ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
४२ ललितासहस्रनाम ।
अतश्चाक्षरज्ञानसापेक्षत्वाद्युत्पन्नैश्चतुश्चतुरक्षराणीति ज्ञातुं शक्यमेव । नच तैरन्यत्राप्येव-
मेव ज्ञातुं शक्यत्वाद्ग्रन्थवैयर्थ्यम् । व्युत्पन्नानामपि संदेहस्य प्रचुरं प्रदर्शयिष्यमाण-
त्वात् । अन्यथा छलाक्षरसूत्राणामपि वैयर्थ्यापत्तेः । अथापि यद्यष्टाक्षरे द्वे नामनी विभ-
ज्येते तदा गुणैरिति गकारेण शरच्चन्द्रनिभाननेत्यत्र शरच्चमिति त्र्यक्षरस्य भिन्ननाम-
त्वापत्तिः । तत्रापि प्रमादिष्टापत्तिं वदन्तस्तु नात्राधिकारिणः । तदुक्तं योगवासिष्ठे
'नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवानि'ति तुल्याविमौ पर्यनुयोगसमाधी
सर्वशास्त्रेष्वपीति ॥ १० ॥ अथ देव्याः स्थूलरूपस्य कार्याणि स्पष्टतया वदन्नेव रहस्य-
भूतं परंरूपं रहस्योक्तिभिरेव वर्णयितुमारभते—देवर्षीत्यादिना । देवगण ऋषि-
गणश्च यस्तयोः संघातेन महासमुदायेन स्तूयमान आत्मा स्वरूपं यस्य तादृशं वैभवं
यस्याः, स्तूयमानात्मवैभवमात्मनो व्यापकत्वं यस्या वा सा । अथवा देवर्षिगणैः
संघातशः स्तूयमानं बहुप्रकारेण स्तूयमानमित्यर्थः । यद्वा संघातो नरकविशेषस्तन्नि-
रासार्थं स्तूयमानमित्यादि । पापस्य प्रायश्चित्तमित्यादौ षष्ठ्या नाश्यनाशकभावसंबन्धार्थ-
कत्वदर्शनादिहापि षष्ठीसमासः । यद्वा सम्यक् घातो भण्डासुरवधस्तदुद्देशेन स्तूय-
मानमित्यादि । अतएवोत्तरनामनि तदुत्तरभाविवधोद्योगकथनम् । अतएव ब्रह्माण्ड-
पुराणे भण्डासुरपीडितैर्देवैः कृतं 'जयदेवि जगन्मात'रित्यादिना देवीस्तवं निर्वर्ण्याम्बया
वरं वृणुध्वमित्युक्ते देवानां वाक्य
सौभाग्यभास्करव्याख्या । ४३
संपत्करी समारूढसिंधुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ ७६ ॥
ततो नाम्ना भण्डो,लोकेषु कथ्यत' इत्यन्तम् । तस्यासुरत्वमपि तत्रैवोक्तम् । 'रुद्रकोपान-
लाज्जातो यतो भण्डो महाबलः । तस्माद्रौद्रस्वभावश्च दानवश्चाभवत्तत' इति । तस्य
दैत्यस्य वधे हनने उद्युक्तानां शक्तीनां श्रीदेवतानां सेनाभिः सैन्ये सम्यक् व्यूह-
निर्माणेनान्विता युक्ता । सम्यग्भेदेनान्विता वा । तथाच गौडपादीयं सूत्रम्
'भण्डासुरहननार्थमेकैव अनेका' इति । यद्वा भण्डो निर्लज्जः सच प्रकृते जीवभाव-
मापन्नो देही । तदाहुः 'सच्चित्सुखात्मापि जडास्थिरत्वदुःखादिभिः क्लिश्यसि भण्डि-
माय'मिति । तस्यासून प्राणान् रात्यादत्ते तत्सर्वं खं तद्गतो धर्मो भण्डिमेति यावत् ।
ज्ञानबन्ध इति सूत्रोक्तो बन्ध इति भावः । अस्यात्मा ज्ञानमिति सूत्रद्वयं संधावकार-
श्लेषाश्लेषाभ्यामात्मन्यात्मत्वज्ञानाभावोऽनात्मन्यात्मत्वज्ञानं च आणवमलपदवाच्यत्वेन
प्रसिद्धो बन्ध इत्यर्थस्तद्भाष्यवार्तिकयोरुक्तः । तस्य वधो यस्सात्तदुपयुक्तमुद्योग उद्यम
इति यावत् तस्य याः शक्तयः सामर्थ्यानि तासां सेनया समूहेन समन्वितेति
रहस्यार्थः । तथाच शिवसूत्राणि 'उद्यमो भैरवः शक्तिचक्रानुसंधाने विश्वसंहारः' ।
शक्तिसंधाने शरीरोत्पत्तिः भूतसंधाने भूतपृथक्त्वविश्वसंघट्टा इत्यादीनि तद्वार्तिकानि
यथा 'योयं विमर्शरूपायाः प्रसरन्त्याः स्वसंविदः । झडित्युच्छलनाकारप्रतिभो मज्ज-
नात्मकः । उद्यमोन्तःपरिस्पन्दः पूर्णाहंभावनात्मकः । स एव सर्वशक्तीनां सामरस्याद-
शेषतः । विश्वतोभरितत्वेन विकल्पानां विभेदिनाम् । अलं कवलनेनापीयन्वर्थादेव
भैरवः । योयमुक्तः स्वसंवित्तेरुद्योगो भैरवात्मकः । अस्यास्ति महती शक्तिरतिक्रान्त-
क्रमाक्रमा । निःशेषनिजचिच्छक्तिसेनाक्रमणलम्पटा । रिक्तारिक्तोभयाकाराप्यन्यैतदूषिणी
परा । तथैव स्वात्मचिद्वित्तौ प्रमेयोह्लासनादितः । परप्रमातृविश्राम्तिपर्यन्तस्पन्दरूपया ।
सृष्टिस्थितिलयान्ताख्या भासा शक्तिप्रसारणात् । प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितम् ।
तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः । संधानमान्तरा माया सौक्ष्मक्रमविमर्शनम् ।
तस्मिन्सत्यस्य विश्वस्य कालाग्न्यादिकलावधेः । संहारः स्यात्स्वसंवित्तिवह्रिसद्भावलक्षणः ।
इच्छाशक्तिरुमेत्यादिसूत्रोक्ता शक्तिरस्य या । संधाने योगिनस्तस्यास्तन्मये भावने
सति । तद्वशात्तत्तदिच्छार्हशरीरोत्पत्तिरिष्यते । भूतानां देहधीप्राणशून्यानां ग्राहका-
त्मनाम् । ग्राह्याणां स्थावराणां च संधानं परिपोषणम् । पृथक्त्वमथ विश्लेषो व्याध्या-
दिक्लेशबन्धनात् । विश्वस्य देशकालादिविप्रकृष्टस्य यत्पुनः । संघट्टश्चक्षुराद्यक्षप्रत्यक्षीकर-
णादिकम् । एतत्सर्वं भवेच्छक्तिसंधाने सति योगिन'इत्यादि । पुंस्त्वशक्तिर्बाल्ये तिरो-
हितापि यौवने यथा समुल्लसति तथा विचित्राः शक्तिसमूहा जीवे विद्यमाना अप्य-
ज्ञानवशात्तिरोहिताः उद्योगे सति तु सर्वा अपि ताः समुल्लसन्तीति तु समुदायार्थः
॥ ७५ ॥ अस्ति संपत्करीनाम काचिद्देवता । या तावत्स्वतन्त्रतन्त्रे 'संपत्करीति
क्वाप्यस्ति विद्या साऽचिन्त्यवैभवे'त्यारम्य 'एवं त्रिवर्णा सा विद्या विधानं चाथ कथ्यत'
इत्यन्तेन वर्णिता । सा हि त्रिपुरसुन्दर्या गजेष्वधिकृतेति ललितोपाख्याने प्रसिद्धम् ।
'ललितापरमेशान्या अङ्कुशाग्रात्समुद्गता । संपत्करी नामदेवी'त्यारभ्य 'रणकोलाहलं
नाम सारुरोह मतंगज'मित्यादिकमुक्त्वा 'तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमा'
इत्यन्तम् । तया सम्यग्गजशास्त्रकथितोपायैरारूढानामारोहणादिना नियमितानां सिन्धु-
राणां भद्रमन्द्रमृगादिभेदभिन्नगजानां व्रजेन हास्तिकेन सेविता । अथवा सुखसंपन्मयी
चित्तवृत्तिः संपत्करीत्युच्यते तस्यां समारूढैर्विषयीभूतैः सिन्धुरव्रजैः शब्दादिविषयसमूहैः
सेविता । तथाच कादिमते 'इन्द्रियार्थानजानपूर्वं तन्नाम्नैव समर्चयेदि'ति । एकस्मिन्
ज्ञाने विषयीभूतायास्त्रिपुट्या विविच्य संबन्धज्ञानरूपा चित्तवृत्तिः सुखसंपत्करी । तदुक्तं
प्रत्यभिज्ञायाम् 'ग्राह्यग्राहक
सौभाग्यभास्करव्याख्या । ४५
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ ७७ ॥
तिष्ठति । उमा कुमारी संत्यक्तसर्वसङ्गा महेशितुः । आराधनपरा तद्वदिच्छाशक्तिस्तु
योगिनः । अयमेव स्फुटोपायो दृष्टोऽनुत्तरदेशिकैः । एवमीदृक्प्रभावेच्छाशक्तियुक्तस्य
योगिनः । यद्यद्द्दश्यमशेषं तच्छरीरं तस्य योगिनः । अहमित्यपृथक्त्वेन प्रतिवत्प्रति-
भासनात् । एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः । दृश्यं शरीरतामेति शरीरं
चापि दृश्यतामिति । सूत्रान्तरं च 'यथा तत्र तथान्यत्रे'ति । 'यत्र स्वाभाविका देहे
