ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
:
Is it सर्वे or सर्वं?
Look at the letter: स र् वे -> it has an e-matra: सर्वे!
Wait, in Sanskrit usually महद्व्याप्य स्थिता सर्वं महीति or सर्वे?
Here it clearly has an e-matra: सर्वे.
Line 11:
महीति प्रकृतिर्मते'त्युक्तम् । गणस्य प्रमथादेर्गजाननस्य वाम्बा । गुह्यकैर्देवविशेषैरज्ञात-
Line 12:
रहस्यस्थले वा आराध्या । कोमलानि सुकुमाराण्यङ्गानि यस्याः । गुरुः प्रियो यस्याः ।
Wait, is it "वा आराध्या" or "वाराध्या"?
Look at line 12: "रहस्यस्थले वा आराध्या ।" There is a clear space between 'वा' and 'आराध्या'.
Line 13:
गुरुपत्न्यभिन्ना वा। जगद्गुरोः शिवस्य पत्नी वा ॥१९०॥ कारकपारतन्त्र्यमन्तरेणैव सर्वक-
Wait, look at गुरुपत्न्यभिन्ना:
Is it गुरुपत्न्यभिन्ना?
ग (ga) + ु = गु
रु = ru
प = pa
त् = t
न्य = nya with an i-matra? Wait, गुरुपत्न्यभिन्ना or `गुरुपत्
सौभाग्यभास्करव्याख्या । १५१
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १९२ ॥
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
कोरको वा । 'कलिका कोरकः पुमा'निति कोशः । प्रेम स्नेहो भक्तिरेव स्वरूपं
यस्याः । आयुर्घृतमितिवद्रूपाभिव्यक्तिजनकेपि रूपपदप्रयोगः । प्रियं करोतीति प्रियं-
करी अआईईत्यारभ्य क्षःक्षा इत्यन्तानि भगवत्या नामानि । अकार एकः ककारादयः
पञ्चत्रिंशच्चेत्येवं षट्त्रिंशदक्षराणि । षट्त्रिंशद्धर्मरूपाणि तेष्वेकैकस्य षोडशभिः स्वरैर्योगे
क्रमेण तावन्तो मासाः । तेन षट्सप्तत्युत्तराणि पञ्चशतानि वर्णानि भवन्ति । एतानि
प्रथमाक्षराणि । एष्वेकैकं प्रथमं कृत्वा द्वितीयवर्णस्थाने षट्त्रिंशत् क्रमेण निक्षिपेत् ।
अन्ते च आई इति पल्लवं योजयेत् । ततश्च विंशतिसहस्राणि सप्तशतानि षट्त्रिंशच्च
नामानि भवन्ति । तदुक्तं 'आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः कादिक्षान्तगतैः
खरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगोप्यानि
ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नम' इति । देवीभागवतेऽपि तृतीय-
स्कन्धे 'अकारादिक्षकारान्तैः स्वरैर्वर्गैश्च योजितैः । असंख्येयानि नामानि भवन्ति
रघुनन्दने'ति । तेषां च पारायणं पञ्चधोक्तं कादिमते 'दिनतो वारतः पक्षान्मासात्षट्-
त्रिंशता दिनै'रित्यादिना । तदिदं नामपारायणाख्यं कर्म । सहस्रनामपाठेपि च
तथा । योगरूढ्या पूर्वस्यैव यौगिकवृत्त्या परस्याप्युपस्थितेः । ताभ्यां प्रीता । 'मामर्च-
यतु वा मा वा विद्यां जपतु वा नवा । कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदे'ति वचनात् ।
नन्दिनो नन्दिकेश्वरस्य विद्या तदुपासितविद्या नटेश्वरस्य चिदम्बरनटस्येयं तदनुकारिणी ।
यदाहुरभियुक्ताः 'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तका-
भाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः । भर्तुर्नृत्तानुकारे जयति निजतनूस्वच्छलावण्यवापी-
संभूताम्भोजशोभां विदधदभिनवोद्दण्डपादो भवान्या' इति ॥ १९२ ॥ मिथ्यारूपस्य
जगतोऽधिष्ठानं भानाधिकरणं रजतस्येव शुक्तिः । 'मायामात्रमिदं द्वैतमद्वैतं परमा-
र्थतः' । 'नेह नानास्ति किंचने'त्यादिश्रुतेः । 'सर्वं खल्विदमेवाहं नान्यदस्ति सनात-
न'मिति देवीभागवतात् । 'यत्र त्रिसर्गो मृषे'ति विष्णुभागवताच्च । गुणत्रयापचय-
विवक्षया स्त्रीलिङ्गम् । यद्वा अधिष्ठानशब्द एवाधिष्ठानपरः । ततश्च जगदधिष्ठानरूपं
ब्रह्मैव अनः प्राणो यस्या इति विग्रहः । यद्वा अधिष्ठानशब्दो मत्वर्थीयाच्प्रत्यये-
नाधेयपरः । तेन मिथ्याजगदधिष्ठानमधिष्ठितं यस्या इति विग्रहः । वस्तुतस्तु जगतो
ब्रह्मपरिणामकत्वं स्वीकुर्वतां तान्त्रिकाणां मते जगतः सत्यत्वमेव मृद्धटयोरिव ब्रह्म-
जगतोरत्यन्ताभेदेन ब्रह्मणः सत्यत्वेन जगतोऽपि सत्यत्वावश्यंभावात् भेदमात्रस्य
मिथ्यात्वस्वीकारेणाद्वैतश्रुतीनामखिलानां निर्वाहः । भेदस्य मिथ्यात्वादेव भेदघटि-
ताधाराधेयभावसंबन्धोऽपि मिथ्यैव । तावन्मात्रेणैवाविरोघे सर्वस्य जगतो मिथ्यात्व-
कल्पनं तु वेदान्तिनामनर्थकमेवेति शांभवानन्दकल्पलतायां विस्तरः । ततश्च मिथ्या-
१५२ ललितासहस्रनाम ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १९३ ॥
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १९४ ॥
भूतं जगतोऽधिष्ठानं भेदघटितसंबन्धेनावस्थितैर्यस्यामिति विग्रहात् स्त्रीलिङ्गतोपपत्तिः ॥
अथ परिभाषामण्डले त्रिचत्वारिंशन्नामानि विभजते । गौः शैवे विरते
चतुरङ्गित्तनुर्द्विश्चतुर्बलं नेतुः । द्विर्मे गङ्गामाता रजश्चतुर्भावजलमदा-
द्भावैः ॥ २७ ॥ अत्र नकाराभ्यां दशाक्षरे नामनी ॥ मुक्तिं मोक्षं ददातीति
मुक्तिदा । तथाच श्रीकूर्मपुराणे 'तस्माद्विमुक्तिमन्विच्छेत्पार्वतीं परमेश्वरीम् । आश्रये-
त्सर्वभूतानामात्मभूतां शिवात्मिका'मिति । शिवपुराणेऽपि 'नामानि ये महेशस्य गृण-
न्त्यज्ञानतोपिवा । तेषामपि शिवो मुक्तिं ददाति किमतः पर'मिति । ब्रह्माण्डपुराणेऽपि-
'येऽर्चयन्ति परां शक्तिं विधिनाविधिनापि वा । न ते संसारिणो नूनं मुक्ता एव न
संशय'इति । मुक्तिरेव रूपमस्याः । अविद्यानिवृत्तेर्ध्वंसरूपत्वे पञ्चमप्रकाररूपत्वे वा
परमपुरुषार्थत्वानापत्त्या तदुपलक्षितस्वात्मानन्दस्यैव मोक्षताया वक्तव्यत्वात् । उक्तंच
सौरसंहितायां चतुर्दशेऽध्याये 'अथ मुक्तेः स्वरूपं ते प्रवक्ष्यामि समासतः । यज्ज्ञानेन
परा मुक्तिः सिध्यत्यखिलदेहिना'मित्युपक्रम्य ज्ञानस्य तत्र कारकहेतुतां 'ज्ञानं न
कारकं विद्धोद्बोधकं खलु केवल'मित्यादिना निरस्य 'कार्यद्रव्यतया नैव स्थिता भवि-
तुमर्हती'त्यादिना मुक्तेर्द्रव्यगुणकर्मसामान्याद्यात्मतामपि निरस्य 'अतः साक्षात्परा
मुक्तिः स्वात्मभूतैव केवल'मित्यादिना सिद्धान्तं संसाध्य 'तस्मादात्मस्वरूपैव परा
मुक्तिरविद्यया । तिरोभूता विशुद्धस्य विद्यया व्यज्यतेऽनघे' त्युपसंहारात् । लास्यं
नर्तनं प्रियं यस्याः । लयश्चित्तावस्थाविशेषः । 'दशध्यानसमो लय'इति वचनात् ।
