सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

१६ मल्लपुराणे
मया तव समाख्याताँ: २६ सर्वे विजयहेतवे ।
२७ एवं गुणैश्च संयुक्तो ज्येष्ठी भवति सत्वरः ॥ ५१ ॥
२८इति श्रीमल्लपुराणे चतुःष्पात्रवर्णनं नाम द्वितीयो[ तृतीयो ]ऽध्यायः
२६ गुणा मया समाख्याताः P. २७ Line not found in P. २८ In B
the Colophon reads as under इति श्रीमल्लपुराणे चतुःपात्रप्रकरणं तृतीयम् ।


(Right page fragment)
श्रीकृष्ण उवाच ।
अथा
उत्तम
सुप्रा
स्वस्थ
सुवि
स्कन्
भुजै
तथ
कनि
विक्रे
शौ
द्वा
अ
वि
म
ग्री
वा
क
१ उत्तमा
विस्तीर्णे कथ्यते P.
८ The whol
३

चतुर्थोऽध्यायः ।
श्रीकृष्ण उवाच ।
अथाङ्गानां विवेकं च विविधं कथयाम्यहम् ।
उत्तमाधममध्यैश्च¹ भेदैः शृणु समाहितः ॥ १ ॥
सुप्राणस्तु² सुसंस्थानः सुशरीरस्तु मांसलः ।
स्वस्थश्चैव सुगात्रश्च समभ्यस्तवरासनैः³ ॥ २ ॥
सुविस्तरखरोऽथोपि नेत्रविस्तर एव च ।
स्कन्धयोरपि विस्तीर्णो ग्रीवाविस्तीर्णर्कस्तथा⁴ ॥ ३ ॥
भुजौ च (चापि) सुविस्तीर्णौ⁵ बाहुविस्तीर्ण एव च ।
तथा प्रकोष्ठविस्तीर्णो⁶ विस्तीर्णाङ्गुलिरेव च ॥ ४ ॥
कटिविस्तीर्ण एव स्यात् जङ्घाविस्तीर्ण एव च ।
विज्ञेयो जानुविस्तीर्णो चित्तविस्तीर्ण एव च ॥ ५ ॥
शौर्यस्य विस्तरः क्वापि गुणानां विस्तरोऽपि च ।
द्वात्रिंशत् कथिता ह्येते विस्तारा जयदायकाः ॥ ६ ॥
अथोत्तममध्यगानामुच्यन्ते लक्षणानि च ।
विशेषमविशेषं वा ज्ञायंते⁷ तेन तत्त्वतः ॥ ७ ॥
मध्यस्थूल उरःसूक्ष्मः स्कन्धस्थूलस्तथापरः ।
ग्रीवायामतिसंकीर्णो न स मल्लः प्रशस्यते ॥ ८ ॥
बाहुस्थूलो भवेत्कश्चित् संकटो भुजशीर्षयोः ।
कश्चित् प्रकोष्ठसंकीर्णो विस्तीर्णः स्थूलहस्तयोः ॥ ९ ॥
१ उत्तमान्ममध्यमांश्चैव P. २ सुप्राणस्तु च P. ३ समभ्यस्तवशासनः P. ४ ग्रीवा
विस्तीर्ण कथ्यते P. ५ भुजौ च करवितीर्णौ P. ६ तथा प्रकोष्ठविस्तीर्णो P. ७ ज्ञायते P.
८ The whole line is not found in B.
३

१८ मल्लपुराणे
कस्यैव च स्फिचौ^९ स्थूलौ संकीर्णा च भवेत् कटिः ।
कृशजङ्घो भवेत् कश्चित् स्थूलजानुरपि स्मृतः ॥ १० ॥
अधोर्ध्वविस्तरः कश्चित् अर्धसंकीर्ण^१० एव च ।
अंधोविस्तर एव स्यात् उर्ध्वसंकीर्णवान् भवेत्^११ ॥ ११ ॥
वाचा शूरश्चित्तभीरुः कायस्थूलस्तथापरः^१२ ।
प्राणहीनश्च विज्ञेया विंशतिर्मध्यमा इमे ॥ १२ ॥
अथाधमाङ्गानां(ङ्ग) कथने^१२ मल्लाश्चलितलक्षणाः ।
भवन्ति निन्दिता ये तु लोकेऽस्मिन् गुणवर्जिताः ॥ १३ ॥
अतिदीर्घश्च सर्वत्र तथा विकृश एव च ।
अतिक्रमोथ सूक्ष्मास्यैः^१३ कृशाङ्गोऽथ^१४ नपुंसकः ॥ १४ ॥
कुष्टाङ्गश्चै सदोषाङ्गः स्कन्धो वातुल एव च ।
अतिभीरुस्तथालस्यो^१५ मूर्खोऽप्यतिशयेन च^१६ ॥ १५ ॥
अप्राणवांश्च मन्दाग्निरित्येते चाधमाः स्मृताः ।
अङ्गानि षोडशोक्तानि निन्दितान्यङ्गसङ्गरे ॥ १६ ॥
श्रीकृष्ण उवाचँ^१७ ।
पञ्चाङ्गाश्च भवन्त्येते मल्लास्तान् कथयाम्यहम् ।
अस्थिसारो मांससारो मेदसारस्तथैव च ॥ १७ ॥
कोऽप्यस्थिमांससारः स्यादन्यो मेदाभिसारवान्^१८ ।
तेषां तु भेदा वक्तव्या निरूप्यन्ते यथार्थवत् ॥ १८ ॥
स्थूलास्थिः स्थूलसन्धिश्च स्वल्पमांसोऽल्पप्राणवान्^१९ ।
श्रमणो^२० अमणकः कश्चिदल्पश्रमकरस्तथा ॥ १९ ॥
९ स्फिजौ B. १० अर्ध P. ११ ऊर्ध्वसंकीर्ण एव च B. १२ कथा P. १३ अतिविक्रमसूक्ष्मांगः B. १४ अष्टांगश्च B. १५ तथा तस्य P. १६ वा P. १७ This is redundant here. Not found in P. १८ मन्दाग्नि P. This should be मेदास्थि° (Vide v 29.) १९ स्वल्पांतो B. २० श्रमणो B.

