सन्धानकाः सुमधुराः शीतलाः स्थिरकारकाः ॥ ८० ॥
मुद्गाश्चतुर्गुणा ज्ञेयाः८१ कफपित्तहरास्तथा ।
कषाया मधुराः प्रोक्ता एते मुद्गगुणाः स्मृताः ॥ ८१ ॥
चणकः षड्गुणः प्रोक्तः कफहृत् पित्तहृत् तथा ।
शुक्रहरो वातकरः शीतमोहहरस्तथा ॥ ८२ ॥
७० गुरु पाके etc. not found in P. ७१ Whole verse missing in P.
७२ मूत्रहृत् B. ७३ परमार्थिनः P. ७४ The verse reads as follows in P. :—
कथिता द्वादशा मल्ला रौक्षा शीतास्तथैव च । गुरुः स्वादु वंशाश्च शीतजा वाचकारकाः ॥
७५ मेदहरा P. ७६ हर्षकराः P. ७७ हरश्चैव B. ७८ हरस्तथा B. ७९ वातुला P.
८० संघामकारकाश्चैव P. ८१ मुहुश्चतुर्गुणेज्ञेयः P. ८२ The line reads as follows
in P. कषायो मधुरः प्रेक्त एते द्रूलचतुर्गुणाः ८३ The line reads as follows in
P. चणाः षड्गुणकाः प्रोक्ताः कफकृत् पित्तकरस्तथा।
आद
माषा
वृष्यो
वातह
गुरुर्भा
एते
कषाय
असृग्
संग्राि
एकाद
सुस्वादु
अशोँघ्नि
बहुविण्
अजिर्णा
अभिष्य
बलकरं
सरसं मां
अथ भोजनम् ।
अतिमात्रं
भोजनं ८६
हेमन्ते ८७
पच्यत्यल्पे
८४ पृष्टे P. ८
८९ तथा च P. ९० नत्यु
not found in P. ९
नेन P. ९७ च मात्रं E
१०१ पंचतालपेधनो P.
आदकी द्विगुणा प्रोक्ताः कफपित्तहरा स्मृता ।
माषाश्च द्वादशगुणाः स्निग्धाश्च मधुरास्तथा ॥ ८३ ॥
वृष्यो^{८४} मेदकरश्चैव कफमांसकरोऽपि च ।
वातकृत् बृंहणश्चैव बलयुक्तः पुरीषकृत् ॥ ८४ ॥
गुरुर्भवति तेनैव माषः सर्वेषु शस्यते ।
एते द्वादश गुणाः प्रोक्ता गुणान्मांसस्य बोर्धतै ॥ ८५ ॥
कषायं मधुरं चैव हृद्यं पित्तहरं तथा ।
असृग्हरं चामिकरं कफवातहरं^{८६} तथा ॥ ८६ ॥
संग्राहिकं रोचकं च बलकृत् ज्वरहरं तथा ।
एकादशगुणं मांसं शीर्षरोगहरं परम् ॥ ८७ ॥
सुस्वादुमत्तिसारं च पित्तासृक्हरं परम् ।
अशोघ्नं^{८७} लघु रूक्षं च कषायं स्वादु चैव हि ।
बहुविष्ठाकरं चैव शीतलं^{८८} च विशेषतः ॥ ८८ ॥
आजंमांसमष्टगुणं स्निग्धं वृद्धिकरं परम् ।
अभिष्यन्दहरं चैव नात्युष्णं^{९०} धातुसाम्यकम् (कृत्) ॥ ८९ ॥
बलकरं बृंहणं च तथा वातहरं परम्ै ।
सरसं मांसं च परं कफवातहरं तथौ ॥ ९० ॥
अथ भोजनम् ।
अतिमात्रं तुं^{९३} रोगायैं अंशदोषचतुष्टकम्^{९५} ( ? ) ।
मोजनं^{९६} हीनमात्रं^{९७} च बलं तेन प्रजायते ॥ ९१ ॥
हेमन्ते^{९८} शीतसंरोधांद् भवति प्रबलोऽनलैः ।
पच्यत्यल्पेन्धनो^{१०१} धातूननलो वायुनेरितः ॥ ९२ ॥
८४ पृष्ठे P. ८५ निबोधत B. ८६ करम् P. ८७ अरंधि P. ८८ साखतं P.
