मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 87, कुल 141 में से
संदर्भ में पढ़ें४२ मल्लपुराणे
स्थैर्यकरं तथा गन्धकरं वर्णकरं स्मृतम् ।
गौर²९वैककरमेवैते तन्द्राहरमपि ध्रुवम् ॥ ३२ ॥
कण्डूहरं मलहरमरोचकहरं परम् ।
स्वेदोहरमित्येवं गुणा द्वादश कीर्तिताः ॥ ३३ ॥
स्नानं च द्वादशगुणं कथयिष्यामि साम्प्रतम् ।
बल्यं च परमायुष्यं तथा पित्तहरं ध्रुवम् ॥ ३४ ॥
कण्डूहरं मलहरं तथा श्रमहरं परम् ।
निद्रा³¹हरं स्वेदहरं तृष्णाहरमपि स्मृतम् ॥ ३५ ॥
स्थिरकेशं कान्तिकरं वक्त्रनिर्मलकारकम् ।
इत्येवं द्वादशगुणं सदा स्नानं समाचरेत् ॥ ३६ ॥
तथा श्रान्तः श्रमी घर्मपीडितः पित्तसंयुतः ।
रतिश्रान्तो³²ऽतिश्रमी³³ च मदपीडित एव च ॥ ३७ ॥
शीतोदकेन स्नानं च करिष्यति यथार्थतः³⁴ ।
तदेव स्नानमेतेषां परिणामप्रदं सदा ॥ ३८ ॥
कफयुतो वातयुतो मन्दाग्निरर्धश्रमिकैः³⁵ ।
दद्रुकण्डूशिरोरोगी षडुष्णोदकमाभजेत् ॥ ३९ ॥
एवं स्नानं तु निर्वर्त्य³⁷ सन्ध्यां कृत्वा यथाविधि ।
देवपितृमनुष्यादींस्तर्पयित्वा सुभक्तितः ॥ ४० ॥
उपविष्टो गृहे स्वे च यथाकालं यथासुखम् ।
शरीरे जायते पुष्टिः पुष्टाहारसमुद्भवा ॥ ४१ ॥
आहारोपि रसैर्यत्नैः³⁸ कर्तव्यः सुखमिच्छता ।
उपयोग्यौ³९ भवन्त्येते मल्लानां⁴⁰ भोजनार्थिनाम् ।
तानहं कथयिष्यामि यथायोग्यं यथाबलम् ॥ ४२ ॥
२९ गौरकरं तथैवैतत् P. ३० अरोचकहरम् P. ३१ तंद्राहरम् P. ३२ अतिश्रान्त P.
३३ श्रमी चैव P. ३४ कुर्वीत च यथा यतः P. ३५ अर्धश्वासिकः P. ३६ भोजनः P.
३७ निर्वृत्त्य B. ३८ रसो यत्नैः P. ३९ उपयोगो P. ४० मल्लानो P.