चतुर्थोऽध्यायः । १९
तथा शौर्येण संयुक्तः तथा चाप्रियदर्शनैः ।
इत्यष्टावस्थिसारस्य भेदाः प्रकथिता मया ॥ २० ॥
इदानीं मांससारस्य कथ्यते गुणविस्तरः ।
सुप्रमाणो२२ न सूक्ष्मास्थिर्न स्थूलास्थिर्भवेत्यपि ॥ २१ ॥
मध्यस्थास्थिरसौ नैव बहुमांसो न शस्यते ।
नाल्पमांसो हि बलवान् सममांसस्य चोदयः ॥ २२ ॥
बलवर्धनलीनाङ्गो बद्धदृढतनुस्तथा ।
लीनशौर्यगुणोपेतः सर्वेषामुत्तरोत्तरः ॥ २३ ॥
प्राणवांश्च श्रमसहस्तथैव च जितश्रमः ।
कथिता मांससारस्य गुणा एते चतुर्दशैं ॥ २४ ॥
अथातो मेदसारस्यै गुणानामेकविंशतिः ।
मध्यस्थूलो भवेत् कश्चित् सूक्ष्मोऽन्यः करपादयोः ॥ २५ ॥
सूक्ष्मास्थिरल्पमांसश्च बहुमेदः श्रमार्थभाक् ।
श्वासाधिकः स्वल्पबलो व्यायामेऽशक्य एव च ॥ २६ ॥
निद्रापरः शय्यापरो बह्वाशी बहुपानकृत् ।
सेवापरः शीतसहः सदा घर्मेणैं पीड्यते ॥ २७ ॥
बहुश्रमः सूक्ष्मास्योऽधर्ध्वस्वरो भीरुरधस्तथाँ ।
सस्वेदवान् वातसहो गुणा इत्येकविंशतिः ॥ २८ ॥
अथास्थिमेदसारस्य गुणाः सप्तदश स्मृतौँ ।
पृथुलास्थिस्वरूपोऽपि मांसलो मेदकैंस्तथा ॥ २९ ॥
कश्चित् स्थूलोदरोऽपि स्यात् सूक्ष्मवक्षःस्थलोऽपि च ।
स्थूलस्कन्धः प्रौढबाहुरल्पजङ्घो भवत्यपि ॥ ३० ॥
२१ तथा वा प्रियदर्शनः P. २२ सुप्राणेन P. २३ चतुर्दशाः P. २४ मेदसीरस्य P.
२५ धर्मेण P. २६ भीसरधस्तथा P. २७ स्तथा B. २८ मेदिन B.

पृष्ठम् २०

२० मल्लपुराणे
अल्पसत्त्वैः२९ पृथुश्चैव तथोष्मसह एव च ।
आहारवान् श्वासपरः प्राणवान् स्थिरयुद्धकृत् ॥ ३१ ॥
दृष्टभीरुक३० स्वभावात् स स्थिरश्चैवाङ्गसङ्गरे ।
इत्यास्थिमेदसारस्य गुणाः सप्तदश स्मृताः ॥ ३२ ॥
अथास्थिमांससारस्य गुणाः षोडश प्रोच्यते(न्ते) ।
शोभनास्थिवयश्चैव तथा वशशरीरवान् ॥ ३३ ॥
सममांसः समास्थिश्च किञ्चित् कायेन मेदुरैः३१ ।
पित्तविस्तारवांश्चापीनतनुवाक्३२ च कचिद्भवेत् ॥ ३४ ॥
न ह्रस्वः कचिदङ्गेषु सप्रमाणश्च सर्वदा ।
समप्राणः समशौर्यस्तंथैव समसत्वरः ॥ ३५ ॥
ऊर्ध्वभद्रप्रयोद्धा च अर्धभद्रप्रयुद्धकृत् ।
अधोर्ध्वभद्रयोधी च सर्वयुद्धकरस्तथा ॥ ३६ ॥
अष्टाङ्गभद्रयोधी च गुणाः षोडश संख्यया ।
इत्यङ्गानां च पञ्चानां गुणाः संकीर्तिता३३ मया ॥ ३७ ॥
इति श्रीमल्लपुराणे पचाङ्गमल्ललक्षणं नाम तृतीयो [चतुर्थो]ऽध्यायः३४ ।

२९ अल्पसत्य P. ३० दृष्टभीरुः B ३१ मेदरः P. ३२ चतुरवाक् P.
३३ प्रकीर्तिता P. ३४ In B the colophon reads as under—इति मल्लपुराणे
पंचाङ्गमल्ललक्षणप्रकरणं चतुर्थम् ।


पृष्ठम् २१ (अंशतः दृश्यम्)

भवन्त्येष्ट...
युवा च...
अपरश्चा...
भविष्यो...
चतुर्भेदैश्च...
गजःसिंहो...
यस्य येन...
हितोपदे...
श्रीकृष्ण उवाच ।
अथ मल्ल...
गजो वृष...
त्रिंशद्वर्षा...
आहारो...
त्रिचत्वारि...
श्रमैरभ्या...
धारयन्त्य...
अधोर्ध्वं...
सर्वाभ्यासे...
वृषभश्च न...

