मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 95, कुल 141 में से
संदर्भ में पढ़ें५० मल्लपुराणे
पञ्चदश समाख्याताः कथ्यन्ते विविधश्रमाः ।
अथ पञ्चदशविधैर्लागैश्च च लभ्यते ॥ १२ ॥
ऊर्ध्वलागो मध्यलागस्तथाधोलाग इष्यते ।
निराधारोपि लागः स्यात्कचिदङ्गबलादिह ॥ १३ ॥
वामदक्षिणलागाभ्यां लागश्च कथितः श्रमः ।
उपविश्यैव लागोपि चरणेनापसर्पणम् ॥ १४ ॥
कक्षयोः पादसन्धिश्च धारणं कथितं बुधैः ।
उदरस्कंधयोश्चैव धारणं वरपादयोः ॥ १५ ॥
ऊरुसंधिधारणं च तयोःप्रेरणं परम् ।
त्रिधा स्तम्भाधिरोहणं दण्डाघातस्तथैव च ॥ १६ ॥
अङ्गवर्तनलागश्च तथा पादापकर्षणम् ।
विज्ञेयो दशधा चैव स्तम्भः श्रमसमुद्भवः ॥ १७ ॥
अङ्गस्य सहजं प्राणं स्कन्धप्राणं तथैव च ।
करप्राणं सुविप्राणं दण्डप्राणमपि ध्रुवम् ॥ १८ ॥
तलहस्तभवं प्राणं बाहुप्राणं तथैव च ।
जङ्घाप्राणं कटिप्राणं पादसंधिभवं तथा ॥ १९ ॥
जायते कठिनाङ्गत्वं अन्यस्य च जयस्तथा ।
अग्निवृद्धिः श्रमो ज्ञेयो लघुत्वमपि दृश्यते ॥ २० ॥
इत्येवं पञ्चदशधा प्राणस्तंभश्रमस्तथा ।
अभ्यस्तेन सदा युक्तो नियुक्तविजयी भवेत् ॥ २१ ॥
इति श्रीमल्लपुराणे स्तम्भश्रमलक्षणं नाम सप्तमो[दशमो ]ऽध्यायः ।