स्फुटीभूता स्वतन्त्रता । यथा तत्र तथान्यत्र देहे भवति योगिनः । स्फुटीभवति
युक्तस्य पूर्णांहंतास्वरूपिणी'ति ॥ ७६ ॥ चक्रराजकिरिचक्रगेयचक्रादयो रथप्रभेदा
रथशास्त्रे ललितोपाख्याने च वर्णिताः । 'आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः ।
दशयोजनमुन्नम्रश्चतुर्योजनविस्तृतः । महाराज्ञाश्चक्रराजरथेन्द्रः प्रचलन्बभौ । मन्त्रिीता-
भामहाचक्रे गीतिचक्रे रथोत्तमे । सप्तपर्वाणि चोक्तानि तत्र देव्यश्च ताः शृणु ।
किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रयाः । देवताश्च शृणु प्राज्ञ नामयं(?) शृण्वतां जयः ।
चक्रराजरथो यत्र तत्र गेयरथोत्तमः । यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः । एतद्रथ-
त्रयं तत्र त्रैलोक्यमिव जंगम'मित्यादि । तेषु चक्रराजाख्यं रथमारूढैः सर्वैरायुधैः
परिष्कृतालंकृता युद्धकाले देवी । रथसमीपे देव्याः सर्वाण्यायुधानि चक्रराजरथे परिपूर्य
स्थापितानि सन्तीत्यर्थः । यद्वा चक्रराजं श्रीचक्रमेव रथस्तमारूढानि यानि सर्वायुधानि
सर्वाण्यात्मज्ञानसाधनानि तैरित्यादि । यज्ञायुधानि संभरतीत्यादौ साधने प्रायुध-
शब्दप्रयोगदर्शनात् । आणवोपायशाक्तोपायशांभवोपायादयः शैवशास्त्रोक्तसाधन-
विशेषा योगशास्त्रोक्ताश्च ते श्रीचक्रात्न भिद्यन्त इत्यर्थः । तथाच सूत्रम् । 'नासिकान्त-
मध्यसंयमात्किमत्र सव्यापसव्यसौपुम्ये'ष्विति । चक्रसिद्धौ सत्यां योगमार्गे किमपि
नावशिष्यत इत्यर्थः । अथवा चक्रराजमेव रथ आधारो यस्य तच्चक्रेशलाख्या सिद्धि-
रितियावत् । तामारूढं तद्धानेऽधिकृतं यत्सर्वायुधं सर्वाणि कर्मादिरूपाण्यायुधानि
साधनानि यस्मिंस्तत् 'सर्वे कर्माखिलं पार्थ ज्ञाने परिसमाप्यत'इति वचनाज्ज्ञानं ।
शुद्धविद्येत्यर्थः । तया परिष्कृता । तथाच शिवसूत्रम् । 'शुद्धविद्योदयाच्चक्रेशत्वसिद्धि'-
रिति । वार्तिकान्यपि । 'यदापरिमितां सिद्धिमनिच्छन्पुनरिच्छति । विश्वात्मवत्प्रथा-
रूपां परां सिद्धिं तदास्य तु । शुद्धविद्योदयाच्चक्रराजत्वं सिद्धिमृच्छति । वैश्वात्म्य-
प्रथनाकाङ्क्षी संधत्ते शक्तिमात्मनः । यदा योगी तदा तस्य सदाशिवपदस्पृशः ।
ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ।
इति नीत्या जगत्सर्वमहमेवेति या मतिः । सा शुद्धा निर्मला विद्या तदीयादुदया-
त्स्फुटात् । उन्मज्जनात्स चिच्छक्तिमात्मनो नित्यमामृशेत् । यदा योगी तदा तस्य
चक्रेशत्वमनुत्तरम् । माहेश्वर्या समावेशोत्कर्षात्सिध्यति योगिन' इति । गेयचक्राख्यं
४६ : ललितासहस्रनाम ।
किरिचक्ररथारूढदण्डनाथपुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ ७८ ॥
रथमारूढया मन्त्रिण्या श्यामलादेव्या परितः सेविता । यद्वा गेयं प्रसिद्धं चक्रं यस्य
तादृशो रथो यस्य सूर्यमण्डलस्य तत्रारूढाभिर्मन्त्रिणीभिर्विद्योपासकाभिर्योगिनीभिः
परिसेविता । अथवा गेयो मुख्यश्चक्राख्यो रथो यस्याः सा त्रिपुरसुन्दरी तस्या
आरूढमारोहणं बुद्धौ विषयीकरणमनुसंधानमितियावत् । तेन यो मन्त्रिणीः । मन्त्रो-
ऽस्यास्तीति मन्त्री मन्त्रवीर्यं तन्नयति विषयीकरोतीति तदनुभवस्तेन परिसेविता ।
आत्मानं त्रिपुरसुन्दर्यात्माभेदेनानुसंधाने क्रियमाणे यत्तावत्तन्त्रराजे कथितं गुरुमुखै-
कवेद्यं मन्त्रवीर्ययोजनं तस्यानुभवो भवतीत्यर्थः । तथाच सूत्रं 'महाह्रदानुसंधानान्मन्त्र-
वीर्यानुभव'इति । 'महाह्रद इति प्रोक्ता शक्तिर्भगवती परा । अनुसंधानमित्युक्तं
तत्तादात्म्यविमर्शनम् । मन्त्रवीर्यमिति प्रोक्तं पूर्णाहंताविमर्शनम् । तदीयोऽनुभवस्तस्य
स्फुरणं स्वात्मनः स्फुट'मिति । एतच्च 'विद्याशरीरस्फुरता मन्त्ररहस्य'मिति सूत्रे
भगवता श्रीक्षेमराजेन विस्तरेण स्फुटीकृतम् ॥ ७७ ॥ किरिर्वराहः 'कोलः पोत्री
किरिः किटि'रित्यमरात् । तदाकृतीनि तदाकृष्टानि वा चक्राणि यस्य तं रथमारूढया
दण्डनाथया वाराह्याख्यया देव्या पुरस्कृता सेविता । 'सर्वदा दण्डपाणित्वादण्डनाथेति
गीयत' इति त्रिपुरासिद्धान्ते दण्डनाथनामनिर्वचनात् । अथवा किरय इति किरणाः
सृष्टय इति यावत् । इदमुपलक्षणं स्थितिलययोः तेषां चक्रं समूह एव रथः तस्या-
रोहेऽपि दण्डनाथेन कृतान्तेन पुरस्कृता न स्वाधीनीकृता । सृष्टिस्थितिलयान्तःपति-
तोऽपि योगी न यमयातनाविषयः । अक्लुप्तानुसंधान इतियावत् । तथाच सूत्रं ।
'तत्प्रवृत्तावप्यनिरासः स्वसंवेत्तृभावा'दिति । व्याख्यातं च भगवता कृष्णदासेन ।
'तेषां सृष्ट्यादिभावानां प्रवृत्तावप्यनारतम् । उन्मज्जनेऽपि निष्कम्पयोगावष्टम्भशालिनः ।
अनिरासः स्वसंवेत्तृभावादप्रच्युतिर्निजात् । उद्यत्तूर्यचमत्कारादुपलब्धिस्वभावत'इति ।
ज्वालामालिनीनामिका चतुर्दशीतिथिनित्या । तया हि श्रीमातरमभितो वह्निमयः प्राकारो
निर्मितः । तदाक्षिप्तस्य निर्मितस्य वह्निमयस्य प्राकारस्य वरणस्य मध्यगा मध्यभागे
स्थिता । तथाच ब्रह्माण्डे ज्वालामालिनींप्रति देवीवचनम् । 'वत्से त्वं वह्निरूपासि
ज्वालामालामयाकृतिः । त्वया विधीयतां रक्षा बालस्यास्य महीयसः । शतयोजन-
विस्तारं परिवृत्य महीतलम् । त्रिंशद्योजनमुन्नमद्ज्वालाप्राकारतां व्रजे'दित्यादि । यद्वा ननु
परस्परविलक्षणसृष्ट्यादिसंवृतस्य ज्ञानिनः कथमद्वैतानुसंधानलोपाभाव इत्यत आह-
ज्वालेति । ज्वालानां मालिनिका मालास्ताश्च आक्षिप्तास्तत्क्षणे उत्पन्नाश्च वन्हेः
प्रांकाराः प्रकाराः स्फुलिङ्गादयस्तेषां मध्यगा तद्द्रष्टृत्वेन तत्स्रष्टृत्वेन च मध्यवर्तिनी
विवदमानयोर्द्वयोर्मध्यस्थवन्निर्विकारा । सृष्ट्यादिकर्तृत्वेन तद्विकारेऽप्यविकारिणीति
यावत् । तदुक्तं स्पन्दशास्त्रे । 'अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता-
सौभाग्यभास्करव्याख्या । ४७
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ ७९ ॥
भण्डपुत्रवधोद्युक्तवालाविक्रमनन्दिता ।
क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् । कार्योन्मुखप्रयत्नो यः केवलं सोऽत्र लुप्यते ।
तस्मिंल्लुप्तेऽपि लुप्तोऽस्मीत्यबुधः प्रतिपद्यते । नतु योऽन्तर्मुखो भावः सर्वज्ञलगुणा-
स्पदः । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भना'दिति । चिद्रूपिरूपस्य ज्ञानिनो
विस्फुलिङ्गज्यालादितुल्यजगतः कार्यस्य नाशेऽपि वह्निरूपप्रकाशकलस्य प्रका-
शात्मकलस्य वा न क्षतिरिति फलितार्थः । नच शिवकार्यस्य क्षयिष्णुत्वेन शिवनिष्ठकर्तृ-
त्वस्य नाशाभावे साधकस्य योगिनः किमायातमिति वाच्यम् । अस्यापि शिवतुल्यत्वेन
'तथापर्यनुयोगानर्हत्वात् शिवतुल्यो जायत' इति सूत्रात् । उक्तंच 'स्वशक्तिप्रचयो