तालैर्नृत्यगीतयोः समकालपरिच्छेदो वा लयः तस्य करी कर्त्री । 'या देवी सर्व-
भूतेषु लज्जारूपेण संस्थिते'ति स्मरणाल्लज्जा । हल्लेखाबीजरूपा वा । रम्भोर्वश्यादि-
भिरप्सरोभिर्वन्दिता ॥ १९३ ॥ भवः संसार एव दावो वनवह्निस्तस्य शामकत्वा-
त्सुधावृष्टिः पीयूषवर्षमिव । भवः संसार एव दावोऽरण्यं । 'दवदावौ वनारण्यवह्नी'
इत्यमरः । तस्य पुङ्खानुपुङ्खतयोज्जीवनात्पीयूषवृष्टिरिवेति वा । भवं परशिवं दत्ते वसु
रत्नं धनं च धत्ते एतादृशी वृष्टिरिति त्रिपदं नाम वा । भोगमोक्षप्रदेति यावत् ।
उक्तंच रुद्रयामले मङ्गलराजस्तवे 'यत्रास्ति भोगो नतु तत्र मोक्षो यत्रास्ति मोक्षो
नतु तत्र भोगः । श्रीसुन्दरीसाधकपुंगवानां भोगश्च मोक्षश्च करस्थ एवे'ति ।
पापान्येवारण्यानि दुःखजनकत्वात् । तेषां दवानल इव नाशकत्वात् । पापारण्यानां
दवानलो यस्या नाम सेति वा । तदुक्तं बृहन्नारदीये 'गङ्गायाः परमं नाम पापार-
ण्यदवानलः । भवव्याधिहरी गङ्गा तस्मात्सेव्या प्रयत्नतः'इति । यद्वा पापारण्यानां
ये दवाः दावामयो नाशनोपायभूता उपास्त्यादयस्तेषां अनान् प्राणान् लाति आदत्ते
सौभाग्यभास्करव्याख्या । १५३
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १९५ ॥
महेश्वरी महाकाली महाग्रासा महाशना ।
तान् जीवयतीति यावत् । पापापहानि कर्माणि प्रथयतीत्यर्थः । तदुक्तं ब्रह्माण्डे 'कृतस्या-
खिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्चित्तं परं प्रोक्तं पराशक्तेः पदस्मृति'रिति ।
तत्रैवाध्यायान्तरे 'इदं च शृणु देवेन्द्र रहस्यं परमं महत् । सर्वेषामेव पापानां
यौगपद्येन नाशनम् । भक्तिश्रद्धासमायुक्तः स्नात्वान्तर्जलसंस्थितः । अष्टोत्तरसहस्रं
तु जपेत्पञ्चदशाक्षरीम् । आराध्य परमां शक्तिं मुच्यते सर्वकिल्बिषै'रित्यादि ।
दौर्भाग्यमेव तूलं कार्पासं तस्य वातूल इव वात्येव दूरं निरासिकेति यावत् । 'वातूलः
पुंसि वात्याया'
indented, IT IS THE START OF A PARAGRAPH / SENTENCE!
Wait, why would a paragraph start with ...ीति वा ।?
Because the commentary on the NEXT name starts?
Wait, where is the commentary on "अपर्णा"?
Look at line 5:
पूर्वं तदन्त्यतृतीयकं नाम व्याख्यातमिति न पौनरुक्त्यम् । अपगतमृणं यस्याः
साऽपर्णा ।
AHA! "अपगतमृणं यस्याः साऽपर्णा ।"
This means the commentary on "अपर्णा" starts in the MIDDLE of line 5!
Before "अपर्णा", the text from line 4 to line 5 is explaining the PREVIOUS name!
And what was that previous name?
In verse 195, the last name was:
... महाशना!
And how did the commentary on महाशना begin? It began on page 153!
And on page 153, it explained महाशना one way.
Then on page 154, line 4, it gives another explanation:
...ीति वा । महानपरिमितो ग्रासः कवलो यस्याः । ...
Wait! Why is line 4 indented?
Sometimes in this press, the first line at the top of a page is indented,
सौभाग्यभास्करव्याख्या । १५५
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १९७ ॥
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १९८ ॥
मैश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु । यशोवीर्यप्रयत्नेच्छाश्रीधर्मैरविमुक्तिष्वि'ति विश्वः ।
शोभनो भगः सूर्यो यया वा । सौरकार्येषु सर्वेषु तदन्तस्थिताया अस्याः शक्तेरेव
निमित्तत्वात् । तदुक्तं विष्णुपुराणे द्वितीयांशे 'सर्वा शक्तिः परा विष्णोर्ऋग्यजुःसामसं-
ज्ञिता । सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या । मासि मासि रवैर्यत्र तत्र तत्र हि
सा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै । ऋचस्तपन्ति पूर्वाह्ने मध्याह्ने
तु यजूंषि वै । बृहद्रथन्तरादीनि सामान्याह्नःक्षये रवौ । मूर्तिरेषा त्रयी विष्णोर्ऋग्यजुः-
सामसंज्ञिता । विष्णुशक्तिरवस्थानं सदादित्ये करोति या । न केवलं रवौ शक्तिर्वै-
ष्णवी सा त्रयीमयी । ब्रह्माथ पुरुषो रुद्रश्चयमेतत्रयीमयम् । नोदेता नास्तमेता च
कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक् तस्य गणः सप्तमयोऽप्ययम् । स्तम्भ-
स्थदर्पणस्येव योयमासन्नतां गतः । छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ।
एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र
संस्थित'मिति । देवा ऋषयो गन्धर्वा अप्सरसो यक्षाः सर्पा राक्षसाश्चेति सप्तमयो
गणः प्रतिमासं भिद्यमानस्य सूर्यस्योपकरणभूतत्वाद्विद्यते । शक्तिस्तु प्रधानत्वान्न
भिद्यत इति समुदायार्थः । यद्वा लोकत्रयान्तर्गतं सौभाग्यं चरगतमचरगतं वा अस्या
एव रूपमिति सुभगा । अचरगतं तु पद्मपुराणे 'इक्षवस्तरराजं च निष्पावा जीरधा-
न्यके । विकारवच्च गोक्षीरं कुसुम्भं कुसुमं तथा । लवणं चेति सौभाग्याष्टकं स्थावर-
मुच्यत'इति । चरास्तु सुवासिन्यः प्रसिद्धा एव । पाद्मएवोक्तं 'त्रिविष्टपसौभाग्यमयीं
मुक्तिमुक्तिप्रदामुमाम् । आराध्य सुभगां भक्त्या नारी वा किं न विन्दतीति' । अत्र
पूर्वे विशेषणद्वयं सुभगापदस्य निरुक्तिमपि ध्वनयति । त्रीण्यम्बकानि नेत्राणि
यस्याः । तदुक्तं देवीपुराणे निर्वचनाध्याये 'सोमसूर्यानलाक्षीणि यन्नेत्राण्यम्बकानि
सा । तेन देवी त्र्यंबकेति मुनिभिः परिकीर्तिते'ति । 'प्रत्ययस्थात्कात्पूर्वस्ये'त्युपान्त्य
इकारो न भवति आपः सुपः परत्वात् । त्रयाणां ब्रह्मविष्णुरुद्राणामम्बिका माता वा ।
'अभाषितपुंस्काच्चे'तीलाभावः । अतएवाह त्रिगुणात्मिका सत्वरजस्तमोरूपगुण-
त्रयसाम्यविग्रहा ॥ १९७ ॥ 'यन्न दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । अभिला-
षोपनीतं यत्तत्सुखं स्वःपदास्पद'मिति श्रुतिप्रसिद्धं क्षयिष्णु सुखं स्वर्गः । नित्यं तु सुखम-
पवर्गः । तदुभयं दत्ते । शुद्धा आविद्यकमालिन्यशून्या । जपापुष्पनिभा ओड्रपुष्पेण
तुल्या आकृतिः स्वरूपं यस्याः । 'आकृतिः कथिता रूपे सामान्यवपुषोरपी'ति विश्वः ।
अत्राकारप्रश्लेषेणाजपेतिपृथक् पदं स्वीकृत्य धराधरासुतेत्येकं पदमित्यपि सुवचम् ।