८९ तथा च P. ९० नत्युष्णम् धातुरोचनम् P. ९१ तथा P. ९२ The whole line is
not found in P. ९३ जु P. ९४ रोगा च P. ९५ अशदोषाय तुष्टकम् P. ९६ भोज-
नेन P. ९७ च मात्रं P. ९८ हेमें हेशात् P. ९९ संरोधात् P. १०० न च P.
१०१ पंचतालपेधनो P.
४८ मल्लपुराणे
गोधूमपिष्टकेनापि पाकांश्चैव बहूनपि१०२ ।
गुणान्करोति संयुक्तो घृतेनापि गुडेन च ॥ ९३ ॥
वसन्ते यवं१०३गोधूमाः क्षौद्रं१०४जाङ्गलकान्यपि ।
सुशीततोयसिक्ताङ्गो लिप्ताङ्गश्चन्दनैः शुभैः ॥ ९४ ॥
पाटलावासितं चाम्भः कर्पूरेण च शितलम् ।
शशाङ्ककिरणै रात्रौ सेवितं प्रपिवेन्मुहुँः ॥ ९५ ॥
अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।
पयसोष्टगुणं माषं माषादष्टगुणं घृतम् ॥ ९६ ॥
घृतादष्टगुणं तैलं स्नानसंमर्दनं परम् ।
शाकपाके रुचिकरं केवलं नैव भक्षयेत् ॥ ९७ ॥
माषेन वर्धते कायो घृतेन वर्धते बलम् ।
पिष्टेन वर्धते प्राणः शौर्यमन्नात् प्रवर्धते ॥ ९८ ॥
इति श्रीमल्लपुराणे भोजनप्रकरणं नाम षष्टो नवमं[नवमो]ऽध्यायः ।
१०२ बह्वपि P. १०३ जव B. १०४ क्षौर P. १०५ B ends here with
the colophon. इति श्रीमल्लपुराणे नवमं प्रकरणं समाप्तं । शुभं भवतु । संवत् १७३१ वर्षे पौष
शुक्लपक्ष ११ सोमवार शुभांलिखितं दुनीचंद्रेणे ।
पञ्चोत्तरं पंचशतं च मल्ला
संस्थापिता चक्रधरेण भक्त्या ।
तेभ्यः प्रदत्तं निजगात्रविद्या
शरीरसाध्या रिपुनाशकारी ॥ १ ॥
दशमोऽध्यायः ।
श्रमोयं मल्लविद्यायाः कथितः षोडशात्मकः ।
यस्य चाभ्यासतो लोके त्रैलोक्यविजयी भवेत् ॥ १ ॥
रङ्गश्रमस्तम्भश्रमस्तथा भ्रमणिकाश्रमः ।
श्वासप्रेरणिकाभ्यासस्तथाहं(यं) स्थापितश्रमः ॥ २ ॥
ऊहापोहश्रमो(प्य)न्यो गुरुगोणितकश्रमः ।
श्रमो लघुगोणितके श्रेष्ठः स्यात्प्रमदाश्रमः ॥ ३ ॥
आमर्दकीश्रमः श्रेष्ठो याञ्चास्वादनकः श्रमः ।
कुण्डकर्षणकोभ्यासस्तथान्यत्कृतकाराश्रमः ॥ ४ ॥
जलश्रमो बहुगुणः परानारोहणः श्रमः ।
भोजनोर्ध्वभ्रमणिका षोडशैतच्छ्रूमास्थिजाः ॥ ५ ॥
श्रमाणां चैव कथ्यन्ते त्रयो भेदाः पृथक् पृथक् ।
उत्तमा मध्यमाश्चैव भवन्ति च तथाधमाः ॥ ६ ॥
रङ्गश्रमस्तु श्रेष्ठः स्यात् ज्येष्ठः सर्वश्रमेषु च ।
ये चाभ्यासेन सर्वेऽपि श्रमाः सिद्धा भवन्ति हि ॥ ७ ॥
तत्रादौ मध्यमांश्चान्यानन्यांस्ते कथयाम्यहम् ।
स्तम्भश्रमणिका बाहुबाहुभ्रमणमेव च ॥ ८ ॥
गुरुगोणितकश्चैव लघुगोणितकस्तथा ।
गदाश्रमेपि तत्रादौ ततश्च छोनकश्रमः ॥ ९ ॥
अङ्गकावर्तनाभ्यासस्तथा च श्रमकाश्रमाः ।
