ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
सौभाग्यभास्करव्याख्या । ४९
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ८२ ॥
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ८३ ॥
ज्ञानजन्येन पुर्यष्टकेश्वरत्वज्ञानेन नाशे विशेषणाभावाप्रयुक्तो विशिष्टाभाव इति भावः ।
तदुक्तं 'भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः पर' इति शिवसूत्रे वार्तिककारैः ।
'तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये । पुर्यष्टकप्रमातृत्वाभिमानगलनादसौ । देहा-
रम्भकरैर्भूतैरस्पृष्टाद्विरहं पदम् । कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः । भूयो बाहु-
ल्यतः पत्या समोऽयं परमेशिना । तत्स्वरूपं समाविष्टश्चिदानन्दघनात्मकम् । ततएव
परः पूर्णः सम्यक्तन्मयतां गत' इति । अयमेवार्थः शक्तिसूत्रेऽप्युक्तः । 'चिदानन्द-
लाभे देहप्राणादिष्ववभासमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्ति'रिति ।
'मध्यविकासाच्चिदानन्दलाभ' इत्युत्तरसूत्रे तु मध्यविकासो यश्चिदानन्दलाभो हेतुत्वेनोक्तः
स इह वक्ष्यमाणमहागणेशपदेन ग्राह्यः । यश्च मध्यविकासेऽप्युपायतस्ततोऽप्युत्तरसूत्रे
विकल्पक्षयादिरूपो वर्ण्यते स इह कामेश्वरमुखालोकपदेनोक्तः । प्रहर्षितेत्यनेन तु
चिदानन्दलाभ उक्तः । एतेषां स्वरूपनिष्कर्षस्तु प्रत्यभिज्ञाहृदयेऽनुसंधेयो विस्तर-
भयान्नेहोच्यते ॥ ८१ ॥ महागणेशेन निःशेषेण भिन्नैर्नाशितैर्विघ्नयन्त्रैः प्रत्यूहसमूह-
यन्त्रणैः प्रकर्षेण हर्षिता । गव्यूतिमात्रायामे शिलापट्टे अलसादिदेवताष्टकपुटित-
शूलाष्टकोपेतदिगष्टकं जयविघ्नंनाम यन्त्रं विलिख्य देवीसैन्ये विशुक्रेण निक्षिप्तं तन्महा-
गणपतिना चूर्णीकृतमिति ललितोपाख्याने प्रसिद्धम् । भण्डेनासुरेन्द्रेण दैत्यराजेन
निर्मुक्तानां शस्त्राणामस्त्राणां प्रतिकूलान्यस्त्राणि वर्षतीति तथा । शस्त्रास्त्रयोर्भेदो धनुर्वेदे
'धृत्वा प्रहरणं शस्त्रं मुक्त्वात्वस्त्रमितीरित'मिति । पक्षे महागणानामीश्वरत्वेनात्मन्या-
त्मताज्ञानाभावादाविद्यकवृत्तिरूपाणां विघ्नानामस्त्राणां च पराहंतानुसंधानधारा-
रूपप्रत्यस्त्रैर्नाशेन नामद्वयमध्यात्मरीत्यापि व्याख्येयम् ॥ ८२ ॥ कराङ्गुल्यो दक्ष-
वामकरद्वयस्याङ्गुल्यो दश तासां नखसंधिषूत्पन्ना नारायणस्य दशाकृतयो मत्स्यादि-
दशावतारा यस्याः सा । भण्डासुरेण सर्वासुरास्त्रंनाम सकलदैत्योत्पादनमस्त्रं प्रयुक्तं
तेन सोमकरावणबलिहिरण्याक्षादय उत्पन्नाः सन्तोऽयुध्यन्त । ततो देव्या दक्ष-
हस्ताङ्गुष्ठादिवामहस्तकनिष्ठिकान्ताङ्गुलिनखेभ्यः क्रमेण मत्स्यकूर्मवराहनारसिंहवामनभार्गव-
दाशरथिलधरकृष्णकल्किरूपदशावतारानुत्पाद्य ते निष्पिषिताः । उक्तंच ब्रह्माण्डे ।
'दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्याः समुत्थितः । महामत्स्याकृतिः श्रीमानादिनारायणो
विभु'रित्यारभ्य 'दशावतारनाथास्ते कृत्वेत्थं कर्म दुष्करम् । ललिताम्बां नमस्कृत्य
बद्धाञ्जलिपुटाः स्थिता'इत्यन्तेन । पक्षे जीवसंबन्धिन्यो जाग्रदादयोऽवस्थाः पञ्चेश्वर-
संबन्धीनि सृष्ट्यादीनि कृत्यानि पञ्चेत्येवं दशाकृतयोऽपि नखमात्रेणोत्पन्ना भवन्तीति
अनायासेनोत्पद्यन्त इत्यत्र तात्पर्यम् । नारायणशब्दो जीवेश्वरयोरुपलक्षकः । दशा-
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ८४ ॥
᾽ हरनेत्राग्निसंदग्धकामसंजीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ८५ ॥
शब्दोऽवस्थापरः । कृतिशब्दः कृत्यपरो वा । षडक्षरात्पाशुपतास्त्रमन्त्रादयं भिन्नो
महापाशुपतास्त्रमन्त्रः । पूर्वं ईश्वरदेवत्योऽन्यः सदाशिवदेवत्यः । 'रुद्रादयः पिशाचान्ताः
पशवः परिकीर्तिताः । तेषां पतित्वात्सर्वेशो भवः पशुपतिर्मत'इति लैङ्गात् । पशुपतेः
ईश्वरस्य सदाशिवस्येदं पाशुपतम् । अश्वपत्यादित्वान्न पत्युत्तरपदलक्षणो ण्यप्रत्ययः। महच्च
तत्पाशुपतं च महापाशुपतं सदाशिवास्त्रं तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका
यया सा । पक्षेऽभ्यासतारतम्येनोत्तरोत्पन्ना उत्कृष्टा अद्वैतवृत्तय एव महा
भण्डासुरहननोत्तरं ब्रह्मादिभिः प्रार्थितया ललिताम्बया पुनर्मन्मथो जीवित इति
कथाया ब्रह्माण्डपुराणे स्मरणाच्च । 'एतेन पित्रा निर्भर्त्सितो बालो मात्रैवाश्वास्यते किले'-
ति न्यायोऽप्यनुगृहीतः । अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते 'हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न
कश्चने'ति । नच तत्र हरिपदस्योपास्यदेवतोपलक्षणत्वेन त्रिपुरसुन्दरीकोपात्राणकर्तृत्वं
परमशिवस्यैव गुरुपरंपरावधिलाद्वक्तव्यं न पुनर्वैपरीत्यमिति शङ्क्यम् । परमशिवस्यापि
श्रीविद्योपासकत्वेनोपासनायाश्च गुरुमन्तरेणायोगात्तदपेक्षायां त्रिपुरसुन्दर्या एव तद्गुरु-
त्वस्वीकारात् । अतएव योगिनीहृदये शिवेनैव पार्वतींप्रत्युक्तम् । 'अन्यायेन न दातव्यं
नास्तिकानां महेश्वरि । एवं त्वयाहमाज्ञप्तो मदिच्छारूपया प्रभो' इति प्रवृत्तिप्रति•
च्छायाः कारणत्वाच्छिवस्य प्रवर्तिका भगवत्येवेति सिद्धं तस्या गुरुत्वम् । अतएव
गुरुमूर्त्तिरिति नाम वक्ष्यते । 'शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यत' इति ।
चतुःशतीशास्त्राहिच्छाशक्तिविशिष्टस्यैव परशिवस्यादिनाथत्वेन तन्त्रेषु गणनान्न त्रिपुर-
सुन्दर्या गुरुमण्डलान्तरादिनाथात्पूर्वगणनपूजनाद्यापत्तिचोद्यावकाशः । तथाच महास्व-
च्छन्दतन्त्रे । 'गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपदैर्वाक्यैस्तन्त्रं
समवतारय'दिति । स्वयमेवेत्यनेन प्रकाशविमर्शांशयोर्विभजनेन परस्परं गुरुशिष्यभावः
सूचितः । प्रवर्त्तकत्वप्रष्टृत्वे देवीनिष्ठयोर्वक्तृत्वप्रवर्त्यत्वे शिवनिष्ठयोर्गुरुत्वशिष्यत्वयोरव-
च्छेदके इति तद्भेदादविरोधः । एतदेव द्योतयितुं मदिच्छारूपयेति विशेषणं प्रभुपदेन
संबोधनं च । वस्तुतस्तु आदिनाथादर्वागादिशक्त्यम्बानाम्ना द्वितीयस्थाने गण्यत
एवेति न ततः पूर्वं पुनर्गणनापत्तिः । सदाशिवनामकतृतीयगुरुं प्रत्यादिनाथावच्छि-
न्नाया आदिशक्तेरेव गुरुत्वाद्वितीयस्थान एव गणनीयतया न तयोः पौर्वापर्यं विनि-
गमनाविरहोऽपीति दिक् । यद्वा हरणं हरः आत्मस्वरूपापहारः, हरन्तीति वा हराः
आत्मापहर्तारस्तेषां नेता नायकः स एव आसमन्ताद्धासोऽग्निः स्वस्वरूपान्यथाकरणात् ।
मूलाज्ञानमिति यावत् । तस्य मूलाज्ञानाधिकत्वात् । तेन सम्यग्दग्धो यः कामो
जीवभावमापन्नः कामेश्वरस्वरूप आत्मा तस्य सम्यगावरणपरावृत्त्यभावपूर्वकं जीवने
स्वस्वरूपावाप्तौ ओषधिर्मूलिका । एतदुपासनया विद्यारूपयाऽविद्यानिवृत्त्या स्वस्वरूपा-
वाप्तिलक्षणो मोक्ष इति भावः । मन्मथस्य दाहात्पूर्वं स्वशरीरस्य जीवत एव पश्चाद-