१ भवन्त्य P.
४ आहारे P. ५ प्रवत...
९ प्राणोनापि P. १० र...

पञ्चमोऽध्यायः ।
भवन्त्येष्टाविधा मल्लाः कथयामि यथा तथा ।
युवा च प्राणवांश्चैव ज्येष्ठी चैव तथा परः ॥ १ ॥
अपरश्चान्तरज्येष्ठी तथा गोपकुलोऽपि च ।
भविष्यो बालवृद्धौ च कथिताश्चाष्टधा इमे ॥ २ ॥
चतुर्भेदैश्च भिन्नास्ते शत्रोजैर्यगुणोदयैः ।
गजःसिंहो वृषश्चैव मृगोऽपि च तथा परः ॥ ३ ॥
यस्य येन यथा युद्धं सोमेश्वर तथा शृणु ।
हितोपदेशं विविधं विचार्य कथयाम्यहम् ॥ ४ ॥
श्रीकृष्ण उवाचै३ ।
अथ मल्लाश्च चत्वारो भवन्ति निजकैर्गुणैः ।
गजो वृषो मृगः सिंहो भविष्यः पञ्चमो मतः ॥ ५ ॥
त्रिंशद्वर्षादिपर्यन्तं प्रवृत्तिः सङ्गमेन च ।
आहारो४ न प्रवर्तते५ सर्वेषां भविता गुणाः ॥ ६ ॥
त्रिचत्वारिंशद्वर्षाणि मल्लाश्चत्वार एव च ।
श्रमैरभ्यासैराहारैः संयमेन६ निरन्तरम् ॥ ७ ॥
धारयन्त्यात्मनो७ विद्यां गुणांश्चापि यथा तथा ।
अथोर्ध्वं८ यावत् पञ्चाशत् प्राणेनापि९ बलेन च ॥ ८ ॥
सर्वाभ्यासेन१० शौर्येण कालेनापि पुनः पुनः ।
वृषभश्च मृगश्चैव सिंहश्चापि तथा पुनः ॥ ९ ॥

१ भवन्त्य P. २ शत्रुंजय P. ३ redundant and not found in P.
४ आहारे P. ५ प्रवर्तंते P. ६ संयामेन P. ७ धारयंत्वात्मनो P. ८ अथार्द्धम् P.
९ प्राणोनापि P. १० सर्वायासेन P.

२२ मल्लपुराणे
अथैषामेवे मल्लानां धार्यमाणा अपि ध्रुवम् ।
गुणाः प्रयान्ति व्यसनैः कालस्यापि क्रमादपि ॥ १० ॥
वर्जयित्वा गजं तस्य षष्टिवर्षाणि योग्यता ।
वृषसिंहमृगांश्चापि तेनैव व्यतिरिच्यते ॥ ११ ॥
अन्यानपि गुणान् सर्वान् कथयामि गजस्य च ।
यैः षष्टिवर्षपर्यन्तं विद्या संधौर्यते ध्रुवम् ॥ १२ ॥
उद्यमश्चैव व्यायामैरमित्याहार एव च ।
आरोग्यवान् धर्मवांश्च श्रमवानर्थवानपि ॥ १३ ॥
सहायवान् बुद्धिमांश्चै बलवान् प्राणवानिति ।
गजस्तु धारणेरेतैः षष्टिवर्षाणि दुर्जयः ॥ १४ ॥
शृणु सोमेश्वरात्रैव एकाग्रहृदयोऽधुना ।
गजस्तु धारयेद्यांस्तु गुणांस्तान् कथयाम्यहम् ॥ १५ ॥
वपुषा धातव (धातुतः)श्चैव बलवान् प्राणवांस्तथा ।
स्नेहसारस्तथा शूर एते शारीरिकौ गुणाः ॥ १६ ॥
एतैर्गुणैः सदा मल्लो गजश्चैवोपलक्ष्यते ।
सिंहोऽपि सहजैस्तद्वदेतैर्द्वादशभिर्गुणैः ॥ १७ ॥
उरसा चातिविस्तीर्णः कटिविस्तारवांस्तथा ।
मध्ये क्षामोदरः स्कन्धः (न्धे) प्रकोष्ठे स्थूल एव च ॥ १८ ॥
तेजोवान् स्फूर्तिमांश्चैव लघुवेगश्च सर्वदा ।
वपुषो विस्तरश्चैव तथैवोत्पतने गतिः ॥ १९ ॥
शीघ्रप्राणः शौर्यवांश्च सिंहस्य कथिता गुणाः ।
वृषोऽपि जायते यैस्तु गुणांस्तान्कथयाम्यहम् ॥ २० ॥
११ अथैष्यमेव B. १२ च धार्यते P. १३ बुद्धिवांश्च B. १४ शारीरिका B.
१५ तथैव पतने P.