विश्व'मिति सूत्रे वार्तिककारैः । 'शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः । इत्या-
गमदिशा विश्वं स्वशक्तिप्रचयो यथा । शिवस्य तत्समस्यापि तथास्य परयोगिन'
इति । अथवा । ज्वालामालिनिकासु शक्तित्रिकोणेषु पञ्चसु क्षिसानां समरसभाव-
मापन्नानां वह्निप्राकाराणां शिवत्रिकोणानां चतुर्णां मध्ये विन्दुरूपेण तिष्ठतीति ।
तदुक्तमुत्तरचतुःशतीशास्त्रे । 'तच्छक्तिपञ्चकं सृष्ट्या लयेनामित्रतुष्टयम् । पञ्चशक्ति-
चतुर्वह्निसंयोगाच्चक्रसंभव'इति ॥ ७८ ॥ भण्डासुरस्य सैन्यस्य चतुरङ्गबलस्य वधे
उद्युक्तानां संयतानां शक्तीनां नकुल्यादीनां विक्रमेण पराक्रमेण हर्षिता । यद्वा ।
भण्डो जीवभावस्तस्य सैन्यं तदनुगुणाद्वैतविपयिण्यो वृत्तयस्तस्य वधे उद्युक्तानाम-
द्वैतवृत्तिरूपशक्तीनां विशेषेण क्रमः पादविक्षेपस्तेन हर्षिता । खानन्दांशे आवरण-
नाशात् । तदिदमुक्तं शक्तिसूत्रे । 'तदपरिज्ञाने स्वशक्तिव्यामोहिता संसारित्व'मिति ।
तस्य स्वकर्तृकपञ्चविधकृत्यस्यापरिज्ञाने स्वाभिः शक्तिभिः खेचरीगोचरीदिक्त्वरीभूचरी-
संज्ञाभिर्व्यामोहितैव संसारित्वमिति तदर्थः । तासां च शक्तीनां पशुभूमिकायति-
भूमिकेति भूमिकाद्वैविध्येन प्रमात्रन्तःकरणबहिःकरणविषयभावाद्यापत्तिस्तद्भाष्ये द्रष्टव्या ।
एतद्वधोद्युक्तशक्तयश्चैतदुत्तरसूत्रे कथिताः तत्परिज्ञाने चित्तमेवान्तर्मुखीभावेन चेतन-
पदाध्यारोहाच्चितिरिति । अन्तर्मुखीभावशब्देन वृत्तिविशेषरूपाः शक्तय उच्यन्त
इति । कामेश्वर्यादिचित्रान्ताः पञ्चदशतिथिनित्याख्या देवताः । यासां मन्त्रा ज्ञानार्णवे
तन्त्रराजे च भेदेनोद्भूताः । तासां पराक्रमस्याटोपो विस्तारो दमनकादिचन्द्रगुप्तान्त-
पञ्चदशसेनानीवधपर्यन्तः तस्य निरीक्षणे सम्यगुत्सुका । पक्षे नित्या अनादिसिद्धाः
स्वात्मशक्तयस्तत्पराक्रमेक्षणे उत्तरोत्तरमुत्सुका । सकृज्जातापि ज्ञानकलान्तर्मुखतायामे-
वोत्साहं जनयन्ती सती वर्धते । उक्तंच योगवासिष्ठे । 'सर्वा एव कला जन्तोरनभ्यासेन
नश्यति । इयं ज्ञानकला त्वन्तः सकृज्जातापि वर्धत'इति ॥ ७९ ॥ भण्डासुरस्य पुत्रान
चतुर्बाहुपमायान्तानां त्रिंशत्संख्याकानां वधे उद्युक्ताया बालाख्यदेव्या नववर्षीया-
४८ ललितासहस्रनाम ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ ८० ॥
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ८१ ॥
स्वपुत्र्या विक्रमेण नन्दिता हृष्टा । उक्तंच ब्रह्माण्डे । 'ताभिर्निवेद्यमानानि सा देवी
ललिताम्बिका । पुत्र्या भुजापदानानि श्रुत्वा प्रीतिं समायया'विति । मन्त्रिण्यम्बया
श्यामलाम्बया विरचितेन विषङ्गाख्यस्य दैत्यस्य वधेन तोषिता । विषङ्गविशुक्रौ भण्डा-
सुरभ्रातरौ । तदुक्तं ब्रह्माण्डे । 'पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः । पूर्वदेवान्बहु-
विधान्यः स्रष्टुं स्वेच्छया पटुः । विशुक्रं नाम दैतेयवर्गसंरक्षणक्षमम् । शुक्रतुल्यविचारज्ञं
दक्षांसेन ससर्ज सः । वामांसेन विषङ्गं च सृष्टवान्भ्रातरावुभा'वित्यादि ॥ ८० ॥
विशुक्राख्यस्य दैत्यस्य प्राणान् हरतीति हरणं तादृशेन वाराहीनामिकाया दण्डिनीदेव्या
वीर्येण शौर्येण नन्दिता । त्रिपुरासिद्धान्ते वाराहीपदन्निरुक्तिर्यथा । 'वाराहानन्दनाथस्य
प्रसन्नत्वान्महेश्वरी । वाराहीति प्रसिद्धेयं वराहवदनेन चे'ति । पक्षे भण्डपुत्रा आण-
वादयो मलाः विरुद्धः सङ्गो विषङ्गो विषयाभिलाषः, विषं गच्छतीति वा विषात्मक
इतियावत् । अतएव 'यो विषस्थो ज्ञानशक्तिहेतुश्चे'ति सूत्रे विषविरुद्धत्वादविषशब्दो
माहेश्वर्यादिशक्तिमण्डलपरत्वेन क्षेमराजवृत्तौ व्याख्यातः । विरुद्धं शुक्रं तेजो यस्य स
जीवभावः । विशेषेण शुचं शोकं राति कामतीति वा । अयस्मयादित्वात्पृषोदरादि-
त्वाद्वो पक्षद्वये शब्दसिद्धिः । बाला मन्त्रिणी वाराह्यन्तरवृत्तिविशेषास्ताभिस्तेषां क्षयेण
स्वात्मदेवता तुष्यतीति । तदिदमुक्तं 'बललाभे विश्वमात्मसात्करोती'ति शक्तिसूत्रे ।
चित्तिरेव बलं तल्लाभे उन्मग्नखरूपाश्रयेण विश्वं स्वाभेदेन भासयतीति तद्भाष्यम् ।
तथा 'तदारूढप्रमिते तत्क्षयाज्जीवसंक्षय' इति शिवसूत्रे वार्तिककारैः । 'तदित्युक्तचरे
धाम्नि संवेत्तृलखरूपिणी । आरूढा प्रमितिः सच्चिन्मद्विमर्शनतत्परा । यस्य तस्यास्य
तदिति प्रोक्ताणवमलात्मनः । अभिलाषस्य रूढस्य क्षयाज्जीवस्य संक्षय'इति । असुर-
निर्मितैर्नानाविधैर्विघ्नैर्व्यथितान्देवान्वीक्ष्य श्रीमात्रा तदात्व एव स्वभर्तुर्मुखालोकन-
मात्रेणाष्टाविंशत्यर्णो महागपतिरुत्पादितस्तेन तदीयं विघ्नयन्त्रं निर्भिद्य देवा मोचिताः ।
उक्तंच ब्रह्माण्डपुराणे । 'ततः सा ललितादेवी कामेश्वरमुखं प्रति । दत्तापाङ्गा समहस-
न्नातिव्यक्तपदावलि । तस्या मन्दस्मितरुचः कुञ्जराकृतिमान्मुखे । कटक्रोडगलद्दानः
कश्चिद्देवो व्यजृम्भते'त्यादि । तदिदं नामद्वयेनाह । कामेश्वरमुखस्य परशिववदन-
चन्द्रस्यालोकाभ्यां साकूतवीक्षणचन्द्रिकाभ्यां कल्पित उत्पादितः श्रीमान्महागणे-
श्वरो यस्याः सा । यद्वा सूत्रोक्तो जीवक्षयो निलयलाभ्न युज्यत इत्याशङ्क्य जीवभावस्य
क्षयपरत्वेन समाधत्ते—कामेश्वर इति । कामेश्वरः केवलनिर्गुणः शिवस्तन्मुखा-
लोकेन तदनुभवेन कल्पितं श्रीगणेश्वरत्वं पुर्यष्टकाधीश्र्वरत्वं यया सा । पुर्यष्टकप्रमातृ-
त्वाहंताभिमानीविशिष्टस्य जीवपदवाच्यत्वेन तत्तादात्म्याभिमानस स्वात्मस्वरूपनिष्कर्ष-
सौभाग्यभास्करव्याख्या । ४९
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ८२ ॥
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ८३ ॥
ज्ञानजन्येन पुर्यष्टकेश्वरत्वज्ञानेन नाशे विशेषणाभावाप्रयुक्तो विशिष्टाभाव इति भावः ।
तदुक्तं 'भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः पर' इति शिवसूत्रे वार्तिककारैः ।
'तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये । पुर्यष्टकप्रमातृत्वाभिमानगलनादसौ । देहा-
रम्भकरैर्भूतैरस्पृष्टाद्विरहं पदम् । कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः । भूयो बाहु-
ल्यतः पत्या समोऽयं परमेशिना । तत्स्वरूपं समाविष्टश्चिदानन्दघनात्मकम् । ततएव
परः पूर्णः सम्यक्तन्मयतां गत' इति । अयमेवार्थः शक्तिसूत्रेऽप्युक्तः । 'चिदानन्द-
लाभे देहप्राणादिष्ववभासमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्ति'रिति ।
'मध्यविकासाच्चिदानन्दलाभ' इत्युत्तरसूत्रे तु मध्यविकासो यश्चिदानन्दलाभो हेतुत्वेनोक्तः