शरीरजीवनाद्दृष्टान्तादात्मनोऽपि पूर्वं ब्रह्मण एव सतोऽविद्यावशात्सशरीरस्येव स्थितस्य
तन्निवृत्तावशरीरतापूर्वकब्रह्मैक्यप्राप्तिर्ध्वन्यते । ध्वनितं चैवमेव शैवशास्त्रान्तिमाधिकरणे
'भूयः स्यात्प्रोक्तमिलन'मिति । वार्तिकेपि 'पुनश्च प्रोक्तचैतन्यरूपमिलनात्मकम् ।
परयोगादिरूढस्य भवेत्परमयोगिनः । भूयः स्यादिति वाक्यस्य स्फुट एवायमाशयः ।
यच्छिवत्वममुष्योक्तं नापूर्वं तत्तु योगिनः । स्वभाव एव तन्मायाशक्तिप्रोत्थापितान्नि-
जात् । नानाविकल्पदौरात्म्यात्पराभूतमिव स्वतः । विमृष्टं गुरुनिर्दिष्टप्रोक्तोपायक्रमेण
तत् । शिवत्वं व्यक्तमेतीति शिवेनोदीरितं शिव'मिति । शक्तिशास्त्रान्तिमाधिकरणेऽपि
'निजसंविद्देवताचक्रेश्वरत्वप्राप्ति'रिति सूत्रावयवे निजपदेन तथैव स्फोरितमिति । इयता
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ८६ ॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।
कुलामृतैकरसिका कुलसंकेतपालिनी ॥ ८७ ॥
प्रबन्धेन देव्याः परं रूपं सूक्ष्मतरत्वात्सूक्ष्मरूपात्परातपरतो वक्तव्यमपि रहस्योक्ति-
विषयत्वात्स्थूलरूपकार्येण भण्डासुरवधेन सह श्लेषलिप्सया पूर्वमेवोक्त्वा क्रमप्राप्तं सूक्ष्म-
रूपं स्थूलरूपाभिन्नत्वेन वर्णयति—श्रीमद्वाग्भवेत्यादिना । सूक्ष्मरूपमपि सूक्ष्मसू-
क्ष्मतरसूक्ष्मतमभेदात्त्रिविधं पञ्चदशीविद्या कामकलाक्षरं कुण्डलिनीचेति भेदात् । तेष्वाद्यं
नामत्रयेणोच्यते । श्रीमज्ज्ञानप्रदायकत्वादिमाहात्म्यशीलं वाग्भवत्वसादिति व्युत्पत्त्या-
वाग्भवनामकं कूटं पञ्चाक्षराणां समुदाय एवैकं मुख्यं स्वं निजं रूपं यस्य तादृशं मुख-
पङ्कजं यस्याः । तदुक्तं । 'नेत्रोष्ठापरगल्वर्णशालिवाचां । संभूतिर्मुखमिव वाग्भवाख्य-
कूट'मिति ॥ ८५ ॥ कण्ठस्याधः कटिपर्यन्तो यस्य स मध्यभागः स एव मध्यस्थकामरा-
जाख्यस्य षडक्षरसमूहस्य स्वं निजं रूपमस्याः । पटुज्योतिष्मती लोचने इतिवत्कर्मधार-
यादपि मत्वर्थीयः । सर्जनशक्तिमत्त्वाच्छक्तिनामकेन कूटेन चतुरक्षरसमूहेनैकता-
मभेदमापन्नकटेरधोभागं धारयतीति तथा । तदुक्तम् 'कामस्ते हृदि वसतीति काम-
राजं दृष्ट्वात्तदनु तवाम्ब शक्तिकूट'मिति ॥ ८६ ॥ चतुर्विधपुरुषार्थमूलकारणत्वान्मूलं
पञ्चदशाक्षरी सैव मननात्त्रायत इति मन्त्रः आत्मा स्वरूपं यस्याः । तदुक्तं 'पूर्णा-
हंतानुसंध्यात्मा स्फूर्जन्म ननधर्मतः । संसारक्षयकृत्त्राणधर्मतो मन्त्र उच्यत' इति ।
मूलस्य कूटत्रयमेवोक्तरीत्या कलेवरं स्थूलरूपं यस्याः, कूटत्रयमेव कलेवरं सूक्ष्मरूपं
यस्या इति वा । वस्तुतस्तु मूलशब्दाभ्यां कामकलाक्षरमुच्यते । कूटत्रयपदेन त्र्यात्म-
कसमुदायघटकावयवा उच्यन्ते । अवयवे तयपो विधानात् । कामकलायां तूर्ध्वबिन्दु-
रेकस्तदधस्तिर्यग्विन्दुद्वयं तदधो सार्धकलेति त्रयोऽवयवा गुरुमुखैकवेद्याः । त एव
क्रमाद्विद्याकूटतया स्थूलरूपमुखाद्यवयवात्मना च परिणता इति सूक्ष्मतरं कुण्डलिन्याख्यं
सूक्ष्मतमं वररूपपरं नामद्वयं समष्टिव्यष्टिभेदेनेति नाथचरणागमे विस्तरः । एवं ब्रह्मा-
ण्डान्तर्गत रूपमुक्त्वा पिण्डाण्डान्तर्गतं कुण्डलिन्याख्यं रूपं वक्तुमुपक्रमते । सा हि
मूलाधाराख्ये चक्रे सार्धत्रिवलयाकारेण सुप्ता सती योगिभिरुत्थाप्य षट्चक्राणि ब्रह्म-
विष्ण्वादियन्थींश्च भेदयन्ती सहस्रारं नीता सती तत्कर्णिकारूपचन्द्रमण्डलादमृतं स्राव-
यति । अयोगिभिरपि भावनामात्रेण सर्वाप्येषा प्रक्रिया संपाद्यते तत्प्रक्रियापराणि
नामान्याह—कुलामृतेत्यादिना । कुलं सजातीयसमूहः । सचैकज्ञानविषयत्वरूप-
साजात्यापन्नज्ञातृज्ञेयज्ञानरूपत्रयात्मकः । घटमहं जानामीत्येव ज्ञानाकारात्
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ॥ ८८ ॥
कुलमित्युच्यते । तदुक्तं चिद्गगनचन्द्रिकायाम् । 'मेयमातृमितिलक्षणं कुलं प्रान्ततो
व्रजति यत्र विश्रम'मिति । ऊर्ध्वाधरभावेन विद्यमानेषु स्वच्छन्दसंग्रहादौ प्रपञ्चितेषु
द्वात्रिंशत्पद्मेषु सर्वाधस्तनं पद्मं त्रिपुटीसंबन्धाभावादकुलमुच्यते । तदुपरिष्टानि कुल-
संबन्धीनि । यद्वा । कुः पृथवीतलं लीयते यत्र तत्कुलमाधारचक्रं तत्संबन्धाल्लक्षणया
सुषुम्णामार्गोऽपि । अतः सहस्रारात्स्रवदमृतं कुलामृतम् । 'शरीरं कुलमित्युक्त'मिति
स्वच्छन्दसंग्रहोक्त्या शरीरसंबन्धित्वाद्व्वा तत्कुलामृतम् । तत्र मुख्यतया रसिका तद्रसा-
स्वादनपरा । 'पुष्पितायाः कुलागारं दृष्ट्वा यो जपते नर'इति कालीतन्त्रे प्रयोगात्तत्कला-
मृतरहस्यरसिकेति वा । उपास्योपासकवस्तुजातस्य चित्त्वेन साजात्यात्तत्समुदाय-
प्रतिपादकं शास्त्रमपि कुलम् । तथाच कल्पसूत्रे प्रयोगः 'कुलपुस्तकानि च गोपाये'दिति ।
'दर्शनानि तु सर्वाणि कुलमेव विशन्तीही'त्यागमे च । 'न कुलं कुलमित्याहुराचारः कुल-
मुच्यत'इति भविष्योत्तरपुराणवचनात् आचारोऽपि कुलं तयोः संकेतान् तन्त्रत्यरहस्यानि
पालयति पशुषु न प्रकाशयति सांप्रदायिकपरंपरायै प्रकाश्य तन्तुं प्रवर्तयति चेति
तथा । 'चक्रसंकेतको मन्त्रपूजासंकेतकाविति । त्रिविधस्त्रिपुरादेव्याः संकेतः परमेश्वरी'त्या-
गमे 'कुलाङ्गनैषाप्यथ राजवीथीः प्रविश्य संकेतगृहान्तरेषु । विश्रम्य विश्रम्य वरेण पुंसा
संगम्य संगम्य रसं प्रसूत'इति चिन्तामणिस्तवे च प्रतिपादितोऽयमर्थः ॥ ८७ ॥
कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्संबन्धिन्यङ्गना यथा गुप्ता तथेयमप्य-
विद्याजवनिकया गुप्तत्वात्कुलाङ्गना । तदुक्तं कुलार्णवे 'अन्यास्तु सकला विद्याः प्रकटा
गणिका इव । इयं तु शांभवी विद्या गुप्ता कुलवधूरिवे'ति । भगवान्परशुरामोऽप्याह ।
'अन्या विद्या वेश्या इवातिप्रकटा' इत्यादि । कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण
स्थिता । कुलशास्त्रस्य मध्ये ज्ञेयत्वेन वा स्थिता । प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवंशं
वा पूज्यत्वेन तिष्ठति । 'कुलं जनपदे गृहे । सजातीयगणे गोत्रे देहेऽपि कथितं कुल'-
मिति विश्वः । तदुक्तं भविष्योत्तरपुराणे । 'पूजनीया जनैर्देवी स्थानेस्थाने पुरेपुरे ।
गृहेगृहे शक्तिपरैर्ग्रामेग्रामे वनेवन' इति । अधःस्थितं रक्तं सहस्रदलकमलमपि कुलं ।
तत्कर्णिकायां कुलदेवीदलेषु कुलशक्तयश्च सन्तीति स्वच्छन्दतन्त्रेऽस्य विस्तारः । ईदृगर्थस्य
कुलपदस्य परतः संबन्धसामान्यार्थे तद्धिते कौलम् । 'कुलं शक्तिरिति प्रोक्तमकुलं शिव-
उच्यते । कुलेऽकुलस्य संबन्धः कौलमित्यभिधीयत' इति तन्त्रोक्तम् । शिवशक्ति-
सामरस्यं वा कौलं तद्वती कौलिनी बाह्याकाशावकाशे चक्रं विलिख्य तत्र पूजादिकं
कौलमिति रूढ्योच्यते इति कश्चित् । कुले उक्तार्थके योगः संबन्धोऽस्या इति कुल्यो-
गिनी । छलाक्षरसूत्रकारैः कौलिनी कुलयोगिनीत्यष्टाक्षरस्यैकात्मत्वं यदुक्तं तत्रोपपत्तिं