जलश्रमस्तथा चैव सोपनरो गुरुश्रमः ॥ १० ॥
भोजनोर्ध्वश्रमणिका कपि(थि)ताः सप्त चाधमाः ।
दिनान्तरे यदाभ्यासे बलमोजः प्रवर्धते ॥ ११ ॥
५० मल्लपुराणे
पञ्चदश समाख्याताः कथ्यन्ते विविधश्रमाः ।
अथ पञ्चदशविधैर्लागैश्च च लभ्यते ॥ १२ ॥
ऊर्ध्वलागो मध्यलागस्तथाधोलाग इष्यते ।
निराधारोपि लागः स्यात्कचिदङ्गबलादिह ॥ १३ ॥
वामदक्षिणलागाभ्यां लागश्च कथितः श्रमः ।
उपविश्यैव लागोपि चरणेनापसर्पणम् ॥ १४ ॥
कक्षयोः पादसन्धिश्च धारणं कथितं बुधैः ।
उदरस्कंधयोश्चैव धारणं वरपादयोः ॥ १५ ॥
ऊरुसंधिधारणं च तयोःप्रेरणं परम् ।
त्रिधा स्तम्भाधिरोहणं दण्डाघातस्तथैव च ॥ १६ ॥
अङ्गवर्तनलागश्च तथा पादापकर्षणम् ।
विज्ञेयो दशधा चैव स्तम्भः श्रमसमुद्भवः ॥ १७ ॥
अङ्गस्य सहजं प्राणं स्कन्धप्राणं तथैव च ।
करप्राणं सुविप्राणं दण्डप्राणमपि ध्रुवम् ॥ १८ ॥
तलहस्तभवं प्राणं बाहुप्राणं तथैव च ।
जङ्घाप्राणं कटिप्राणं पादसंधिभवं तथा ॥ १९ ॥
जायते कठिनाङ्गत्वं अन्यस्य च जयस्तथा ।
अग्निवृद्धिः श्रमो ज्ञेयो लघुत्वमपि दृश्यते ॥ २० ॥
इत्येवं पञ्चदशधा प्राणस्तंभश्रमस्तथा ।
अभ्यस्तेन सदा युक्तो नियुक्तविजयी भवेत् ॥ २१ ॥
इति श्रीमल्लपुराणे स्तम्भश्रमलक्षणं नाम सप्तमो[दशमो ]ऽध्यायः ।
एकादशोऽध्यायः ।
कथयाम्यन्यश्रवणं रमणीकमनुत्तमम् ।
तथाक्रमं प्रकुर्वीत मल्लाः पञ्चविधा अपि ॥ १ ॥
अस्थिसारो मांससारो मेदसारस्तथैव च ।
तथास्थिमांससारश्च चतुर्थकः प्रकीर्तितः ॥ २ ॥
तथास्थिमेदसारोपि पञ्चमः (मध्व) प्रयुज्यते ।
पञ्चानां गुणभेदानां भिन्नभ्रमणिका स्मृता ॥ ३ ॥
कथयिष्यामि विधिवद्यो यथा तं करिष्यति ।
क्रमात्त्रयः समाख्याताः पूर्वसूरिभिरेव च ॥ ४ ॥
प्रयस्य क्रमोतिक्रमो धारणाक्रमेति स्मृतः ।
दोषचयस्तनोर्वातकफपित्तसमं (स्य सं)भवः ॥ ५ ॥
तत्रास्थिसारमल्लेन पित्तसारेण तेन तु ।
प्रशस्तक्रमपूर्वं तु कर्तव्या अम्राणिका सदा ॥ ६ ॥
मांससारेण वातेन संयुक्तेन यथा क्रमः ।
इति क्रमभ्रमणिका कर्तव्या सुखमिच्छता ॥ ७ ॥
तथैव मेदसारेण कफवातयुतेन ते ।
सदा गौणितककटिप्राणसंप्राणमेव च ॥ ८ ॥
पवनस्य जयश्चैव एतदष्टगुणं स्मृतम् ।
मल्लानां विजयकरं तस्मादेतत्समभ्यसेत् ॥ ९ ॥
अष्टधा भवति प्राणं बाहुप्रेरणिकश्रमात् ।
तलहस्तभवं प्राणं भुजप्राणं तथैव च ॥ १० ॥
स्कन्धप्राणमुरःप्राणं भुजशीर्षभवं तथा ।
जानुप्राणं कटिप्राणं रोपणं तलपादयोः ॥ ११ ॥
५२ मल्लपुराणे
ऊर्ध्वस्थायिकमेवैतत् प्राण एकादशात्मकः ।
अतः सर्वप्रकारेण श्रममेव सदाभ्यसेत् ॥ १२ ॥