स इह वक्ष्यमाणमहागणेशपदेन ग्राह्यः । यश्च मध्यविकासेऽप्युपायतस्ततोऽप्युत्तरसूत्रे
विकल्पक्षयादिरूपो वर्ण्यते स इह कामेश्वरमुखालोकपदेनोक्तः । प्रहर्षितेत्यनेन तु
चिदानन्दलाभ उक्तः । एतेषां स्वरूपनिष्कर्षस्तु प्रत्यभिज्ञाहृदयेऽनुसंधेयो विस्तर-
भयान्नेहोच्यते ॥ ८१ ॥ महागणेशेन निःशेषेण भिन्नैर्नाशितैर्विघ्नयन्त्रैः प्रत्यूहसमूह-
यन्त्रणैः प्रकर्षेण हर्षिता । गव्यूतिमात्रायामे शिलापट्टे अलसादिदेवताष्टकपुटित-
शूलाष्टकोपेतदिगष्टकं जयविघ्नंनाम यन्त्रं विलिख्य देवीसैन्ये विशुक्रेण निक्षिप्तं तन्महा-
गणपतिना चूर्णीकृतमिति ललितोपाख्याने प्रसिद्धम् । भण्डेनासुरेन्द्रेण दैत्यराजेन
निर्मुक्तानां शस्त्राणामस्त्राणां प्रतिकूलान्यस्त्राणि वर्षतीति तथा । शस्त्रास्त्रयोर्भेदो धनुर्वेदे
'धृत्वा प्रहरणं शस्त्रं मुक्त्वात्वस्त्रमितीरित'मिति । पक्षे महागणानामीश्वरत्वेनात्मन्या-
त्मताज्ञानाभावादाविद्यकवृत्तिरूपाणां विघ्नानामस्त्राणां च पराहंतानुसंधानधारा-
रूपप्रत्यस्त्रैर्नाशेन नामद्वयमध्यात्मरीत्यापि व्याख्येयम् ॥ ८२ ॥ कराङ्गुल्यो दक्ष-
वामकरद्वयस्याङ्गुल्यो दश तासां नखसंधिषूत्पन्ना नारायणस्य दशाकृतयो मत्स्यादि-
दशावतारा यस्याः सा । भण्डासुरेण सर्वासुरास्त्रंनाम सकलदैत्योत्पादनमस्त्रं प्रयुक्तं
तेन सोमकरावणबलिहिरण्याक्षादय उत्पन्नाः सन्तोऽयुध्यन्त । ततो देव्या दक्ष-
हस्ताङ्गुष्ठादिवामहस्तकनिष्ठिकान्ताङ्गुलिनखेभ्यः क्रमेण मत्स्यकूर्मवराहनारसिंहवामनभार्गव-
दाशरथिलधरकृष्णकल्किरूपदशावतारानुत्पाद्य ते निष्पिषिताः । उक्तंच ब्रह्माण्डे ।
'दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्याः समुत्थितः । महामत्स्याकृतिः श्रीमानादिनारायणो
विभु'रित्यारभ्य 'दशावतारनाथास्ते कृत्वेत्थं कर्म दुष्करम् । ललिताम्बां नमस्कृत्य
बद्धाञ्जलिपुटाः स्थिता'इत्यन्तेन । पक्षे जीवसंबन्धिन्यो जाग्रदादयोऽवस्थाः पञ्चेश्वर-
संबन्धीनि सृष्ट्यादीनि कृत्यानि पञ्चेत्येवं दशाकृतयोऽपि नखमात्रेणोत्पन्ना भवन्तीति
अनायासेनोत्पद्यन्त इत्यत्र तात्पर्यम् । नारायणशब्दो जीवेश्वरयोरुपलक्षकः । दशा-
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ८४ ॥
᾽ हरनेत्राग्निसंदग्धकामसंजीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ८५ ॥
शब्दोऽवस्थापरः । कृतिशब्दः कृत्यपरो वा । षडक्षरात्पाशुपतास्त्रमन्त्रादयं भिन्नो
महापाशुपतास्त्रमन्त्रः । पूर्वं ईश्वरदेवत्योऽन्यः सदाशिवदेवत्यः । 'रुद्रादयः पिशाचान्ताः
पशवः परिकीर्तिताः । तेषां पतित्वात्सर्वेशो भवः पशुपतिर्मत'इति लैङ्गात् । पशुपतेः
ईश्वरस्य सदाशिवस्येदं पाशुपतम् । अश्वपत्यादित्वान्न पत्युत्तरपदलक्षणो ण्यप्रत्ययः। महच्च
तत्पाशुपतं च महापाशुपतं सदाशिवास्त्रं तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका
यया सा । पक्षेऽभ्यासतारतम्येनोत्तरोत्पन्ना उत्कृष्टा अद्वैतवृत्तय एव महा
भण्डासुरहननोत्तरं ब्रह्मादिभिः प्रार्थितया ललिताम्बया पुनर्मन्मथो जीवित इति
कथाया ब्रह्माण्डपुराणे स्मरणाच्च । 'एतेन पित्रा निर्भर्त्सितो बालो मात्रैवाश्वास्यते किले'-
ति न्यायोऽप्यनुगृहीतः । अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते 'हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न
कश्चने'ति । नच तत्र हरिपदस्योपास्यदेवतोपलक्षणत्वेन त्रिपुरसुन्दरीकोपात्राणकर्तृत्वं
परमशिवस्यैव गुरुपरंपरावधिलाद्वक्तव्यं न पुनर्वैपरीत्यमिति शङ्क्यम् । परमशिवस्यापि
श्रीविद्योपासकत्वेनोपासनायाश्च गुरुमन्तरेणायोगात्तदपेक्षायां त्रिपुरसुन्दर्या एव तद्गुरु-
त्वस्वीकारात् । अतएव योगिनीहृदये शिवेनैव पार्वतींप्रत्युक्तम् । 'अन्यायेन न दातव्यं
नास्तिकानां महेश्वरि । एवं त्वयाहमाज्ञप्तो मदिच्छारूपया प्रभो' इति प्रवृत्तिप्रति•
च्छायाः कारणत्वाच्छिवस्य प्रवर्तिका भगवत्येवेति सिद्धं तस्या गुरुत्वम् । अतएव
गुरुमूर्त्तिरिति नाम वक्ष्यते । 'शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यत' इति ।
चतुःशतीशास्त्राहिच्छाशक्तिविशिष्टस्यैव परशिवस्यादिनाथत्वेन तन्त्रेषु गणनान्न त्रिपुर-
सुन्दर्या गुरुमण्डलान्तरादिनाथात्पूर्वगणनपूजनाद्यापत्तिचोद्यावकाशः । तथाच महास्व-
च्छन्दतन्त्रे । 'गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपदैर्वाक्यैस्तन्त्रं
समवतारय'दिति । स्वयमेवेत्यनेन प्रकाशविमर्शांशयोर्विभजनेन परस्परं गुरुशिष्यभावः
सूचितः । प्रवर्त्तकत्वप्रष्टृत्वे देवीनिष्ठयोर्वक्तृत्वप्रवर्त्यत्वे शिवनिष्ठयोर्गुरुत्वशिष्यत्वयोरव-
च्छेदके इति तद्भेदादविरोधः । एतदेव द्योतयितुं मदिच्छारूपयेति विशेषणं प्रभुपदेन
संबोधनं च । वस्तुतस्तु आदिनाथादर्वागादिशक्त्यम्बानाम्ना द्वितीयस्थाने गण्यत
एवेति न ततः पूर्वं पुनर्गणनापत्तिः । सदाशिवनामकतृतीयगुरुं प्रत्यादिनाथावच्छि-
न्नाया आदिशक्तेरेव गुरुत्वाद्वितीयस्थान एव गणनीयतया न तयोः पौर्वापर्यं विनि-
गमनाविरहोऽपीति दिक् । यद्वा हरणं हरः आत्मस्वरूपापहारः, हरन्तीति वा हराः
आत्मापहर्तारस्तेषां नेता नायकः स एव आसमन्ताद्धासोऽग्निः स्वस्वरूपान्यथाकरणात् ।
मूलाज्ञानमिति यावत् । तस्य मूलाज्ञानाधिकत्वात् । तेन सम्यग्दग्धो यः कामो
जीवभावमापन्नः कामेश्वरस्वरूप आत्मा तस्य सम्यगावरणपरावृत्त्यभावपूर्वकं जीवने
स्वस्वरूपावाप्तौ ओषधिर्मूलिका । एतदुपासनया विद्यारूपयाऽविद्यानिवृत्त्या स्वस्वरूपा-
वाप्तिलक्षणो मोक्ष इति भावः । मन्मथस्य दाहात्पूर्वं स्वशरीरस्य जीवत एव पश्चाद-
शरीरजीवनाद्दृष्टान्तादात्मनोऽपि पूर्वं ब्रह्मण एव सतोऽविद्यावशात्सशरीरस्येव स्थितस्य
तन्निवृत्तावशरीरतापूर्वकब्रह्मैक्यप्राप्तिर्ध्वन्यते । ध्वनितं चैवमेव शैवशास्त्रान्तिमाधिकरणे
'भूयः स्यात्प्रोक्तमिलन'मिति । वार्तिकेपि 'पुनश्च प्रोक्तचैतन्यरूपमिलनात्मकम् ।
परयोगादिरूढस्य भवेत्परमयोगिनः । भूयः स्यादिति वाक्यस्य स्फुट एवायमाशयः ।
यच्छिवत्वममुष्योक्तं नापूर्वं तत्तु योगिनः । स्वभाव एव तन्मायाशक्तिप्रोत्थापितान्नि-
जात् । नानाविकल्पदौरात्म्यात्पराभूतमिव स्वतः । विमृष्टं गुरुनिर्दिष्टप्रोक्तोपायक्रमेण
तत् । शिवत्वं व्यक्तमेतीति शिवेनोदीरितं शिव'मिति । शक्तिशास्त्रान्तिमाधिकरणेऽपि
'निजसंविद्देवताचक्रेश्वरत्वप्राप्ति'रिति सूत्रावयवे निजपदेन तथैव स्फोरितमिति । इयता