दशमे शतके वक्ष्यामः । सुषुम्णोर्ध्वस्थितं सहस्रारपद्ममकुलमित्युच्यते । तथाच
५४ ललितासहस्रनाम ।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ८९ ॥
स्वच्छन्दसंग्रहे 'अधश्चोर्ध्वः सुषुम्णायाः सहस्रदलसंयुत'मित्यारभ्य 'पङ्कजद्वयमीशानिं
कुलाकुलमयं शुभ'मित्यन्तं । तद्रूपत्वात्तन्निष्ठत्वाद्वाऽकुला । न विद्यते कुलं देहवंशादिकं
यस्या इति वा । दहराकाशावकाशे चक्रं विभाव्य तत्र पूजादिकं समय इति रूढ्यो-
च्यते । सच सर्वैर्योगिभिरैकमत्येन निर्णीतोऽर्थ इति संकेतरूपत्वादपि समयः । तत्प्र-
तिपादकत्वाद्वसिष्ठशुकसनकसनन्दनसनत्कुमाराख्यतन्त्रपञ्चकमपि समयपदेन व्यवहि-
यते । तदन्तस्तत्प्रतिपाद्यतया तिष्ठति । यद्वा । समं साम्यं यातीति समयः शिवः ।
'आतोऽनुपसर्गे कः' समयादेवी च तयोरेकशेषः। साम्यं च परस्परं शिवशक्त्योः पञ्चविधं
अधिष्ठानसाम्यमनुष्ठानसाम्यमवस्थानसाम्यं नामसाम्यं रूपसाम्यं चेति । अधिष्ठानं
पूजाधिकरणं चक्रादि । अनुष्ठानं सृष्ट्यादिकृत्यम् । अवस्थानं नृत्यादिक्रिया । नाम
भैरवादि । रूपमारुण्यादि । अस्य च विस्तारो वासनासुभगोदयव्याख्याने लग्नेन कृतः ।
तयोरन्ते स्वरूपे तिष्ठति । 'अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहर' इति विश्वः ।
रुद्रयामले दशभिः पटलैरुपदिष्ट आचारः समयाचार इत्युच्यते । यद्वा । दीक्षितस्य
गुरुकटाक्षवशात् षड्विधैक्यचतुर्विधैक्यान्यतरानुसंधानदार्ढ्ये महावेधाख्यसंस्कारे च
महानवम्यां जाते सति पश्चान्मूलाधारादुत्थिता देवी मणिपूरे प्रत्यक्षा भवति । तां
तत्रैव पाद्यादिभूषणान्तैरुपचारैः संपूज्यानाहतं नीत्वा ताम्बूलान्तमभ्यर्च्य विशुद्धिचक्रं
नीत्वा तत्रत्यचन्द्रकलारूपैर्मणिभिः पूरयित्वा आज्ञाचक्रं नीत्वा नीराजय सहस्रदलकमले
सरघामध्ये सदाशिवेन संयोज्य तिरस्करिणीं प्रसार्य समीपं मन्दिरे स्वयं स्थित्वा याव-
द्भगवती पुनर्निर्गतासती मूलाधारकुण्डं प्रविशति तावत्तत्रैव समयं प्रतीक्षेतेत्याकारो
गुरुमुखैकवेद्यः समयाचारः । तयोरुभयविधयोरपि तत्परा आसक्ता ॥ ८८ ॥ मूला-
धाराख्यं चतुर्दलं पद्मं तत्कर्णिकायां मध्ये बिन्दौ कुलकुण्डनामके मुखमाच्छाद्य कुण्ड-
लिनी तत्र सर्वदैव सुप्ता तिष्ठति । अतएवैतदाधारत्वात्सुषुम्णामूलत्वाच्च मूलाधार
इत्युच्यते । सएवैको मुख्यो निलयो वासस्थानं यस्याः । षट्चक्रेषु प्रतिचक्रमाद्यन्तयो-
र्द्वौद्वौ ग्रन्थी । तत्र ब्रह्मग्रन्थिद्वयं स्वाधिष्ठानीयं विशेषेण भिनत्तीति तथा ॥
॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । आद्येन शतकेनाभूद्द्वितीया
तापिनी कला ॥ १०० ॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते
ललितासहस्रनामपरिभाषाभाष्ये प्रथमशतकं नाम द्वितीया कला ॥२॥
नाभौ दशदले पद्मे सामयिकपूजायां मणिभी रत्नैः पूर्यते भाष्यते देवीति तच्चक्रं
मणिपूरपदवाच्यम् । तस्यान्तरधःस्थितं ग्रन्थि भित्त्वोदिता प्रकटिता । तदुपरिस्थितं
विष्णुग्रन्थि विशिष्य भिनत्तीति तथा । विष्णोर्मणिपूरचक्रस्थितत्वेन तद्ग्रन्थ्योर्विष्णु-
सौभाग्यभास्करव्याख्या । ५५
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ९० ॥
तडिल्लतासमरुचिः षट्चक्रोपरि संस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ९१ ॥
ग्रन्थिसंज्ञा । एवं ब्रह्मरुद्रग्रन्थिसंज्ञे अपि ज्ञेये ॥ ८९ ॥ भ्रूमध्ये द्विदलपद्मे आज्ञापकस्य
श्रीगुरोरवस्थानादाज्ञाचक्रसंज्ञा । तावत्पर्यन्तं मनोविग्रहाभ्यासे ईषद् ज्ञानोदयो
भवतीति वा । आडीषदर्भकः । तदन्तराले तिष्ठति । रुद्रग्रन्थिद्वयं हृदयगतानाहत-
चक्रीयं विभिनत्तीति तथा । अनुष्ठाने एतद्वैपरीत्यमुन्नेयम् । पाठक्रमादर्थक्रमस्य बली-
यस्त्वात् 'अर्थाच्चे'ति पाञ्चमिकन्यायात् । यद्वा । श्रीविद्यायां चत्वारः खण्डाः आग्नेय-
सौरसौम्यचन्द्रकलाख्याः । तएव वाग्भवकामराजशक्तितुर्याख्याश्च । तेषां चतुर्णां मध्ये
त्रयो हृल्लेखाख्या ग्रन्थयः । ताश्च तिस्रः क्रमेण रुद्रविष्णुब्रह्मसंज्ञकाः । तत्रयं भिनत्ति
तदन्तः प्रविशति । तदभिधेयेत्यर्थः । वस्तुतस्तु दत्तात्रेयसंहितायां षडर्थप्रकरणोक्त-
कौलिकार्थपरमिदं नामषट्कम् । तदुक्तं तत्रैव । 'मूलाधारादिकं चक्रषट्कं कुलमिति
स्मृतम् । ग्रन्त्रित्रयं तत्तद्देविचक्रत्रितयगर्भितम् । पृथ्व्याप्यचक्रद्वितयं ब्रह्मग्रन्थिपदो-
दितम् । वह्निसूर्यमयं चक्रद्वयं तेजोमयं महत् । विष्णुग्रन्थिपदेनोक्तं तैजसं सर्वसिद्धि-
दम् । वाय्वाकाशद्वयीरूपं चक्रद्वितयमुत्तमम् । रुद्रग्रन्थिपदेनोक्तं मङ्गलायतनं महत्'
इत्यादि । सहस्रसंख्याका अरा दलानि यस्य तदम्बुजं कमलं ब्रह्मरन्ध्राधःस्थमारूढा ।
सुधायास्तत्कर्णिकाचन्द्रसंबन्धिन्या आसारो धारासंपातस्तमभिवर्षितुं शीलमस्याः
'अमृतस्य धारा बहुधा दोहमानं, चरणं नो लोके सुधितान्दधात्वि'ति श्रुतेः ॥ ९० ॥
तडित्सौदामिन्येव लता वल्ली तया समा रुचिः कान्तिर्यस्याः । 'विद्युल्लेखेव भास्वरे'ति
श्रुतेः । षडवयवकानि चक्राणीति मध्यमपदलोपी समासः । तेन 'द्विगो'रितिङीप्प्रत्ययो
न भवति । तानि च मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञाचक्रनामकानि । तेषा-
मुपरि सहस्रारे सम्यक् स्थिता । महे उत्सवे तत्रत्यशिवशक्तिसमायोगरूपे आसक्ति-
स्तत्परता यस्याः । 'मह उद्धव उत्सव' इत्यमरः । वह्नितेजस्यासक्तिर्यस्या वा । 'मह
उत्सवतेजसो'रिति विश्वः । महती आ समन्तात्सक्तिः संयोगो यस्या वा । कुण्डले
अस्याः स्त इति कुण्डलिनी आकृत्या भुजङ्गी वा । तत्स्वरूपं च तन्त्रराजे । 'मूलाधार-
स्थवह्न्यात्मतेजोमध्ये व्यवस्थिता । जीवशक्तिः कुण्डलाख्या प्राणाकाराथ तैजसी ।
प्रसुप्तभुजगाकारा त्रिरावर्ता महाद्युतिः । मायाशीर्षा नदन्ती तामुच्चरन्त्यनिशं खगे ।
सुषुम्णामध्यदेशे सा यदा कर्णद्वयस्य तु । पिधाय न शृणोत्येनं ध्वनिं तस्य तदा
मृति'रित्यादि । योगवासिष्ठे चूडालोपाख्याने । 'पुर्यष्टकापराख्यस्य मनसो जीवना-
त्मिकाम् । विद्धि कुण्डलिनीमन्तरामोदस्येव मञ्जरी'मिति । नामनिर्वचनं च देवीपुराणे ।
'यतः शृङ्गाटकाकारा कुण्डलिन्युच्यते तत' इति । यद्वा वाग्भवबीजस्य कुण्डलिनीति
'५६ ललितासहस्रनाम ।
संज्ञा । तद्रूपा बिसतन्तुः कमलनालं तदेव तन्तुस्तद्वत्तनीयसी अतिशयेन कृशाकृतिः ।
'नीवारशूकवत्तन्वी पीता भास्वत्यणूपमे'ति श्रुतेः । 'कुलामृतैकरसिके'त्यारभ्येयत्पर्यन्ता-
मुक्ता प्रक्रिया सर्वोपीति स्पष्टीकृता वामकेश्वरतन्त्रे । 'भुजङ्गाकाररूपेण मूलाधारं
समाश्रिता । शक्तिः कुण्डलिनीनाम बिसतन्तुनिभा शुभा । मूलकन्दं फणाग्रेण दंष्ट्रा-
कमलकन्दवत् । मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रं समन्विता । पद्मासनगता स्वस्था