तत्र अजपा मन्त्रविशेषरूपा । तन्निर्वचनं च दक्षिणामूर्तिसंहितायां 'विना जपेन
१५६ ललितासहस्रनाम ।
दुराराध्या दुर्धर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १९९ ॥
देवेशि जपो भवति मन्त्रिणः । अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी'ति ।
'पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपी'ति हैमकोशः । तत्तु-
ल्याकृतिर्यस्या इत्यर्थः । 'ओजोऽष्टमधातु'रिति वेदभाष्ये । इन्द्रियसामर्थ्यमित्यन्ये ।
'ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः । ओजो बले च दीप्तौ चे'ति तु विश्वः ।
तान्यस्यां सन्तीत्योजोवती । धरतीति धरा पचायच् । द्युतेः कान्तेर्धरा । 'यज्ञो वै
विष्णु'रिति श्रुतेः तदभिन्ना देवी यज्ञरूपा । यज्ञा एव वा रूपमस्याः । तदुक्तं
हरिवंशपद्मपुराणयोरीश्वरं प्रक्रम्य 'वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः । अग्नि-
जिह्वो धर्मरोमा ब्रह्मशीर्षो महातपाः । अहोरात्रे क्षणो दिव्यो वेदान्तश्रुतिभूषणः ।
सुवतुण्डश्चाज्यनासः सामघोषस्वनो महान् । धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्क्रियः ।
प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः । औद्गात्रान्त्रो होमलिङ्गः फलबीजमहौषधिः ।
वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः । वेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवे-
गवान् । प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरर्चितः । दक्षिणाहृदयो योगी महाम-
न्त्रमयो महान् । उपाकर्मोऽष्टचिबुकः प्रवर्ग्यावर्तभूषणः । नानाच्छन्दोगतिपथो
गुह्योपनिषदासनः । छायापत्नीसहायो वै मेरुशृङ्ग इवोच्छ्रित'इति । यद्वा
'इन्द्रियद्वारसंगृह्यैर्गन्धाद्यैरात्मदेवताम् । स्वभावेन समाराध्य ज्ञातुः सोयं महामख'
इति मुख्यआम्नायरहस्योक्तयज्ञाभिन्ना । प्रियाणि व्रतान्यविशेषात्सर्वदेवताविष-
यकाणि यस्याः । तदुक्तं भविष्योत्तरपुराणे 'देवं देवीं च वोद्दिश्य यत्करोति व्रतं
नरः । तत्सर्वं शिवयोस्तुष्ट्यै जगज्जननशीलयोः । न भेदस्तत्र मन्तव्यः शिवशक्ति-
मयं जगदि'ति । प्रियव्रताख्यराजस्वरूपा वा ॥ १९८ ॥ चपलेन्द्रियाणां दुःखेनाराधितुं
अशक्या । अशक्येत्येव पर्यवसानम् । तदुक्तं 'तरलकरणानामसुलभे'ति । दुःखेन
आधर्षः स्वायत्तीकरणं यस्याः । श्वेतरक्तवर्णं पाटलीनामकं कुसुमं प्रियं यस्याः ।
उक्तंच पाद्मे 'श्रीवृक्षे शंकरो देवः पाटलायां तु पार्वती'ति । परममहत्परिमाणत्वात् ।
'महती महान्कस्मान्मानेनान्याजहतीति शाकपूर्णिर्महनीयो भवतीतिवे'ति तु यास्क-
निरुक्तिः । नारदमुनेर्वीणाविशेषोपि महती तत्स्वरूपा वा । मेरुरेव निलयो यस्याः ।
तन्त्रराऽजेष्टाविंशे पटले 'अथ षोडशनित्यानां लोकात्मत्वं वदामि त' इत्युपक्रम्य ससा-
गरद्वीपां भुवं वर्णयित्वोक्तं 'मध्यस्थमेरौ ललिता सदैववास्ते महाद्युतिः । तस्याभितो
जलान्ध्यन्तः शेषास्ताः स्युश्चतुर्दश । तद्बहिः परमे व्योम्नि लन्ते चित्रा तु
संस्थिते'त्यादिना बहवो विशेषा उक्तास्ते गुरुमुखादेवावगन्तव्याः । यद्वा । चक्रा-
जस्य त्रयः प्रस्ताराः भूमिकैलासमेरुभेदात् । तत्र वशिन्याद्यष्टकेन सह भेदभावना
भूप्रस्तारः । मातृकाक्षरैश्चैत्कैलासप्रस्तारः । षोडशभिर्नित्याभिश्चेन्मेरुप्रस्तारः । मेरूर्नि-
सौभाग्यभास्करव्याख्या । १५७
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ २०० ॥
ंत्यतादात्म्यभावनैव निलयो यस्या इत्यर्थः । भावनाप्रकारश्च सनत्कुमारसनन्दनव-
सिष्ठसंहितासु तिसृषु त्रिविधः क्रमेण प्रतिपादितः ॥ अथवा । 'भूमिश्चन्द्रः शिवो माया
शक्तिः कृष्णध्वमादनौ (?) । अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यत'इति । ज्ञानार्णवे
उद्धृतो नवाक्षरो मन्त्रो मेरुपदवाच्यः सएव निलयः सर्वमन्त्रोद्भवस्थानं यस्याः ।
तदप्युक्तं 'महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवा'इत्यादि । मन्दारो देवतरुः श्वेतार्को
वा तस्य कुसुमं प्रियं यस्याः ॥ १९९ ॥ 'अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमं परो भुङ्क्ते स्वात्मानमशिवापह'मित्यादिनोक्तलक्षणा वीरैस्तैराराध्या । विराजो
लक्षणं पूर्वमुक्तं तद्रूपा ॥ अथ परिभाषायामष्टचत्वारिंशन्नामानि विभजते ॥
गुणभावे गीर्णे द्विश्रुतूहृदां विभुगुणे भावाङ्गमखे ॥ वरगुणचतुर्विभाजां
खलमदभावान्तरङ्गखिलविभवाः ॥ २८ ॥ स्पष्टं ॥ विगतं रजः पापं यस्याः ।
विरजसे नम इति प्रयोगः । उत्कलदेशस्थविरजाख्यक्षेत्राधिष्ठात्रीयम् । तदुक्तं ब्रह्मा-
ण्डपुराणे 'विरजे विरजा माता ब्रह्मणा संप्रतिष्ठिता । यस्याः संदर्शनान्मर्त्यः पुनात्या-
सप्तमं कुल'मिति । ज्योतिरुदकं लोकाश्च रजःपदेनोच्यन्त इति तु नैरुक्ताः । विश्वतः
सर्वावच्छेदेन मुखं यस्याः । 'विश्वतश्चक्षुरुत विश्वतोमुख'इति श्रुतेः । यत्रैवोपासकैर्ध्येयेन
रूपं कल्प्यते तत्रैवाविर्भवतीत्याशयेन 'सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुख'मित्या-
दिवचनानि पारमार्थिकरूपाभिप्रायेण 'अपाणिपादो जवनो ग्रहीते'त्यादीनीत्यविरोधः ।
प्रतिकूलमञ्चतीति प्रत्यक् तादृशं रूपं यस्याः । इन्द्रियाणां विषयोन्मुखत्वं बहिर्मुखत्वं
पराङ्मुखत्वं चेत्युच्यते । तत्परित्यागेनान्तरान्मोन्मुखत्वमन्तर्मुखत्वं प्रत्यङ्मुखत्वं
चोच्यते । अतएव श्रूयते 'पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति
नान्तरात्मन्'इति । प्रत्यगवलोक्यमानखरूपेति तु यावत् । पर उत्कृष्टश्चासावाका-
शश्च पराकाशा । निर्गुणत्वात्स्त्रीलिङ्गं । परब्रह्मेत्यर्थः । 'आकाश इति होवाचाकाशो
ह्येवैभ्यो ज्यायानाकाशः परायण'मिति छान्दोग्ये आकाशपदेन परब्रह्मैवोच्यते न
भूताकाश इति 'आकाशस्तल्लिङ्गा'दिति ब्रह्मसूत्रे निर्णयात् । कौर्मेपि 'यस्य सा परमा
देवी शक्तिराकाशसंस्थिते'ति । 'इत्थं हि सा जगतो योनिरेका सर्वात्मिका सर्वनिया-
मिका च । माहेश्वरी शक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीवे'तिच ।