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ८६ ॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।
कुलामृतैकरसिका कुलसंकेतपालिनी ॥ ८७ ॥
प्रबन्धेन देव्याः परं रूपं सूक्ष्मतरत्वात्सूक्ष्मरूपात्परातपरतो वक्तव्यमपि रहस्योक्ति-
विषयत्वात्स्थूलरूपकार्येण भण्डासुरवधेन सह श्लेषलिप्सया पूर्वमेवोक्त्वा क्रमप्राप्तं सूक्ष्म-
रूपं स्थूलरूपाभिन्नत्वेन वर्णयति—श्रीमद्वाग्भवेत्यादिना । सूक्ष्मरूपमपि सूक्ष्मसू-
क्ष्मतरसूक्ष्मतमभेदात्त्रिविधं पञ्चदशीविद्या कामकलाक्षरं कुण्डलिनीचेति भेदात् । तेष्वाद्यं
नामत्रयेणोच्यते । श्रीमज्ज्ञानप्रदायकत्वादिमाहात्म्यशीलं वाग्भवत्वसादिति व्युत्पत्त्या-
वाग्भवनामकं कूटं पञ्चाक्षराणां समुदाय एवैकं मुख्यं स्वं निजं रूपं यस्य तादृशं मुख-
पङ्कजं यस्याः । तदुक्तं । 'नेत्रोष्ठापरगल्वर्णशालिवाचां । संभूतिर्मुखमिव वाग्भवाख्य-
कूट'मिति ॥ ८५ ॥ कण्ठस्याधः कटिपर्यन्तो यस्य स मध्यभागः स एव मध्यस्थकामरा-
जाख्यस्य षडक्षरसमूहस्य स्वं निजं रूपमस्याः । पटुज्योतिष्मती लोचने इतिवत्कर्मधार-
यादपि मत्वर्थीयः । सर्जनशक्तिमत्त्वाच्छक्तिनामकेन कूटेन चतुरक्षरसमूहेनैकता-
मभेदमापन्नकटेरधोभागं धारयतीति तथा । तदुक्तम् 'कामस्ते हृदि वसतीति काम-
राजं दृष्ट्वात्तदनु तवाम्ब शक्तिकूट'मिति ॥ ८६ ॥ चतुर्विधपुरुषार्थमूलकारणत्वान्मूलं
पञ्चदशाक्षरी सैव मननात्त्रायत इति मन्त्रः आत्मा स्वरूपं यस्याः । तदुक्तं 'पूर्णा-
हंतानुसंध्यात्मा स्फूर्जन्म ननधर्मतः । संसारक्षयकृत्त्राणधर्मतो मन्त्र उच्यत' इति ।
मूलस्य कूटत्रयमेवोक्तरीत्या कलेवरं स्थूलरूपं यस्याः, कूटत्रयमेव कलेवरं सूक्ष्मरूपं
यस्या इति वा । वस्तुतस्तु मूलशब्दाभ्यां कामकलाक्षरमुच्यते । कूटत्रयपदेन त्र्यात्म-
कसमुदायघटकावयवा उच्यन्ते । अवयवे तयपो विधानात् । कामकलायां तूर्ध्वबिन्दु-
रेकस्तदधस्तिर्यग्विन्दुद्वयं तदधो सार्धकलेति त्रयोऽवयवा गुरुमुखैकवेद्याः । त एव
क्रमाद्विद्याकूटतया स्थूलरूपमुखाद्यवयवात्मना च परिणता इति सूक्ष्मतरं कुण्डलिन्याख्यं
सूक्ष्मतमं वररूपपरं नामद्वयं समष्टिव्यष्टिभेदेनेति नाथचरणागमे विस्तरः । एवं ब्रह्मा-
ण्डान्तर्गत रूपमुक्त्वा पिण्डाण्डान्तर्गतं कुण्डलिन्याख्यं रूपं वक्तुमुपक्रमते । सा हि
मूलाधाराख्ये चक्रे सार्धत्रिवलयाकारेण सुप्ता सती योगिभिरुत्थाप्य षट्चक्राणि ब्रह्म-
विष्ण्वादियन्थींश्च भेदयन्ती सहस्रारं नीता सती तत्कर्णिकारूपचन्द्रमण्डलादमृतं स्राव-
यति । अयोगिभिरपि भावनामात्रेण सर्वाप्येषा प्रक्रिया संपाद्यते तत्प्रक्रियापराणि
नामान्याह—कुलामृतेत्यादिना । कुलं सजातीयसमूहः । सचैकज्ञानविषयत्वरूप-
साजात्यापन्नज्ञातृज्ञेयज्ञानरूपत्रयात्मकः । घटमहं जानामीत्येव ज्ञानाकारात्
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ॥ ८८ ॥
कुलमित्युच्यते । तदुक्तं चिद्गगनचन्द्रिकायाम् । 'मेयमातृमितिलक्षणं कुलं प्रान्ततो
व्रजति यत्र विश्रम'मिति । ऊर्ध्वाधरभावेन विद्यमानेषु स्वच्छन्दसंग्रहादौ प्रपञ्चितेषु
द्वात्रिंशत्पद्मेषु सर्वाधस्तनं पद्मं त्रिपुटीसंबन्धाभावादकुलमुच्यते । तदुपरिष्टानि कुल-
संबन्धीनि । यद्वा । कुः पृथवीतलं लीयते यत्र तत्कुलमाधारचक्रं तत्संबन्धाल्लक्षणया
सुषुम्णामार्गोऽपि । अतः सहस्रारात्स्रवदमृतं कुलामृतम् । 'शरीरं कुलमित्युक्त'मिति
स्वच्छन्दसंग्रहोक्त्या शरीरसंबन्धित्वाद्व्वा तत्कुलामृतम् । तत्र मुख्यतया रसिका तद्रसा-
स्वादनपरा । 'पुष्पितायाः कुलागारं दृष्ट्वा यो जपते नर'इति कालीतन्त्रे प्रयोगात्तत्कला-
मृतरहस्यरसिकेति वा । उपास्योपासकवस्तुजातस्य चित्त्वेन साजात्यात्तत्समुदाय-
प्रतिपादकं शास्त्रमपि कुलम् । तथाच कल्पसूत्रे प्रयोगः 'कुलपुस्तकानि च गोपाये'दिति ।
'दर्शनानि तु सर्वाणि कुलमेव विशन्तीही'त्यागमे च । 'न कुलं कुलमित्याहुराचारः कुल-
मुच्यत'इति भविष्योत्तरपुराणवचनात् आचारोऽपि कुलं तयोः संकेतान् तन्त्रत्यरहस्यानि
पालयति पशुषु न प्रकाशयति सांप्रदायिकपरंपरायै प्रकाश्य तन्तुं प्रवर्तयति चेति
तथा । 'चक्रसंकेतको मन्त्रपूजासंकेतकाविति । त्रिविधस्त्रिपुरादेव्याः संकेतः परमेश्वरी'त्या-
गमे 'कुलाङ्गनैषाप्यथ राजवीथीः प्रविश्य संकेतगृहान्तरेषु । विश्रम्य विश्रम्य वरेण पुंसा
संगम्य संगम्य रसं प्रसूत'इति चिन्तामणिस्तवे च प्रतिपादितोऽयमर्थः ॥ ८७ ॥
कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्संबन्धिन्यङ्गना यथा गुप्ता तथेयमप्य-
विद्याजवनिकया गुप्तत्वात्कुलाङ्गना । तदुक्तं कुलार्णवे 'अन्यास्तु सकला विद्याः प्रकटा
गणिका इव । इयं तु शांभवी विद्या गुप्ता कुलवधूरिवे'ति । भगवान्परशुरामोऽप्याह ।
'अन्या विद्या वेश्या इवातिप्रकटा' इत्यादि । कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण
स्थिता । कुलशास्त्रस्य मध्ये ज्ञेयत्वेन वा स्थिता । प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवंशं
वा पूज्यत्वेन तिष्ठति । 'कुलं जनपदे गृहे । सजातीयगणे गोत्रे देहेऽपि कथितं कुल'-
मिति विश्वः । तदुक्तं भविष्योत्तरपुराणे । 'पूजनीया जनैर्देवी स्थानेस्थाने पुरेपुरे ।
गृहेगृहे शक्तिपरैर्ग्रामेग्रामे वनेवन' इति । अधःस्थितं रक्तं सहस्रदलकमलमपि कुलं ।
तत्कर्णिकायां कुलदेवीदलेषु कुलशक्तयश्च सन्तीति स्वच्छन्दतन्त्रेऽस्य विस्तारः । ईदृगर्थस्य
कुलपदस्य परतः संबन्धसामान्यार्थे तद्धिते कौलम् । 'कुलं शक्तिरिति प्रोक्तमकुलं शिव-
उच्यते । कुलेऽकुलस्य संबन्धः कौलमित्यभिधीयत' इति तन्त्रोक्तम् । शिवशक्ति-
सामरस्यं वा कौलं तद्वती कौलिनी बाह्याकाशावकाशे चक्रं विलिख्य तत्र पूजादिकं
कौलमिति रूढ्योच्यते इति कश्चित् । कुले उक्तार्थके योगः संबन्धोऽस्या इति कुल्यो-
गिनी । छलाक्षरसूत्रकारैः कौलिनी कुलयोगिनीत्यष्टाक्षरस्यैकात्मत्वं यदुक्तं तत्रोपपत्तिं
दशमे शतके वक्ष्यामः । सुषुम्णोर्ध्वस्थितं सहस्रारपद्ममकुलमित्युच्यते । तथाच
५४ ललितासहस्रनाम ।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ८९ ॥
स्वच्छन्दसंग्रहे 'अधश्चोर्ध्वः सुषुम्णायाः सहस्रदलसंयुत'मित्यारभ्य 'पङ्कजद्वयमीशानिं
कुलाकुलमयं शुभ'मित्यन्तं । तद्रूपत्वात्तन्निष्ठत्वाद्वाऽकुला । न विद्यते कुलं देहवंशादिकं
यस्या इति वा । दहराकाशावकाशे चक्रं विभाव्य तत्र पूजादिकं समय इति रूढ्यो-
च्यते । सच सर्वैर्योगिभिरैकमत्येन निर्णीतोऽर्थ इति संकेतरूपत्वादपि समयः । तत्प्र-
