सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 86, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 86

नवमोऽध्यायः । ४१
हिमयोगो बलं तत्र भक्षणं कुरुते दृढम् ।
पूर्णश्रमस्य योगेन वर्धते जठरानलः ॥ २१ ॥
वर्धिते जठरस्याग्नौ आहारः प्रबलो भवेत् ।
आहाराद्वलबृद्धिः स्यात् बलाच्छ्रमसहो भवेत् ॥ २२ ॥
पञ्च मासांश्च मल्लानां श्लाघ्याः पूर्णश्रमस्तदा ।
वैशाखे ज्येष्ठमासे च तथाषाढेऽपि दुःसहः २४ ॥ २३ ॥
अर्धश्रमं प्रकुर्वन्ति यथा सौख्यं २५ न लुप्यते ।
वर्षासुं २६ श्रावणे चैव तथा भाद्रपदेपि च ॥ २४ ॥
ऊष्मा भवति मध्ये तु बहिर्मेघावडम्बरम् ।
अल्पश्रमो युक्त एव कर्तुं तत्रापि नान्यथा ॥ २५ ॥
यतोधिकश्रमाभ्यासादन्तः स्वापः प्रजायते ।
आश्विने कार्तिके चैव पित्तं तत्र प्रकुप्यति ॥ २६ ॥
पित्तेन जाठरो वह्निर्मन्दः स्याद् भवति ज्वरः ।
मन्दे च जाठरे वह्नौ कुत आहारसंभवः ॥ २७ ॥
अनाहारस्य न बलमबलस्य कुतः क्रिया ।
तस्मादभ्यासयोगेन श्रमः स्वल्पः प्रशस्यते २७ ।
एवं कुर्वन् सदा मल्लो नियुद्धविजयी भवेत् ॥ २८ ॥
२८अष्टम्यां च चतुर्दश्यां दर्शे चैव क्षयेऽहनि ।
सूतके च महाष्टम्यां प्रेतपक्षेऽयनेपि च ॥ २९ ॥
अथाक्षय्यनवम्यां तु ग्रहणे चन्द्रसूर्ययोः ।
तथाक्षय्यतृतीयायामनध्यायाः प्रकीर्तिताः ॥ ३० ॥
उद्वर्तनं द्वादशधा सदा देहोपकारकम् ।
वातहरं कफहरं मेदोहरमथापि वा ॥ ३१ ॥
२४ पाठे विदुः सहः B. २५ यथायासो B. २६ वर्षा B. २७ प्रकुर्वते P,
२८ Verse 29 is not found in P.
६