ऊहापोहस्तु कर्तव्यः प्रतिमल्लसमागमे ।
यथा तथ्यं व्यक्तं शृणु अनुष्ठेयं च सर्वदा ॥ १३ ॥
ऊहापोहश्च कार्यस्तु प्राण अष्टविधस्तथा ।
कथं च धारयिष्यामि कथं स्थाप्यामि वा पुनः ॥ १४ ॥
कथं च धारयिष्यामि गमिष्यामि च वा कथम् ।
गृह्यते वा कथं ह्येष रक्ष्यते वा कथं परः ॥ १५ ॥
कथं प्रमाणं क्रियते कथं न क्रियतेऽपि वा ।
गुरुगोणितकाभेदाः श्रेष्ठाः सप्तदशापि वा ॥ १६ ॥
तानहं कथयिष्यामि यथायोग्यं तथाबलम् ।
प्रथमं च नमस्कृत्य कक्षायां जानुसंभवम् ॥ १७ ॥
ध्रियते वामपार्श्वे तु दक्षिणेन पुनस्तथा ।
तथैव कुक्षिज्ञानुभ्यां तले कृत्वा विधारणम् ॥ १८ ॥
धृतेनापि वशं तिष्ठेत्ततो याति तथा पुनः ।
उरसा धारणं तस्मात्ततो दण्डविधारणम् ॥ १९ ॥
पुनश्चैव तु जानुभ्यां तले हस्तविधारणम् ।
पुनरुत्तिष्ठविंशति यथाशक्त्या समभ्यसेत् ॥ २० ॥
ध्रियते वाङ्घ्रिजानुभ्यां लोलयेच्च पुनः पुनः ।
धारणं तलपादाभ्यां तथैव च पुनः क्रमात् ॥ ३१ ॥
अथ धारयकन्ये(स्यै)व स्थानानि परिपूरयेत् ।
शिरसा धारणं चैव शिरसो हननं ततः ॥ २२ ॥
बाहुचालनमेवोक्तं चरणग्रहणमेव च ।
पदस्य संधिग्रहणं करसंधिस्तथैव च ॥ २३ ॥
एकादशोऽध्यायः । ५३
सर्वाङ्गे चालनं चैव भेदाः सप्तदश स्मृताः ।
गुरुगोणिताभ्यां चैव वर्धते प्राण उत्तमः ॥ २४ ॥
एकोनविंशत्यधिकं कथ्यतेऽथ यथा शृणु ।
जङ्घाप्राणू( ण )मुरःकण्ठप्राणं च उत्तमम् ॥ २५ ॥
सर्वाङ्गस्थानसंभूतं जायते प्राणमष्टधा ।
इति ज्ञात्वा च सततं सादरं च समभ्यसेत् ॥ २६ ॥
मयात्वेवं समाख्याताः सर्वे विजयहेतवे ।
त्रयः पीडनका भेदाः कथिता मल्लकर्मणि ॥ २७ ॥
तलहस्तविधारणं कक्षाधारणमेव च ।
भुजसंधिधारणं च त्रयः पीडनकेऽधमाः ॥ २८ ॥
गुणा भवन्ति ये चान्ये शृणु तान् कथितान् मया ।
प्राणं चतुर्धा भवति व्यक्तं पीडनकश्रमात् ॥ २९ ॥
कक्षाप्राणं च भवति प्राणं च करसंधिजम् ।
तलहस्तभवं प्राणं पादप्राणं भवत्यपि ॥ ३० ॥
इति पीडनिकाभ्यां च दृढप्राणं चतुष्टयम्
प्राणपञ्चं गदाभ्यासात् कर्तुमर्हति सर्वदा ॥ ३१ ॥
तलहस्तप्राणं चात्र भुजप्राणं तथा पुनः ।
यो वा छोटनकाभ्यासात् प्राणत्रयसमुद्भवः ॥ ३२ ॥
तलहस्तभवं प्राणं पोवाप्राणं तथैव च ।
भुजप्राणं तथैवात्र सदा तेन समभ्यसेत् ॥ ३३ ॥
मयाद्य कथिता विप्र मल्लानां हितकाम्यया ।
चतुर्विधं भवेत्प्राणं कुण्डकावर्तनश्रमात् ॥ ३४ ॥
जङ्घाप्राणं च प्रथमं कटिप्राणस्तथैव च ।
जितश्वासश्च भवति हृदयं दृढमेव च ॥ ३५ ॥
५४ | मल्लपुराणे