तिपादकत्वाद्वसिष्ठशुकसनकसनन्दनसनत्कुमाराख्यतन्त्रपञ्चकमपि समयपदेन व्यवहि-
यते । तदन्तस्तत्प्रतिपाद्यतया तिष्ठति । यद्वा । समं साम्यं यातीति समयः शिवः ।
'आतोऽनुपसर्गे कः' समयादेवी च तयोरेकशेषः। साम्यं च परस्परं शिवशक्त्योः पञ्चविधं
अधिष्ठानसाम्यमनुष्ठानसाम्यमवस्थानसाम्यं नामसाम्यं रूपसाम्यं चेति । अधिष्ठानं
पूजाधिकरणं चक्रादि । अनुष्ठानं सृष्ट्यादिकृत्यम् । अवस्थानं नृत्यादिक्रिया । नाम
भैरवादि । रूपमारुण्यादि । अस्य च विस्तारो वासनासुभगोदयव्याख्याने लग्नेन कृतः ।
तयोरन्ते स्वरूपे तिष्ठति । 'अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहर' इति विश्वः ।
रुद्रयामले दशभिः पटलैरुपदिष्ट आचारः समयाचार इत्युच्यते । यद्वा । दीक्षितस्य
गुरुकटाक्षवशात् षड्विधैक्यचतुर्विधैक्यान्यतरानुसंधानदार्ढ्ये महावेधाख्यसंस्कारे च
महानवम्यां जाते सति पश्चान्मूलाधारादुत्थिता देवी मणिपूरे प्रत्यक्षा भवति । तां
तत्रैव पाद्यादिभूषणान्तैरुपचारैः संपूज्यानाहतं नीत्वा ताम्बूलान्तमभ्यर्च्य विशुद्धिचक्रं
नीत्वा तत्रत्यचन्द्रकलारूपैर्मणिभिः पूरयित्वा आज्ञाचक्रं नीत्वा नीराजय सहस्रदलकमले
सरघामध्ये सदाशिवेन संयोज्य तिरस्करिणीं प्रसार्य समीपं मन्दिरे स्वयं स्थित्वा याव-
द्भगवती पुनर्निर्गतासती मूलाधारकुण्डं प्रविशति तावत्तत्रैव समयं प्रतीक्षेतेत्याकारो
गुरुमुखैकवेद्यः समयाचारः । तयोरुभयविधयोरपि तत्परा आसक्ता ॥ ८८ ॥ मूला-
धाराख्यं चतुर्दलं पद्मं तत्कर्णिकायां मध्ये बिन्दौ कुलकुण्डनामके मुखमाच्छाद्य कुण्ड-
लिनी तत्र सर्वदैव सुप्ता तिष्ठति । अतएवैतदाधारत्वात्सुषुम्णामूलत्वाच्च मूलाधार
इत्युच्यते । सएवैको मुख्यो निलयो वासस्थानं यस्याः । षट्चक्रेषु प्रतिचक्रमाद्यन्तयो-
र्द्वौद्वौ ग्रन्थी । तत्र ब्रह्मग्रन्थिद्वयं स्वाधिष्ठानीयं विशेषेण भिनत्तीति तथा ॥
॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । आद्येन शतकेनाभूद्द्वितीया
तापिनी कला ॥ १०० ॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते
ललितासहस्रनामपरिभाषाभाष्ये प्रथमशतकं नाम द्वितीया कला ॥२॥
नाभौ दशदले पद्मे सामयिकपूजायां मणिभी रत्नैः पूर्यते भाष्यते देवीति तच्चक्रं
मणिपूरपदवाच्यम् । तस्यान्तरधःस्थितं ग्रन्थि भित्त्वोदिता प्रकटिता । तदुपरिस्थितं
विष्णुग्रन्थि विशिष्य भिनत्तीति तथा । विष्णोर्मणिपूरचक्रस्थितत्वेन तद्ग्रन्थ्योर्विष्णु-
सौभाग्यभास्करव्याख्या । ५५
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ९० ॥
तडिल्लतासमरुचिः षट्चक्रोपरि संस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ९१ ॥
ग्रन्थिसंज्ञा । एवं ब्रह्मरुद्रग्रन्थिसंज्ञे अपि ज्ञेये ॥ ८९ ॥ भ्रूमध्ये द्विदलपद्मे आज्ञापकस्य
श्रीगुरोरवस्थानादाज्ञाचक्रसंज्ञा । तावत्पर्यन्तं मनोविग्रहाभ्यासे ईषद् ज्ञानोदयो
भवतीति वा । आडीषदर्भकः । तदन्तराले तिष्ठति । रुद्रग्रन्थिद्वयं हृदयगतानाहत-
चक्रीयं विभिनत्तीति तथा । अनुष्ठाने एतद्वैपरीत्यमुन्नेयम् । पाठक्रमादर्थक्रमस्य बली-
यस्त्वात् 'अर्थाच्चे'ति पाञ्चमिकन्यायात् । यद्वा । श्रीविद्यायां चत्वारः खण्डाः आग्नेय-
सौरसौम्यचन्द्रकलाख्याः । तएव वाग्भवकामराजशक्तितुर्याख्याश्च । तेषां चतुर्णां मध्ये
त्रयो हृल्लेखाख्या ग्रन्थयः । ताश्च तिस्रः क्रमेण रुद्रविष्णुब्रह्मसंज्ञकाः । तत्रयं भिनत्ति
तदन्तः प्रविशति । तदभिधेयेत्यर्थः । वस्तुतस्तु दत्तात्रेयसंहितायां षडर्थप्रकरणोक्त-
कौलिकार्थपरमिदं नामषट्कम् । तदुक्तं तत्रैव । 'मूलाधारादिकं चक्रषट्कं कुलमिति
स्मृतम् । ग्रन्त्रित्रयं तत्तद्देविचक्रत्रितयगर्भितम् । पृथ्व्याप्यचक्रद्वितयं ब्रह्मग्रन्थिपदो-
दितम् । वह्निसूर्यमयं चक्रद्वयं तेजोमयं महत् । विष्णुग्रन्थिपदेनोक्तं तैजसं सर्वसिद्धि-
दम् । वाय्वाकाशद्वयीरूपं चक्रद्वितयमुत्तमम् । रुद्रग्रन्थिपदेनोक्तं मङ्गलायतनं महत्'
इत्यादि । सहस्रसंख्याका अरा दलानि यस्य तदम्बुजं कमलं ब्रह्मरन्ध्राधःस्थमारूढा ।
सुधायास्तत्कर्णिकाचन्द्रसंबन्धिन्या आसारो धारासंपातस्तमभिवर्षितुं शीलमस्याः
'अमृतस्य धारा बहुधा दोहमानं, चरणं नो लोके सुधितान्दधात्वि'ति श्रुतेः ॥ ९० ॥
तडित्सौदामिन्येव लता वल्ली तया समा रुचिः कान्तिर्यस्याः । 'विद्युल्लेखेव भास्वरे'ति
श्रुतेः । षडवयवकानि चक्राणीति मध्यमपदलोपी समासः । तेन 'द्विगो'रितिङीप्प्रत्ययो
न भवति । तानि च मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञाचक्रनामकानि । तेषा-
मुपरि सहस्रारे सम्यक् स्थिता । महे उत्सवे तत्रत्यशिवशक्तिसमायोगरूपे आसक्ति-
स्तत्परता यस्याः । 'मह उद्धव उत्सव' इत्यमरः । वह्नितेजस्यासक्तिर्यस्या वा । 'मह
उत्सवतेजसो'रिति विश्वः । महती आ समन्तात्सक्तिः संयोगो यस्या वा । कुण्डले
अस्याः स्त इति कुण्डलिनी आकृत्या भुजङ्गी वा । तत्स्वरूपं च तन्त्रराजे । 'मूलाधार-
स्थवह्न्यात्मतेजोमध्ये व्यवस्थिता । जीवशक्तिः कुण्डलाख्या प्राणाकाराथ तैजसी ।
प्रसुप्तभुजगाकारा त्रिरावर्ता महाद्युतिः । मायाशीर्षा नदन्ती तामुच्चरन्त्यनिशं खगे ।
सुषुम्णामध्यदेशे सा यदा कर्णद्वयस्य तु । पिधाय न शृणोत्येनं ध्वनिं तस्य तदा
मृति'रित्यादि । योगवासिष्ठे चूडालोपाख्याने । 'पुर्यष्टकापराख्यस्य मनसो जीवना-
त्मिकाम् । विद्धि कुण्डलिनीमन्तरामोदस्येव मञ्जरी'मिति । नामनिर्वचनं च देवीपुराणे ।
'यतः शृङ्गाटकाकारा कुण्डलिन्युच्यते तत' इति । यद्वा वाग्भवबीजस्य कुण्डलिनीति
'५६ ललितासहस्रनाम ।
संज्ञा । तद्रूपा बिसतन्तुः कमलनालं तदेव तन्तुस्तद्वत्तनीयसी अतिशयेन कृशाकृतिः ।
'नीवारशूकवत्तन्वी पीता भास्वत्यणूपमे'ति श्रुतेः । 'कुलामृतैकरसिके'त्यारभ्येयत्पर्यन्ता-
मुक्ता प्रक्रिया सर्वोपीति स्पष्टीकृता वामकेश्वरतन्त्रे । 'भुजङ्गाकाररूपेण मूलाधारं
समाश्रिता । शक्तिः कुण्डलिनीनाम बिसतन्तुनिभा शुभा । मूलकन्दं फणाग्रेण दंष्ट्रा-
कमलकन्दवत् । मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रं समन्विता । पद्मासनगता स्वस्था
गुदमाकुञ्च्य साधकः । वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः । वाय्वाघातवशादग्निः
स्वाधिष्ठानगतो ज्वलन् । ज्वलनाघातपवनाघातैरुन्निद्रितोऽहिराट् । ब्रह्मग्रन्थि ततो
भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः । रुद्रग्रन्थिं विभिद्यैव कमलानि भिनत्ति षट् । सहस्र-
कमले शक्तिः शिवेन सह मोदिते । साचावस्था परा ज्ञेया सैव निर्वृत्तिकारण'मिति ।