अथवा 'परमे व्योमन् प्रतिष्ठिते'त्यादिश्रुतिसिद्धं व्योम ब्रह्माण्डपिण्डाण्डभेदेन द्विवि-
धमपि पराकाशो ब्रह्माभिव्यक्तिस्थानं तद्रूपा । उक्तंच चिद्गगनचन्द्रिकायाम् 'हत्कि-
यात्मशशिभानुमध्यगः खे चरत्यनलदृष्टिधाम यः । यत्तदूर्ध्वशिखरं परं नभस्तत्र
दर्शय शिवं समम्बिके'इति । स्वच्छन्दसंग्रहेपि 'द्वादशान्तं ललाटोर्ध्वं कपालोर्ध्वाव-
सानकम् । द्यङ्गुलोर्ध्वं शिरोदेशात्परं व्योम प्रकीर्तित'मिति । यद्वा । सप्तभ्यः समुद्रेभ्यः
१४
१५८ ललितासहस्रनाम ।
मार्तण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ २०१ ॥
परतर आकाशः पराकाशः । तत्र ललिता षोडशे वर्षेऽवस्थितासती तद्रूपेत्युपचर्यते ।
तदुक्तं कादिमते 'कृतादिवर्षादारभ्य प्रतिवर्षमिति स्थिता । द्वितीयादिषु वर्षेषु क्रमात्ताः
परिवृत्तिभिः। षोडशेऽब्दे परे व्योम्नि ललिता सलिलाम्बुधौ । चित्रा च भवतीत्थं हि भजन्ते
परिवर्तन'मिति । मेरुपर्वतः सप्तद्वीपाः सप्तसमुद्राः पराकाशश्चेति षोडशसु स्थानेषु
कृतयुगस्य प्रथमवर्षे ललिता कामेश्वरी भगमालिनीत्यादिक्रमेण चित्रान्ताः षोडश
नित्यास्तिष्ठन्ति । द्वितीये तु वर्षे ललिता जम्बुद्वीपेऽवतरति । कामेश्वरी तु क्षाराम्बुधिं
प्रयाति । तत्रत्या भगमालिनी तु ततोप्युत्तरं स्थानमाक्रमते । एवंरीत्या पराकाशे
ज्वालामालिनी मेरौ चित्रा तिष्ठति । तृतीये वर्षे क्षाराम्बुधौ ललितेत्यादिक्रमेणोत्तरोत्तर-
स्थानाक्रमेण जम्बुद्वीपे चित्रा तिष्ठतीत्याद्यूह्यमिति तदर्थः । यद्वा पराकशब्दः
कृच्छ्रविशेषवाचकः संस्तपोमात्रोपलक्षकः तस्य आशा दिक् । तपोगम्यो मार्ग इति
यावत् । अथवा पराकमश्नाति । पराकादिजन्यफलभोक्त्रीत्यर्थः । परे उत्कृष्टे अके
पापदुःखे अश्नाति नाशयतीति वा । 'अकं पापे च दुःखे चे'ति विश्वः । उपमार्थ-
कप्रतीकाशप्रतिस्पर्धिपराकाशशब्दादनुपमेति वार्थः । प्राणान्पञ्चवृत्तिकानेकादशेन्द्रियाणि
वादत्ते । प्राणान्यति खण्डयतीति वा । 'प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्वे'ति
कौषीतकिब्राह्मणे प्राणपदस्य ब्रह्मपरतेति निर्णीतं प्राणाधिकरणे । तेन प्राणरूपिणीत्यस्य
ब्रह्मरूपेत्यर्थः । 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे'ति श्रुतेश्च । 'प्रा पूरण'इति धातोर्निष्ठात-
कारस्य 'संयोगादेरातोधातोर्यण्वत'इति सूत्रेण नकारे पूर्णे ब्रह्मेत्येवार्थः । 'पूर्णमदः पूर्णमिदं'
मित्यादिश्रुतेः । उक्तंच मनुस्मृतौ'एनमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमन्ये परं
प्राणमपरे च महेश्वरी'मिति । अथवा नित्यातन्त्रे तावत् 'अथ षोडशनित्यानां कालेन
प्राणतोच्यत'इत्यादिना श्वासाख्यं कालमारभ्यैव दिनमासादिक्लृप्तिरुक्ता । 'सार्धद्वयविं-
शतिः श्वासाः क्रमात् द्वादशराशय' इत्यादिना च राशिचन्द्रसूर्यादिकल्पना च श्वास-
मध्येवेत्यादिरूपा विलक्षणा प्रक्रिया दर्शिता । तद्रीत्या च ललितायाः प्राणात्मकत्वमेव
स्फुटीभवतीति तद्रूपेत्यर्थः ॥ २०० ॥ श्रीपुरे द्वाविंशत्रयोविंशयोः प्राकारयोर्मध्य-
भूम्यामस्ति मार्तण्डभैरवो देवो देव्युपासकः । तथाचोक्तं तद्वर्णनावसरे दूर्वासदेशि-
केन्द्रैण 'चक्षुष्मतीप्रकाशनशक्तिच्छायासमारचितकेलिम् । माणिक्यमुकुटरम्यं मन्ये
मार्तण्डभैरवं हृदय'इति । मणिमल्लाख्यदैत्यहननायाश्वारूढः शिवो भुवमागतो मल्हारि-
पदवाच्यो मार्तण्डभैरवपदेनापि व्यवहियत इति महाराष्ट्रेषु तन्त्रचिन्तामणिनामके तन्त्रे
च प्रसिद्धम् । तत्कृतदेव्याराधनापि मल्हारिमाहात्म्य एव प्रसिद्धा । यद्वा मार्तण्डः
सूर्यः । 'मृतेऽण्डे येन संजातो मार्तण्डस्तेन भास्कर'इति स्कान्दात् । शकन्ध्वादित्वा-
त्पररूपम् । 'तत्र जात'इति तद्धितः । भैरवो बटुकादिरनेकविधः । तत्र सूर्याराध्यत्वं
सौभाग्यभास्करव्याख्या । १५९
पद्मपुराणे 'देव्या रत्नमयीं मूर्तिं भक्त्या नित्यं दिवाकरः । पूजयित्वासवान्दिव्यं
सूर्यंलं शुभमुत्तम'मिति । भैरवाराध्यत्वं तु कालिकापुराणे बहुशः प्रतिपादितम् ।
भीरूणां समूहो वा भैरवम् । 'दुर्गे स्मृता हरसि भीतिमशेषजन्तो'रिति देवीस्तुति-
प्रकरणे मार्कण्डेयपुराणात् । सर्वेषामेकशेषे तैराराध्या । अथवा 'उद्यमो भैरव' इति शि-
वसूत्रे प्रतिपादित उद्योगो भैरव इत्युच्यते । स एव मोहान्धकारनाशकत्वान्मार्तण्डः ।
तदुक्तम् 'मोहजयादनन्ताभोगात्सहजं विद्याजय'इति सूत्रे वार्तिककारैः 'मोहस्तमो
निजाख्यातिस्तज्जयात्तत्पराभवात् । उद्यमार्कोत्थितोऽनन्तः संस्कारप्रशमावधिः ।
आभोगो यस्य विस्तार ईदृशाद्दर्शितात्मनः । भवेत्सहजविद्याया जयो लाभोऽस्य
योगिन'इति । मार्तण्डतुल्येन भैरवेणोद्योगविशेषेणाराध्या ल
१६० ललितासहस्रनाम ।
'परो मित्रं । 'न मे द्वेष्योऽस्ति न प्रिय'इति स्मृतिः । परो दूरस्थः अपरोऽन्तिकस्थः ।
'दूरस्थं चान्तिके च तदि'ति स्मृतिः । 'परः स्यादुत्तमानात्मवैरिदूरेषु केवल'इति-विश्वः ।
परमपरं चेति द्विविधं सामान्यं । परापराख्यं तृतीयं च । ब्रह्म द्विविधं केवलशबलभे-
दात्क्रमेण परमपरमुच्यते । 'एतद्वै सत्यकाम परं चापरं चे'ति श्रुतेः 'द्वे ब्रह्मणी
वेदितव्ये परं चापरमेव चे'ति स्मृतेश्च । परं ब्रह्म परं विशेषणं शक्तिः । अपरं पूर्व-
विशेष्यं शिवः 'सामरस्यसंबन्धेन शक्तिविशिष्टः शिव एव हि परंब्रह्म । 'युजे वां ब्रह्म
पूर्व्यं नमोभि'रिति श्रुतौ युवयोर्मध्ये पूर्वं विशेष्यभूतं ब्रह्म नमोभिर्युनज्मीत्युक्त्या ।
शिवस्य नमः शेषिणः पूर्व्यमिति निर्देशात् स्वार्थे यत् । 'एषो उषा अपूर्व्या व्युच्छति
प्रिया दिवः'इति श्रुतावपूर्व्या पूर्वस्माद्भिन्ना परेति देव्या निर्देशात् । सृष्ट्यादावी-
क्षणात्मकोषःकालायमानशक्तेरिह स्तूयमानत्वादित्यादिः शिवानन्दलहर्यां विस्तरः ।
व्योमापि परमपरं चेति द्विविधम् । विद्या द्विविधा परा अपराचेति मुण्डकोपनिषदुक्ता ।
लिङ्गपुराणेऽपि 'द्वे ब्रह्मणी वेदितव्ये परा चैवापरा तथा । अपरा तत्र ऋग्वेदो यजुर्वेदो
द्विजोत्तमाः । सामवेदस्तथाथर्ववेदः सर्वार्थसाधकः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्द