कंदुका(कुण्डक)वर्तनाभ्यासात् सदा तेन समाचरेत् ।
कर्कराश्रमकायोगात्प्राणं चैव चतुर्विधाः(धम्) ॥ ३६ ॥
जङ्घाप्राणं कटिप्राणं लघु तव भवत्यपि ।
पदनस्य जयश्चैव अर्थश्च जायते सदा ॥ ३७ ॥
तेन तत्सर्वदा कुर्यात्कर्कराश्रममुत्तमम् ।
प्राणद्वयं जलाभ्यासात्कर्तृर्भवति निश्चितम् ॥ ३८ ॥
भुजप्राणमुरःप्राणं सर्वं तेन समाचरेत् ।
सोपानरोहणे चैव प्राणत्रयमुदाहृतम् ॥ ३९ ॥
भोजनार्थभ्रमात्पुंसां त्रिविधं प्राणमेव च ।
जायते सर्वसामान्यं तथैव च समाचरेत् ॥ ४० ॥
पञ्चदशविधानोपि श्रमे प्राणसमुद्भवः ।
एवं रङ्गसमभ्यासात्प्रशमो जायते तनुः ॥ ४१ ॥
तेन सर्वश्रमाणां तु ज्येष्ठी रङ्गश्रमोधिकः ।
इति ज्ञात्वा गुणान्सर्वानुत्तमा गुणहेतवः ॥ ४२ ॥
मर्दना भीमसेनी च दातव्या शत्रुमर्दिनी ।
अष्टौ गुणा भवन्त्येते शृणु वा कथयाम्यहम् ॥ ४३ ॥
श्वासहरा वृद्धिकरा तथा श्रमहरापि च ।
मेदोहरा प्राणकरा सुशरीरकरापि च ॥ ४४ ॥
तथोत्करकरौ चैव तथाप्यायनकरापि(च) ।
देयास्थिमांससारस्य भीमसेनी च मर्दनी ॥ ४५ ॥
त्वग्रुधिरमांसमेदपर्यन्तेनाभिसंयुता ।
गुणाः सप्त भवन्त्यत्र स्फुटं ते कथयाम्यहम् ॥ ४६ ॥
निद्रां करोति प्रथमं तथा तेजः करोति च ।
शौर्यकरा दीपनी च अङ्गशुद्धिकरोति च ॥ ४७ ॥
कुरुतेऽत्यन्तशोभा च मनस्थिरकरा तथा ।
भीमसेनी च दातव्या मांससारस्य मर्दना । ४८ ॥
त्वग्रुधिरमांसपुष्टस्य लघुसारेण वर्द्धयेत् ।
करोति च गुणान्सप्त शृणु सर्वसुखावहान् ॥ ४९ ॥
उत्साहं कुरुते चाशु तथा ह्रादं करोति च ।
सुखं करोति परमं लाघवं कुरुते परम् ॥ ५० ॥
मेधां ददाति परमां तन्द्रां च हरयेत्सदा ।
एवं सा कुरुते भद्र श्वाससारस्य मर्दना ॥ ५१ ॥
तेन सर्वैस्तथा सेव्यो मल्लैः सर्वाङ्गसिद्धये ।
तथा मांसास्थिसारस्य लघ्वी देया च मर्दना। ॥ ५२ ॥
त्वग्रुधिरपुष्टिकरा प्रजाह्लादप्रदायिनी ।
चलकरा दीप्तिकरा चक्षुरारोग्यकारिणी ॥ ५३ ॥
कायाशोधकरा चैव कायामार्दवकारिका ।
मर्दनाय परा नास्ति कार्या सौष्ठवकारका ॥ ५४ ॥
अस्थिगता मांसगता तथा मलगतापि वा ।
श्रुता सा परमा गुह्या साम्या चैव पृथक् पृथक् ॥ ५५ ॥
प्रथमा भीमसेनी च तथा नारायणी परा ।
तृतीया चित्रिणी प्रोक्ता मसृणी च तथा परा ॥ ५६ ॥
चेतःप्रकरा चैवेयं कथिता कैटभारिणा ।
प्रथमा चरणे देया द्वितीया जानुनि न्यसेत् ॥ ५७ ॥
तृतीया च करे देया मसृणी पट्टके तथा ।
पुनश्चतुर्विधा देया द्वात्रिंशद्गुणकारिका ॥ ५८ ॥
तथा त्रयोदशगुणैर्हेतुभिर्नामदोहरा ।
श्रमहरा तथा वातहरा च कफहारिणी ॥ ५९ ॥