ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 96, कुल 272 में से
संदर्भ में पढ़ेंसर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ १०४ ॥
‘तथा यन्त्रतन्त्राणी’ति सूत्रे वर्णितं प्रमेयमाह ॥ १०३ ॥ सर्वेषां घटार्गलादीनां यन्त्रा-
णामात्मस्वरूपमेवात्मिका । ‘प्रत्ययस्था’दितीत्त्वम् । वामकेश्वरादिसर्वतन्त्राण्येव रूपं शरी-
रमस्याः । सर्वतन्त्रैर्निरूप्या वा । तदुक्तं ‘बहुधाप्यागमौर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्येते स्रोतस्विन्य इवार्णव’इति । शरीरपक्षेऽपि कामिकागमे ‘कामिकं
पादकमलं योगजं गुल्फयोर्युगम् । पादद्वयाङ्गुलीरूपे कारणप्रस्तृताह्वये । अजिता जानुनो-
र्युग्मं दीप्तमूरुद्वयं विभोः । पृष्ठभागोऽंशुमानस्य नाभिः श्रीसुप्रभेदकम् । विजयं जठरं
प्राहुर्निःश्वासं हृदयात्मकम् । स्वायंभुवं स्तनद्वन्द्वमनलं लोचनत्रयम् । वीरागमः कण्ठदेशो
रुरुतन्त्रं श्रुतिद्वयम् । मुकुटं मुकुटं तन्त्रं बाहवो विमलागमाः । चन्द्रज्ञानमुरः प्रोक्तं
बिम्बं वदनपङ्कजम् । प्रोद्गीततन्त्रं रसना ललितं गण्डयोर्युगम् । सिद्धं ललाटफलकं
सन्तानं कुण्डलद्वयम् । किरणं रत्नभूषा स्याद्धातुलं वसनात्मकम् । अङ्गोपाङ्गानि रोमाणि
तन्त्राण्यन्यानि कृत्स्नशः । एवं तत्त्वात्मकं रूपं महादेव्या विचिन्तये’दिति । भ्रूमध्याद-
ष्टमं स्थानं ब्रह्मरन्ध्रादधस्तनम् । मनोन्मनीति कथितं तद्रूपा । तत्स्वरूपं स्वच्छन्दसंग्रहे ।
‘या शक्तिः कारणत्वेन तदूर्ध्वं चोन्मनी स्मृता । नात्र कालकलामानं न तत्त्वं न च
देवता । सुनिर्वाणं परं शुद्धं रुद्रवक्त्रं तदुच्यते । शिवशक्तिरिति ख्याता निर्विकल्पा
निरञ्जने’ति । अतएव ‘वामदेवाय नमो ज्येष्ठाय नम’इति श्रुतौ प्रसिद्धस्य मनोन्म-
नाख्यशिवस्य शक्तिरिति च । त्रिपुरोपनिषद्व्यपि ‘निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि ।
यदायात्युन्मनीभावं तदा तत्परमं पद’मिति । योगशास्त्रे मुद्राविशेषस्य संज्ञा । तल्लक्षणं
तत्रैव ‘नेत्रे ययोरुन्मेषनिमेषमुक्ते वायुर्यया वर्जितरेचपूरः । मनश्च संकल्पविकल्पशून्यं
मनोन्मनी सा मयि संनिधत्ता’मिति । बृहन्नारदीयेपि ‘ध्यानध्यातृध्येयभावो यदा पश्यति
निर्भरम् । तदोन्मनत्वं भवति ज्ञानामृतनिषेवणादि’ति । मनांस्युन्मन्यन्ते उत्कृष्ट-
ज्ञानयुक्तानि कुरुत इति वा । संधिरार्षः । ‘यो वेदादौ खरः प्रोक्तो वेदान्ते च
प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वर’इति श्रुतिप्रसिद्धस्य महेश्वरपदस्य
त्रिगुणातीतत्वं शक्यतावच्छेदकम् । तदुक्तं लैङ्गे ‘तमसा कालरुद्राख्यो रजसा कन-
काण्डजः । सत्वेन सर्वगो विष्णुनैर्गुण्येन महेश्वर’इति । अविच्छिन्नत्वमत्र तृतीयार्थः ।
महेश्वरपदस्य तद्वाच्ये लक्षणा । कालरुद्राख्य इत्युपक्रमानुसारात् । तेन तदवच्छिन्नो
महेश्वरः । ‘सत्येन ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम् । समर्पयन्ति ये लोकास्तन्महेश्वर
उच्यत’इति । भारते । ‘महेश्वरः स भूतानां महतामीश्वरश्च स’इति च । यस्य पञ्च-
विंशतिव्यूहो वातुलशुद्धे प्रतिपादितः सोऽपि महेश्वरस्तस्येयं माहेश्वरी । महती च सा
देवी च महादेवी । महत्त्वं च प्रमाणागम्यशरीरकत्वम् । तदुक्तं देवीपुराणे । ‘बृहदस्य
शरीरं यदप्रमेयं प्रमाणतः । धातुर्महेति पूजायां महादेवी ततः स्मृते’ति । अथवा
चन्द्रमूर्तेः शिवस्य महादेव इति संज्ञा तस्य पत्नी । बुधस्य माता रोहिणीनाम्नी देवी-