एव च । ज्योतिषं चापरा विद्या पराक्षरमिति स्थितम् । तददृश्यं तद्ग्राह्यमगोत्रं तदवर्णक'-
मित्यादि । 'असंवृतं तदात्मैव परा विद्या नचान्यथे'त्यन्तं । परोऽपरश्चेति प्रणवो
द्विविधः । तदुक्तं स्कान्दे यज्ञवैभवखण्डे 'परापरविभागेन प्रणवो द्विविधो मतः ।
परः परतरं ब्रह्म प्रज्ञानन्दादिलक्षणम् । प्रकर्षेण नवं यस्मात्परं ब्रह्म स्वभावतः । अपरः
प्रणवः साक्षाच्छन्दरूपः सुनिर्मलः । प्रकर्षेण नवत्वस्य हेतुत्वात्प्रणवः स्मृतः । परम-
प्रणवप्राप्तिहेतुत्वात्प्रणवोऽथवेति । परोऽपरश्चेति द्विविधो वेदार्थः । तदुक्तं तत्रैव
'परापरविभागेन वेदार्थो द्विविधः स्मृतः । वेदार्थस्तु परः साक्षात्परातपरतरं परम् ।
अपरो धर्मसंज्ञः स्यात्तत्परप्राप्तिसाधनमि'ति । योगशास्त्रे परमपरं परापरं चेति त्रिविधं
ज्ञानमुक्तम् । 'ज्ञानं तत्रिविधं ज्ञेयं परापरविभेदतः । तत्राद्यं परमं ज्ञानं पशुपाशात्म-
दर्शनम् । द्वितीयं परमं ज्ञानं केवलं पाशदर्शनम् । यथा दृष्ट्यन्तरं रात्रौ नरमा-
र्जारनेत्रयोः । तथा विलक्षणं ज्ञानं परापरमुदीरित'मिति ॥ पराऽपरा परापरा चेति पूजा
त्रिविधा । तदुक्तं नित्याहृदये 'तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता । परा चा-
प्यपरा गौरी तृतीया च परापरा । प्रथमाद्वैतभावस्था सर्वप्रचरगोचरा । द्वितीया
चक्रपूजा च सदा निष्पाद्यते मया । एवं ज्ञानमयी देवी तृतीया स्वप्रथामयी'ति ।
परापरा चेति वाक् द्विविधा । अपरा तु पश्यन्त्यादिभेदात्त्रिविधा । परापरा चेति अवस्था
द्विविधा । तत्र परा तुर्या । अपरा तु जाग्रदादिभेदात्त्रिविधा । तदुक्तं विज्ञानभैरव-
भट्टारकैः 'यत्र यत्र मनो याति बाह्ये वाभ्यन्तरे प्रिये । तत्रतत्र परावस्था व्यापक-
त्वात्प्रसिध्यती'ति । परोऽपरश्चेति द्विविधो होमः । तत्रापरः स्थूलसूक्ष्मभेदात्पुनर्द्वि-
विधः । तदिदमुक्तं स्वतन्त्रतन्त्रे । प्रसिद्धं स्थूलहोमं मूलाधाराभ्यधिकरणं प्राणा-
मिहोत्रसमानधर्माणं सूक्ष्महोमं च प्रतिपाद्य तदन्ते 'वाच्यार्थानामशेषेण वेद्यवेत्तृ-
विदात्मनाम् । स्थितिः परो भवेद्धोमः सर्वभेदविलापनात् । स्वात्मरूपमहावह्निज्वाला-
सौभाग्यभास्करव्याख्या । १६१
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक्कामरूपिणी ॥ २०२ ॥
रूपेषु सर्वदा । निरुद्धेन्धनरूपेषु परमार्थात्मनि स्थिरे । निर्व्युत्थानविलापस्तु परहोमः
समीरिता’इति । मन्त्रपारायणान्तर्गतमन्त्रविशेषः परापरेत्युच्यते । देव्यपि त्रिविधा
पराऽपरा परापरा चेति । तदुक्तं वराहपुराणे त्रिमूर्ति प्रकृत्य ‘तत्र सृष्टिः परा प्रोक्ता
श्वेतवर्णस्वरूपिणी । या वैष्णवी विशालाक्षी रक्तवर्णस्वरूपिणी । अपरा सा समा-
ख्याता रौद्री चैव परापरा । एतास्तिस्रोऽपि सिध्यन्ति यो रुद्रं वेत्ति तत्वत’ इति ।
अत्र परापरपदयोर्विभजनेन सप्तदशार्थमेलनेन तु पञ्चेति द्वाविंशतिः । अन्येपि
यथालाभं योजनीयाः ॥ २०१ ॥ सत्यं ज्ञानमानन्दश्च रूपं यस्याः । ‘सत्यं ज्ञानम-
नन्तं ब्रह्म’ । ‘नित्यं विज्ञानमानन्दं ब्रह्मेति’ श्रुतेः । ‘सती सद्विद्या तद्विषये अज्ञा
अनभिज्ञा ये तेषामनानन्दमानन्दभिन्नं दुःखमेव रूपयति ददातीति । ‘अन्धं तमः
प्रविशन्ति येऽविद्यामुपासत’इति बृहदारण्यक ईशावास्ये च श्रवणात् । अविद्यामिति
पदकाराणां पदपाठः । ‘विद्यान्योपासनामेवं निन्द्यारण्यकश्रुति’रिति ब्रह्माण्डपुराणे
उपबृंहणं च । यद्वा । सत्याविद्या देव्या अज्ञानं येषां ते सत्यज्ञानाः तेषामानन्दाख्यान्
लोकान् रूपयतीति आरण्यक एवोक्तश्रुतेः परतस्तथा श्रवणात् । ‘अनन्दा नाम ते
लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधा जना’इति । समो
न्यूनानधिको रसो ययोस्तयोः शिवशक्त्योर्भावः सामरस्यमेव परमयनं स्थानं यस्याः ।
उक्तं चाभियुक्तैः ‘परस्परतपःसंपत्फलायितपरस्परौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती
स्तुम’इति । ‘भोक्तृभोग्यकरणोर्मिसंक्षये सामरस्यरसदोहिनी शिवे’त्यादिकालीदासो-
क्तिश्च । ‘समप्रधानौ समसत्वौ ॰मो तयोरि’ति श्रुतिश्च । अमरैः सहितस्य सामरस्य
लोकस्य परायणमाश्रयो वा । रस्यन्ते गीयन्त इति रस्यानि सामानि च तानि रस्यानि
च तानि परायणानि अभीष्टानि यस्या वा । बहुलग्रहणान्न विशेषणस्य पूर्वनिपातः ।
‘परायणमभीष्टं स्यात्तत्पराश्रययोरपी’ति विश्वः । कपर्द इत्यधिकृत्य ‘भूमनिन्दाप्रशंसासु
नित्ययोगेऽतिशायन’इति सूतसंहिताटीकाकारैर्लिखितात्स्मरणाद्बाहुल्यप्रशंसादिमती । वरा-
टकमालाभूषिता वा । मैलारावतारस्य शिवस्याङ्गना महालसानाम्नी वराटकालंकारैव
‘पर्व पूर्तौ’वितिधातोर्भावे क्तिपि राल्लोपे च परशब्दः पूर्तवाची । अन्तर्भा-
वितण्यर्थात्कर्तरि वा क्तिपि पूरवाची । कस्य गङ्गाजलस्य पूरं प्रवाहं दापयति
शोधयतीति कपर्दः । ‘दैप् शोधन’इति धातोः सुप्युपपदे ‘आतो धातोः’ ‘सुपि
स्थ’इति योगविभागात्कः । गङ्गाया अपि पाविका यज्जटा इत्यर्थः । ‘कपर्दः
खण्डपरशोर्जटाजूटे वराटके’इति विश्वः । ‘आर्भक्ष्या शशिखण्डमण्डितजटाजूटा’मिति
लघुस्तवोक्तरूपवती वा । कपर्दिनामकस्य शिवस्य पत्नी वा । देवीपुराणेऽष्टषष्टिशिव-
क्षेत्रगणनावसरे छगलाण्डे कपर्द्दिनमिति स्मरणात् । कलानां चतुःषष्ट्यादिरूपाणां माला
१६२ ललितासहस्रनाम ।
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ २०३ ॥
परंपरा । कलां लावण्यं मां शोभां च लातीति वा । कामान् दोग्धीति कामधुक् ।
मनोरथान् पूरयतीत्यर्थः । कामधेनुरूपा वा । 'सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वा-
गस्मानुपसुष्टुतैत्वि'ति श्रुतेः । कामः परशिव एव रूपमस्याः । 'सोऽकामयत बहुस्यां
प्रजायेय' इति श्रुतिसिद्धजगत्सिसृक्षावानीश्वरः कामेश्वरः तमधिकृत्य काण्वा अधीयते
'य एवायं काममयः पुरुषः स एव देवशाकल्यस्तस्य का देवतेति स्त्रिय इति होवाचे'ति ।
कामं यथेच्छं वा रूपाण्यस्याः ॥ २०२ ॥ कलानां नानाविधतया पूर्वे वर्णितानां
निधिः 'आत्मैवास्य षोडशी कले'ति बृहदारण्यकोक्तेरात्मनां जीवानां निधिर्वा । चन्द्रम-