गुदमाकुञ्च्य साधकः । वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः । वाय्वाघातवशादग्निः
स्वाधिष्ठानगतो ज्वलन् । ज्वलनाघातपवनाघातैरुन्निद्रितोऽहिराट् । ब्रह्मग्रन्थि ततो
भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः । रुद्रग्रन्थिं विभिद्यैव कमलानि भिनत्ति षट् । सहस्र-
कमले शक्तिः शिवेन सह मोदिते । साचावस्था परा ज्ञेया सैव निर्वृत्तिकारण'मिति ।
अरुणोपनिषद्यपि श्रूयते । 'उत्तिष्ठत मा स्वप्त अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य
तृप्तासः सूर्येण् सयुजोषसः' इति । इयं चोपनिषत्सर्वापि भगवतीपरैव । उपबृंहणदर्श-
नात् । 'अरुणोपनिषद्धीते'ति श्यामलासहस्रनामसु पाठाच्च । पृश्निनामकानामुपासकानां
परस्परमुक्तिरियं भारतीसरस्वतीविद्येति यावत् । तत्संबन्धिनो भारताः । हे श्रीविद्यो-
पासकाः, उत्तिष्ठत उपास्तिक्रमे प्रवर्त्तध्वम् । मा स्वप्त प्रमत्ता मा भूत । अन्तर्भावितण्यर्थौ
वा कुण्डलिनीकर्मकाविमौ धातू योजनीयौ । अग्निं स्वाधिष्ठानगताग्नितेजोमयीं कुण्ड-
लिनीमिच्छध्वं इच्छादण्डेनाहत्योत्थापयध्वम् । सूर्येण सयुजा विशुद्ध्यनाहतचक्रयोर्मध्य-
वर्तिसूर्यसहितेन तेनाग्निना । उषसो दग्धस्य द्रुतस्येतिद्यावत् । सोमस्य उमया राज-
राजेश्र्वर्या सहितस्य राज्ञो राजराजेश्वरस्य सहस्रारीयचन्द्रमण्डलान्तर्गतस्य वा। अर्थादमृतेन
तृप्तासो भवत तृप्यत ।' अग्निकुण्डलिनीमुत्थाप्य सूर्यकुण्डलिन्या संयोज्य ताभ्यां चन्द्र-
मण्डलशिवशक्तिसामरस्येन द्रावयित्वा तदुत्थामृतधाराभिर्द्विसप्ततिसहस्रनाडीमार्गा-
नापूर्य तृप्ता भवतेत्यर्थः । तृप्तास इत्यत्र 'आजसे' रित्यसुगागमः । तथा 'यत्कुमारी मन्द्रयते
यद्योषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते अग्निस्तदनुवेधति' । कुः पृथ्वीतत्वं म्रियते
लीयते यस्मिंस्तत्कुलकुण्डं कुमारं तत्संबन्धिनी कुमारी कुलकुण्डलिनी । मन्द्रयते
मन्द्रस्वरेण नदति । अतएव रोदनावस्थासाहित्यात्कुलकुण्डादुत्थापनस्योत्पत्तिरूपत्वाच्च
सद्य उत्पन्ना कुमारीत्युच्यते । योषित् तरुणी तारुण्यलक्षणसूर्येणानाहतादुपरिभागे साहि-
त्यात् । पतिव्रता पतिं ब्रह्मरन्ध्रस्थं कामेश्वरं व्रतयति भुङ्क्ते । 'पयोव्रतं ब्राह्मणस्ये'त्यादि-
प्रयोगात् । एवं कौमारतारुण्यसंभोगैररिष्टं शुभं पीयूषवर्षंणरूपमन्यदपि यत्किंचित्सा
क्रियते करोति तत्सर्वमग्निः स्वाधिष्ठानगतोऽनुवेधति साधयति । अग्निज्वलनेनैव चन्द्र-
मण्डलद्रवादिति भावः । एतदुपबृंहणं सनत्कुमारतन्त्रे । 'पृश्नयो नाम मुनयः श्री-
विद्योपासका मिथः । संभूयोपदिशन्त्य
सौभाग्यभास्करव्याख्या । ५७
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ९२ ॥
न्दधालि’ति मन्त्रोऽपि लोकस्य ब्रह्मलोकस्य द्वारं साधनम् । अर्चिर्ज्योतिर्महःशब्दा अग्नि-
सूर्यचन्द्रकलावाचकाः । चरणशब्दश्चरति यातायातं करोतीति व्युत्पत्त्या कुण्डलिनी-
परः । सामान्ये नपुंसकम् । सुधितान् तृप्तान् । हकारस्य धकारादेशोऽर्चिःशब्दे सका-
रलोपश्च छान्दसः । कुण्डलिनी अग्न्यादिस्थानमागतासती सुधावृष्टिं कुर्वत्यस्मांस्तृप्तानक-
रोदित्यर्थः । तदिदमुपवृंहितं शुक्रसंहितायाम् । 'पावकस्यार्चिषा भानोर्ज्योतिषा महसा
विधोः । दोहमाना सुधाधारा द्विसप्ततिसहस्रधा । गुप्ताचारा कुण्डलिनी तृप्तानस्मां-
स्तनोतु से'ति । अत्र गुप्तं यथातथा चरतीति चरणपदस्यार्थः । एवं वसिष्ठादितन्त्रेष्व-
प्युपब
५८ : ललितासहस्रनाम ।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ९३ ॥
परे स्थाने निष्कलं च त्रिधा स्थित'मिति योगिनीहृदयोक्तलक्षणास्तिस्रो भावनाः ।
ताभिर्गम्या ज्ञेया । भवः संसार एवारण्यमतिगहनत्वात् पुनःपुनः प्ररोहाच्च । तस्य
कुठारेव कुठारिका । 'द्वयोः कुठार' इति कोशात्स्त्रीलिङ्गता । तच्छेत्रीत्यर्थः । भद्रं
मङ्गलं प्रियं यस्याः । भद्रो गजविशेषस्तज्जातीया गजाः प्रिया यस्या इति वा । भद्रा
भव्या मूर्तिः स्वरूपं यस्याः । 'ब्रह्म तन्मङ्गलं विदु'रिति विष्णुपुराणात् । 'मङ्गलानां
च मङ्गल'मिति भारताच्च । 'भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिष्वि'त्याग्नेयपुराणोक्ता
भगपदार्थाः शोभना यस्यां सा सुभगा ललितेव तस्या भावः सौभाग्यं तदभेद इति
यावत् । यत्तु पद्मपुराणे । 'इक्ष्वस्तरराजश्च निष्पावा जीरधान्यके । विकारवच्च गोक्षीरं
कौसुम्भं कुसुमं तथा । लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते' इति वचने परिगणितं
तदपि मङ्गलकार्योपयुक्तत्वाल्लक्ष्मीकरत्वात्सौभाग्यमेव । सुष्ठु भाग्यं नियतिर्यस्य तस्य
भावो वा सौभाग्यम् । भक्तेभ्यस्तानि ददातीति तथा । अत्रेदं बोध्यम् । महाशक्ति-
रित्यारभ्यैतत्पर्यन्तानि नव नामानि बड्ण् इति छलाक्षरसूत्रेण निर्दिष्टानि । तथाहि
वररुचिसंकेते यवगोऽष्टानामिह तु नवानां संज्ञेत्युक्तं 'काज्ञाद्वाः, टयौचे'ति सूत्राभ्यां
ककारमारभ्य झकारमभिव्याप्य द्वाराणि नव भवन्ति । टवर्गयवर्गावप्येवमिति तदर्थः ।
पिषुः । पवर्ग इषूणां पञ्चानां संज्ञा । एतान्यक्षराणि नामसंख्याद्योतकानि । अञ्जाट् ।
अचो राजः षोडशान्तसंख्यावाचका भवन्ति । युयुत्साः । इकार आदौ तत उकारः ।
एतद्द्वयं यस्मादक्षरात्परतस्तदक्षरं साः । अकारेण सहितं तयोर्नाम । यथा किकु इत्य-
नयोः क इति संज्ञा टिडु इत्यनयोः ट इति । फीपाट्पृडवः । फीकारात्परतः पृकारश्चे-
त्तद्युगलस्य डकारः संज्ञा । पकारात्परतश्चेत्तद्युगलस्य बकारः संज्ञा । पुटोण् । संपुटी-
करणस्य ण् इति संज्ञा । एवं च बडणिति सूत्रस्य डकारेण पुटितो वकार इत्यर्थः । तेन
डबड इति सिध्यति । ततश्च फीपृपिपुपृफीष्ट इति सप्त वर्णा भवन्ति । द्वे नामनी
चतुरक्षरे । तत्र प्रथमनाम्न आद्यमक्षरं पवर्गीयं । तृतीयं नामाष्टाक्षरं । तदाद्यमक्षरं
पवर्गीयं । ततो द्वित्रिपञ्चाक्षरे । तदाद्ये पवर्गीये । ततः षष्ठं नामाष्टाक्षरं । तदाद्यमक्षरं
च पवर्गीयं । ततो द्वे चतुरक्षरे । तयोराद्यं नाम पवर्गीयादिमाक्षरकं । ततोऽष्टा-
क्षरमेकं नाम । तदाद्यमक्षरं च पवर्गीयमिति । एवं नव नामानीत्येतावान्सूत्रार्थ इति
दिक् ॥ ९२ ॥ भक्तिर्द्विविधा मुख्या गौणी चेति । तत्रेश्वरविषयकोऽनुरागाख्यश्चित्त-
वृत्तिविशेषो मुख्यभक्तिः । तथाच भक्तिमीमांसासूत्रम् 'सा परानुरक्तिरीश्वरे'इति ।
'अथातो भक्तिजिज्ञासे'तिसूत्रेोपात्ता भक्तिस्तत्पदार्थः । तस्याः परेति विशेषणम् । परां
मुख्यां भक्तिविशेषमुद्दिश्यानुरक्तिर्लक्षणत्वेन विधीयत इति तदर्थः । अतएव परेति गौणीं
व्यावर्तयतीति भाष्यम् । 'गौण्या तु समाधिसिद्धि'रिति सूत्रे गौणी भक्तिः सेवारूपा
The brackets are clearly there: '[ भक्ति ]'!
