सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 88, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 88

नवमोऽध्यायः । ४३
हरीतकी सैन्धवं च हिंगु पिप्पली४१ नागरम् ।
गोलयित्वोपभुक्तेनै जाठरोग्निः प्रवर्धते ॥ ४३ ॥
हरीतक्येकादशगुणा विज्ञेया शास्त्रपारगैः ।
आयुष्या चक्षुष्या चैव लवणा मधुरा रसा ॥ ४४ ॥
तथोष्मदीपनी चैव दोषघ्नी शोषकुष्ठनुत् ।
व्रणान्यपाहरेद्वै वातानेकादशगुणा स्मृता ॥ ४५ ॥
पिप्पल्येकादशगुणा स्निग्धोष्णा मधुरापि च ।
रूक्षा च कटुका चैव दीपनी सारकारिणी ।
मरूश्लेष्मश्वासकासरोगवन्धविनाशिनी ॥ ४६ ॥
हिङ्गुश्चैकादशगुणो लघूष्णैः पाचनोपि४५ च ।
दीपनः कफवातघ्नः स्निग्धश्च कटुतिक्तकः४६ ।
शूलाजीर्णाविबन्धघ्नी चैवमेकादशेव तु ॥ ४७ ॥
सैन्धवश्च(स्य) नव गुणाः स्वादुवांलवणोत्कटः४८ ।
चक्षुष्यो रेचको वृष्यः४९ पाचनोप्यतिदाहकः ।
विबन्धघ्नो मलघ्नश्च नैवैते विमला गुणाः ॥ ४८ ॥
मया तव समाख्याताः सर्वे ते पुष्टिवेतवे ।
अन्यानि चापि वक्ष्यामि मल्लानां पुष्टिकारिणाम् ॥ ४९ ॥
ससत्वमत्स्यमांसानि५० दधिदुग्धघृतानि च ।
शाकमूलफलादीनि पानकानि बहून्यपि ॥ ५० ॥
तत्राङ्गीकृतैखण्डस्य संभवन्ति गुणास्त्विमे ।
वातहरं पित्तहरं तथैव च सुशीतलम् ॥ ५१ ॥

४१ पिंपरि P. ४२ गोलबिल्वो B. ४३ ब्रह्वन्पापहंरद्वातान् P. ४४ ह्युष्णश्च P.
४५ पाचनापि B. ४६ The line reads as दीपनी कफवातघ्नी स्निग्धा च कटुतिक्तका
in B. ४७ शूलाजीर्ण P. ४८ कटुः P. ४९ चक्षुरोगे च को वृष्यः ५० ससत्यमाष
द्विदल P. ५१ अंगीकृतस्य P.