ण्डलरूपा वा । 'योनिवर्गः कला शरीर'मिति शिवसूत्रे कलाशब्दः कर्मपरत्वेन तद्भाष्ये
व्याख्यातः । तेन कर्माणि निधीयन्तेऽस्यामिति वा । अधिकरणे किः । 'सर्वं कर्मा-
खिलं पार्थ ज्ञाने परिसमाप्यत' इति स्मृतेः । कवेः कर्म काव्यम् । तच्च नाटकशाटक-
भाणडिमप्रहसनादिभेदादनेकविधमग्निपुराणादौ प्रदर्शितं तादृशकलाप्यम्बाया एव
रूपम् । उक्तंच विष्णुपुराणे 'काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च । शब्द-
मूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मन' इति । काव्योत्पादकप्रतिभैव वा काव्यकला । ध्यान-
विशेषेण काव्यनिर्माणसामर्थ्यप्रदत्वस्य तन्त्रेषु बहुशो वर्णनात् । काव्यस्य शुक्रस्य
मृतसंजीवन्याख्यकलारूपा वा । रसान् शृङ्गारादिभेदेन दशविधान् जानातीति रसज्ञा ।
रसनेन्द्रियरूपा वा । रसस्य ब्रह्मामृतस्य शेवधिर्निधिः । 'रसो वै सः । रसं ह्येवायं
लब्ध्वानन्दी भवती'ति श्रुतेः । ब्रह्माण्डेऽपि 'रस एव परं ब्रह्म रस एव परा गतिः ।
रसो हि कान्तिदः पुंसां रसो रेत इति स्मृतः' । 'रसो वै रससंलब्ध्या ह्यानन्दी
भवतीत्यपि । वेदप्रामाण्यसंसिद्ध्या रसः प्राणतया स्थितः। को ह्येवान्याच्च कः प्राण्यादित्यपि
श्रुतिभाषितः । प्राणात्मको रसः प्रोक्तः प्राणदः कुम्भसंभवे'ति । 'निधिः शेवधिरिती'ति
यास्कः । 'निधिर्ना शेवधि'रिति कोशात्पुंलिङ्गो निधिशेवधिशब्दौ। तेन कलानिधये नमः।
रसशेवधये नम इत्येव प्रयोगो न पाक्षिको निध्यै शेवध्यै नम इति । कलानां रसानां
च निधिः शेवधिर्यस्या इति विग्रहे तु सोऽपि संभाव्यते ॥ इति श्रीभांसुरानन्दकृते
सौभाग्यभास्करे । शतकेनाष्टमेनाभूद्विश्वाख्या नवमी कला ॥ ८०० ॥
इति श्रीललितासहस्रनामभाष्येऽष्टमशतकं नाम नवमीकला ॥ ९ ॥
षट्त्रिंशत्तत्त्वविग्रहशीलात्पुष्टा । बहुभिर्गुणैर्ब्रह्मरसेन ब्राह्मणेर्वा पुष्टा । 'ब्राह्मणैः पोषितं
ब्रह्मे'ति स्मृतेः । 'ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्म'दिति श्रुतेश्च । सर्वेषामादिभूतत्वात्पुरातना
डीबभावश्छान्दसः । पुरातना गुणा अस्यां सन्तीत्यर्थे मत्वर्थीयाच्प्रत्ययान्ताद्वा टाप्
अतएव सर्वेषां पूज्या पूजयितुं योग्या । प्रतीक्ष्या वा । पुष्कं पोषणं रात्यादत्तेऽसौ
पुष्करा । पुष्कराख्यतीर्थरूपा वा । रलयोरभेदाद्वायसेतिवा । पुष्कराणीव कमलानीवे-
क्षणानि नयनानि यस्याः । 'पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः । ओषधीद्वीपविहगती-
र्धरागोरगान्तरे । पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेपि चे'ति विश्वः । एवं पुष्कराख्यो
योगोऽपि पाद्मे प्रसिद्धः 'विशाखास्थो यदा भानुः कृत्तिकासु च चन्द्रमाः । संयोगः
पुष्करो नाम पुष्करेष्वातिदुर्लभः' इति । पुष्करशब्दः पृथिवीपरोऽपि । तदुक्तं पद्म-
पुराण एव 'या पद्मकर्णिका देवास्तां पृथ्वीं परिचक्षते । ये पद्मे सारगुरवस्तान् दिव्या-
न्पर्वतानिह । यानि पर्णानि पद्मस्य म्लेच्छदेशास्तु तेऽभवन् । यान्यधोभागपत्राणि
ते सर्पाणां सुरद्विषाम् । एवं नारायणस्यार्थे मही पुष्करसंभवा । प्रादुर्भावोच्छ्रयस्तस्मा-
न्नाम्ना पुष्करसंज्ञिते'ति । तेन यथासंभवं मह्यादिविषये क्षण उत्सवो निर्व्यापारस्थि-
तिर्वा यस्या इति वार्थः । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षण' इत्यमरः ।
सप्तम्या अलुक् । पुष्करशब्दो न्यग्रोधवृक्षपरोऽपि दृश्यते । पुष्करद्वीपपदस्य तद्रूपत्वेन
मत्स्यपुराणे निर्वचनदर्शनात् । 'न्यग्रोधः पुष्करद्वीपे पुष्करस्तेन सः स्मृत' इति ।
विष्णुपुराणेऽपि 'न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तम'मिति । 'स प्रजापतिरेकः
पुष्करपर्णे समभवदि'ति श्रुतिरपि । न्यग्रोधपर्णशायित्वाद्विष्णुरत्र लक्षणया गृह्यते ।
तत्रेक्षणं कृपानीरीक्षणं यस्या इति वा । तदुक्तं देवीभागवते 'वटपत्रशयानाय
विष्णवे बालरूपिणे । श्लोकार्थेन तदा प्रोक्तं भगवत्याखिलार्थद'मिति ।
अम्भस्वीक्षणं यस्या इति वा । 'तानि वा एतानि चत्वार्यम्भांसि देवा
मनुष्याः पितरो सुरा' इति श्रुतेः ॥ २०३ ॥ परमुत्कृष्टं ब्रह्मात्मकं ज्योतिः । 'तद्देवा
ज्योतिषां ज्योतिरायुर्होपासतेऽमृत'मिति बृहदारण्यकात् । 'न तत्र सूर्यो भाति न
चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्नि'रिति श्रुत्या 'येन सूर्यस्तपति तेजसेद्ध' इति
श्रुत्या च परत्वम् । 'परं ज्योतिरुपसंपद्ये'ति श्रुतिरपि । 'मनो ज्योतिर्जुषतां' 'वाचैवायं
ज्योतिषास्ते'इत्यादिप्रयोगात्प्रकाशमात्रं ज्योतिरुच्यते । तेष्वात्मज्योतिः परमिति भावः ।
दक्षिणामूर्तिसंहितायां पञ्चमपटलोक्तोऽष्टाक्षरमन्त्रोऽपि परंज्योतिरुच्यते । परं धाम उत्कृष्टं
तेजः । 'न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं
ममे'ति गीतासु धामशब्दस्यावस्थापरतया तदतिक्रान्तं यत्परं धाम । उक्तं चाचार्यैः 'त्रिषु
धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यत' इति ।
यज्ञवैभवखण्डेऽपि 'जाग्रत्स्वप्नसुषुप्त्याख्यं वेदधामत्रयं तु यः । स एवात्मा न तद्दृश्यं
दृश्यं तस्मिन्प्रकल्पितम् । त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् । त्वमहंशब्दलक्ष्यार्थे
परं धाम समाश्रय'इति धामशब्दः पदपरो वा । परं पदमित्यर्थः । 'तद्विष्णोः परमं
पद'मिति श्रुतेः । कूर्मपुराणेपि 'सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना । शान्ता
सत्या सदानन्दा परं पद'मिति श्रुति'रपि । परस्मैज्योतिषे नमः, परस्मैधाम्नेनम इति
'६४ ललितासहस्रनाम ।
मूर्तामूर्ता नित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ॥ २०५ ॥
प्रयोगः । परिमिति मान्तमव्ययमित्याहुः । परमा च साण्वी च 'वोतो गुणवचना'दिति
विविधैवैकल्पिकत्वात् ङीबभावः । 'अणोरणीया'निति श्रुतिः । दुर्ज्ञेयेत्यर्थः ।
तार्किककल्पिताः पीलवोऽप्यस्या एव रूपमिति वा । परम उत्कृष्टोऽणुर्मन्त्रो वा ।
परादुत्कृष्टाद्ब्रह्मविष्णुरुद्रादपि परा श्रेष्ठतरा । यद्वा ब्रह्मायुःपरिमाणं परमित्युच्यते