Let's check L10:
'प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्'ति ।' -> there is a single quote before ति: 'मिच्छन्'ति ।'!
L11:
'भगवन्तं सनातनमि'ति ।' -> single quote before ति!
L11:
'ईश्वरप्रणिधानाद्वे'ति'
L13:
'मानाभ्या'मिति ।'
L14:
'परंतपे'ति'
L17:
'ब्रह्मसंस्थोऽमृतत्वमेती'ति'
L18:
'तत्संस्थस्यामृतत्वोपदेशादि'ति'
L19:
'तन्निष्ठस्य मोक्षोपदेशादि'ति'
L22:
'दुःखिता' इति ।'
L24:
'लक्ष्यार्था लक्षणागम्ये'ति ।'
L25:
'हीति' जैमिनिसूत्रे'
L28:
'स्वगतये'ति'
L30:
'कुतश्चने'ति'
L32:
'कीर्तये'दिति ।'
All of these have the closing quotation mark right before 'ति'! This shows the exact typography of the book.
Now, regarding L14:
If we write 'त्वनन्यया', wait, why would we change 'ल
६० ललितासहस्रनाम ।
शांकरी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शान्तोदरी शान्तिमती निराधारा निरञ्जना ॥ ९४ ॥
तत्रैव । ‘अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता । एषा सा शांभवी मुद्रा सर्वतन्त्रेषु
गोपिते’ति । कल्पसूत्रेषु दीक्षास्तिस्रः शक्तिः शांभवी मान्त्री चेति । विभज्य तल्लक्ष-
णान्युक्तानि देवीभागवते ‘अष्टवर्षा च शांभवी’ति कन्याविशेषस्य नामोक्तं तद्रूपा
वेत्यर्थः । शारदया सरस्वत्या वाग्देवताभिश्च आराध्या, शारदे शरदृतौ वर्षादौ वा
आराध्या । ‘अथ शरत्समाः । संवत्सर’इत्यमरात् । ‘शरत्काले महापूजा क्रियते
या च वार्षिकी’ति मार्कण्डेयपुराणे । वर्षस्यादौ भवा वार्षिकीत्यर्थः । ‘वासन्ते नवरात्रे तु
पूजयेद्रक्तदन्तिका’मिति रुद्रयामलात् । शारदैर्विशारदैः पण्डितैः शालीनाख्याश्रमवि-
शेषशीलैर्वारोध्या । ‘शारदः पीतमुद्गे स्याच्छालीने प्रतिभाविनी’ति मेदिनी । ‘अकारो
वासुदेवः स्यादाकारस्तु पितामह’ इत्यनेकार्थध्वनिमञ्जर्यामभिधानात्ताभ्यामाराध्येत्यक्ष-
रद्वयश्लेषेणार्थे सिद्धे शारदा चासावाराध्येति कर्मधारयो वा । तत्र शारदांशनिरुक्तिः
कालीपुराणे । ‘शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः । शारदा सा समाख्याता
पीठे लोके च नामत’ इति । क्षितिमूर्तेः परमशिवस्य शर्व इति संज्ञा । तस्य स्त्रीत्यर्थे
पुंयोगलक्षणे ङीष्यानुगागमः । मङ्गलस्य माता सुकेशी नाम्नीत्यर्थः । तदुक्तं लैङ्गे । ‘चरा-
चराणां भूतानां धाता विश्वंभरात्मकः । शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ।
विश्वंभरात्मनस्तस्य शर्वस्य परमेष्ठिनः । सुकेशी कथ्यते पत्नी तनुजोऽङ्गारकः स्मृत’
इति । वायवीयेपि । ‘शर्वस्य या तृतीया तु नाम भूमितनुः स्मृता । पत्नी तस्य
सुकेशीति पुत्रश्चाङ्गारको मत’ इति । शर्म सुखं दातुं शीलमस्याः ‘शर्मशातसुखानिचे’-
त्यभिपुराणीयकोशः । ‘सुखं ददाति भक्तेभ्यस्तेनैषा शर्मदायिनी’ति देवीभागवतात्
॥ ९३ ॥ करोतीति करः । पचाद्यच् । ‘कृञो हेतुताच्छील्ये’त्यादिना टो वा । शं
सुखस्य करः । शं करे, यस्य स वा शंकरः तस्य स्त्री शांकरी । तथाच कालिकापुराणे ।
‘प्रतिसर्गादिमध्यान्तमहं शंभुं निराकुलम् । स्त्रीरुपेणानुयास्यामि प्राप्य दक्षादहं तनुम् ।
ततस्तु विष्णुमायां मां योगनिद्रां जगन्मयीम् । शांकरीति स्तुविष्यन्ति रुद्राणीति दिवौ-
कस’ इति । करोतीति करी श्रियः करी श्रीकरी । श्रीकरो विष्णुः । ‘श्रीधरः श्रीकरः
श्रीमानि’ति विष्णुसहस्रनामसु पाठात् । तस्येयं श्रीकरीति वा ॥ अथ परिभाषायां
षट्चत्वारिंशन्नामानि विभजते । राजा चतुर्बलेन्द्रो भूत्वा बलिराग-
मान् द्विदश । गुणगणगौण्यं गणगोमार्गे मार्गे मृगेण भवेत् ॥ ११ ॥ चतु-
रित्येकस्मिन्नर्थे चतुश्चतुरक्षराणि चत्वारि नामानि द्विदश द्विसहिता दश । अर्थत्रयेणै-
तादृशानि नामानि द्वादश । स्पष्टमन्यत् ॥ ११ ॥ साध्वी पतिव्रता । ‘संती साध्वी
पतिव्रते’त्यमरः । कालत्रयेऽपि पत्यन्तरयोगाभावादनितरसाधारणं पातिव्रत्यम् ।
तदुक्तं श्रीमदाचार्यभगवत्पादैः । ‘कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ९५ ॥
देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरबकतरोरप्यसुलभ' इति । देवीभागवतेऽपि । 'साध्वीत्यनन्य-
सामान्यपातित्रत्येन गीयसे' इति । शरत्कालिकेन चन्द्रेण तुल्यमाननं मुखं यस्याः ।
'शो तनूकरणे' । शातं कृशम् । 'आदेच उपदेशेऽशिती'त्यात्वम् । उदरं यस्याः सा
शातोदरी । शतोदरस्यानन्तगुहस्य हिमवतोऽपत्यं हैमवतीत्यर्थो वा । शान्तिरस्या अ-
स्तीति शान्तिमती । भक्तेष्वौद्धत्याभावात् । आधारात्रिष्क्रान्ता मूलाधारादुद्गता ।
'निरादयः क्रान्ताद्यर्थे पञ्चम्ये'ति समासः । यद्वा निर्गत आधारः अधिष्ठानान्तरं यस्याः ।
सर्वजगदधिष्ठानस्य सत्यत्वेनाधारान्तरायोगात् । अथवा निराधाराख्यपूजास्वरूपा ।
तथाच सूतसंहितायाम् । 'पूजा शक्तेः परायास्तु द्विविधा संप्रकीर्तिते'त्युपक्रम्य बाह्या-
भ्यन्तरभेदेन द्वैविध्यमुक्त्वा बाह्याया वैदिकतान्त्रिकभेदेन द्वैविध्यं सलक्षणं वर्णयि-
त्वोक्तं । 'पूजा याभ्यन्तरा सापि द्विविधा परिकीर्तिता । साधारा च निराधारा निरा-
धारा महत्तरा । साधारा या तु साधारे निराधारा तु संविदि । आधारे वर्णसंकॢप्तविग्रहे
परमेश्वरीम् । आराधयेदतिप्रीत्या गुरुणोक्तेन वर्त्मना । या पूजा संविदि प्रोक्ता सा तु
तस्यां मनोलयः । संविदेव परा शक्तिर्नैतरा परमार्थतः । अतः संसारनाशाय साक्षि-
णीमात्मरूपिणीम् । आराधयेत्परां शक्तिं प्रपञ्चोल्लासवर्जीताम् । स्वानुभूत्या स्वयं
साक्षात्स्वात्मभूतां महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदे'ति । अथ निरा-
धारपूजाकर्मीभूतसंवित्स्वरूपस्यैदंपर्येण निषेधमुखेन विधिमुखेन पराभिमतनिरासेन
च निर्धारणपूर्वकं तत्प्राप्तिसाधनोपायं तज्जन्यफलस्वरूपं च कतिपयैर्नामभिराह निर-
ञ्जनादिभिरष्टभिः श्लोकैः । सन्ति हि त्रिविधाः पशवः । तत्रानात्मन्यात्मताज्ञानस्वरू-
पाणवमलमात्रेण युक्तो विज्ञानकेवलः देहारम्भकादृष्टात्मककार्म्ममलवान्प्रलयकालः
भेदबुद्धिजनकमाध्याख्य (?) मलवान्सकल इति भेदात् । एषूत्तरोत्तरो मलः पूर्व-
पूर्वव्याप्य इत्यादि निरूपितं सेतुबन्धेऽस्माभिः । तत्र सकलपशुनिरासायाह । निरञ्जना
अञ्जनं नाम कालिमा । मायासङ्ग इति यावत् । तमोरूपत्वेनावरणधर्मेण सादृश्यात् ।
तथाच योगवासिष्ठे । 'भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना राम
सङ्गशब्देन कथ्यत' इति । निर्गतमञ्जनं यस्याः सा निरञ्जना । 'निरवद्यं निरञ्जन'-
मिति श्रुतेः । अविद्यासंपर्काभाववतीत्यर्थः । मिथ्यारूपाया अविद्यायाः स्वाधिष्ठाने-
ऽभावात् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वस्यैव मिथ्यात्वात् । यद्वा नितरां
रञ्जनं रागो रक्तिमा संतोषणं वा यस्याम् ॥ ९४ ॥ प्रलयकालेऽतिव्याप्तिं निरस्यति ।
