मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 82, कुल 141 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः । ३७
क्लेशे सहिष्णुता शौर्यं रोगाणां क्षय एव च ।
अग्निवृद्धिः क्रमादेते भवन्त्यत्र गुणा दश ॥ ४५ ॥
३२परिपूर्णश्रमस्तस्माद् कर्तव्यस्तु समाहितैः ।
पूर्णश्रमे कृते मल्लैर्जायन्ते लक्षणानि वै ॥ ४६ ॥
तान्यहं कथयिष्यामि श्रूयतां च प्रयत्नतः ।
स्वेदः सर्वेषु चाङ्गेषु नेत्रयोश्चैव रक्तिमा ॥ ४७ ॥
जरानाशः कफनाशो मेदोनाशस्तथा परः ।
प्रस्वेदं शोषयत्येव मुखे श्वासः प्रवर्तते ॥ ४८ ॥
हृदयं शोषयत्याशु कण्ठे शोषश्च तत्क्षणात् ।
तथा मुखं च शोषयति३३ कलां शोषयति क्रमात् ॥ ४९ ॥
अ्रमोऽत्यन्तमर्वै३४ स्यात् मूर्छा प्रकुरुते परम् ।
पिपासा जायते सद्यो बलहानिर्विशेषतः ॥ ५० ॥
छर्दिर्भमश्वासकासरक्तपित्तभयानि च ।
तथा हृदयदाहं च ज्वरमुत्पादयेदलम् ॥ ५१ ॥
इति ज्ञात्वा च सकलं कर्तव्यं हितमात्मनः ।
येन कृतेन मल्लानां जायते सुखमाशु वै ॥ ५२ ॥
तदहं कथयिष्यामि शृण्वन्तु विधिपूर्वकम् ।
स्नानं शीतोदकेनैव कारयेत् प्रथमं सदा ॥ ५३ ॥
कर्तव्यं च पयःपानं शी(सि)तया च समन्वितम् ।
द्राक्षाणां भक्षणं चैव श्वेतवस्त्रनिषेवणम्३५ ॥ ५४ ॥
विलेपनं चन्दनेन कर्पूरेण च शोभनम् ।
अर्धवस्त्राच्छादनं३६ च कटुतिक्ताम्लवर्जनम् ॥ ५५ ॥
B. ३२ This śloka is not found in B. ३३ शुष्यति P. ३४ भ्रमश्चात्य-
न्तमेव P. ३५ निषेवनम् B. ३६ आर्द्रवस्त्र° B.