तस्मात्परा तादृशसंख्यापरिच्छेदरहिता । तत्र परंधामत्वं परमाणुत्वं च हेतुः ।
तथैव च दर्शितं कालीपुराणे 'तस्य ब्रह्मस्वरूपस्य दिवारात्रं च यद्भवेत् । तत्परं नाम
तस्यार्धे परार्धमभिधीयते । स ईश्वरस्य दिवसस्तावती रात्रिरुच्यते । स्थूलात्स्थूल-
तमः सूक्ष
[सौभाग्यभास्करव्याख्या । १६५]
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्निता ।
गस्य दर्शनात् । ततश्च जीवैरतृप्तेत्यर्थः । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन' इति
श्रुत्या सर्वभक्षकत्वात् । यद्वा इति एवंप्रकारेण अतृप्ता न तृप्ता न भवतीति न ।
द्वौ नञौ प्रकृतमर्थं गमयतः । ईदृशः प्रकारो नास्ति येन तृप्ता न स्यात् । अपितु
सर्वैरपि प्रकारैस्तृप्तैव । 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं
भक्त्युपहृतमश्नामि प्रयतात्मन' इति वचनेन भक्तिमात्रेण यत्किंचिदपि दत्तं तृप्तिकार्यैवेति
कथनात् । मुनीनां मानसं मन एव श्लेषात् मानसाख्यं सरस्तत्र हंसीव । स्वार्थे कः ।
यद्वा मुनीनां माने बहुमानविषये सहंसिकेव पादकटकयुक्तेव । तेषां मानेन संतोषात्
तृप्यतीवेति तात्पर्यार्थः । 'हंसकः पादकटक' इति कोशः । सत्यं ब्रह्मैव व्रतं भक्ष्यमु-
पचारात्तत्प्रियं यस्याः । 'पयोव्रतं ब्राह्मणस्ये'ति श्रुतौ व्रतपदस्य भक्ष्ये प्रयोगदर्शनात्
सत्यमेव व्रतं यस्या वा । सत्योक्तिमात्रपरिपालनरूपव्रतेन लभ्येति यावत् । सत्यानि
शीघ्रफलदानि व्रतानि यस्या वा । कृष्णप्राप्त्यर्थं गोपीभिः कृतानां कात्यायनीव्रतानां
शीघ्रमेव फलवत्ताया विष्णुभागवते वर्णनात् । 'सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वथा तस्मै ददाम्येतद्व्रतं ममे'ति भगवदुक्तं व्रतममोघं यस्या इति वा । अथवा
'शरीरवृत्तिर्व्रतं'मिति शिवसूत्रे शरीरधारणमपि व्रतमे वेत्युक्तम् । 'शिवभक्तिसुधापूर्णे
शरीरे वृत्तिरस्य या । व्रतमेतदनुष्ठेयं न तुच्छं तच्च धारण'मिति वार्तिकात् । तादृशं व्रतं
सत्यमावश्यकं यया यद्भक्त्या सा । अतएव शरीरधारणं प्रार्थितं भगवता भट्टोत्पलेन
'अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम् । भवत्पूजोपभोगाय शरीरमिदमस्तु मे' इति ।
अथवा सत्यव्रतोनाम ब्राह्मणः सूकरभयात् ऐऐ इत्युच्चार्य तावतैव तपसा महाक-
विर्देवीभक्तो जातस्तदभेदात्सत्यव्रता । तदुक्तं देवीभागवते तृतीयस्कन्धे 'अनक्षरो
महामूर्खो नाम्ना सत्यव्रतो द्विजः । श्रुत्वाक्षरं कोलमुखात्समुच्चार्य स्वयं ततः ।
बिन्दुहीनं प्रसङ्गेन जातो सौ विबुधोत्तमः । ऐकारोच्चारणादेव तुष्टा भगवती तदा ।
चकार कविराजं तं दयार्द्रा परमेश्वरी'त्यादि । सत्यं कालत्रयाबाध्यं रूपं यस्याः ।
रूपपदान्मत्वर्थीयेऽचि सत्यं रूपवत्येति वा । सत्यसंरक्षिकेति यावत् । तथाच बह्वृचाः
पठन्ति 'सच्चासच्च वचसी पस्पृधाते । तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्या-
सत्' इति । उमया सहितः सोम इत्यर्थ । सर्वेषामन्तःकरणनियामक इति । 'एष त
आत्मान्तर्याम्यमृत' इत्यन्तर्यामिब्राह्मणात् । 'एषोऽन्तर्याम्येष योनिः सर्वस्ये'ति माण्डू-
क्यश्रुतेश्च । सर्वा च सान्तर्यामिणी चेति वा । सर्वस्वरूपा सर्वेषामन्तश्च प्रविष्टेत्यर्थः ।
'तत्सृष्ट्वा तदेवानुप्राविशत्तदनुप्रविश्य सच्च त्यच्चाभव' दिति श्रुतेः । स्मृतिश्च 'सर्वस्य
सर्वदा ज्ञानात्सर्वस्य प्रभवाप्ययौ । सतोऽसतश्च कुरुते तेन सर्वैति कथ्यत' इति ।
पातिव्रत्यात्सद्रूपत्वाच्च सती । दाक्षायण्या इदं नाम । तदुक्तं ब्रह्मपुराणे हैमवतीं
प्रकृत्य 'सा तु देवी सती पूर्वमासीत्पश्चादुमाभवत् । सहव्रता भवस्यैव नैतया मुच्यते
भव'इति ॥ २०५ ॥ ब्रह्मरूपा अणी पुच्छम् । अणीमाण्डव्य इति संज्ञायाः शूलाग्रचि-
: 'उचितत्वात्' - 'त्त्वात्'. Look at 'वर्णनस्योचितत्वात्'.
Look at L10: 'स्वीकर्तुं' / 'स्वीकृतुं युक्तम्'.
Look at 'ललितासहस्रनाम' at the top (L1): the 'ल' in 'ललिता' has the modern form: loop left, loop down, vertical stem on right.
Now look at the end of L22:
Neither of the two characters looks like that 'ल'!
Wait! What do they look like?
They look like: 'ळ' 'ळ' or 'ड' 'ढ'?
Wait, could it be "डढयोरभेदात्"?
No, wait! Look at the top bar: each has a hook?
Wait, what about "रलयोरभेदात्"?
Is the first one 'र'? No.
Wait, let's search Sanskrit literature for:
"हकारस्य सर्वमूलत्वेन व्यष्टौ गणनाभावाच्चेति तद्व्याख्यातारः"
Let's search Google mentally for Bhaskararaya's Saubhagyabhaskara:
Under the name 'बहुरूपा':
Text of Saubhagyabhaskara:
"सूतसंहितायां तु —
एकधा च द्विधा चैव तथा षोडशधा स्थिता ।
द्वात्रिंशद्भेदभिन्ना वा या तां वन्दे परात्पराम् ॥
इति । द्वि
सौभाग्यभास्करव्याख्या । १६७
नात्र संशय' इति । सर्वमेतदभिप्रेत्योक्तं नारसिंहोपपुराणे 'उमैव बहुरूपेण पत्नीत्वेन
व्यवस्थिते'ति । त्रिपुरासिद्धान्तेपि 'लोपामुद्रा च सौभाग्या महाविद्या च षोडशी ।
दाराः परशिवस्यैताः कथितास्तु वरानने । श्यामला शुद्धविद्या च हयारूढा परा प्रिया ।
दाराः सदाशिवस्यैते ज्ञातव्याः परमेश्वरी । महार्था द्वादशार्था च वाराही बगलामुखी ।
तुरीया भुवनेशी च श्रीपरा शांभवी शिवे । दारा रुद्रस्य तस्यैव शृणु सत्यं न संशयः ।
श्रीतिरस्करणी लक्ष्मीर्मिश्रा कामकला प्रिये । विष्णोर्दारा इति ख्याता अन्नपूर्णा
शिवस्य च । वाग्वादिनी च बाला च पत्न्यौ ते ब्रह्मणः शिवे । नव दूत्यो हसन्ती
च नव सिद्धाश्च देवताः । इमा अन्याश्च रूपाणि बहूनि तव सुन्दरी'ति । एवं बहु-
रूपानामभिरुक्तिरपि प्रतिमहापुराणं प्रत्युपपुराणं प्रतितन्त्रं च बहुरूपैवोपलभ्यते ।
विस्तरभयात्तु न लिख्यते । बुधैर्ज्ञानिभिरर्चिता पूजिता । 'चतुर्विधा भजन्ते मां जनाः
सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभे'ति गीतावचनात् । प्रकर्षेण
वियदादिप्रपञ्चं प्रजा वा सूत इति प्रसवित्री । तदुक्तं विष्णुधर्मोत्तरे 'प्रजानां च प्रस-