कर्मसंबन्धेन लेपस्तस्मान्निष्काशिता । 'न मां कर्माणि लिम्पन्ति' इति स्मृतेः । यद्वा
लेपः कर्मसंबन्धः स निर्गतो यस्याः ज्ञानेन सा निर्लेपा । तदुक्तं यज्ञवैभवखण्डे ।
'कर्मभिः सकलैरपि लिप्यते ब्रह्मवित्प्रवरश्च न सर्वथा । पद्मपत्रमिवाद्भिरहो परंब्रह्म-
६
६२ ललितासहस्रनाम ।
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ५६ ॥
वित्प्रवरस्य तु वैभवं' । गीतास्वपि 'लिप्यते न स पापेन पद्मपत्रमिवाम्भसे'ति ।
विज्ञानकेवलेऽतिव्याप्तिं परिहरति । निर्मला आणवमलाभाववती, मलस्तमात्मा तद्-
भाववती वा । मुक्तजीवस्तु लक्ष्य एव । नित्यमुक्तेत्यनेन वा तन्निरासः । यद्वा
नित्यशुचिनो मालिन्यभ्रमाधायकत्वादविद्यैव मलस्तदभावत्वान्निर्मला । मलस्य मिथ्या-
त्वात् । तदधिष्ठानं तु न तथेत्याह । नित्या कालत्रयेऽप्यबाध्या । तेन क्षणिक-
विज्ञानमेवात्मेत्यौ(त्तानि)त्पातिकबाह्यनिरासः । 'अविनाशी वा अरेऽयमात्मे'ति श्रुतेः ।
तिथिनित्या कालनित्या मन्त्ररूपा वा । साकारविज्ञानवादिमाध्यमिकनिरासायाह ।
आकारस्य सगुणरूपस्य कल्पितत्वान्निराकारा । तदुक्तं विष्णुभागवते । 'स वै न देवा-
सुरमर्त्यतिर्यङ् न षण्ढो न पुमान्न जन्तुः । नायं गुणः कर्म न सन्न चासन्निषेधशेषो
जयतादशेषः' इति । आकुलेति भावप्रधानो निर्देशः । अविद्यासंपर्केऽप्याकुलत्वाभावा-
न्निराकुला । निर्गता आकुलचित्ता यस्या इति वा । तादृशानां दूरेति यावत् ।
आकुलत्वं सर्वाभावः शून्यं वा । तेन शून्यवादिगम्भीराख्यवाह्यनिरासः । तार्किकमतं
निरस्यति । गुणशून्यत्वान्निर्गुणा । 'साक्षी चेता केवलो निर्गुणश्चे'ति श्रुतेः । गुणानां
शरीरधर्मत्वेन चिद्धर्मत्वाभावाच्च । तदुक्तं मत्स्यपद्मपुराणयोर्हिमवन्तंप्रति नारदेन 'यदुकं
च मया देवी लक्षणैर्वर्जितेति च । शृणु तस्यापि वाक्यस्य सम्यगर्थं विचारणात् । लक्षणं
दैवकोव्यङ्गः शरीरैकाश्रयो गुणः । इयं तु निर्गुणा देवी नैव लक्षयितुं क्षमे'ति ।
साद्यवयवमेव ब्रह्मेति मतं निरसितुमाह । निर्गताः कला अंशा वास्तविका यस्याः । 'अंशो
नानाव्यपदेशा'दिति सूत्रम् । 'ममैवांशो जीवलोक' इति स्मृतिश्च कल्पितांशाभि-
प्रायत्वादविरुद्धा । निर्गुणचिन्ता वा निष्कलेत्युच्यते । तदुक्तं विज्ञानभैरवभट्टारकैः ।
'ध्यानं या निष्कला चिन्ता निराधारा निराश्रया । न तु ध्यानं शरीरस्य मुखहस्तादि-
कल्पने'ति । निष्कला कलातीता वा । शान्ता शमवती । 'निष्कलं निष्क्रियं शान्त'मिति
त्रिपुरोपनिषत् । शकारोऽन्तो यस्य तद्रूपा । अमृतबीजात्मिकेति यावत् । अशान्तेति
वा छेदाद्दिगन्तव्याप्तवोक्त्यात्मनः परिच्छिन्नतावादिदिगम्बरनिरासः । 'सत्यकामः
सत्यसंकल्प' इत्यादिश्रुत्या तादृशमेव ब्रह्मेति मतं निरस्यति । निर्गतः काम इच्छा
यस्याः सा निष्कामा । 'अवाप्ताखिलकामायांस्तृष्णा किंविषया भवेत्' इति देवी-
भागवतात् । 'नेतिनेत्यात्मे'ति श्रुतेः 'पूर्णमदः पूर्णमिद'मिति श्रुतेश्च औपाधिक-
गुणपराणि श्रुत्यन्तराणीति भावः । निष्कममतीति वा । 'अम गत्यादिषु' । उपप्लवो
नाशः स निर्गतो यस्याः । निःशेषेणातिशयेन उप समीप एव पिण्डाण्ड एव प्लवो-
ऽमृतस्रवणं यया सा निरुपप्लवा । निबन्धादिपदेष्वतिशयाद्यर्थे निरः प्रयोगात् ।
तथाचारुणोपनिषदि 'आप्लवस्व प्रप्लवस्व आण्डीभवज मा मुहु'रिति ॥ ९५ ॥ नित्यं
मुक्ता यस्या भक्ताः सा । नित्यं यथातथा मुक्ता वा । नित्यं मुञ्चति मुच्यते वा
सौभाग्यभास्करव्याख्या । ६३
निष्करणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथना निर्मदा मदनाशिनी ॥ ९७ ॥
नित्यमुक्तस्य भावस्तत्ता वा । मोक्षरूपेत्यर्थः । प्रधानस्य मनसश्च निरासायाह ।
निर्गता विकाराः सांख्ये प्रसिद्धा महदाद्यास्त्रयोविंशतिर्यस्याः । तदुक्तं सांख्यतत्त्व-
कौमुद्यां । 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न
प्रकृतिर्न विकृतिः पुरुषः' इति । निर्गताः प्रपञ्चाः क्षित्यादिसंचयप्रतारणविस्तारा यस्याः
सा निष्प्रपञ्चा । 'प्रपञ्चः संचये प्रोक्तो विस्तारे च प्रतारण' इति विश्वः । 'प्रपञ्चोपशमं
शिवमद्वैतं चतुर्थं मन्यन्त' इति श्रुतेः शरीराश्रितं ब्रह्मेति चार्वाकमतं निरस्तमिति ।
सर्वाश्रयस्याश्रयान्तरायोगान्निराश्रया । 'विश्वं प्रतिष्ठितं यस्यां तस्याः कुत्र प्रतिष्ठति'रिति
वचनात् । कालत्रयेऽपि मालिन्याभावान्नित्यशुद्धा । 'अस्पर्शश्च महान्शुचि'रिति
श्रुतेः । 'अत्यन्तमलिनो देहो देही चात्यन्तनिर्मल' इति स्मृतेश्च । 'नहि विज्ञातुर्विज्ञाते-
र्विपरिलोपो विद्यते' इति श्रुतिमभिसंधायाह । नित्यबुद्धा चिद्रूपा । शुद्धबुद्धौ जिन-
विशेषौ तौ नित्यौ यस्याः प्रसादादिति वा । षद्दर्शनपूजायां जैनदर्शनोपास्यत्वेनापि
देव्याः पूजादर्शनात् तदुपास्यतारानामकमैदेवीरूपेति यावत् । निर्गतं अवद्यं गर्ह्यमा-
विद्यकविकारजातं यस्याः । 'निरवद्यं निरञ्जन'मिति श्रुतेः । अवद्यान्नरकान्निर्गता यत्प्र-
सादादिति वा । तथाच कूर्मपुराणे । 'तस्मादहर्निशं देवीं संस्मरेत्पुरुषो यदि । न
यात्यवद्यं नरकं संक्षीणाशेषपातकः' इति । लिङ्गपुराणेऽपि 'मायान्ताश्चैव घोराया
अष्टाविंशतिकोटयः। नरकाणामवद्यानां पच्यन्ते तासु पापिनः। अनाश्रिता भवानीशं शंकरं
नीललोहित'मित्यादि । अवकाशावधिभेदच्छिद्राण्यन्तरपदार्थाः तैर्विरहिता निरन्तरा ।
'अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्त-
रात्मनि चे'त्यमरः । 'य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवति' इति श्रुतेः ।
तेन सजातीयादिभेदत्रयवदेव ब्रह्मेति मतनिरासः ॥ ९६ ॥ सर्वकारणस्य कारणान्तरा-
भावान्निष्करणा । 'सकारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप'इति
श्रुतेः । निःशेषं कारणं प्रथमं यस्यामिति वा । तज्जन्यानन्दवतीत्यर्थः । 'महापद्म-
वनान्तस्थां कारणानन्दविग्रहा'मिति वचनात् । कलङ्कः पापं तदभावान्निष्कलङ्का । 'शुद्ध-
मपापविद्ध'मिति श्रुतेः । उप समीपे आदधाति स्वीयं धर्मे इत्युपाधिः । 'उपसर्गे
घोः किः' । स्वीयं लौहित्यं सामीप्यमात्रेण स्फटिके समर्पयज्जपाकुसुममुपाधिः । तद्व-
च्चितेर्भेदेन भानेऽविद्यैवोपाधिस्तद्रहिता निरुपाधिः । यद्वा । निष्कलङ्कत्वाद्यसाधारण-
धर्मेषु साध्येषु देव्यास्तादात्म्येन हेतुत्वे निरुपाधित्वं नाम व्याप्यत्वासिद्ध्यभावः सद्धेतु-
रित्यर्थः । सखण्डोपाधिरखण्डोपाधिश्चेति द्विविधैरपि धर्मैः शून्येति वा । मीमांसाशास्त्रं
सांख्यशास्त्रं च द्विविधं सेश्वरं निरीश्वरं चेति । तदुभयरूपत्वान्निरीश्वरा । सर्वेषामीश्वर्या
ईश्वरान्तराभावाद्वा । अथान्तःकरणभेदानामात्मत्वनिरासायारिषड्वर्गत्यागस्य साध-
६४ ललितासहस्रनाम ।