पञ्चमोऽध्यायः । २३
सुशरीरः सुप्रमाणः पृथुलः कठिनोऽपि^{१६} च ।
पादारोपी^{१७} भारसहो युद्धशूरो जितश्रमः ॥ २१ ॥
अष्टौ गुणा भवन्त्येते ज्ञातव्याश्च स्वभावजाः ।
अथेदानीं मृगस्यापि गुणान् वक्ष्यामि तत्त्वतः ॥ २२ ॥
बली वशी भीरुकश्च^{१८} सूक्ष्मपादकरोऽपि च ।
सुतनुश्च सुवेगश्च तथैव व्यवसायवान् ।
अल्पश्रमश्च सप्तैते मृगस्य सहजा गुणाः ॥ २३ ॥
इति श्रीमल्लपुराणे गजसिंहमृगवृषभमल्लस्वरूपो नाम चतुर्थो [पञ्चमो ]ऽध्यायः^{१९} ।
१६ कतिनोऽपि P. १७ पादरोपी B. १८ भरुक P. १९ In B the colo-
phon reads as under—इति श्रीमल्लपुराणे गजसिंहमृगवृषभमल्लस्वरूपप्रकरणं पञ्चमम् ।

षष्ठोऽध्यायः
श्रीकृष्ण उवाच॑ ।
भवन्ति सर्वसामान्याः सप्तत्रिंशदिमे गुणाः ।
घातपातस्तथालातः स्थानकं लाग एव च ॥ १ ॥
भारः श्रमैः श्रुतिश्चैव बहु दृष्टासनं तथा ।
धारणं रोधनं चैव तथा निर्जनतर्जनम् ॥ २ ॥
ताकणं सोष्टवर्णं (च) पालंनं व्यवसायिकम् ।
प्राणश्चैव तथा शौर्यं कचिदुत्थार्पनं भवेत् ॥ ३ ॥
क्वचित् प्रवि(वे)शनं प्रौढिः पटुश्च सहजं कचित् ।
धारणेऽप्यधिका शक्तिंस्तथा निस्सरणेऽपि च ॥ ४ ॥
ताकणे रक्षणे कोऽपि शक्ति(क्त)श्चालनकेऽपि च ।
फरकणे शक्तः कोऽपि स्याद् पटुः कोऽपि वर्जने ॥ ५ ॥
रुन्धने चोत्कटः कोऽपि लागेपि मतिमानपि ।
गोप़णे(ने) निपुणः कोऽपि युद्धेपि निपुणो भवेत् ॥ ६ ॥
कक्षालमः परः कोऽपि दण्डिकालम एव च ।
वहणे लग्नः कोऽपि स्यादोजोलमस्तथैव च ॥ ७ ॥
चोडिलम्भो भवेत्कश्चित् सप्तत्रिंशदिमे गुणाः ।
कथिता लौकिकैः शब्दैस्तथोक्ता मल्लभाषयां ॥ ८ ॥
पञ्चसारो भवेत्कश्चिज्जानुसारस्तथा परः ।
इत्यङ्गसारतां ज्ञात्वा तत्र कर्माणि कारयेत् ॥ ९ ॥

१ Not seen in P. २ त्वाल P. ३ भारश्रमः P. ४ दुःखासनम् B.
५ पालन P. ६ द्रुतगणं B. ७ क्वचित्प्रविसनं प्रौढिः पटुः सहजं क्वचित् P. ८ ॰प्यधिक-
शक्तिश्च P. ९ मत्रभाषया B.


१० ऐतैर्यु-
as कटिस्थानानि
१६ Verses be-
(first half) a
४

षष्ठोऽध्यायः । २५
एतैर्युक्तास्तुं१० ये मल्लास्तानहं कथयामि ते ।
उरःसारः स्कन्धसारो११ भुजसारस्तथैव च ॥ १० ॥
कटिसारो भवेत् कश्चिज् जानुसारस्तथा परः ।
पञ्च स्थानानि मल्लानां शस्यन्ते युद्धकर्मणि ॥ ११ ॥
पुनश्च कथयिष्यामि यथोपायं यथौ१२गुणम् ।
स्कन्धस्थानं भुजस्थानं उरस्थानं तथैव च ॥ १२ ॥
कटिस्थानं तथैवान्यत् जानुस्थानमतः परम्१३ ।
पञ्च स्थानानि विज्ञाय स्वशरीरे यथार्थिनः(र्थतः) ।
तने(नौ) तेनौ१४नुसारेण मल्लः कर्म१५ समाचरेत् ॥ १३ ॥
इत्याङ्गविभागः ।
अथात्र कथ्यते तावद् रङ्गभूमेस्तु लक्षणम् ।
जातिवर्णप्रमाणादि बहुभेदसमन्वितम् ॥ १४ ॥
नित्याँ१६भ्यासहिता भूमी रङ्गभूमिः प्रकीर्तिता ।
सैवाखा(षा)ढकनाम्नी च प्रसिद्धा परमा मता ॥ १५ ॥
तस्यास्तु लक्षणं वक्ष्ये जातिवर्णप्रभेदतः ।
सुलक्षणजयस्थानं हानिस्यानमलक्षणाः(णम्) ॥ १६ ॥
निम्नोन्नतसमत्वेन त्रिविधा भूमिका भवेत् ।
निम्नोन्नतां परित्यज्य तत्राङ्गीक्रियते सदा ॥ १७ ॥
आखा(षा)ढकप्रमाणं तु त्रिविधं परिकीर्तितम् ।
देवमानं दैत्यमानं मर्त्यमानं तथैव च ॥ १८ ॥
एकोत्तरं हस्तशतं देवमानं प्रकीर्तितम् ।
दैत्यानामेव पञ्चाशत् मर्त्यानामेकविंशतिः ॥ १९ ॥
१० ऐतैर्युता B. ११ स्कन्धशिरो P. १२ तथागुणम् P. १३ The line reads
as कटिस्थानानि विज्ञाय स्वशरीरे यथार्थिनः in B. १४ तनु B. १५ मल्लकर्म B.
१६ Verses beginning from this Śloka upto Adhyāya 87 Śloka 3
(first half) are not found in the printed text.
४