अरुणोपनिषद्यपि श्रूयते । 'उत्तिष्ठत मा स्वप्त अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य
तृप्तासः सूर्येण् सयुजोषसः' इति । इयं चोपनिषत्सर्वापि भगवतीपरैव । उपबृंहणदर्श-
नात् । 'अरुणोपनिषद्धीते'ति श्यामलासहस्रनामसु पाठाच्च । पृश्निनामकानामुपासकानां
परस्परमुक्तिरियं भारतीसरस्वतीविद्येति यावत् । तत्संबन्धिनो भारताः । हे श्रीविद्यो-
पासकाः, उत्तिष्ठत उपास्तिक्रमे प्रवर्त्तध्वम् । मा स्वप्त प्रमत्ता मा भूत । अन्तर्भावितण्यर्थौ
वा कुण्डलिनीकर्मकाविमौ धातू योजनीयौ । अग्निं स्वाधिष्ठानगताग्नितेजोमयीं कुण्ड-
लिनीमिच्छध्वं इच्छादण्डेनाहत्योत्थापयध्वम् । सूर्येण सयुजा विशुद्ध्यनाहतचक्रयोर्मध्य-
वर्तिसूर्यसहितेन तेनाग्निना । उषसो दग्धस्य द्रुतस्येतिद्यावत् । सोमस्य उमया राज-
राजेश्र्वर्या सहितस्य राज्ञो राजराजेश्वरस्य सहस्रारीयचन्द्रमण्डलान्तर्गतस्य वा। अर्थादमृतेन
तृप्तासो भवत तृप्यत ।' अग्निकुण्डलिनीमुत्थाप्य सूर्यकुण्डलिन्या संयोज्य ताभ्यां चन्द्र-
मण्डलशिवशक्तिसामरस्येन द्रावयित्वा तदुत्थामृतधाराभिर्द्विसप्ततिसहस्रनाडीमार्गा-
नापूर्य तृप्ता भवतेत्यर्थः । तृप्तास इत्यत्र 'आजसे' रित्यसुगागमः । तथा 'यत्कुमारी मन्द्रयते
यद्योषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते अग्निस्तदनुवेधति' । कुः पृथ्वीतत्वं म्रियते
लीयते यस्मिंस्तत्कुलकुण्डं कुमारं तत्संबन्धिनी कुमारी कुलकुण्डलिनी । मन्द्रयते
मन्द्रस्वरेण नदति । अतएव रोदनावस्थासाहित्यात्कुलकुण्डादुत्थापनस्योत्पत्तिरूपत्वाच्च
सद्य उत्पन्ना कुमारीत्युच्यते । योषित् तरुणी तारुण्यलक्षणसूर्येणानाहतादुपरिभागे साहि-
त्यात् । पतिव्रता पतिं ब्रह्मरन्ध्रस्थं कामेश्वरं व्रतयति भुङ्क्ते । 'पयोव्रतं ब्राह्मणस्ये'त्यादि-
प्रयोगात् । एवं कौमारतारुण्यसंभोगैररिष्टं शुभं पीयूषवर्षंणरूपमन्यदपि यत्किंचित्सा
क्रियते करोति तत्सर्वमग्निः स्वाधिष्ठानगतोऽनुवेधति साधयति । अग्निज्वलनेनैव चन्द्र-
मण्डलद्रवादिति भावः । एतदुपबृंहणं सनत्कुमारतन्त्रे । 'पृश्नयो नाम मुनयः श्री-
विद्योपासका मिथः । संभूयोपदिशन्त्य
सौभाग्यभास्करव्याख्या । ५७
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ९२ ॥
न्दधालि’ति मन्त्रोऽपि लोकस्य ब्रह्मलोकस्य द्वारं साधनम् । अर्चिर्ज्योतिर्महःशब्दा अग्नि-
सूर्यचन्द्रकलावाचकाः । चरणशब्दश्चरति यातायातं करोतीति व्युत्पत्त्या कुण्डलिनी-
परः । सामान्ये नपुंसकम् । सुधितान् तृप्तान् । हकारस्य धकारादेशोऽर्चिःशब्दे सका-
रलोपश्च छान्दसः । कुण्डलिनी अग्न्यादिस्थानमागतासती सुधावृष्टिं कुर्वत्यस्मांस्तृप्तानक-
रोदित्यर्थः । तदिदमुपवृंहितं शुक्रसंहितायाम् । 'पावकस्यार्चिषा भानोर्ज्योतिषा महसा
विधोः । दोहमाना सुधाधारा द्विसप्ततिसहस्रधा । गुप्ताचारा कुण्डलिनी तृप्तानस्मां-
स्तनोतु से'ति । अत्र गुप्तं यथातथा चरतीति चरणपदस्यार्थः । एवं वसिष्ठादितन्त्रेष्व-
प्युपब
५८ : ललितासहस्रनाम ।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ९३ ॥
परे स्थाने निष्कलं च त्रिधा स्थित'मिति योगिनीहृदयोक्तलक्षणास्तिस्रो भावनाः ।
ताभिर्गम्या ज्ञेया । भवः संसार एवारण्यमतिगहनत्वात् पुनःपुनः प्ररोहाच्च । तस्य
कुठारेव कुठारिका । 'द्वयोः कुठार' इति कोशात्स्त्रीलिङ्गता । तच्छेत्रीत्यर्थः । भद्रं
मङ्गलं प्रियं यस्याः । भद्रो गजविशेषस्तज्जातीया गजाः प्रिया यस्या इति वा । भद्रा
भव्या मूर्तिः स्वरूपं यस्याः । 'ब्रह्म तन्मङ्गलं विदु'रिति विष्णुपुराणात् । 'मङ्गलानां
च मङ्गल'मिति भारताच्च । 'भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिष्वि'त्याग्नेयपुराणोक्ता
भगपदार्थाः शोभना यस्यां सा सुभगा ललितेव तस्या भावः सौभाग्यं तदभेद इति
यावत् । यत्तु पद्मपुराणे । 'इक्ष्वस्तरराजश्च निष्पावा जीरधान्यके । विकारवच्च गोक्षीरं
कौसुम्भं कुसुमं तथा । लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते' इति वचने परिगणितं
तदपि मङ्गलकार्योपयुक्तत्वाल्लक्ष्मीकरत्वात्सौभाग्यमेव । सुष्ठु भाग्यं नियतिर्यस्य तस्य
भावो वा सौभाग्यम् । भक्तेभ्यस्तानि ददातीति तथा । अत्रेदं बोध्यम् । महाशक्ति-
रित्यारभ्यैतत्पर्यन्तानि नव नामानि बड्ण् इति छलाक्षरसूत्रेण निर्दिष्टानि । तथाहि
वररुचिसंकेते यवगोऽष्टानामिह तु नवानां संज्ञेत्युक्तं 'काज्ञाद्वाः, टयौचे'ति सूत्राभ्यां
ककारमारभ्य झकारमभिव्याप्य द्वाराणि नव भवन्ति । टवर्गयवर्गावप्येवमिति तदर्थः ।
पिषुः । पवर्ग इषूणां पञ्चानां संज्ञा । एतान्यक्षराणि नामसंख्याद्योतकानि । अञ्जाट् ।
अचो राजः षोडशान्तसंख्यावाचका भवन्ति । युयुत्साः । इकार आदौ तत उकारः ।
एतद्द्वयं यस्मादक्षरात्परतस्तदक्षरं साः । अकारेण सहितं तयोर्नाम । यथा किकु इत्य-
नयोः क इति संज्ञा टिडु इत्यनयोः ट इति । फीपाट्पृडवः । फीकारात्परतः पृकारश्चे-
त्तद्युगलस्य डकारः संज्ञा । पकारात्परतश्चेत्तद्युगलस्य बकारः संज्ञा । पुटोण् । संपुटी-
करणस्य ण् इति संज्ञा । एवं च बडणिति सूत्रस्य डकारेण पुटितो वकार इत्यर्थः । तेन
डबड इति सिध्यति । ततश्च फीपृपिपुपृफीष्ट इति सप्त वर्णा भवन्ति । द्वे नामनी
चतुरक्षरे । तत्र प्रथमनाम्न आद्यमक्षरं पवर्गीयं । तृतीयं नामाष्टाक्षरं । तदाद्यमक्षरं
पवर्गीयं । ततो द्वित्रिपञ्चाक्षरे । तदाद्ये पवर्गीये । ततः षष्ठं नामाष्टाक्षरं । तदाद्यमक्षरं
च पवर्गीयं । ततो द्वे चतुरक्षरे । तयोराद्यं नाम पवर्गीयादिमाक्षरकं । ततोऽष्टा-
क्षरमेकं नाम । तदाद्यमक्षरं च पवर्गीयमिति । एवं नव नामानीत्येतावान्सूत्रार्थ इति
दिक् ॥ ९२ ॥ भक्तिर्द्विविधा मुख्या गौणी चेति । तत्रेश्वरविषयकोऽनुरागाख्यश्चित्त-
वृत्तिविशेषो मुख्यभक्तिः । तथाच भक्तिमीमांसासूत्रम् 'सा परानुरक्तिरीश्वरे'इति ।
'अथातो भक्तिजिज्ञासे'तिसूत्रेोपात्ता भक्तिस्तत्पदार्थः । तस्याः परेति विशेषणम् । परां
मुख्यां भक्तिविशेषमुद्दिश्यानुरक्तिर्लक्षणत्वेन विधीयत इति तदर्थः । अतएव परेति गौणीं
व्यावर्तयतीति भाष्यम् । 'गौण्या तु समाधिसिद्धि'रिति सूत्रे गौणी भक्तिः सेवारूपा
The brackets are clearly there: '[ भक्ति ]'!
Let's check L10:
'प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्'ति ।' -> there is a single quote before ति: 'मिच्छन्'ति ।'!
L11:
'भगवन्तं सनातनमि'ति ।' -> single quote before ति!