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ९८ ॥
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ९९ ॥
नत्वबोधनाय च राग इच्छा तदभावादवाप्तसकलकामतान्निरागा । अथवा 'द्वेष-
प्रतिपक्षभावाद्रागशब्दाच्च राग' इति शाण्डिल्यसूत्रे भक्तेरपि रागपदवाच्यत्वाभिधाना-
त्तन्निष्क्रान्तेत्यर्थः । नीरं जलमगः पर्वतस्तदुभयरूपा वा । भक्तानां वैराग्यदानेन रागं
मथ्नातीति रागमथनी । कर्तर्यपि ल्युटो महाभाष्ये 'नहि कारणयोरेव ल्युडुच्यत'
इत्यादिग्रन्थेन साधितत्वादिह 'रागद्वेषाभिनिवेशाः क्लेशा' इति योगसूत्रोक्तो रागो
गृह्यते । मदराहित्यान्निर्मदा । मदं नाशयति मदनं धत्तूरमश्नातीति वा
सौभाग्यभास्करव्याख्या । ६५
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ १०० ॥
र्लोभा । लोभः सर्वगुणान्हन्तीति निन्दितं लोभं भक्तानां नाशयतीति तथा । तन्त्रराजे
गुरुलक्षणकथनदशायाम् 'असंशयः संशयच्छिन्निरपेक्षो गुरुर्मतः' इत्युक्त्वा तयो-
र्विशेषणयोर्लक्षणमुक्तं 'असंशयस्तत्त्वविच्च तच्चित्तप्रतिपादनादि'ति । तादृशगुर्व-
भेदादिदं नामद्वयं । निःसंशया संशयघ्नीति । 'छिद्यन्ते सर्वसंशया'इति श्रुतेः स्मृतेश्च ॥
अथ परिभाषायामेकोनपञ्चाशन्नामानि विभजते । गुणभुविगोमृगशृङ्गे मूलमघा-
भोगगौरवाभावे । स्थूणाङ्गमहान्तो द्विर्भवदूषितवाक्वचतुर्विंभाऽजोष्ठौ
॥ १२ ॥ द्विरिति पञ्चाक्षरं नामद्वयम् । एकस्मिन्नर्धे दशाक्षराणामेव परिशेषात् ।
चतुरष्टपदे चतुरक्षरनामधेयचतुष्टयाष्टकपरे । स्पष्टमन्यत् ॥ १२ ॥ उत्पत्तिराहित्या-
न्निर्भवा । 'अनादिमत्परं ब्रह्म'ति श्रुतेः । भवं संसारं नाशयतीति तथा । तथाच
शक्तिरहस्ये । 'नवम्यां शुक्लपक्षे तु विधिवच्चण्डिकां नृप । घृतेन स्नापयेद्यस्तु
तस्य पुण्यफलं शृणु । दश पूर्वान्दश परानात्मानं च विशेषतः । भवार्णवा-
त्समुद्धृत्य दुर्गालोके महीयते' इति । कौर्मेऽपि । 'सैषा धात्री विधात्री च परमा-
नन्दमिच्छताम् । संसारतापान्निखिलान्निहन्तीश्वरसंज्ञये'ति । देवीभागवतेऽपि । 'अहं वै
मत्परान्मक्तान्नैश्वरं योगमाश्रितान् । संसारसागरादस्मादुद्धराम्यचिरेण त्वि'ति भगवती-
वाक्यम् । यद्वा । भवनाशिनीतटं नृसिंहमगमदिति बृहज्जाबालोपनिषत्प्रसिद्धनदीविशेष-
रूपा ॥ ९९ ॥ विकल्पः शून्यविषयकं शब्दजन्यं ज्ञानम् । तथाच योगसूत्रं 'शब्द-
ज्ञानानुपाती वस्तुशून्यो विकल्प'इति । खण्डनखण्डखाद्येऽपि 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं
शब्दः करोति ही'ति । फलपरीक्षायां गौतमसूत्रमपि 'बुधिसिद्धं तदस'दिति । तन्नि-
ष्क्रान्ता निर्विकल्पा । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयये'ति समासः । तदतिक्रमश्च
शब्दजन्यत्वांशे । तेन निर्विषयकनित्यज्ञानरूपेति फलितम् । अथवा विकल्पः प्रकारो न
विद्यते यस्यां चरमवृत्तौ तद्रूपेति । यद्वा विरुद्धः कल्पः पक्षो विकल्पस्तदभाववती ।
स्वविरुद्धपक्षान्तराभावात् । सर्वस्य चाभिन्नत्वान्निर्विशेषेति पर्यवसितोऽर्थः । 'अरूपवदेव
हि तत्प्रधानत्वा'दिति तार्तीयीके ब्रह्ममीमांसाधिकरणे निर्विकल्पैकलिङ्गतया ब्रह्मणः
साधितत्वात् नेदं रजतमितिज्ञानेन रजतबाधेऽपीदं पदार्थस्येव बाधाभावान्निराबाधा ।
अन्योन्याभावस्य प्रतियोगित्वसंबन्धेनानुयोगित्वसंबन्धेन चाभावान्निर्भेदा । तदुक्तं
कौर्मे । 'त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी । सर्वभेदविनिर्मुक्ता सर्वभेद-
विनाशिनी' इति । तत्रैव स्थलान्तरे । 'शक्तिशक्तिमतोर्भेदं वदन्त्यपरमार्थतः । अभेदं
चानुपश्यन्ति योगिनस्तत्त्वचिन्तका'इति । भेदज्ञानं भेदमेव वा व्यावहारिकं तत्त्व-
ज्ञानेन नाशयतीति तथा । नाशोऽन्तस्तद्भावाभावान्निर्नाशा । 'सत्यं ज्ञानमनन्त'मिति श्रुतेः ।
भक्तानां मृत्युं मथ्नातीति तथा । 'अथ कस्मादुच्यते मामृतादित्यमृतत्वं प्राप्नो-
६६ ललितासहस्रनाम ।
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ १०१ ॥
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १०२ ॥
तीलक्षयत्वं प्राप्नोति नित्यत्वं प्राप्नोति स्वयं रुद्रो भवती'ति त्रैपुरोपनिषदुक्तेः । विहित-
निषिद्धरूपक्रियाराहित्यान्निष्क्रिया । 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः'
इति श्रुतेः । यद्वा क्रियान्वयमन्तरेणैव कर्त्रादिकारकभावमापन्ना । तदुक्तं विष्णु-
पुराणे । 'यथा संनिधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वान्तथासौ परमे-
श्वर' इति । निर्गतः परिग्रहो यस्याः 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयो'रिति मेदिनी
॥ १०० ॥ उपमाभावान्निस्तुला 'हेतुदृष्टान्तवर्जित'मिति त्रिपुरोपनिषत् । नीलाश्चिकुराः
कुन्तला यस्याः । अपायोऽल्पयो नाशस्तद्रहिता । 'अत्ययोऽतिक्रमे दण्डे विनाशे
दोषकृच्छ्रयो'रिति विश्वकोशानुसारेणातिक्रमादिरहिता निरत्यया । दुर्लभा योगिनामप्य-
साध्यत्वात् । अतएव दुर्गमा अधिगन्तुमशक्यत्वात् । अदुर्गमेति वा छेदः । न विद्यते
दुर्गमो यस्या इति तदर्थः । दुर्गमाख्यदैत्यवधप्रयोजिकेतिर्यावत् । अतएव दुर्गा ।
तदुक्तं मार्कण्डेयपुराणे पाञ्चरात्रे लक्ष्मीतन्त्रे च भगवत्यैव । 'तत्रैव च वधिष्यामि
दुर्गमाख्यं महासुरम् । दुर्गादेवीति विख्यातं तन्मे नाम भविष्यती'ति । काशीखण्डेऽपि
'दुर्गो नाम महादैत्य' इत्यादिरध्यायः सर्वोऽप्येतत्पर एव । इयं च भीमरथीतीरे
संततिक्षेत्रवासिनी। दुर्गापदनिरुक्तिर्देवीपुराणेऽपि 'सुवलादिभये दुर्गे तारिता रिपुसंकटे ।
देवाः शक्रादयो येन तेन दुर्गा प्रकीर्तिते'ति । इयं च वाराणस्यां सुबाहुनाम्ने राज्ञे
वरदानेन तेन प्रार्थिता सती देव्यनेन नाम्ना प्रसिद्धा सती स्थिता । तदुक्तं देवीभाग-
वते तस्मै वरदानोत्तरं तत्प्रार्थनाप्रकरणे । 'नगरेऽत्र त्वया मातः स्थातव्यं सर्वदा
शिवे । दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिते'ति । नववर्षा कन्यापि दुर्गेत्युच्यते ।
तदप्युक्तं तत्रैव 'नववर्षा भवेद्दुर्गे'ति तेन तद्रूपा वेत्यर्थः । दुःखस्य सांसारिकस्य हन्त्री ।
'तदत्यन्तविमोक्षोऽपवर्ग' इति गौतमसूत्रात् । 'दुःखेनात्यन्तविमुक्तश्चरति' इति श्रुतेश्च ।
सुखान्यैहिकामुष्मिककैवल्यरूपाणि प्रकर्षेण दत्ते सुखप्रदा । 'रसँ ह्येवायं लब्ध्वानन्दी
भवति' इति श्रुतेः । एतस्य विस्तरः पाद्मे पुष्करखण्डे चरमभागे षड्भिरध्यायैर्द्रष्टव्यः
॥ १०१ ॥ दुष्टानां दोषवतां दूरा अप्राप्या । 'न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं
शिवा'मिति देवीभागवतात् । दुराचारं शास्त्रविरुद्धमाचारं शमयतीति तथा । वक्ष्यति च
पुरस्तात् । 'नित्यकर्माननुष्ठानान्निषिद्धकरणादपि । यत्पापं जायते पुंसां तत्सर्वं नश्यति