२६ मल्लपुराणे
चतुरस्रं त्रिकोणं च वर्तुलं च तथैव च ।
ब्राह्मणी शुक्लवर्णा च पीता क्षत्रियभूमिका ॥ २० ॥
श्यामवर्णा तथा शूद्री बहुवर्णा तथाधमा ।
उत्तमाधममध्यास्तु भूमयो बहुभेदतः ॥ २१ ॥
कर्करैर्लाञ्छिता भूमिर्लोहकाष्ठविदूषिता ।
पाषाणैः कण्टकैर्वापि कुट्टेनापि पटेन च ।
वर्जनीया प्रयत्नेन दुःखदा सर्वदा नृणाम् ॥ २२ ॥
इति भूमिशुद्धिः ।
प्रथमं प्रातरुत्थाय मल्लैः कर्तव्यमादरात् ।
मलमूत्रविशुद्धिं च ( द्विध्व ) दन्तधावनमेव च ॥ २३ ॥
गण्डूषैर्मुखशुद्धिश्च मुखप्रक्षालनं तथा ।
संध्यादिकं च निर्वृत्य रङ्गं गच्छेत् समाहितः ॥ २४ ॥
गत्वा च प्रथमं ज्येष्ठो प्राणायामं च कारयेत् ।
भूमिवन्दनपूर्वं च कारयेच्च ततः श्रमम् ॥ २५ ॥
बालवृद्धान्धबधिरछिन्नाङ्गक्रोधिरोगिणः ।
पिशुनानृतपाषण्डान् मत्तप्रलपिनस्तथा ॥ २६ ॥
धूर्तार्तकुष्ठिकितवचौरचण्डालमायिकान् ।
वर्जयित्वा तथैवान्यान् श्रमकाले तथा स्त्रियः ॥ २७ ॥
उच्चैः प्रहसनं कासष्ठीवनं क्षुतमेव च ।
विवादं रुदितं चैव दूराध्वानं तथैव च ।
वर्जनीयं प्रयत्नेन मल्लेन जयमिच्छता ॥ २८ ॥
पञ्च प्रदक्षिणं कृत्वा प्रणम्य विधिपूर्वकम् ।
वेदिकामुपविश्याथ कर्तव्यं जटबन्धनम् ॥ २९ ॥
तथैव प्रदक्षिणं कृत्वा प्रणम्य विधिपूर्वकम् ।
विविधं जटबन्धं च संक्षेपं च क्रियापरम् ॥ ३० ॥

षष्ठोऽध्यायः । ३७
शय्यासनोपानहादि त्यजेत् चैवासनादिकम् ।
शिरःप्रच्छादनं चैव रङ्गभूमौ विवर्जयेत् ॥ ३१ ॥
आचम्य च शुचिर्भूत्वा ततो रङ्गं समाविशेत् ।
साधयेद्देव मन्त्रेण स्थापयेच्च सुदर्शनम् ॥ ३२ ॥
सर्वकामप्रदः कृष्णः स च तत्र प्रतिष्ठताम् ।
आस्वा(षा)ढक नमामि त्वां देहि मम जयश्रियम् ॥ ३३ ॥
उद्दामदर्पदैत्येन्द्रवधूर्वैधव्यदायिने ।
सुदर्शन नमस्तुभ्यं जयदे(द) समरप्रियम्(य) ॥ ३४ ॥
वामे पार्श्वे हरैर्यस्य दक्षिणे शशिशेखरः ।
नाभौ पद्मभवो ब्रह्मा सदा हस्तेषु मातरः ॥ ३५ ॥
कृष्णमूर्तिरियं ध्यात्वा तथा चावरणं शुभम् ।
आयुरारोग्यवीरश्रीविजयोत्साहबलप्रदम् ।
श्रीनिधेऽस्तु नमस्तुभ्यं दुरितं मे प्रणाशय ॥ ३६ ॥
इति आवरणकमन्त्रः ।
हलधरो धराधरो रत्नभूषितपन्नग ।
वासुकेऽस्तु नमस्तुभ्यं जयं लक्ष्मीं च देहि मे ॥ ३७ ॥
वासुकेर्वरमूर्तिं च ध्यात्वाचम्य विधानतः ।
गृहीत्वा स्वाशिखां बन्धेत् सुदृढं ग्रन्थिभिस्त्रिभिः ।
इति कृत्वा मन्त्रविधिं कथितं भृगुणा पुरा ॥ ३८ ॥
प्रशस्तः कच्छबन्धश्च कच्छामन्त्रविधानतः ।
करास्फोटनं त्रिविधं समलीनोन्नतं बलात् ॥ ३९ ॥
उन्नतस्वरसंलापः सिंहस्य(च) प्रकीर्तितम् ।
समं वृषस्य निर्दिष्टं स्वभावान् मधुवैरिणा ॥ ४० ॥
करास्फोटप्रमाणं तु कृत्वा रङ्गसमीपतः ।
पद्मासनेनोपविशेद् गजो ज्येष्ठौ कृतोत्सवः ॥ ४१ ॥

