ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 95, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । ६७
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ १०३ ॥
मानाधिकाभ्यां वर्जिता ॥ १०२ ॥ अथ सगुणरूपमाश्रित्याह । बालाबगलादिनिखिल-
शक्त्यभेदात्सर्वशक्तिमयी । ब्रह्ममयं जगदित्यादाविव मयडभेदार्थकोऽपि । सर्वदेवशक्ति-
समूहरूपत्वादपि सर्वशक्तिमयी । तदुक्तं पाञ्चरात्रलक्ष्मीतन्त्रयोरिन्द्रंप्रति देव्यैव । ‘महा-
लक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे । हिताय सर्वदेवानां जाता महिषमर्दिनी ।
मदीयाः शक्तिलेशा ये तत्तद्देवशरीरगाः । संभूय ते ममाभूवन्रूपं परमशोभनम् ।
आयुधानि च देवानां यानि यानि सुरेश्वर । मच्छक्तयस्तदाकारा आयुधानि तदाभव-
न्नि’ति । मार्कण्डेयपुराणे त्वयमर्थो विस्तरेण वर्णितो द्रष्टव्यः । ‘पदार्थशक्तयो या
यास्तास्ता गौरीं विदुर्बुधा’ इति लैङ्गादसंकुचितार्थक एव सर्वशब्दो वा । सर्वाणि
मङ्गलानि यस्याः । देवीपुराणे तु । ‘सर्वाणि हृदयस्थानि मङ्गलानि शुभानि च ।
ईप्सितानि ददातीति तेन सा सर्वमङ्गला । शोभनानि च श्रेष्ठानि या देवी ददते
हरे । भक्तानामार्तिहरणी तेनेयं सर्वमङ्गला’ इति ॥
॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । द्वितीयशतकेनाभूत्तृतीया
धूम्रिका कला ॥ २०० ॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते
ललितासहस्रनामभाष्ये द्वितीयं शतकं नाम तृतीया कला ॥ ३ ॥
स्वर्गादिमोक्षान्ताः सद्गतीः सतो ब्रह्मणोऽवगतिं ज्ञानं वा सतां गतिर्वा प्रददातीति
तथा । ‘गतिस्त्वं मतिस्त्वं त्वमेका भवानी’त्यभियुक्तोक्तेः । पाद्मे ‘त्रिकालं पूजयेद्यस्तु
चतुर्दश्यां नराधिप । स गच्छति परं स्थानं यत्र देवी व्यवस्थिते’त्यारभ्य ‘दुर्गापूजोप-
करणं स्वल्पं वा यदि वा बहु । कृत्वा वित्तानुसारेण रुद्रलोके महीयत’इत्यन्तैश्चतुर्भि-
रध्यायैः प्रत्युपचारं गुणकामविधिभिः क्रमेण समस्तलोकगतिप्रतिपादकानि वचनानीहो-
पष्टम्भकत्वेन योजनीयानि । अतएव सर्वस्वामित्वात्सर्वेश्वरी । असंकुचितस्वामित्व-
मभेदं विना न निर्वहतीत्याह । सर्वमयी क्षित्यादिशिवान्ततत्त्वाभिन्ना । तदुक्तं का-
मिके । ‘चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयम् । भुवनाध्वा स संचिन्त्यो रोमवृन्दा-
त्मनो विभोः । पञ्चाशद्वर्णरूपेण क्षुवन्वर्णाध्वकल्पना । असौ त्वगात्मनाचिन्त्यो देव-
देवस्य शूलिनः । सप्तकोटिमहामन्त्रैर्मूलविद्यासमुद्भवैः । मन्त्राध्वा संधिरूपात्मासौ वि-
चिन्यः पार्वतीपतेः । अनेकभेदसंभिन्ना मन्त्राणां पदसंहतिः । पदाध्वेत्युच्यते सौम्या
शिरामांसतया स्थितः । पृथिव्यादीनि षट्त्रिंशत्तत्त्वान्यागमवेदिभिः । तत्त्वाध्वेत्युदि-
तान्येष शुक्लमज्जास्थिरूपधृगि’ति । एतदेवावयुत्यानुवदति त्रिभिः । सर्वे सप्तकोटि-
संख्यामन्त्राः स्वरूपमस्याः । श्रूयते च सुन्दरीतापनीये । ‘पूर्वोत्तराभ्यां विद्याया
अनेकाः परिकॢप्ता’ इति । स्पष्टतरं च गौडपादै ‘र्विद्यायाः पूर्वोत्तराभ्यामनेका जाता’
इत्यादिभिः सप्तभिः सूत्रैः सर्वमन्त्रात्मकत्वं वर्णितं तद्भाष्ये च प्रपञ्चितम् । तत्रैव