द्रुत'मिति । दोषैः रागद्वेषादिभिर्वर्जिता । सर्वं जानातीति सर्वज्ञा । 'यः सर्वज्ञः सर्ववि'-
दिति श्रुतेः । 'सर्वज्ञा सर्ववेत्तृत्वा'दिति देवीपुराणाच्च । सान्द्रा घना करुणा यस्याः ।
'न तत्समश्चाभ्यधिकश्च दृश्यत'इति श्रुतौ दर्शननिषेधेन तद्विषययोरेव निषेधात्स-
सौभाग्यभास्करव्याख्या । ६७
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ १०३ ॥
मानाधिकाभ्यां वर्जिता ॥ १०२ ॥ अथ सगुणरूपमाश्रित्याह । बालाबगलादिनिखिल-
शक्त्यभेदात्सर्वशक्तिमयी । ब्रह्ममयं जगदित्यादाविव मयडभेदार्थकोऽपि । सर्वदेवशक्ति-
समूहरूपत्वादपि सर्वशक्तिमयी । तदुक्तं पाञ्चरात्रलक्ष्मीतन्त्रयोरिन्द्रंप्रति देव्यैव । ‘महा-
लक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे । हिताय सर्वदेवानां जाता महिषमर्दिनी ।
मदीयाः शक्तिलेशा ये तत्तद्देवशरीरगाः । संभूय ते ममाभूवन्रूपं परमशोभनम् ।
आयुधानि च देवानां यानि यानि सुरेश्वर । मच्छक्तयस्तदाकारा आयुधानि तदाभव-
न्नि’ति । मार्कण्डेयपुराणे त्वयमर्थो विस्तरेण वर्णितो द्रष्टव्यः । ‘पदार्थशक्तयो या
यास्तास्ता गौरीं विदुर्बुधा’ इति लैङ्गादसंकुचितार्थक एव सर्वशब्दो वा । सर्वाणि
मङ्गलानि यस्याः । देवीपुराणे तु । ‘सर्वाणि हृदयस्थानि मङ्गलानि शुभानि च ।
ईप्सितानि ददातीति तेन सा सर्वमङ्गला । शोभनानि च श्रेष्ठानि या देवी ददते
हरे । भक्तानामार्तिहरणी तेनेयं सर्वमङ्गला’ इति ॥
॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । द्वितीयशतकेनाभूत्तृतीया
धूम्रिका कला ॥ २०० ॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते
ललितासहस्रनामभाष्ये द्वितीयं शतकं नाम तृतीया कला ॥ ३ ॥
स्वर्गादिमोक्षान्ताः सद्गतीः सतो ब्रह्मणोऽवगतिं ज्ञानं वा सतां गतिर्वा प्रददातीति
तथा । ‘गतिस्त्वं मतिस्त्वं त्वमेका भवानी’त्यभियुक्तोक्तेः । पाद्मे ‘त्रिकालं पूजयेद्यस्तु
चतुर्दश्यां नराधिप । स गच्छति परं स्थानं यत्र देवी व्यवस्थिते’त्यारभ्य ‘दुर्गापूजोप-
करणं स्वल्पं वा यदि वा बहु । कृत्वा वित्तानुसारेण रुद्रलोके महीयत’इत्यन्तैश्चतुर्भि-
रध्यायैः प्रत्युपचारं गुणकामविधिभिः क्रमेण समस्तलोकगतिप्रतिपादकानि वचनानीहो-
पष्टम्भकत्वेन योजनीयानि । अतएव सर्वस्वामित्वात्सर्वेश्वरी । असंकुचितस्वामित्व-
मभेदं विना न निर्वहतीत्याह । सर्वमयी क्षित्यादिशिवान्ततत्त्वाभिन्ना । तदुक्तं का-
मिके । ‘चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयम् । भुवनाध्वा स संचिन्त्यो रोमवृन्दा-
त्मनो विभोः । पञ्चाशद्वर्णरूपेण क्षुवन्वर्णाध्वकल्पना । असौ त्वगात्मनाचिन्त्यो देव-
देवस्य शूलिनः । सप्तकोटिमहामन्त्रैर्मूलविद्यासमुद्भवैः । मन्त्राध्वा संधिरूपात्मासौ वि-
चिन्यः पार्वतीपतेः । अनेकभेदसंभिन्ना मन्त्राणां पदसंहतिः । पदाध्वेत्युच्यते सौम्या
शिरामांसतया स्थितः । पृथिव्यादीनि षट्त्रिंशत्तत्त्वान्यागमवेदिभिः । तत्त्वाध्वेत्युदि-
तान्येष शुक्लमज्जास्थिरूपधृगि’ति । एतदेवावयुत्यानुवदति त्रिभिः । सर्वे सप्तकोटि-
संख्यामन्त्राः स्वरूपमस्याः । श्रूयते च सुन्दरीतापनीये । ‘पूर्वोत्तराभ्यां विद्याया
अनेकाः परिकॢप्ता’ इति । स्पष्टतरं च गौडपादै ‘र्विद्यायाः पूर्वोत्तराभ्यामनेका जाता’
इत्यादिभिः सप्तभिः सूत्रैः सर्वमन्त्रात्मकत्वं वर्णितं तद्भाष्ये च प्रपञ्चितम् । तत्रैव
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ १०४ ॥
‘तथा यन्त्रतन्त्राणी’ति सूत्रे वर्णितं प्रमेयमाह ॥ १०३ ॥ सर्वेषां घटार्गलादीनां यन्त्रा-
णामात्मस्वरूपमेवात्मिका । ‘प्रत्ययस्था’दितीत्त्वम् । वामकेश्वरादिसर्वतन्त्राण्येव रूपं शरी-
रमस्याः । सर्वतन्त्रैर्निरूप्या वा । तदुक्तं ‘बहुधाप्यागमौर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्येते स्रोतस्विन्य इवार्णव’इति । शरीरपक्षेऽपि कामिकागमे ‘कामिकं
पादकमलं योगजं गुल्फयोर्युगम् । पादद्वयाङ्गुलीरूपे कारणप्रस्तृताह्वये । अजिता जानुनो-
र्युग्मं दीप्तमूरुद्वयं विभोः । पृष्ठभागोऽंशुमानस्य नाभिः श्रीसुप्रभेदकम् । विजयं जठरं
प्राहुर्निःश्वासं हृदयात्मकम् । स्वायंभुवं स्तनद्वन्द्वमनलं लोचनत्रयम् । वीरागमः कण्ठदेशो
रुरुतन्त्रं श्रुतिद्वयम् । मुकुटं मुकुटं तन्त्रं बाहवो विमलागमाः । चन्द्रज्ञानमुरः प्रोक्तं
बिम्बं वदनपङ्कजम् । प्रोद्गीततन्त्रं रसना ललितं गण्डयोर्युगम् । सिद्धं ललाटफलकं
सन्तानं कुण्डलद्वयम् । किरणं रत्नभूषा स्याद्धातुलं वसनात्मकम् । अङ्गोपाङ्गानि रोमाणि
तन्त्राण्यन्यानि कृत्स्नशः । एवं तत्त्वात्मकं रूपं महादेव्या विचिन्तये’दिति । भ्रूमध्याद-
ष्टमं स्थानं ब्रह्मरन्ध्रादधस्तनम् । मनोन्मनीति कथितं तद्रूपा । तत्स्वरूपं स्वच्छन्दसंग्रहे ।
‘या शक्तिः कारणत्वेन तदूर्ध्वं चोन्मनी स्मृता । नात्र कालकलामानं न तत्त्वं न च
देवता । सुनिर्वाणं परं शुद्धं रुद्रवक्त्रं तदुच्यते । शिवशक्तिरिति ख्याता निर्विकल्पा
निरञ्जने’ति । अतएव ‘वामदेवाय नमो ज्येष्ठाय नम’इति श्रुतौ प्रसिद्धस्य मनोन्म-
नाख्यशिवस्य शक्तिरिति च । त्रिपुरोपनिषद्व्यपि ‘निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि ।
यदायात्युन्मनीभावं तदा तत्परमं पद’मिति । योगशास्त्रे मुद्राविशेषस्य संज्ञा । तल्लक्षणं
तत्रैव ‘नेत्रे ययोरुन्मेषनिमेषमुक्ते वायुर्यया वर्जितरेचपूरः । मनश्च संकल्पविकल्पशून्यं
मनोन्मनी सा मयि संनिधत्ता’मिति । बृहन्नारदीयेपि ‘ध्यानध्यातृध्येयभावो यदा पश्यति
निर्भरम् । तदोन्मनत्वं भवति ज्ञानामृतनिषेवणादि’ति । मनांस्युन्मन्यन्ते उत्कृष्ट-
ज्ञानयुक्तानि कुरुत इति वा । संधिरार्षः । ‘यो वेदादौ खरः प्रोक्तो वेदान्ते च
प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वर’इति श्रुतिप्रसिद्धस्य महेश्वरपदस्य
त्रिगुणातीतत्वं शक्यतावच्छेदकम् । तदुक्तं लैङ्गे ‘तमसा कालरुद्राख्यो रजसा कन-
काण्डजः । सत्वेन सर्वगो विष्णुनैर्गुण्येन महेश्वर’इति । अविच्छिन्नत्वमत्र तृतीयार्थः ।
महेश्वरपदस्य तद्वाच्ये लक्षणा । कालरुद्राख्य इत्युपक्रमानुसारात् । तेन तदवच्छिन्नो
महेश्वरः । ‘सत्येन ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम् । समर्पयन्ति ये लोकास्तन्महेश्वर
उच्यत’इति । भारते । ‘महेश्वरः स भूतानां महतामीश्वरश्च स’इति च । यस्य पञ्च-
विंशतिव्यूहो वातुलशुद्धे प्रतिपादितः सोऽपि महेश्वरस्तस्येयं माहेश्वरी । महती च सा
देवी च महादेवी । महत्त्वं च प्रमाणागम्यशरीरकत्वम् । तदुक्तं देवीपुराणे । ‘बृहदस्य
शरीरं यदप्रमेयं प्रमाणतः । धातुर्महेति पूजायां महादेवी ततः स्मृते’ति । अथवा
चन्द्रमूर्तेः शिवस्य महादेव इति संज्ञा तस्य पत्नी । बुधस्य माता रोहिणीनाम्नी देवी-