२८ मल्लपुराणे शत्रुकला ॥ २०
आन्तरज्येष्ठिना सार्ध तथा गोपकुलैःसह । परमल्लकला ॥ २
बालवृद्धभविष्यैश्च ततो वन्देत् वसुन्धराम् ॥ ४२ ॥ बुद्धिकला ॥ २८
समुद्धृतासि हरिणा वसुधे बलदायके । आलस्यकला ॥ ३
देहस्य भूषणं देहि पवित्रे शुभलक्षणे ॥ ४३ ॥ ॥ ३५
इत्युक्त्वा च प्रणम्येनां गृहित्वा चैव मृत्तिकाम् । कालकला ॥ ३९
ततः सार्धं समायुक्ताः सर्वाङ्गं विनिलेपयेत् ॥ ४४ ॥ इत्ये
मल्लाः पञ्च भवन्त्येते गजः सिंहो वृषो मृगः । मलि
भविष्यः पञ्चमो ज्ञेयः पञ्चैषामासनानि च ॥ ४५ ॥
विद्याभ्यासेन पञ्चैते भवन्ति ज्येष्ठिनः क्रमात् ।
आसनैरुपविशन्ति स्वैः स्वैः सर्वेऽपि सादराः ॥ ४६ ॥
गजः पद्मासनं कुर्यात् सिंहोऽपि गरुडासनम् ।
फणासनं मृगः कुर्यात् वृषोऽपि कुक्कुटासनम् ॥ ४७ ॥
भविष्योऽपि तथा कुर्यादासनं जघनोपरि ।
कारयेच्च श्रमं पश्चात् प्रकुर्यात् स्वयमेव च ॥ ४८ ॥
मतिकारस्येदानीं कथ्यन्ते बहवो गुणाः ।
मल्लान् न विकारयति मतिकारस्तदुच्यते ॥ ४९ ॥
चत्वारिंशत् सदैकेन गुणास्तस्य प्रकीर्तिताः ।
मानसः सर्वदा मल्लैर्धारणीयाः समीपतः ॥ ५० ॥
विना तेन प्रणश्यन्ति गजा इव निरङ्कुशाः ।
मतिकारः प्रयत्नेन रक्षणीयश्च सर्वदा ॥ ५१ ॥
आत्मकला ॥ १ ॥ परकला ॥ २ ॥ स्थानकला ॥ ३ ॥ घातकला ॥ ४ ॥
पञ्चतालकला ॥ ५ ॥ गोकला ॥ ६ ॥ बाहोर्घातकला ॥ ७ ॥ पञ्च तथैव स्थानककलाः
॥ ८ ॥ आसनकला ॥ ९ ॥ ज्येष्ठिधारणे कला ॥ १० ॥ रुन्धानकला ॥ ११ ॥ ताकणे
कला ॥ १२ ॥ विज्ञानकला ॥ १३ ॥ सो(सौ)ष्ठवने कला ॥ १४ ॥ वेसुकला ॥ १५ ॥
रक्षणे कला ॥ १६ ॥ निस्सरणे कला ॥ १७ ॥ चालने कला ॥ १८ ॥ स्वकीये कला ॥ १९ ॥

षष्ठोऽध्यायः । २९
शत्रुकला ॥ २० ॥ मित्रकला ॥ २१ ॥ दारुणकला ॥ २२ ॥ आत्ममल्लकला ॥ २३ ॥
परमल्लकला ॥ २४ ॥ स्वरस्यकला ॥ २५ ॥ कातरकला ॥ २६ ॥ त्राणकला ॥ २७ ॥
बुद्धिकला ॥ २८ ॥ श्रमकला ॥ २९ ॥ युद्धकला ॥ ३० ॥ आहारकला ॥ ३१ ॥
आलस्यकला ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥
॥ ३५ ॥ ॥ ३६ ॥ रङ्गकला ॥ ३७ ॥ आवेशकला ॥ ३८ ॥
कालकला ॥ ३९ ॥ राजकला ॥ ४० ॥ समाकला ॥ ४१ ॥
इत्येकचत्वारिंशत्कलाभिरुपशोभितः ।
मतिकारः स विज्ञेयः तस्य कर्म समाचरेत् ॥ ५२ ॥
इति षष्ठं कलाप्रकरणम् ॥

सप्तमोऽध्यायः ।
आखा(घा)ढस्य समीपस्था ये कार्याः स्वराःकिल ।
तत्सर्वं कथयिष्यामि योगक्षेमार्थसिद्धये ॥ १ ॥
छेदो मारस्तथा भङ्गः पात उत्पातकस्तथा ।
रजस्वलानामकृतं रुदितं मृतकस्वरः ॥ २ ॥
प्रेतराक्षसभूतादिस्मरणं वज्रनिस्वरः(नः) ।
तपस्विगृध्रसर्पाणां नामसंकीर्तनं परम् ॥ ३ ॥
ये चान्ये कुत्सिताः शब्दाः श्रमकाले न शोभनाः ।
सुदर्शनेन मन्त्रेण तेषां च रक्षणं शुभम् ॥ ४ ॥
दशविधानां शब्दानां महान्तो विदिता गुणाः ।
कश्चित्परं घातयति परेणापि न घात्यते ॥ ५ ॥
स्थानकादाकर्षयति कोऽपि नाकृष्यते परैः ।
गृह्णात्यन्यस्य विज्ञानं नान्येन शब्दोऽपि गृह्यते ॥ ६ ॥
क्वचित्परं चालयति न परेणापि चाल्यते ।
क्वचित्परं त्रोट

