सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 90, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 90

६२ ललितासहस्रनाम ।
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ५६ ॥
वित्प्रवरस्य तु वैभवं' । गीतास्वपि 'लिप्यते न स पापेन पद्मपत्रमिवाम्भसे'ति ।
विज्ञानकेवलेऽतिव्याप्तिं परिहरति । निर्मला आणवमलाभाववती, मलस्तमात्मा तद्-
भाववती वा । मुक्तजीवस्तु लक्ष्य एव । नित्यमुक्तेत्यनेन वा तन्निरासः । यद्वा
नित्यशुचिनो मालिन्यभ्रमाधायकत्वादविद्यैव मलस्तदभावत्वान्निर्मला । मलस्य मिथ्या-
त्वात् । तदधिष्ठानं तु न तथेत्याह । नित्या कालत्रयेऽप्यबाध्या । तेन क्षणिक-
विज्ञानमेवात्मेत्यौ(त्तानि)त्पातिकबाह्यनिरासः । 'अविनाशी वा अरेऽयमात्मे'ति श्रुतेः ।
तिथिनित्या कालनित्या मन्त्ररूपा वा । साकारविज्ञानवादिमाध्यमिकनिरासायाह ।
आकारस्य सगुणरूपस्य कल्पितत्वान्निराकारा । तदुक्तं विष्णुभागवते । 'स वै न देवा-
सुरमर्त्यतिर्यङ् न षण्ढो न पुमान्न जन्तुः । नायं गुणः कर्म न सन्न चासन्निषेधशेषो
जयतादशेषः' इति । आकुलेति भावप्रधानो निर्देशः । अविद्यासंपर्केऽप्याकुलत्वाभावा-
न्निराकुला । निर्गता आकुलचित्ता यस्या इति वा । तादृशानां दूरेति यावत् ।
आकुलत्वं सर्वाभावः शून्यं वा । तेन शून्यवादिगम्भीराख्यवाह्यनिरासः । तार्किकमतं
निरस्यति । गुणशून्यत्वान्निर्गुणा । 'साक्षी चेता केवलो निर्गुणश्चे'ति श्रुतेः । गुणानां
शरीरधर्मत्वेन चिद्धर्मत्वाभावाच्च । तदुक्तं मत्स्यपद्मपुराणयोर्हिमवन्तंप्रति नारदेन 'यदुकं
च मया देवी लक्षणैर्वर्जितेति च । शृणु तस्यापि वाक्यस्य सम्यगर्थं विचारणात् । लक्षणं
दैवकोव्यङ्गः शरीरैकाश्रयो गुणः । इयं तु निर्गुणा देवी नैव लक्षयितुं क्षमे'ति ।
साद्यवयवमेव ब्रह्मेति मतं निरसितुमाह । निर्गताः कला अंशा वास्तविका यस्याः । 'अंशो
नानाव्यपदेशा'दिति सूत्रम् । 'ममैवांशो जीवलोक' इति स्मृतिश्च कल्पितांशाभि-
प्रायत्वादविरुद्धा । निर्गुणचिन्ता वा निष्कलेत्युच्यते । तदुक्तं विज्ञानभैरवभट्टारकैः ।
'ध्यानं या निष्कला चिन्ता निराधारा निराश्रया । न तु ध्यानं शरीरस्य मुखहस्तादि-
कल्पने'ति । निष्कला कलातीता वा । शान्ता शमवती । 'निष्कलं निष्क्रियं शान्त'मिति
त्रिपुरोपनिषत् । शकारोऽन्तो यस्य तद्रूपा । अमृतबीजात्मिकेति यावत् । अशान्तेति
वा छेदाद्दिगन्तव्याप्तवोक्त्यात्मनः परिच्छिन्नतावादिदिगम्बरनिरासः । 'सत्यकामः
सत्यसंकल्प' इत्यादिश्रुत्या तादृशमेव ब्रह्मेति मतं निरस्यति । निर्गतः काम इच्छा
यस्याः सा निष्कामा । 'अवाप्ताखिलकामायांस्तृष्णा किंविषया भवेत्' इति देवी-
भागवतात् । 'नेतिनेत्यात्मे'ति श्रुतेः 'पूर्णमदः पूर्णमिद'मिति श्रुतेश्च औपाधिक-
गुणपराणि श्रुत्यन्तराणीति भावः । निष्कममतीति वा । 'अम गत्यादिषु' । उपप्लवो
नाशः स निर्गतो यस्याः । निःशेषेणातिशयेन उप समीप एव पिण्डाण्ड एव प्लवो-
ऽमृतस्रवणं यया सा निरुपप्लवा । निबन्धादिपदेष्वतिशयाद्यर्थे निरः प्रयोगात् ।
तथाचारुणोपनिषदि 'आप्लवस्व प्रप्लवस्व आण्डीभवज मा मुहु'रिति ॥ ९५ ॥ नित्यं
मुक्ता यस्या भक्ताः सा । नित्यं यथातथा मुक्ता वा । नित्यं मुञ्चति मुच्यते वा