वनात्सवित्रेति निगद्यत' इति । भगवतीपुराणेऽपि 'ब्रह्माद्याः स्थावरान्ताश्च यस्या एव
समुद्गताः । महदादिविशेषान्तं जगद्यस्याः समुद्गतम् । तामेव सकलार्थानां प्रसवित्रीं परां
नुम' इति ॥ अथ परिभाषामण्डले एकोनपञ्चाशन्नामानि विभजते । गुरु-
गीर्णे विभजचतुर्गुणदंगोमुदुचतुर्मतांशार्धम् । द्विर्गुणगुणितां लिखितां
चतुःखचरता देहदुर्चि रोषात् ॥ २९ ॥ अत्र तृतीयचतुःशब्दोऽष्टाक्षरनामसंख्या-
परः इतरौ चतुरक्षरसंख्यापरौ ॥ २९ ॥ प्रकृष्टाश्चण्डाः कोपना यस्या दूताः सा । 'चडि
कोपे' । अतएव 'भीषास्माद्वातः पवते' इति श्रुतिः । 'न यस्य कोपोऽणुरपि प्रजास्तस्य
न बिभ्यति । सैतां नीतिं कथं रक्षेत्प्रजा यस्य न बिभ्यती'ति कामन्दकश्च । भयप्र-
दललिङ्गादेव हि 'महद्भयं वज्रमुद्यत'मिति श्रुतौ वज्रपदं ब्रह्मपरमित्युक्तं कम्पनाधि-
करणे । प्रकृष्टा प्रीतिविषयत्वेन चण्डा शङ्खपुष्पी यस्या इति वा । प्रतापशीलेति वा ।
'चण्डा धनहरी शङ्खपुष्पी चण्डोऽतिकोपने । प्रचण्डो दुर्बहे श्वेतकरवीरे प्रतापिनी'ति
विश्वः । आज्ञा । वेदे प्रवर्त्तनानिवर्तनापरपर्यायभगवदिच्छारूपा । अतएव लैङ्गे
शिववचनं 'नह्येषा प्रकृतिर्जीवो विकृतिर्वा विचारतः । पुरा ममाज्ञा मद्गात्रात्समुत्पन्ना
सनातनी । पञ्चवक्त्रा महाभागा जगतामभयप्रदे'ति । शिवपुराणेपि 'रुद्राङ्गैषा स्थिता
देवी ह्यनया मुक्तिरन्वये'ति ज्ञेत्येकाक्षरमपि सुवचनम् । गुणभोक्तृपुरुषस्वरूपेत्यर्थः ।
'कथयन्ति ज्ञशब्देन पुरुषं गुणभोगिन' मिति लैङ्गात् । 'ज्ञो विरिञ्चौ बुधे सौम्य'इति कोशा-
द्बुधविधिरूपा वा । 'ज्ञः कालकालो गुणी सर्वविद्य'इति श्रुतिरपि । सर्वजगतोऽधि-
ष्ठानत्वात्प्रतिष्ठन्त्यस्यां विश्वमिति प्रतिष्ठा । 'विश्वस्य जगतः प्रतिष्ठे'ति श्रुतेः । उक्तं च
ब्रह्मगीतायां 'प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा परमेश्वरी'ति । षोडशाक्षरं छन्दोऽपि प्रतिष्ठा ।
जलतलनिष्ठकलाविशेषोऽपि प्रतिष्ठा । तल्लक्षणं च शैवागमे 'शिवरागाणुरकात्मा स्थाप्यते
पौरुषे यया । सा प्रतिष्ठा कला ज्ञेये'ति । 'प्रतिष्ठास्थानमात्रके । गौरवे यागनिष्प-
• १६८ ललितासहस्रनाम ।
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ २०७ ॥
त्तिचतुरक्षरपद्ययो'रिति विश्वः । अत्र पद्यशब्दः पादपरो व्याख्येय इति निर्णीतं
छन्दोभास्करेऽस्माभिः । प्रकटा सर्वैरनुभूयमाना आकृतिः रूपं यस्याः ।
तदुक्तं सूतसंहितायां 'तमहंप्रत्ययव्याजात्सर्वे जानन्ति जन्तवः । तथापि शिवरूपेण
न विजानन्ति मायये'ति । प्रकटाख्या योगिन्यः प्रथमावरणगतास्तद्रूपा वा ।
अप्रकटेति वा छेदः । रहस्यरूपेत्यर्थः । अप्सु प्रकटेति वा । 'अपामेका
महिमानं बिभर्ति' । 'आपो वा इदं सर्वं' मित्यादिश्रुतेः ॥ २०६ ॥ प्राणा-
नामिन्द्रियाणामधिष्ठातृत्वादीश्वरी । 'ज्योतिराद्यधिष्ठानं तु तदामनना'दित्यधि-
करणे तदधिष्ठातृदेवतासद्भावस्य स्थापितत्वात् । प्राणस्य पञ्चवृत्तिकस्याधिपतिर्वा ।
'प्राणस्य प्राण' इति श्रुतेः । प्रकृष्टोऽणः शब्दो वेदरूपस्तदीश्वरी तत्प्रतिपाद्यदेवता ।
'सर्वे वेदा यत्पदमानन्ती'ति श्रुतेः । प्राणानां दात्री सर्वजगज्जीवयित्री एकादशे-
न्द्रियाणां दात्री वा । 'प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती'ति श्रुतौ प्राणा इति-
पदस्येन्द्रियपरत्वेन तथा व्याख्यानदर्शनात् । 'सप्तगतेर्विशेषितत्वाच्चे'ति द्वितीयीका-
धिकरणे तथा निर्णयाच्च । पञ्चाशच्छब्दोऽयं प्रकृते लक्षणयैकपञ्चाशत्परः । सांनिध्यरूप-
शक्यसंबन्धात् । अतएव 'नित्यानन्दवपुर्निरन्तरगलत्पञ्चाशदर्णैः क्रमा'दिति शारदा-
तिलकश्लोके पञ्चाशत्पदमेकपञ्चाशत्परतयैव व्याख्यातं हर्षदीक्षितैः । प्रायेण दशर्विं-
शत्यादिदशक शब्दानां शतसहस्रादिशब्दानां चैकद्वित्रिन्यूनाधिकभावे बहुलमात्रविव-
क्षया च लोके प्रयोगः प्रचुरं दृश्यते । अथवा सहस्रे शतमितिन्यायेनावयुत्याप्यनुवादो
नवावतारे दशावतारा इति जगत्पतावयोध्याधिपतिरिति च व्यवहारस्य कंचना-
वान्तरोपाधिसमुदाय दर्शनात् । किंबहुना द्वात्रिंशच्छब्दोऽपि पञ्चत्रिंशद्यजनेषु सूतसं-
हितायां प्रयुक्तः पूर्वं दर्शितः । तदिह पञ्चाशत एव मातृकाणामन्तर्मातृकान्यासे विनि-
योगाल्ळयोरभेदाद्वा क्षकारस्य पार्थक्याभावाद्वाऽक्षमालायां तस्य मेरावेव निवेश-
नेन मणीनां पञ्चाशत्त्वाद्वा पञ्चाशन्मातृकेति व्यवहारेऽप्येकपञ्चाशत्परतैव तस्य वक्तव्या ।
अतएव बहिर्मातृकान्यासप्रकरणेऽपि 'पञ्चाशल्लिपिभिर्विभक्तमुखदोर्येन्मध्यवक्षःस्थलं'
'पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्ष' इत्यादयः कवीनां प्रयोगाः । एकपञ्चाशतो
न्यासमुक्त्वा तदन्ते 'पञ्चाशद्वर्णरूपेयं कंदर्पशशिभूषणे'त्यादयो ज्ञानार्णवादितन्त्रप्रयोगा-
श्चोपपद्यन्ते । मातृकासमानयोगक्षेमत्वादेव 'श्रीकण्ठाद्याश्च पञ्चाशतपञ्चाशत्केशवा-
दय'इत्यादयोऽपि तन्त्रसारसंग्रहादौ प्रयोगा एकपञ्चाशतपरा एव । तेन कामरूपादि-
च्छायाछन्नान्तैकपञ्चाशत्पीठानि रुपमस्या इत्यर्थः । अतएव षोढान्यासान्तर्गते पीठ-
न्यासे एकपञ्चाशत्पीठानां न्यासः । उक्तं च ब्रह्माण्डपुराणे स्पष्टतरम् 'ततः पीठानि
पञ्चाशदेकं चक्रगतो न्यसे'दित्यारभ्य 'लिपिक्रमसमायुक्तान् पीठस्थानेषु विन्यसे'दि-
ल्यन्तम् । योगिनीहृदयेऽपि ‘पीठानि विन्यसेद्देवि मातृकास्थानके प्रिये’ इत्यारभ्य ‘एते
पीठाः समुद्दिष्टा मातृकारूपकास्थिता’इत्यनेन मातृकास्थानोक्त्यैकपञ्चाशत्त्वमेव प्रक-
टीकृतम् । तद्व्याख्यायामप्यकारादिक्षकारान्तानामेकैकं वर्णमेकैकस्यादावुक्त्वा ‘तत्तत्स्था-
नेषु पीठानां न्यासं कुर्या’दित्युक्तम् । एतेनेदृशनामस्वारस्यात्पीठन्यासेऽपि क्षकारस्था-
नपरित्यागेन पञ्चाशत एवेति सुन्दरीमहोदयकाराणां लेखः साहसमात्रत्वान्नादर्तव्यः ।
नह्यस्य नाम्नो विधिरूपत्वं येन पीठन्यास एकस्य पीठस्य परिसंख्या स्यात् । नच
ज्ञानार्णवे ‘पञ्चाशतपीठसंचयात् । पञ्चाशतपीठविन्यासं मातृकावत्स्थले न्यसे’दित्युपक्र-
मोपसंहाराभ्यां तथा निर्णय इति वाच्यम् । पञ्चाशतपदस्यैकपञ्चाशतपरताया उक्तत्वात् ।
अन्यथा तत्रैवैकपञ्चाश