सप्तमोऽध्यायः । ३१

एवमाकारजं स्थानं भेदजातीश्चतुर्विधाः ।
षट्प्रकाराणि निश्चित्य घातोपि क्रियते सदा ॥ १२ ॥
अजाघातः प्राणघातो घातो वह्निपूर्वकम् ।
वोजो(ओजो)वह्निघातश्च चतुर्थः परिकीर्तितः ॥ १३ ॥
ऊर्जः प्राणभवो घातः पञ्चमः कोऽपि कथ्यते ।
ओजोवह्निघातश्च षष्ठश्च परिकीर्तितः ॥ १४ ॥
षडिति(डेते) कथिता घाताः षटत्रिंशत् प्राणसंयुताः ।
येनाभ्यासेन सदा मल्लो रिपुयुद्धे जयी भवेत् ॥ १५ ॥
केशाकर्मणघातस्तु प्रथमः परिकीर्तितः ।
स्कन्धस्फोटनघातोऽपि हस्तेनैकेन सादरः ॥ १६ ॥
द्विहस्ताभ्यां च घातोऽयं स्कन्धास्फोटनसंभवः ।
दण्डाघातस्तथैवान्यो ज्ञातव्यो दृढबुद्धिभिः ॥ १७ ॥
कर्णतालविधातोपि पार्श्वघातस्तथापरः ।
ग्रीवावलवदाघातो घातो निजकरस्तथा ॥ १८ ॥
भुजघोटनघातोपि घातः करतलहस्तयोः (स्य यः) ।
द्विभुजाघोटनं चास्ति कथिताश्चान्येऽपि (श्चापि) सूरिभिः ॥ १९ ॥
घातोऽन्यो बाहुजानुना शिरसो घातकस्तथा ।
कक्षातलविधातस्तु मुष्टिघातस्तथा परः ॥ २० ॥
कक्षाकर्मणघातश्च चरणघातक एव वा ।
आकृष्य चरणाघातश्चरणे परिकीर्तितः ॥ २१ ॥
जङ्घास्फोटनघातोपि घातश्चरणपीडनात् ।
अथातो वरघातश्च पाशघातस्तथैव च ॥ २२ ॥
दण्डाघात उरोघातो घातोपि गजहस्तजः ।
प्राणघातस्तथोत्क्षिप्तो घातश्च कथितः परः ॥ २३ ॥

३२ मल्लपुराणे
अङ्गन्यासाविघातास्तु बुधैः संपरिकीर्तिताः ।
जाह्नवो(नू)परि विघातेऽपि घातस्तु भवति क्वचित् ॥ २४ ॥
बाहुभुजविघातोऽपि नियुद्धज्ञैरुदीरितः ।
षष्ठि(पृष्ठ)कक्षावधोऽपि गजघातस्तथा परे ॥ २५ ॥
षटत्रिंशदिमे घाताः कथिताः संख्यया स्फुटम् ।
विज्ञाय(ज्ञेया) यत्नतो मल्लैर्नियुद्धकुशलैस्तदा ॥ २६ ॥
इति श्रीमल्लपुराणे अङ्गघातप्रकरणं सप्तमम् ।

अष्टमोऽध्यायः ।
तालाः पञ्चविधा ज्ञेया यथोक्तास्तान् निरूप्यते ।
आत्मतालः परतालः क्रियातालस्तथैव च ॥ १ ॥
समतालः शून्यतालो ज्ञातव्याः संप्रयत्नतः ।
एतान् ज्ञात्वा सदा मल्लो नियुद्धविजयी भवेत् ॥ २ ॥
सर्वदैव हि मल्लानां दृष्टिर्भवति पञ्चधा ।
प्रथमं चित्तदृष्टिश्च^१ चक्षुर्दृष्टिस्तथैव च ॥ ३ ॥
वाक्यदृष्टिः श्रुतिदृष्टी^२ रङ्गदृष्टिस्तथैव च ।
एवं च पञ्चधा दृष्टिर्मल्लानां भवति ध्रुवम् ॥ ४ ॥
अथाङ्गलागाः कथ्यन्ते संख्यया च चतुर्दश ।
यैरङ्गैर्लभ्यते शक्त्या प्राप्यते च महत्फलम् ॥ ५ ॥
जूटके^३ कथ्यते लागः स्कन्धो हस्तेन लाग्यते ।
एकहस्तेन लागश्च द्विहस्तेनैव वा पुनः ॥ ६ ॥
कक्षातलेन लागोऽपि लागो हस्तेन बाहुनाँ^४ ।
पृष्ठलागो वंशलागः कटिलागंस्तथा पुनः ॥ ७ ॥
तथैवोदर्रलागोऽपि लागो निर्मितिपूर्वकः ।
हस्तधारणलागोऽपि लागश्चरणधारणात् ॥ ८ ॥
निराधारोऽपि लागःस्यादिति लागाश्चतुर्दश !
कर्त्तव्यास्तु यथास्थानं यथासमयमेव चैं^७ ॥ ९ ॥
अथ द्वादश स्थानानि कथ्यन्ते मल्लकर्मणि ।
जयस्थानक्रमप्यत्र चतुर्धा परिकीर्तितम् ॥ १० ॥