L11:
'ईश्वरप्रणिधानाद्वे'ति'
L13:
'मानाभ्या'मिति ।'
L14:
'परंतपे'ति'
L17:
'ब्रह्मसंस्थोऽमृतत्वमेती'ति'
L18:
'तत्संस्थस्यामृतत्वोपदेशादि'ति'
L19:
'तन्निष्ठस्य मोक्षोपदेशादि'ति'
L22:
'दुःखिता' इति ।'
L24:
'लक्ष्यार्था लक्षणागम्ये'ति ।'
L25:
'हीति' जैमिनिसूत्रे'
L28:
'स्वगतये'ति'
L30:
'कुतश्चने'ति'
L32:
'कीर्तये'दिति ।'
All of these have the closing quotation mark right before 'ति'! This shows the exact typography of the book.
Now, regarding L14:
If we write 'त्वनन्यया', wait, why would we change 'ल
६० ललितासहस्रनाम ।
शांकरी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शान्तोदरी शान्तिमती निराधारा निरञ्जना ॥ ९४ ॥
तत्रैव । ‘अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता । एषा सा शांभवी मुद्रा सर्वतन्त्रेषु
गोपिते’ति । कल्पसूत्रेषु दीक्षास्तिस्रः शक्तिः शांभवी मान्त्री चेति । विभज्य तल्लक्ष-
णान्युक्तानि देवीभागवते ‘अष्टवर्षा च शांभवी’ति कन्याविशेषस्य नामोक्तं तद्रूपा
वेत्यर्थः । शारदया सरस्वत्या वाग्देवताभिश्च आराध्या, शारदे शरदृतौ वर्षादौ वा
आराध्या । ‘अथ शरत्समाः । संवत्सर’इत्यमरात् । ‘शरत्काले महापूजा क्रियते
या च वार्षिकी’ति मार्कण्डेयपुराणे । वर्षस्यादौ भवा वार्षिकीत्यर्थः । ‘वासन्ते नवरात्रे तु
पूजयेद्रक्तदन्तिका’मिति रुद्रयामलात् । शारदैर्विशारदैः पण्डितैः शालीनाख्याश्रमवि-
शेषशीलैर्वारोध्या । ‘शारदः पीतमुद्गे स्याच्छालीने प्रतिभाविनी’ति मेदिनी । ‘अकारो
वासुदेवः स्यादाकारस्तु पितामह’ इत्यनेकार्थध्वनिमञ्जर्यामभिधानात्ताभ्यामाराध्येत्यक्ष-
रद्वयश्लेषेणार्थे सिद्धे शारदा चासावाराध्येति कर्मधारयो वा । तत्र शारदांशनिरुक्तिः
कालीपुराणे । ‘शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः । शारदा सा समाख्याता
पीठे लोके च नामत’ इति । क्षितिमूर्तेः परमशिवस्य शर्व इति संज्ञा । तस्य स्त्रीत्यर्थे
पुंयोगलक्षणे ङीष्यानुगागमः । मङ्गलस्य माता सुकेशी नाम्नीत्यर्थः । तदुक्तं लैङ्गे । ‘चरा-
चराणां भूतानां धाता विश्वंभरात्मकः । शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ।
विश्वंभरात्मनस्तस्य शर्वस्य परमेष्ठिनः । सुकेशी कथ्यते पत्नी तनुजोऽङ्गारकः स्मृत’
इति । वायवीयेपि । ‘शर्वस्य या तृतीया तु नाम भूमितनुः स्मृता । पत्नी तस्य
सुकेशीति पुत्रश्चाङ्गारको मत’ इति । शर्म सुखं दातुं शीलमस्याः ‘शर्मशातसुखानिचे’-
त्यभिपुराणीयकोशः । ‘सुखं ददाति भक्तेभ्यस्तेनैषा शर्मदायिनी’ति देवीभागवतात्
॥ ९३ ॥ करोतीति करः । पचाद्यच् । ‘कृञो हेतुताच्छील्ये’त्यादिना टो वा । शं
सुखस्य करः । शं करे, यस्य स वा शंकरः तस्य स्त्री शांकरी । तथाच कालिकापुराणे ।
‘प्रतिसर्गादिमध्यान्तमहं शंभुं निराकुलम् । स्त्रीरुपेणानुयास्यामि प्राप्य दक्षादहं तनुम् ।
ततस्तु विष्णुमायां मां योगनिद्रां जगन्मयीम् । शांकरीति स्तुविष्यन्ति रुद्राणीति दिवौ-
कस’ इति । करोतीति करी श्रियः करी श्रीकरी । श्रीकरो विष्णुः । ‘श्रीधरः श्रीकरः
श्रीमानि’ति विष्णुसहस्रनामसु पाठात् । तस्येयं श्रीकरीति वा ॥ अथ परिभाषायां
षट्चत्वारिंशन्नामानि विभजते । राजा चतुर्बलेन्द्रो भूत्वा बलिराग-
मान् द्विदश । गुणगणगौण्यं गणगोमार्गे मार्गे मृगेण भवेत् ॥ ११ ॥ चतु-
रित्येकस्मिन्नर्थे चतुश्चतुरक्षराणि चत्वारि नामानि द्विदश द्विसहिता दश । अर्थत्रयेणै-
तादृशानि नामानि द्वादश । स्पष्टमन्यत् ॥ ११ ॥ साध्वी पतिव्रता । ‘संती साध्वी
पतिव्रते’त्यमरः । कालत्रयेऽपि पत्यन्तरयोगाभावादनितरसाधारणं पातिव्रत्यम् ।
तदुक्तं श्रीमदाचार्यभगवत्पादैः । ‘कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ९५ ॥
देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरबकतरोरप्यसुलभ' इति । देवीभागवतेऽपि । 'साध्वीत्यनन्य-
सामान्यपातित्रत्येन गीयसे' इति । शरत्कालिकेन चन्द्रेण तुल्यमाननं मुखं यस्याः ।
'शो तनूकरणे' । शातं कृशम् । 'आदेच उपदेशेऽशिती'त्यात्वम् । उदरं यस्याः सा
शातोदरी । शतोदरस्यानन्तगुहस्य हिमवतोऽपत्यं हैमवतीत्यर्थो वा । शान्तिरस्या अ-
स्तीति शान्तिमती । भक्तेष्वौद्धत्याभावात् । आधारात्रिष्क्रान्ता मूलाधारादुद्गता ।
'निरादयः क्रान्ताद्यर्थे पञ्चम्ये'ति समासः । यद्वा निर्गत आधारः अधिष्ठानान्तरं यस्याः ।
सर्वजगदधिष्ठानस्य सत्यत्वेनाधारान्तरायोगात् । अथवा निराधाराख्यपूजास्वरूपा ।
तथाच सूतसंहितायाम् । 'पूजा शक्तेः परायास्तु द्विविधा संप्रकीर्तिते'त्युपक्रम्य बाह्या-
भ्यन्तरभेदेन द्वैविध्यमुक्त्वा बाह्याया वैदिकतान्त्रिकभेदेन द्वैविध्यं सलक्षणं वर्णयि-
त्वोक्तं । 'पूजा याभ्यन्तरा सापि द्विविधा परिकीर्तिता । साधारा च निराधारा निरा-
धारा महत्तरा । साधारा या तु साधारे निराधारा तु संविदि । आधारे वर्णसंकॢप्तविग्रहे
परमेश्वरीम् । आराधयेदतिप्रीत्या गुरुणोक्तेन वर्त्मना । या पूजा संविदि प्रोक्ता सा तु
तस्यां मनोलयः । संविदेव परा शक्तिर्नैतरा परमार्थतः । अतः संसारनाशाय साक्षि-
णीमात्मरूपिणीम् । आराधयेत्परां शक्तिं प्रपञ्चोल्लासवर्जीताम् । स्वानुभूत्या स्वयं
साक्षात्स्वात्मभूतां महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदे'ति । अथ निरा-
धारपूजाकर्मीभूतसंवित्स्वरूपस्यैदंपर्येण निषेधमुखेन विधिमुखेन पराभिमतनिरासेन
च निर्धारणपूर्वकं तत्प्राप्तिसाधनोपायं तज्जन्यफलस्वरूपं च कतिपयैर्नामभिराह निर-
ञ्जनादिभिरष्टभिः श्लोकैः । सन्ति हि त्रिविधाः पशवः । तत्रानात्मन्यात्मताज्ञानस्वरू-
पाणवमलमात्रेण युक्तो विज्ञानकेवलः देहारम्भकादृष्टात्मककार्म्ममलवान्प्रलयकालः
भेदबुद्धिजनकमाध्याख्य (?) मलवान्सकल इति भेदात् । एषूत्तरोत्तरो मलः पूर्व-
पूर्वव्याप्य इत्यादि निरूपितं सेतुबन्धेऽस्माभिः । तत्र सकलपशुनिरासायाह । निरञ्जना
अञ्जनं नाम कालिमा । मायासङ्ग इति यावत् । तमोरूपत्वेनावरणधर्मेण सादृश्यात् ।
तथाच योगवासिष्ठे । 'भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना राम
सङ्गशब्देन कथ्यत' इति । निर्गतमञ्जनं यस्याः सा निरञ्जना । 'निरवद्यं निरञ्जन'-
मिति श्रुतेः । अविद्यासंपर्काभाववतीत्यर्थः । मिथ्यारूपाया अविद्यायाः स्वाधिष्ठाने-
ऽभावात् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वस्यैव मिथ्यात्वात् । यद्वा नितरां
रञ्जनं रागो रक्तिमा संतोषणं वा यस्याम् ॥ ९४ ॥ प्रलयकालेऽतिव्याप्तिं निरस्यति ।
कर्मसंबन्धेन लेपस्तस्मान्निष्काशिता । 'न मां कर्माणि लिम्पन्ति' इति स्मृतेः । यद्वा
लेपः कर्मसंबन्धः स निर्गतो यस्याः ज्ञानेन सा निर्लेपा । तदुक्तं यज्ञवैभवखण्डे ।
'कर्मभिः सकलैरपि लिप्यते ब्रह्मवित्प्रवरश्च न सर्वथा । पद्मपत्रमिवाद्भिरहो परंब्रह्म-
६