१ चित्तमदृष्टि P. २ स्तुतिर्दृष्टि P. ३ जूठके P. ४ बाहुतः P. ५ कूटलागे B.
६ तथैवोदरगो P. ७ वक्षे यथायमेव च P.
'१

३४ मल्लपुराणे
शिरसि स्थानकं प्रोक्तं स्थानं करतलेऽपि च ।
उदरस्थानकं वापि पृष्ठस्थानमतः परम् ॥ ११ ॥
समास्थानकमप्येवं चतुर्धा परिकीर्त्यते ।
प्रथमं स्थानकं ज्ञेयं चरणेन च धारणम् ॥ १२ ॥
शिरोधारणमप्यत्र जङ्घाभ्यां धारणं परम् ।
अन्योन्यकरपादाभ्यां धारणं परमं स्मृतम् ॥ १३ ॥
समस्थानकमप्येवं चतुर्धा परिकीर्तितम् ।
उपस्थानानि चत्वारि श्रूयतां च यथा तथा ॥ १४ ॥
कराभ्यां धारणं स्थानं स्थानं कक्षावधारणम् ।
अर्धाङ्गधारणं चैव जानुद्वयविधारणम् ॥ १५ ॥
इत्येवं द्वादशाङ्गेषु स्थानकानि भवन्ति च ।
अष्टादशप्रकारेण शिरः१०पूर्वकमासनम् ॥ १६ ॥
अग्रासनं च प्रथमं पश्चादासनमप्यर्थै ११ ।
मध्यासनं तथैवान्यत् सिंहासनमपीक्ष्यते ॥ १७ ॥
कूर्मासनमपि श्रेष्ठं दर्दुरासनमुच्यते ।
गजासनं समुद्दिष्टं ततोर्धासनमुच्यते ॥ १८ ॥
शिरासनं तु विज्ञेयं कक्षासनमतः परम् ।
ग्रीवासनं १२ च परमं भुजासनमिहोच्यते ॥ १९ ॥
द्विभुजासनमप्यत्र कुक्कुटासनमुत्तमम् १३ ।
फणुगुप्तासनं चैव गरुडासनमेव च ॥ २० ॥
उदरासनमित्येवं कथितं दशसप्तधा* ।
चत्वारोऽत्र भवन्त्येव मल्लाः श्रमगुणैर्युताः ॥ २१ ॥

८ पृष्ठिस्थानम् P. ९ प्रकारेण P. १० शिरोपूर्वकम् B. ११ मध्यथा. B.
१२ श्रीयासनं P. १३ not found in P. *Here the author mentions seventeen Āsanas, but in verse 16 he speaks about eighteen.

अष्टमोऽध्यायः । १५
ज्येष्ठो तथान्तरज्येष्ठो तथा गोपकुलोऽपि च ।
भविष्योऽपि भवत्यन्यश्चतुर्थो भावितैर्गुणैः ॥ २२ ॥
श्रमाश्चैव तु चत्वारो भवन्ति विनियोगतैः ।
अल्पश्रमश्चार्धश्रमः पूर्णश्रमं इति क्रमात् ॥ २३ ॥
ततोऽतिश्रम एव स्यात् कथिता मल्लकर्मणि ।
निषिद्धांन् कथयिष्यामि शृणु मल्लान् यथार्थतः ॥ २४ ॥
पीनसः शोफवान् कासश्वासवानापि क्षुधातुरः ।
भुक्तवानक्षमः क्षीणो व्यग्रंचि(ग्रन्थि)तातुरस्तथा ॥ २५ ॥
अजीर्णवान् दुर्बलश्च स्त्रीषु क्षीणस्तथैव च ।
मदपीडितसर्वाङ्गः शिरोरोगार्त एव च ॥ २६ ॥
श्रान्तश्चैव क्षुधाविष्टो वर्जितो मल्लकर्मणि ।
अल्पश्रमं करिष्यन्ति ये च तान्कथयाम्यहम् ॥ २७ ॥
बालो वृद्धो ज्वरी चैव चक्षूरोगी व्रणी तथा ।
रोगी च दुर्बलश्चैव ततो मन्दाग्निरेव च ॥ २८ ॥
वातातपादिपीडावान् तथा चायासवानपि ।
रक्तहीनो लङ्घनश्च ये चान्ये कुशरीरिणः ॥ २९ ॥
अल्पश्रमं करिष्यन्ति ते सर्वे स्थानरूपतः ।
अल्पश्रमस्य विस्तारो निःशेषः कथितो मया ॥ ३० ॥
अल्पश्रमेण मल्लानां ये भवन्ति गुणा अपि ।
तानहं कथयिष्यामि द्विजाः शृण्वन्तु तत्त्वतः ॥ ३१ ॥
बलवृद्धिस्तथामिश्र लघुता पित्तनाशनः(म्) ।
बृंहणं च जरास्तम्भो मांसस्थैर्यं विशेषतः ॥ ३२ ॥
१४ विनियोगतः P. १५ चतुष्टयाः P. १६ श्रार्धश्रमः P. १७ ततोऽतिश्रमू
व स्यात् P. १८ निषिध्य P. १९ यथामति P. २० श्वासवांश्च P. २१ व्ययं P.
२२ श्रीषु P. २३ मध्यष्पीडितसर्वांग P. २४ गजस्तम्भो B.